.. भवानीभुजङ्गप्रयातस्तोत्रम् ..
श्री गणेशाय नमः .
षडाधारपङ्केरुहान्तविराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् .
सुधामण्डलं द्रावयन्ती पिबन्तीं
सुधामूर्तिमीडेऽहमानन्दरूपाम् .. १..
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम् .
महापद्मकिञ्जल्कमध्ये विराजत्
त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ..२..
कणत्किङ्किणीनूपुरोद्भासिरत्न
प्रभालीढलाक्षार्द्रपादारविन्दाम् .
अजेशाच्युताद्यैः सुरैः सेव्यमानां
महादेवि मन्मूर्ध्नि तेक्षावयामि .. ३..
सुषोणाम्बराबद्धनीवीविराजन्
महारत्नकाञ्चीकलापं नितम्बम् .
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वली रम्यते रोमराजीं भजेऽहम् .. ४..
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् .
भजे पूर्णदुग्धाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् .. ५..
शिरीषप्रसूनोल्लसद्बाहुदण्डैर्-
ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च .
चलत्कङ्कणोदारकेयूरभूषा
ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् .. ६..
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा
धरस्मेरवक्त्रारविन्दश्रियं ते .
सुरत्नावलीहारताटङ्कशोभा
भजे सुप्रसन्नामहं श्रीभवानीम् .. ७..
सुनासापुटं पद्मपत्रायताक्षं
यजन्तः श्रियं दानदक्षं कटाक्षम् .
ललाटोल्लसद्गन्धकस्तूरिभूषो-
ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् .. ८..
चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां
घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् .
स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा
विलासोल्लसद्दिव्यमूर्धानमीडे .. ९..
स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च .
इति श्रीभवानीस्वरूपं तदेवं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् .. १०..
गणेषाणिमाद्याखिलैः शक्तिवृन्दैः
स्फुरच्छ्रीमहाचक्र राजोल्लसन्तीम् .
परां राजराजेश्वरीं त्वा भवानीं
शिवाङ्कोपरिस्थाॅं शिवाॅं भावयेऽहम् .. ११..
त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं चिदात्मा .
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं
सदानन्दसंवित्स्वरूपं तवेदम् .. १२..
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिताऽसि त्वमेव .
त्वमेवासि विद्या त्वमेवासि बुद्धिर्-
गतिर्मे मतिर्देवि सर्वं त्वमेव .. १३..
श्रुतीनामगम्यं सुवेदागमाद्यैर्-
महिम्नो न जानाति पारं तवेदम् .
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमम्ब प्रमुग्धः किलाहम् .. १४..
शरण्ये वरेण्ये सुकारुण्यपूर्णे
हिरण्योदराद्यैरगम्येऽतिपुण्ये .
भवारण्यभीतं च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि .. १५..
इमामन्वहं श्रीभवानीभुजङ्ग-
स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै .
स्वकीयं पदं शाश्वतं चैव सारं
श्रियं चाष्टसिद्धीश्च भवानी ददाति .. १६..
इति श्रीमच्छङ्कराचार्यविरचितं
भवानीभुजङ्गप्रयातस्तोत्रं संपूर्णम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com