.. ब्राह्मणगीता..
२१
ब्र्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
निबोध दश होतॄणां विधानमिह यादृशम् .. १..
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते .
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् .. २..
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते .
ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः .. ३..
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते .
रूपं भवति वै व्यक्तं तदनुद्रवते मनः .. ४..
ब्राह्मनी
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् .
मनसा चिन्तितं वाक्यं यदा समभिपद्यते .. ५..
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता .
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति .. ६..
ब्र्
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् .
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते .. ७..
प्रश्नं तु वान्मनसोर्मां यस्मात्त्वमनुपृच्छसि .
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् .. ८..
उभे वान्मनसी गत्वा भूतात्मानमपृच्छताम् .
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो .. ९..
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् .
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ .. १०..
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम .
स्थावरं मत्सकाशे वै जङ्गमं विषये तव .. ११..
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा .
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी .. १२..
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने .
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति .. १३..
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति .
प्रेर्यमाणा महाभागे विना प्राणमपानती .
प्रजापतिमुपाधावत्प्रसीद भगवन्निति .. १४..
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः .
तमादुच्छ्वासमासाद्य न वाग्वदति कर्हि चित् .. १५..
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते .
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी .. १६..
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी .
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी .. १७..
दिव्यादिव्य प्रभावेन भारती गौः शुचिस्मिते .
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः .. १८..
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया .
किं नु पूर्वं ततो देवी व्याजहार सरस्वती .. १९..
प्राणेन या सम्भवते शरीरे
प्राणादपानम्प्रतिपद्यते च .
उदान भूता च विसृज्य देहं
व्यानेन सर्वं दिवमावृणोति .. २०..
ततः समाने प्रतितिष्ठतीह
इत्येव पूर्वं प्रजजल्प चापि .
तस्मान्मनः स्थावरत्वाद्विशिष्टं
तथा देवी जङ्गमत्वाद्विशिष्टा .. २१..
२२
ब्र्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
सुभगे सप्त होतॄणां विधानमिह यादृशम् .. १..
घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् .
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः .. २..
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् .
एतान्वै सप्त होतॄंस्त्वं स्वभावाद्विद्धि शोभने .. ३..
ब्राह्मनी
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्य दर्शिनः .
कथं स्वभावा भगवन्नेतदाचक्ष्व मे विभो .. ४..
ब्र्
गुणाज्ञानमविज्ञानं गुणि ज्ञानमभिज्ञता .
परस्परगुणानेते न विजानन्ति कर्हि चित् .. ५..
जिह्वा चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च .
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति .. ६..
घ्राणं चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च .
न रसानधिगच्छन्ति जिह्वा तानदिघच्छति .. ७..
घ्राणं जिह्वा तथा श्रोत्रं त्वन्मनो बुद्धिरेव च .
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति .. ८..
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा .
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति .. ९..
घ्राणं जिह्वा च चक्षुश् च त्वन्मनो बुद्धिरेव च .
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति .. १०..
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च .
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति .. ११..
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च .
न निष्ठामधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति .. १२..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
इन्द्रियाणां च संवादं मनसश्चैव भामिनि .. १३..
मनस्
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते .
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते .. १४..
न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन .
प्रवरं सर्वभूतानामहमस्मि सनातनम् .. १५..
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः .
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः .. १६..
काष्ठानीवार्द्र शुष्काणि यतमानैरपीन्द्रियैः .
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः .. १७..
इन्द्रियानि
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् .
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि .. १८..
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् .
भोगान्भुङ्क्ते रसान्भुङ्क्ते यथैतन्मन्यते तथा .. १९..
अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च .
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् .. २०..
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा .
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा .. २१..
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया .
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च .. २२..
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् .
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि .. २३..
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति .
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति .. २४..
विषयानेवमस्माभिर्दर्शितानभिमन्यसे .
अनागतानतीतांश्च स्वप्ने जागरणे तथा .. २५..
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् .
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् .. २६..
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च .
