.. ब्रह्मज्ञानावलीमाला ..
सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् .
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये .. १..
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः .
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः .. २..
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः .
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः .. ३..
नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते .
परमानन्दरूपोऽहमहमेवाहमव्ययः .. ४..
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च .
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः .. ५..
प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः .
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः .. ६..
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः .
मायातीतः परंज्योतिरहमेवाहमव्ययः .. ७..
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः .
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः .. ८..
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा .
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः .. ९..
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् .
अनन्तानन्तरूपोऽहमहमेवाहमव्ययः .. १०..
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् .
परमात्मस्वरूपोऽहमहमेवाहमव्ययः .. ११..
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः .
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः .. १२..
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः .
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः .. १३..
प्रज्ञानघन एवाहं विज्ञानघन एव च .
अकर्ताहमभोक्ताहमहमेवाहमव्ययः .. १४..
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च .
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः .. १५..
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः .
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः .. १६..
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ .
दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः .. १७..
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः .
स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः .. १८..
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च .
तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः .. १९..
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः .
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः .. २०..
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः .
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् .. २१..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
ब्रह्मज्ञानावलीमाला संपूर्णा ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com