Dattatreya Yogashastra
.. दत्तात्रेय योग शास्त्र..
नृसिंहरूपिणे चिदात्मने सुखस्वरूपिणे |
पदैः त्रिभिः तदादिभिः निरूपिताय वै नमः || १||
सांकृतिः मुनिवर्यो असौ भूतये योगलिप्सया |
भुवं सर्वां परिभ्रान्यन्नैमिषारण्यमाप्तवान् || २||
सुगन्धिनानाकुसुमैः स्वादुसत्फलसंयुतैः |
शाखिभिः सहितं पुण्यं जलकासारमण्डितम् || ३||
सः मुनिः विचरस्तत्र ददर्शाम्रतरोः अधः |
वेदिकायां समासीनं दत्तात्रेयं महामुनिम् || ४||
बद्धपद्मासनासीनं नासाग्रार्पितया दृशा |
ऊरुमध्यगतोत्तानपाणियुग्मेन शोभितम् || ५||
ततः प्रणम्याखिलं दत्तात्रेयं महामुनिम् |
तत् शिष्यैः सह तत्रैव सम्मुखश्चोपविष्टवान् || ६||
तदैव सः मुनिः योगात् विरम्य स्वपुरः स्थितम् |
उवाच सांकृतिं प्रितिपूर्वकं स्वागतं वचः || ७||
सांकृते कथय त्वं मां किमुद्दिश्येहागतः |
इति पृष्टस्तु सः प्राह योगं ज्ञातुमिहागतः || ८||
योगो हि बहुधा ब्रह्मन्तत्सर्वं कतयामि ते |
मन्त्रयोगो लयश्चैव हठयोगस्तथैव च |
रजयोगश्चतुर्थः स्यात्योगानामुत्तमस्तु सः || ९||
आरम्भश्च घटश्चैव तथा परिचयः स्मृतः |
निष्पत्तिश्चेत्यवस्था च चतुर्थी परिकल्पिता |
एतेषां विस्तरं वक्ष्ये यदि त्वं श्रोतुमिच्छसि || १०||
अङ्गेषु मातृका पूर्वं मन्त्रं जपन् सुधीः |
य कचनाभिसिद्धयै स्यात् मन्त्रयोगः स कथ्यते || ११||
मृदुः तस्याधिकारी स्याद्द्वादशाब्दैः तु साधनात् |
प्रायेण लभते ज्ञानं सिद्धिश्चैवाणिमादिकाः || १२||
अल्पबुद्धिः इमं योगं सेवते साधकाधमः |
मन्त्रयोगो ह्ययं प्रोक्तो योगानामधमस्तु सः || १३||
लययोगश्चित्तलयः संकेतैः तु प्रजायते |
आदिनाथेन संकेता अष्टकोटि प्रकीर्त्तिताः || १४||
सांकृतिरुवाच - -
भगवन्नादिनाथः सः किं रूपः कः सः उच्यताम् |
दत्तात्रेय उवाच - -
महादेवस्य नामान्यादिनाथादिकान्यपि |
शिवेश्वरश्च देवोऽसौ लीलया व्यचरत्प्रभुः || १५||
श्रीकण्ठपर्वते गौर्या सह प्रमथनायकान् |
हिमाक्षपर्वते चैवकदलीवनगोचरे || १६||
गिरिकूटे चित्रकूटे सुपादपयुते गिरौ |
कृपयैकैकसंकेतं शंकरः प्राह तत्र तान् || १७||
तानि सर्वाणि वक्तुं तु न हि शक्नोमि विस्तरात् |
कानिचित्कथयिष्यामि सहजाभ्यासवत्सुखम् || १८||
तिष्ठन् गच्छन्स्वपन्भुञ्जन्ध्यायन्शून्यमहर्निशम् |
अयमेको हि संकेतः आदिनाथेन भाषितः || १९||
नासाग्रदृष्टिमात्रेण ह्यपरः परिकीर्तितः |
शिरस्पश्चाच्च भागस्य ध्यानं मृत्युं जयेत् परम् || २०||
भ्रूमध्यदृष्टिमात्रेण परः संकेतः उच्यते |
ललाते भ्रूतले यश्चोत्तमः सः प्रकीत्तितः || २१||
सव्यदक्षिणपादस्याङ्गुष्टे लयमुत्तमम् |
उत्तानशववत्भूमौ शयनं चोक्तमुतमम् || २२||
शिथिलो निर्जने देशे कुर्याच्चेत्सिद्धिमाप्नुयात् |
एवं च बहु संकेतान् कथयामास शङ्करः || २३||
संकेतैः बहुभिश्चान्यैः यस्य चित्तलयो भवेत् |
स एव लययोगः स्यात् कर्मयोगं ततः शृणुः || २४||
यमश्च नियमश्चैवासनं च ततः परम् |
प्राणायामश्चतुथः स्यात् प्रत्याहारस्तु पञ्चमः |