बुभुक्षया पीड्यमानो विषयानेव धावसि .. २७..
अगारमद्वारमिव प्रविश्य
सङ्कल्पभोगो विषयानविन्दन् .
प्राणक्षये शान्तिमुपैति नित्यं
दारु क्षयेऽग्निर्ज्वलितो यथैव .. २८..
कामं तु नः स्वेषु गुणेषु सङ्गः
कामच नान्योन्य गुणोपलब्धिः .
अस्मानृते नास्ति तवोपलब्धिस्
त्वामप्यृतेऽस्मान्न भजेत हर्षः .. २९..
२३
ब्र्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
सुभगे पञ्च होतॄणां विधानमिह यादृशम् .. १..
प्राणापानावुदानश्च समानो व्यान एव च .
पञ्च होतॄनथैतान्वै परं भावं विदुर्बुधाः .. २..
ब्राह्मनी
स्वभावात्सप्त होतार इति ते पूर्विका मतिः .
यथा वै पञ्च होतारः परो भावस्तथोच्यताम् .. ३..
ब्र्
प्राणेन सम्भृतो वायुरपानो जायते ततः .
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते .. ४..
व्यानेन सम्भृतो वायुस्तदोदानः प्रवर्तते .
उदाने सम्भृतो वायुः समानः सम्प्रवर्तते .. ५..
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् .
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति .. ६..
ब्रह्मा
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे .
यस्मिन्प्रचीर्णे च पुनश् चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः .. ७..
प्रान
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे .
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् .. ८..
ब्राह्मन
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह .
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे .. ९..
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् .
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव .
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत .. १०..
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे .
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् .. ११..
व्यानश्च तमुदानश्च भाषमाणमथोचतुः .
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव .. १२..
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् .
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना .. १३..
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे .
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् .. १४..
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह .
प्राणापानावुदानश्च समानश् च तमब्रुवन् .
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव .. १५..
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् .
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना .. १६..
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे .
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् .. १७..
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह .
प्राणापानावुदानश्च व्यानश् चैव तमब्रुवन् .
समानन त्वं श्रेष्ठोऽसि व्यान एव वशे तव .. १८..
समानः प्रचचाराथ उदानस्तमुवाच ह .
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना .. १९..
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे .
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् .. २०..
ततः प्रालीयतोदानः पुनश्च प्रचचार ह .
प्राणापानौ समानश्च व्यानश् चैव तमब्रुवन् .
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव .. २१..
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः .
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य धर्मिणः .
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्य रक्षिणः .. २२..
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः .
एक एव ममैवात्मा बहुधाप्युपचीयते .. २३..
परस्परस्य सुहृदो भावयन्तः परस्परम् .
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् .. २४..
२४
ब्राह्मन
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
नारदस्य च संवादमृषेर्देवमतस्य च .. १..
देवमत
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते .
प्राणोऽपानः समानो वा व्यानो वोदान एव च .. २..
नारद
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् .
प्राणद्वन्द्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् .. ३..
द्
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् .
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् .. ४..
न्
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते .
रसात्सञ्जायते चापि रूपादपि च जायते .. ५..
स्पर्शात्सञ्जायते चापि गन्धादपि च जायते .
एतद्रूपमुदानस्य हर्षो मिथुन सम्भवः .. ६..
कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः .
समानव्यान जनिते सामान्ये शुक्रशोणिते .. ७..
शुक्राच्छोणित संसृष्टात्पूर्वं प्राणः प्रवर्तते .
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते .. ८..
प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः .
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते .. ९..
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् .
सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् .. १०..
तस्य धूमस्तमो रूपं रजो भस्म सुरेतसः .
सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः .. ११..
आघारौ समानो व्यानश्चेति यज्ञविदो विदुः .
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. १२..
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु .. १३..
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. १४..
उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. १५..
उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. १६..
उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. १७..
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. १८..
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् .
तृतीयं तु समानेन पुनरेव व्यवस्यते .. १९..
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् .
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः .. २०..
