.. दत्तात्रेयोपनिषत् ..
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् .
त्रिपान्नारायणाकारं दत्तात्रेयमुपास्महे ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः . व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः . शान्तिः . शान्तिः ..
हरिः ॐ ..
सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहि
भगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्विकं मामकं धामोपास्वेत्याह .
सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति
नारायणेनैर्वं विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं
दत्तात्रेयं ध्यात्वा सद्वदति .
दमिति हंसः . दामिति दीर्घं तद्बीजं नाम बीजस्थम् .
दामित्येकाक्षरं भवति .
तदेतत्तारकं भवति . तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता .
वटबीजस्थमिव दत्तबीजस्थं सर्वं जगत् .
एतदेवैकाक्षरं व्याख्यातम् . व्याख्यास्ये षडक्षरम् . ओमिति
द्वितीयम् . ह्रीमिति तृतीयम् .
क्लीमिति चतुर्थम् . ग्लौमिति पञ्चमम् . द्रामिति षट्कम् .
षडक्षरोऽयं भवति . योगानुभवो भवति .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . द्रमित्युक्त्वा
द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः . दत्तात्रेयायेति
सत्यानन्दचिदात्मकम् . नम इति पूर्णानन्दकविग्रहम् .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता .
दत्तात्रेयायेति कीलकम् . तदेव बीजम् .
नमः शक्तिर्भवति . ओमिति प्रथमम् . आमिति द्वितीयम् . ह्रीमिति
तृतीयम् . क्रोमिति चतुर्थम् .
एहीति तदेव वदेत् . दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं
द्वादशाक्षरः . जगती छन्दः . सदाशिव ऋषिः .
दत्तात्रेयो देवता . ओमिति बीजम् . स्वाहेति शक्तिः . संबुद्धिरिति
कीलकम् . द्रमिति हृदये . ह्रीं क्लीमिति शीर्षे .
एहीति शिखायाम् . दत्तेति कवचे . आत्रेयेति चक्षुषि . स्वाहेत्यस्त्रे .
तन्मयो भवति . य एवं वेद .
षोडशाक्षरं व्याख्यास्ये . प्राणं देयम् . मानं देयम् .
चक्षुर्देयम् . श्रोत्रं देयम् .
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति .
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् .
ओमिति प्रथमं भवति . ऐमिति द्वितीयम् . क्रोमिति तृतीयम् . क्लीमिति
चतुर्थम् . क्लूमिति पञ्चमम् . ह्रामिति षष्ठम् . ह्रीमिति
सप्तमम् . ह्रूमित्यष्टमम् . सौरिति नवमम् . दत्तात्रेयायेति
चतुर्दशम् . स्वाहेति षोडशम् .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . ॐ बीजम् .
स्वाहा शक्तिः . चतुर्थ्यन्तं कीलकम् .
ॐइति हृदये . क्लां क्लीं क्लूमिति शिखायाम् . सौरिति कवचे .
चतुर्थ्यन्तं चक्षुषि . स्वाहेत्यस्त्रे.
यो नित्यमधीयानः सच्चिदानन्दसुखी मोक्षी भवति . सौरित्यन्ते
श्रीवैष्णव इत्युच्यते .
तज्जापी विष्णुरूपी भवति . अनुष्टुप् छन्दो व्याख्यास्ये , सर्वत्र
संबुद्धिरिमानीत्युच्यन्ते .
दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक . दिगंबर मुने बालपिशाच
ज्ञानसागर .. १.. इत्युपनिषत् .
अनुष्टुप् छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता दत्तात्रेयेति
हृदये . हरे कृष्णेति शीर्षे .
उन्मत्तानन्देति शिखायाम् . दायकमुन इति कवचे . दिगंबरेति
चक्षुषि . पिशाचज्ञानसागरेस्त्यस्त्रे .
आनुष्टुभोऽयं मयाधीतः . अब्रह्मजन्मदोषाश्च प्रणश्यन्ति .
सर्वोपकारी मोक्षी भवति . य एवं वेदेत्युपनिषत् .. १..
.. इति प्रथमः खंडः .. १..
ओमिति व्याहरेत् . ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय
महाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने
बालोन्मत्तपिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफलप्रदाय ओमिति
व्याहरेत् .
भवबन्धमोचनायेति ह्रीमिति व्याहरेत् . सकलविभूतिदायेति क्रोमिति
व्याहरेत् .
साध्याकर्षणायेति सौरिति व्याहरेत् . सर्वमनःक्षोभणायेति श्रीमिति
व्याहरेत् . महोमिति व्याहरेत् .
चिरंजीविने वषडिति व्याहरेत् . वशीकुरुवशीकुरु वौषडिति
व्याहरेत् .
आकर्षयाकर्षय हुमिति व्याहरेत् . विद्वेषयविद्वेषय फडिति
व्याहरेत् .
ठठेति व्याहरेत् . स्तंभय स्तंभय खखेति व्याहरेत् .
उच्चाटयोच्चाटय ठठेति व्याहरेत् स्तंभयस्तंभय खखेति
व्याहरेत् मारयमारय नमः संपन्नाय नमः संपन्नाय स्वाहा
पोषयपोषय परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीनिवारयनिवारय दुःखं हरयहरय
दारिद्र्यं विद्रावयविद्रावय देहं पोषयपोषय चित्तं
तोषयतोषयेति सर्वमन्त्रसर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति
. ॐ नमः शिवायेत्युपनिषत् .. २..
.. इति द्वितीयः खंडः .. २..
य एवंवेद . अनुष्टुप् छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता
. ओमिति बीजम् . स्वाहेति शक्तिः .
द्रामिति कीलकम् . अष्टमूर्त्यष्टमन्त्रा भवन्ति . यो नित्यमधीते
वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति . गायत्र्या
शतसहस्रं जप्तं भवति . महारुद्रशतसहस्रजापी भवति .
प्रणवायुतकोटिजप्तो भवति . शतपूर्वाञ्छतापरान्पुनाति . स
पङ्क्तिपावनो भवति . ब्रह्महत्यादिपातकैर्मुक्तो भवति .
गोहत्यादिपातकैर्मुक्तो भवति . तुलापुरुषादिदानैः प्रपापानतः पूतो
भवति . अशेषपापान्मुक्तो भवति .
भक्ष्याभक्ष्यपापैर्मुक्तो भवति . सर्वमन्त्रयोगपारीणो भवति . स एव
ब्राह्मणो भवति .
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् . सोऽनन्तफलमश्नुते . स
जीवन्मुक्तो भवति . इत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् .. ३..
.. इति तृतीयः खंडः .. ३..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः . व्यशेम देवहितं यदायुः.
स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्ताक्ष्योर् अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः . शान्तिः . शान्तिः ..
हरिः ॐ तत्सत् ..
.. इति दत्तात्रेयोपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com