.. ब्रह्मगीता ..
२०
वा
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
दम्पत्योः पार्थ संवादमभयं नाम नामतः .. १..
ब्राह्मणी ब्राह्मणं कं चिज्ज्ञानविज्ञानपारगम् .
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् .. २..
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता .
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् .. ३..
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् .
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् .. ४..
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव .
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे .. ५..
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते .
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः .. ६..
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः .
नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते .. ७..
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् .
जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते .. ८..
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु .
आत्मस्थमात्मना तेन दृष्टमायतनं मया .. ९..
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना .
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् .. १०..
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते .
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः .. ११..
घ्राणेन न तदाघ्रेयं न तदाद्यम्च जिह्वया .
स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते .. १२..
चक्षुषा न विषह्यं च यत्किं चिच्छ्रवणात्परम् .
अगन्धमरस स्पर्शमरूपाशब्दमव्ययम् .. १३..
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति .
प्राणोऽपानः समानश्च व्यानश्चोदान एव च .. १४..
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च .
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः .. १५..
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च .
अपान प्राणयोर्मध्ये उदानो व्याप्य तिष्ठति .
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः .. १६..
प्राणानायम्यते येन तदुदानं प्रचक्षते .
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः .. १७..
तेषामन्योन्यभक्षाणां सर्वेषां देव चारिणाम् .
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा .. १८..
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् .
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः .. १९..
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च .
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम .. २०..
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः .
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः .. २१..
घ्रेये पेये च देश्ये च स्पृश्ये श्रव्ये तथैव च .
हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु .
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु .. २२..
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् .
मनो बुद्धिश्च सप्तैत योनिरित्येव शब्दिताः .. २३..
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् .
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु .
तत्रैव च निरुध्यन्ते प्रलये भूतभावने .. २४..
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः .
ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते .. २५..
ततः सञ्जायते शब्दः संशयस्तत्र जायते .
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः .. २६..
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः .
पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा .. २७..
.. इति ब्रह्मगीता समाप्ता ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com OR sanskrit@cheerful.com);
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com