२५
ब्राह्मन
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
चातुर्होत्र विधानस्य विधानमिह यादृशम् .. १..
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते .
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् .. २..
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि .
चत्वार एते होतारो यैरिदं जगदावृतम् .. ३..
होतॄणां साधनं चैव शृणु सर्वमशेषतः .
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् .
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः .. ४..
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः .
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः .. ५..
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः .
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः .. ६..
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् .
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः .. ७..
विदुषां बुध्यमानानां स्वं स्वस्थानं यथाविधि .
गुणास्ते देवता भूताः सततं भुञ्जते हविः .. ८..
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते .
आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते .. ९..
अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम् .
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः .. १०..
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः .
स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः .. ११..
मनसा गम्यते यच्च यच्च वाचा निरुध्यते .
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते .. १२..
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् .
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः .. १३..
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः .
योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्म मनोद्भवः .
प्राणस्तोत्रोऽपान शस्त्रः सर्वत्यागसु दक्षिणः .. १४..
कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः .
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा .. १५..
ऋचश्चाप्यत्र शंसन्ति नारायण विदो जनाः .
नारायणाय देवाय यदबध्नन्पशून्पुरा .. १६..
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् .
देवं नारायणं भीरु सर्वात्मानं निबोध मे .. १७..
२६
ब्र्
एकः शास्ता न द्वितीयोऽस्ति शास्ता
यथा नियुक्तोऽस्मि तथा चरामि .
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता
तेनैव युक्तः प्रवणादिवोदकम् .. १..
एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि .
तेनानुशिष्टा गुरुणा सदैव
पराभूता दानवाः सर्व एव .. २..
एको बन्धुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि .
तेनानुशिष्टा बान्धवा बन्धुमन्तः
सप्तर्षयः सप्त दिवि प्रभान्ति .. ३..
एकः श्रोता नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि .
तस्मिन्गुरौ गुरु वासं निरुष्य
शक्रो गतः सर्वलोकामरत्वम् .. ४..
एको द्वेष्टा नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि .
तेनानुशिष्टा गुरुणा सदैव
लोकद्विष्टाः पन्नगाः सर्व एव .. ५..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् .. ६..
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् .
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यताम् इति .. ७..
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् .
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः .. ८..
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः .
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु .. ९..
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः .
दानं देवा व्यवसिता दममेव महर्षयः .. १०..
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः .
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः .. ११..
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् .
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते .. १२..
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते .
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः .. १३..
पापेन विचरँल्लोके पापचारी भवत्ययम् .
शुभेन विचरँल्लोके शुभचारी भवत्युत .. १४..
कामचारी तु कामेन य इन्द्रियसुखे रतः .
व्रतवारी सदैवैष य इन्द्रियजये रतः .. १५..
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः .
ब्रह्मभूतश्चरँल्लोके ब्रह्म चारी भवत्ययम् .. १६..
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्म संस्तरः .
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः .. १७..
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः .
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः .. १८..
२७
ब्र्
सङ्कल्पदंश मशकं शोकहर्षहिमातपम् .
मोहान्ध कारतिमिरं लोभव्याल सरीसृपम् .. १..
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् .
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् .. २..
ब्राह्मनी
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः .
गिरयः पर्वताश् चैव कियत्यध्वनि तद्वनम् .. ३..
न तदस्ति पृथग्भावे किं चिदन्यत्ततः समम् .
न तदस्त्यपृथग्भावे किं चिद्दूरतरं ततः .. ४..
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् .
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् .. ५..
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः .
न च बिभ्यति केषां चित्तेभ्यो बिभ्यति के च न .. ६..
तस्मिन्वने सप्त महाद्रुमाश् च
फलानि सप्तातिथयश् च सप्त .
सप्ताश्रमाः सप्त समाधयश् च
दीक्षाश्च सप्तैतदरण्यरूपम् .. ७..
पञ्च वर्णानि दिव्यानि पुष्पाणि च फलानि च .
