.. ब्रह्मबिन्दूपनिषत् ११ ..
.. ब्रह्मबिन्दूपनिषत् .. 11
अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् .
तदेव हि त्रिपाद्रामचन्द्राख्यं नः परा गतिः ..
ॐ सहनाववत्विति शान्तिः ..
ॐ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च .
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् .. १..
मन एव मनुष्याणां कारणं बन्धमोक्षयोः .
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् .. २..
यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते .
तस्मान्निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा .. ३..
निरस्तविषयासङ्गं सन्निरुद्धं मनो हृदि .
यदा यात्युन्मनीभावं तदा तत्परमं पदम् .. ४..
तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् .
एतज्ज्ञानं च ध्यानं च अतोऽन्यो ग्रन्थविस्तरः .. ५..
नैव चिन्त्यं न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च .
पक्षपात विनिर्मुक्तं ब्रह्म संपद्यते तदा .. ६..
स्वरेण सन्ध्ययेद्योगमस्वरं भावयेत्परम् .
अस्वरेण हि भावेन भावो नाभाव इष्यते .. ७..
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् .
तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् .. ८..
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् .
अप्रमेयमनादिं च ज्ञात्वा च परमं शिवम् .. ९..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः .
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. १०..
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु .
स्थानत्रयाद्व्यतीतस्य पुनर्जन्म न विद्यते .. ११..
एक एव हि भूतात्मा भूते भूते व्यवस्थितः .
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् .. १२..
घटसंवृतमाकाशं लीयमाने घटे यथा .
घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः .. १३..
घटवद्विधाकारं भिद्यमानं पुनः पुनः .
तद्भग्नं न च जानाति स जानाति च नित्यशः .. १४..
शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे .
भिन्ने तमसि चैकत्वमेक एवानुपश्यति .. १५..
शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् .
तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः .. १६..
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् .
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति .. १७..
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः .
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः .. १८..
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता .
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा .. १९..
घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् .
सततं मन्थयितव्यं मनसा मन्थानभूतेन .. २०..
ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत्परम् .
निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम् .. २१..
सर्वभूताधिवासं च यद्भूतेषु वसत्यपि .
सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः तदस्म्यहं वासुदेव
इति .. २२..
ॐ सहनाववत्विति शान्तिः ..
इति ब्रह्मबिन्दूपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com