.. ब्रह्म ..
ॐ शौनको ह चै महाशालोऽङ्गिरसं भगवन्तं
पिप्पलादमपृच्छत् . दिव्ये ब्रह्मपुरे संप्रतिष्टिता
भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो
ह्मषे महिमा बभूव क एषः .
तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् . प्राणो ह्यषे
आत्मा . आत्मनो महिमा बभुव देवानामायुः स देवानां
निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं
शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति
मघुकरराजानं माक्षिकवदिति . यथा माक्षीकैकेन
तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो
यदा याति संसृष्टमाकृष्य . प्राणदेवतास्ताः सर्वा
नाड्यः . सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य
याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो
यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः
शुभाशुभैर्न लिप्यते . यथा कुमारो निष्काम
आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति
. वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते .
भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् . यथा
जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय .
यत्परं नापरं त्यजति स जाग्रदभिधियते . यथैवैष
कपालाष्टकं संनयति . तमेव स्तन इव लम्बते
वेददेवयोनः . यत्र जाग्रति शुभाशुभं निरुक्तमस्य
देवस्य स संप्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः
पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति
. य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति .. १..
अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति
नाभिर्हृदयं कण्ठं भूर्धेति . तत्र चतुष्पादं
ब्रह्म विभाति . जागरितं स्वप्नं सुषुप्तं तुरीयमिति .
जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं
परमाक्षरं आदित्यश्च विष्णुश्चेश्वरश्च स पुरुषः
स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषं मध्ये
यत्परं ब्रह्म विभाति . स्वयममनस्कमश्रोत्रमपाणिपादं
ज्योतिर्वर्जितं न तत्र लोका न लोका वेदा न वेदा देवा न
देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुष न
स्नुष चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न
श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव
परं ब्रह्म विभाति . हृद्याकाशे तद्विज्ञानमाकाशं
तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं
संचरति वचरति यस्मिन्निदं सर्वमोतं प्रोतं . सं
विभोः प्रजा ज्ञायेरन् . न तत्र देवा ऋषयः पितर रिशते
प्रतिबुद्धः सर्वविदिति .. २..
हृदिस्था देवथाः सर्वा हृदि प्राणाः प्रतिष्ठिताः .
हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ..
हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं
प्रजापतेर्यत्सहजं पुरस्तात् .
आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ..
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः .
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ..
सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् .
तत्सूत्रं विदितं येन स विप्रो वेदपारगः ..
तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव .
तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ..
बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः .
ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ..
धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् .
सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ..
ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः .
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ..
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् .
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ..
स शिखीत्युच्यते विद्वानितरे केशधारिणः .. ३..
कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः .
तैः संधार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ..
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् .
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ..
इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् .
स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ..
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा .
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ..
एको मनीषी निष्कियाणां बहूनामेकं सन्तं बहुधा यः करोति .
तमात्मानं येऽनुपष्यन्ति धीरास्तेषं शान्तिः शाश्वती नेतरेषाम् ..
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
ध्याननोर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ..
तिलेषु तैलं दधिनीव सर्पिरापः स्त्रोतःस्वरणीषु चान्निः .
एवमात्माऽऽत्मनि गृह्मतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ..
ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि .
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ..
पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् .
हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ..
नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिषेत् .
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ..
यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि .
तेन संध्या ध्यानमेव तस्मात्सन्ध्याभिवन्दनम् ..
निरोदकाध्यानसंध्या वाक्कायक्लेशवर्जिता .
संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ..
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह .
आन्नन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ..
सर्वव्यापिनमात्मानं क्षीरे सर्प्रिवार्पितम् .
आत्मातपोमूलं तद्ब्रह्मोपनिषत्परम् .
सर्वात्मैकत्वरीपेण तद्ब्रह्मोपनिषत्परमिति .. ४..
इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ..
Brahma Upani\dsadtransliterated by: Anshuman Pandey [\emphapandey@u.washington.edu]16 April 1996
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com