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् .. ८..
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च .
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् .. ९..
चतुर्वर्णाणि दिव्यानि पुष्पाणि च फलानि च .
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् .. १०..
शङ्कराणित्रि वर्णानि पुष्पाणि च फलानि च .
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् .. ११..
सुरभीण्येकवर्णानि पुष्पाणि च फलानिच .
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् .. १२..
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानिच .
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः .. १३..
एको ह्यग्निः सुमना ब्राह्मणोऽत्र
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति .
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा
गुणाः फलान्यतिथयः फलाशाः .. १४..
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्तमहर्षयः .
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् .. १५..
प्रतिज्ञा वृक्षमफलं शान्तिच्छाया समन्वितम् .
ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम् .. १६..
योऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः .
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते .. १७..
सप्त स्त्रियस्तत्र वसन्ति सद्यो
अवाङ्मुखा भानुमत्यो जनित्र्यः .
ऊर्ध्वं रसानां ददते प्रजाभ्यः
सर्वान्यथा सर्वमनित्यतां च .. १८..
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च .
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह .. १९..
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी .
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् .. २०..
गिरयः पर्वताश्चैव सन्ति तत्र समासतः .
नद्यश्च सरितो वारिवहन्त्यो ब्रह्म सम्भवम् .. २१..
नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे .
स्वात्म तृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् .. २२..
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः .
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते .. २३..
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः .
तदरण्यमभिप्रेत्य यथा धीरमजायत .. २४..
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः .
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् .. २५..
२८
ब्र्
गन्धान्न जिघ्रामि रसान्न वेद्मि
रूपं न पश्यामि न च स्पृशामि .
न चापि शब्दान्विविधाञ्शृणोमि
न चापि सङ्कल्पमुपैमि किं चित् .. १..
अर्थानिष्टान्कामयते स्वभावः
सर्वान्द्वेष्यान्प्रद्विषते स्वभावः .
कामद्वेषावुद्भवतः स्वभावात्
प्राणापानौ जन्तु देहान्निवेश्य .. २..
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान्
भूतात्मानं लक्षयेयं शरीरे .
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित्
कामक्रोधाभ्यां जरया मृत्युना च .. ३..
अकामयानस्य च सर्वकामान्
अविद्विषाणस्य च सर्वदोषान् .
न मे स्वभावेषु भवन्ति लेपास्
तोयस्य बिन्दोरिव पुष्करेषु .. ४..
नित्यस्य चैतस्य भवन्ति नित्या
निरीक्षमाणस्य बहून्स्वभावान् .
न सज्जते कर्मसु भोगजालं
दिवीव सूर्यस्य मयूखजालम् .. ५..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
अध्वर्यु यति संवादं तं निबोध यशस्विनि .. ६..
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् .
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् .. ७..
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति .
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा .. ८..
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति .
यदस्य वारिजं किं चिदपस्तत्प्रतिपद्यते .. ९..
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च .
आगमे वर्तमानस्य न मे दोषोऽस्ति कश् चन .. १०..
यति
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि .
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् .. ११..
अनु त्वा मन्यतां माता पिता भ्राता सखापि च .
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः .. १२..
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति .
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा .. १३..
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु .
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः .. १४..
इन्धनस्य तु तुल्येन शरीरेण विचेतसा .
हिंसा निर्वेष्टु कामानामिन्धनं पशुसञ्ज्ञितम् .. १५..
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् .
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे .. १६..
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् .
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् .. १७..
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते .
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे .. १८..
अ
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् .
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् .. १९..
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् .
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे .. २०..
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् .
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज .. २१..
य्
अक्षरं च क्षरं चैव द्वैधी भावोऽयमात्मनः .
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते .. २२..
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह .
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः .. २३..
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः .
समन्तात्परिमुक्तस्य न भयं विद्यते क्व चित् .. २४..
अ
सद्भिरेवेह संवासः कार्यो मतिमतां वर .
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम .. २५..
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् .
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज .. २६..