ततस्तु धारणा प्रोक्ता ध्यानं सप्तममुच्यते || २५||
समाधिः अष्टमः प्रोक्तः सर्वपुण्यप्रदः |
एवमष्टाङ्गयोगं च याज्ञवल्क्यादयो विदुः || २६||
कपिलाद्यास्तु शिष्याश्च हठं कुयुस्ततो यथा |
तद्यथा च महामुद्रा महाबन्धस्तथैव च || २७||
ततः स्यात्खेचरीमुद्र बन्धो जालन्धरः तथा |
उड्डियाणं मूलबन्धो विपरीतकरणी तथा || २८||
वज्रोलिः अमरोलिश्च सहजोलिस्त्रिधा मता |
एतेषां लक्षणं वक्ष्ये कर्त्ताव्यं च विशेषतः || २९||
यमाः ये दशः संप्रोक्ताः ऋषिभिः तत्त्वदर्शिभिः |
लघ्वाहारस्तु तेष्वेको मुख्यो भवति नापरे |
अहिंसा नियमेष्वेका मुख्या भवति नापरे || ३०||
चतुरशीतिलक्षेष्वासनेष्वुत्तमं शृणु |
आदिनाथेन संप्रोक्तं यदासनमिहोच्यते || ३१||
उत्तानौ चरणौ कृत्वोरूसंस्थौ प्रयलतः |
उरू मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ || ३२||
नासाग्रे विन्यसेद्राजद्दन्तमूलं च जिह्वया |
उत्तभ्य चिबुकं वक्षः संस्थाप्य पवनं शनैः || ३३||
यथाशक्ति समाकृष्य पूरयेदुदरं शनैः |
यथाशक्त्येव पश्चात्तु रेचयेत्पवनं शनैः || ३४||
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् |
दुर्लभं येन केनापि धिमता लभ्यते भुवि || ३५||
सांस्कृते शृणु सत्त्वस्थो योगाभ्यासक्रमं यथा |
वक्ष्यमाणं प्रयत्नेन योगिनां सर्वलक्षणैः || ३६||
युव अवस्थोऽपि वृद्धो वा व्याधितो वा शनैः शनैः |
अभ्यासात्सिद्धिमाप्नोति योगे सर्वोऽप्यतन्द्रितः || ३७||
ब्राह्मणः श्रमणो वा बौद्धो वाप्यार्हतोऽथवा |
कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः |
योगाभ्यासोऽतो नित्यं सर्वसिद्धिमवाप्नुयात् || ३८||
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् |
न शास्त्रपाठमात्रेण काचित्सिद्धिः प्रजायते || ३९||
मुण्डितो दण्डधारी वा काषायवसनोऽपि वा |
नारायणवदो वापि जटिलो मस्मलेपनः || ४०||
नमः शिवायवाची वा बाह्यार्चा पूजकोऽपि वा |
द्वादशस्थानपूजो वा बह्यवत्सलभाषितम् |
क्रियाहीनोऽथवा कूरः कथं सिद्धिमवाप्नुयात् || ४१||
न वेषधारणं सिद्धेः कारणं न च तत्तथा |
कृपैव कारणं सिद्धेः सत्यमेव तु सांकृते || ४२||
शिश्नोदरार्थं योगस्य कथया वेषधारिणः |
अनुष्ठानविहीनाः तु वङ्चयन्ति जनान् किल || ४३||
उच्चावचैः विप्रलंभैः यतन्ते कुशलाः नराः |
योगिनो वयमित्येवं मूढाः भोगपरायणाः || ४४||
शनैर्तथाविधान् ज्ञात्वा योगाभ्यासविवर्जिताम् |
कृतार्थान्वचनैरेव वर्जयेद्वेषधारिणः || ४५||
एते तु विघ्नभूत्तास्ते योगाभ्यासस्य सर्वदा |
वर्जयेत्तान् प्रयत्नेनेदृशी सिद्ध्दा क्रिया || ४६||
प्रथमाभ्यासकाले तु प्रवेशस्तु महामुने |
आलस्यं प्रथमे विघ्नः द्वितीयस्तु प्रकत्थनम् |
पूर्वोक्तधूर्त्तगोष्ठी च तृतीयो मन्त्रसाधनम् || ४७||
चतुर्थो धातुवादः स्यात्पङ्चमः खाद्यवादकम् |
एवं च बहवो दृष्टाः मृगतृष्णाः समाः मुनेः || ४८||
स्थिरासनस्य जायन्ते तां तु ज्ञात्वा सुधीः त्यजेत् |