ब्र्
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् .
अध्वर्युरपि निर्मोहः प्रचचार महामखे .. २७..
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः .
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना .. २८..
२९
ब्र्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि .. १..
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् .
येन सागरपर्यन्ता धनुषा निर्जिता मही .. २..
स कदा चित्समुद्रान्ते विचरन्बलदर्पितः .
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् .. ३..
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह .
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते .. ४..
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः .
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो .. ५..
अ
मत्समो यदि सङ्ग्रामे शरासनधरः क्व चित् .
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे .. ६..
स्
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः .
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति .. ७..
ततः स राजा प्रययौ क्रोधेन महता वृतः .
स तमाश्रममागम्य रममेवान्वपद्यत .. ८..
स राम प्रतिकूलानि चकार सह बन्धुभिः .
आयासं जनयामास रामस्य च महात्मनः .. ९..
ततस्तेजः प्रजज्वाल राजस्यामित तेजसः .
प्रदहद्रिपुसैन्यानि तदा कमललोचने .. १०..
ततः परशुमादाय स तं बाहुसहस्रिणम् .
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् .. ११..
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः .
असीनादाय शक्तीश्च भार्गवं पर्यवारयन् .. १२..
रामोऽपि धनुरादाय रथमारुह्य स त्वरः .
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् .. १३..
ततस्तु क्षत्रियाः के चिज्जमदग्निं निहत्य च .
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव .. १४..
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् .
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् .. १५..
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह .
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः .. १६..
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः .
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत .. १७..
एव विंशतिमेधान्ते रामं वागशरीरिणी .
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता .. १८..
राम राम निवर्तस्व कं गुणं तात पश्यसि .
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः .. १९..
तथैव तं महात्मानमृचीकप्रमुखास्तदा .
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् .. २०..
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् .
नार्हन्तीह भवन्तो मां निवारयितुमित्युत .. २१..
पितरह्
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर .
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् .. २२..
३०
पितरह्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम .. १..
अलर्को नाम राजर्षिरभवत्सुमहातपाः .
धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः .. २..
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् .
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे .. ३..
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह .
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते .. ४..
अ
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः .
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः .. ५..
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति .
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् .. ६..
मनस्
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन .
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि .. ७..
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि .
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् .. ८..
अ
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति .
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् .. ९..
घ्रान
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन .
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि .. १०..
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि .
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् .. ११..
अ
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति .
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् .. १२..
ज्
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन .
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि .. १३..
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि .
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् .. १४..
अ
सृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति .
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रभिः .. १५..
त्वच्
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन .
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि .. १६..
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि .
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् .. १७..
अ
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति .
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् .. १८..
ज़्रोत्र
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन .
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् .. १९..
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि .
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् .. २०..
अ
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति .
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् .. २१..
च्
नेमे बाणास्तरिष्यन्ति मामालर्क कथं चन .
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि .. २२..
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति .
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् .. २३..
अ
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति .
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् .. २४..
चक्सुस्
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन .
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि .. २५..
पितरह्
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् .
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु .
सुसमाहित चित्तास्तु ततोऽचिन्तयत प्रभुः .. २६..
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम .
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः .. २७..
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः .
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् .. २८..
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ .
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह .
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् .
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् .. २९..
इति त्वमपि जानीहि राम मा क्षत्रियाञ् जहि .
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे .. ३०..
ब्र्
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः .
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् .. ३१..
३१
ब्र्
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः .
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः .. १..
शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः .
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः .. २..
एतान्निकृत्य धृतिमान्बाणसन्धैरतन्द्रितः .
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः .. ३..
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः .
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता .. ४..
समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु .
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः .. ५..
स निगृह्य महादोषान्साधून्समभिपूज्य च .
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह .. ६..
भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः .
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया .. ७..
येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति .
तृष्णार्त इव निम्नानि धावमानो न बुध्यते .. ८..