प्राणायामं ततस्कुर्यात्पद्मासनगतः स्वयम् || ४९||
सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्घुणम् |
सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः || ५०||
मत्कुणैः मशकैः भूतैः वर्जितं च प्रयत्नतः |
दिने दिने सुसम्मृष्टं सम्मार्जन्या ह्यतन्द्रितः |
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः || ५१||
मलमूत्रादिभिः वर्गैऋअष्टादशभिरेव च |
वर्जितं द्वारसम्पन्नम् ... || ५२||
... वस्त्रं वाजिनमेव वा |
नान्यत्रस्तरणासीनः परसंसर्गवर्जितः || ५३||
तस्मिन् स तु समास्तीर्यासनं विस्तृतांशकम् |
तत्रोपविश्य मेधावी पद्मासनमन्वितः || ५४||
समकायःप्राञ्जलिश्च प्रणम्य स्वेष्टदेवताम् |
ततो दक्षिणहस्तस्याङ्गुष्ठेनैव पिङ्गलाम् || ५५||
निरुध्य पूरयेद्वायुमिड्या च शनैः शनैः |
यथाशक्तिनिरोधेन ततस्कुर्यात्तु कुम्भकम् || ५६||
ततस्त्यजेत्पिङ्गलया शनैः पवनवेगतः |
पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः |
यथा त्यजेत्तथा तेन पूरयेदनिरोधतः || ५७||
एवं प्रातः समासीनस्कुर्याद्विंशतिकुम्भकान् |
कुम्भकः सहितो नाम सर्वग्रहविवर्जितः || ५८||
एवं मध्याह्नसमये कुर्यात् विंशतिकुम्भकान् |
एवं सायं प्रकुर्वीत पुनः विंशतिकुम्भकान् |
एवमेवार्धरात्रे अपि कुर्यात् विंशतिकुम्भकान् || ५९||
कुर्वीत रेचपूराभ्यां सहितान् प्रतिवासरम् |
सहितो रेचपूराभ्यां तस्मात्सहितकुम्भकः || ६०||
कुर्यादेवं चतुर्वारमनालस्यो दिने दिने |
एवं मासत्रयं कुर्यान्नाडीशुद्धिस्ततो भवेत् || ६१||
यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः |
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः || ६२||
शरीरलघुता दीप्तिः जठराग्निविवर्धनम् |
कृशत्वं च शरीरस्य तदा जायेत्तु निश्वतम् || ६३||
तदा वर्ज्यानि वक्ष्यामि योगविघ्नकराणि तु |
लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् || ६४||
अतीव भोजनम् त्याज्यं स्त्रीसङ्गमनमेव च |
अग्निसेवा तु सन्त्याज्या धूर्त्तगोष्टिश्च सन्त्यजेत् || ६५||
उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये |
घृतं क्षीरं च मिष्ठान्नं मिताहरश्च शस्यते || ६६||
पूर्वोक्तकाले कुर्वीत पवनाभ्यासमेव च |
ततः परं यथेष्टं तु शक्तिः स्याद्वायुधारणे |
यथेष्टं धारणाद्वायोः सिद्धेत्केवलकुम्भकम् || ६७||
केवले कुम्भके सिद्धे रेचपूरकवर्जिते |
न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते || ६८||
प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् |
ततोऽप्तिधारणाद्वायोः क्रमेणैव शनैः शनैः || ६९||
कम्पो भवति देहस्यासनस्थस्य देहिनः |
ततोऽधिरतराभ्यासाद्दर्दुरी जायते ध्रुवम् || ७०||
यथा तु दर्दुरो गच्छेदुत्प्लुत्योत्प्लुत्य भूतले |
पद्मासनस्थितो योगी तथा गच्छति भूतले || ७१||
ततोऽधिकतराभ्यासाद्भूमित्यगश्च जायते |
पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्त्तते || ७२||
निराधारोऽपि चित्रं हि तदा सामर्थ्यमुद्भवेत् |
स्वल्पं वा बहु वा भुक्त्वा योगी न व्यथते तदा || ७३||
अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते |
क्रिमयो दूषिका लाला स्वेदो दुर्गन्धिता तनोः |
एतानि सर्वदा तस्य न जायन्ते ततः परम् || ७४||
ततोऽधिकतराभासाद्बलमुत्पद्यते भृशम् |
येन भूचरसिद्धिः स्याद्भूचराणां जये क्षमः || ७५||
व्याघ्रो लुलायो वन्यो वा गवयो गज एव वा |
सिंहो वा योगिना तेन म्रियन्ते हस्तताडनात् |
कन्दर्पस्य यथारूपं तथा तस्यापि योगिनः || ७६||
तस्मिन् काले महाविघ्नो योगिनः स्यात्प्रमादतः |
तद्रूपवशगाः नार्यः कङ्क्षन्ते तस्य सङ्गमम् || ७७||
यदि सङ्गं करोत्येष बिन्दुस्तस्य विनश्यति |
आयुः क्षयो बिन्दुनाशादसामर्थ्यं च जायते || ७८||
तस्मात्सर्वप्रयत्नेन बिन्दुराक्ष्यो हि योगिना |
ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया || ७९||
जपेत्पूर्वाः जितानां च पापानां च नाशहेतवे |
सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा || ८०||
एवमभ्यासयोगेन सिद्धिः आरम्भसम्भवा |
ततो भवेद्घटावस्था पवनाभ्यासिनः सदा || ८१||
प्राणापानौ मनोवयू जीवत्मपरमात्मनौ |
अन्योन्यस्याविरोधेनैकतां घटतो कानिचित् || ८२||
तदा घटाद्वयावस्था प्रसिद्ध योगिनां स्मृता |
ततश्चिह्नानि यानि स्युः तानि वक्ष्यामि कानिचित् || ८३||
पूर्वं यः कथितोऽभ्यासश्चतुर्धा तं परित्यजेत् |
दिवा वा यदि वा रात्रौ याममात्रं समभ्यसेत् || ८४||
एकबारं प्रतिदिनं कुर्यात्केवलकुम्भकम् |
प्रत्याहारो हि एवं स्यादेवं कर्तुः हि योगिनः || ८५||
इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरति स्फुटम् |
योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते || ८६||
यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मनि भावयेत् |
यद्यज्जिघ्रति नासाभ्यां तत्तदात्मनि भावयेत् || ८७||
एवं ज्ञानेन्द्रियाणां हि तत्संख्या सन्धरयेत् |
याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः || ८८||
तदा विचित्रसामर्थ्यं योगिनां जायते ध्रुवम् |
दूरश्रुतिः दूरदृष्टिः क्षणाद्दूरगमस्तथा || ८९||
वाक्सिद्धिः कामचारित्वमदृश्यकरणं तथा |
मलमूत्रप्रलेपेन लोहादीनां सुवर्णता |
खेचरत्वं तथान्यत्तु सतताभ्यासयोगिनः || ९०||
तदा बुद्धिमता भाव्य योगिना योगसिद्धये |
एते विहताः महासिद्धेः न रमेत्तेषु बुद्धिमान् || ९१||
न दर्शयेच्च कस्मैचित्स्वसामर्थ्य हि सर्वदा |
कदाचिद्दशयेत्प्रीत्या भक्तियुक्ताय वा पुनः || ९२||
यथा मूर्खो यथा मूढो यथा बधिर एव वा |
तथा वर्तेत लोकेषु स्वसामर्थ्यस्य गुप्तये || ९३||
नोचेच्छिष्याः हि बहवो भवन्ति स्व न संशयः |
तत्कर्मकरणव्यग्रः स्वाभ्यासे विस्मृतो भवेत् |
अभ्यासेन विहीनस्तु ततो लौकिकतां व्रजेत् || ९४||
अविस्मृत्य गुरोः वक्यमभ्यसेत्तदहर्निशम् |