अकार्यमपि येनेह प्रयुक्तः सेवते नरः .
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत .. ९..
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते .
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् .. १०..
स तैर्गुणैः संहतदेहबन्धनः
पुनः पुनर्जायति कर्म चेहते .
जन्म क्षये भिन्नविकीर्ण देहः
पुनर्मृत्युं गच्छति जन्मनि स्वे .. ११..
तस्मादेनं सम्यगवेक्ष्य लोभं
निगृह्य धृत्यात्मनि राज्यमिच्छेत् .
एतद्राज्यं नान्यदस्तीति विद्याद्
यस्त्वत्र राजा विजितो ममैकः .. १२..
इति राज्ञाम्बरीषेण गाथा गीता यशस्विना .
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता .. १३..
३२
ब्र्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
ब्राह्मणस्य च संवादं जनकस्य च भामिनि .. १..
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे .
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् .. २..
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् .
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः .. ३..
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो .
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते .. ४..
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना .
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत .. ५..
तमासीनं ध्यायमानं राजानममितौजसम् .
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः .. ६..
समाश्वास्य ततो राजा व्यपेते कश्मले तदा .
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् .. ७..
पितृपैतामहे राज्ये वश्ये जनपदे सति .
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् .. ८..
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया .
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया .. ९..
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् .
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता .. १०..
तया न विषयं मन्ये सर्वो वा विषयो मम .. ११..
S
आत्मापि चायं न मम सर्वा वा पृथिवी मम .
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते .. ११..
पितृपैतामहे राज्ये वश्ये जनपदे सति .
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया .. १२..
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव .
नावैषि विषयं येन सर्वो वा विषयस्तव .. १३..
ज्
अन्तवन्त इहारम्भा विदिता सर्वकर्मसु .
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् .. १४..
कस्येदमिति कस्य स्वमिति वेद वचस्तथा .
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् .. १५..
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया .
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम .. १६..
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि .
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा .. १७..
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः .
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा .. १८..
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा .
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा .. १९..
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश् च ये .
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा .. २०..
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि .
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा .. २१..
नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे .
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा .. २२..
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह .
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै .. २३..
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् .
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् .. २४..
त्वमस्य ब्रह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः .
सत्त्वनेमि निरुद्धस्य चक्रस्यैकः प्रवर्तकः .. २५..
३३
ब्र्
नाहं तथा भीरु चरामि लोके
तथा त्वं मां तर्कयसे स्वबुद्ध्या .
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि
गृहस्थ धर्मा ब्रह्म चारी तथास्मि .. १..
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे .
मया व्याप्तमिदं सर्वं यत्किं चिज्जगती गतम् .. २..
ये के चिज्जन्तवो लोके जङ्गमाः स्थावराश् च ह .
तेषां मामन्तकं विद्धि दारूणामिव पावकम् .. ३..
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे .
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम .. ४..
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः .
गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु .
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते .. ५..
नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका .
ते भावमेकमायान्ति सरितः सागरं यथा .. ६..
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते .
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् .. ७..
तस्मात्ते सुभगे नास्ति परलोककृतं भयम् .
मद्भावभावनिरता ममैवात्मानमेष्यसि .. ८..
३४
ब्र्
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना .
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम .. १..
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः .
तन्मन्ये कारणतमं यत एषा प्रवर्तते .. २..
ब्र्
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः .
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः .. ३..
ब्राह्मनी
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् .
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु .. ४..
ब्र्
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते .
उपायमेव वक्ष्यामि येन गृह्येत वा न वा .. ५..
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते .
कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् .. ६..
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते .
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते .. ७..
यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत् .
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः .. ८..
सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान् .
यतः परं न विद्येत ततोऽभ्यासे भविष्यति .. ९..
वा
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये .
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते .. १०..
अर्जुन
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः .
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत .. ११..
वा
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् .
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय .. १२..
.. इति ब्राह्मणगीता समाप्ता ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com OR sanskrit@cheerful.com);
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com