एवं भवेद्घटावस्था सदाभ्यासस्य योगिनः || ९५||
अनभ्यासेन योगस्य वृथा गोष्ठ्या न सिध्यति |
तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् || ९६||
ततः परिचयावस्था जयते अभ्यासयोगतः |
वायुः सम्प्रेरितो यत्नादग्निना सह कुण्डलीम् || ९७||
बोधयित्वा सुषुम्नायां प्रविशेदविरोधतः |
वायुना सह चित्तं तु प्रविशेच्च महापथम् || ९८||
महापथं श्मशानं च सुषुम्नापि वेत्यसौ |
यस्य चित्तं सपवनं सुषुम्नां प्रविशेदिह || ९९||
भाव्यानर्थान् सः विज्ञाय योगि रहसि यत्नतः |
पञ्चधा धारण कुर्यात्तत्तद्भूतभयाफहम् || १००||
पृथिवी धारणं वक्ष्ये पार्थिवेभ्य्प् भयापहम् |
नाभेः अधः गुदस्योध्वं घटिकाः पञ्च धारयेत् || १०१||
वायुं भवेत् ततो पृथ्वीधारणं तद्भयापहम् |
पृथिवी सम्भवः तस्य न मृत्युः योगिनो भवेत् || १०२||
नाभिस्थाने ततो वायुं धारयेत् पञ्च नाडिकाः |
ततो जलाद्भयं नास्ति जलमृत्युः न योगिनः || १०३||
नाभ्युर्ध्वमण्डले वायुं धारयेत्पञ्च नाडिकाः |
अग्नेयधारणा सेयं न मृत्युः तस्य वह्निना || १०४||
सदा विचित्रसामर्थ्यं योगिनो जायते ध्रुवम् |
न दह्यते शरीरं च प्रक्षिप्तो वह्नि कुण्डके || १०५||
नाभिभ्रुवोः हि मध्ये तु प्रदेशत्रयसंयुते |
धारयेत् पञ्च घटिकाः वायुं साइषा हि वायवी |
धारणान्न तु वायोस्तु योगिनो हि भयं भवेत् || १०६||
भ्रूमध्यादुपरिष्टात्तु धारयेत् पञ्च नाडिकाः |
वायुं योऽसौ प्रयत्नेन सेयमाकाशधारणा || १०७||
आकाशधारणां कुर्वन्मृत्युं जयति तत्त्वतः |
यत्र तत्र स्थितो वापिसुखमत्यन्तमश्नुते || १०८||
एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः |
ततो दृढशरीरः स्यन्मृत्युर्तस्य न विद्यते || १०९||
इत्येवं पञ्चभूतानां धारणां यः समभ्यसेत् |
ब्रह्मणः प्रलये वापि मृत्युः तस्य न विद्यते || ११०||
समभ्यसेत्तदा ध्यानं घटिकाः षष्टिमेव च |
वायुं निरुध्य ध्यायेत्तु देवतामिष्टदायिनीम् || १११||
सगुणध्यानमेवं स्यादणिमादिगुणप्रदम् |
निर्गुणं खमिव ध्यात्वा मोक्षमार्गं प्रपद्यते || ११२||
निर्गुणध्यानसम्पन्नः समाधिं च ततोऽभ्यसेत् |
दिनद्वादशकेनैव समाधिं समवाप्नुयात् || ११३||
वायुं निरुध्य मेधवी जीवन्मुक्तो भवेद्ध्रुवम् |
समाधिः समतावस्था जीवात्मपरमात्मनोः || ११४||
यदि स्याद्देहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् |
परब्रह्मणि लीयेत्त्यक्त्वा कर्मशुभाशुभम् || ११५||
अथ चेन्नो समुत्स्रष्टुं स्वशरीरं यदि प्रिअयम् |
सर्व लोकेषु विचरेदणिमादिगुणान्वितः || ११६||
कदाचित्स्वेच्छया देवो भूत्वा स्वर्गयपि संचरेत् |
मनुष्यो वापि यक्षो वा स्वेच्छया हि क्षणाद्भवेत् || ११७||
सिंहो व्याघ्रो गजो वा स्यादिच्छया जन्तुतां व्रजेत् |
यथेष्टमेव वर्त्तेत योगी विद्वान्महेश्वरः || ११८||
कविमार्गोऽयमुक्तः ते सांकृते अष्टाङ्गयोगतः |
सिद्धानां कपिलादीनां मतं वक्ष्ये ततः परम् || ११९||
अभासभेदतो भेदः फल तु सममेव हि |
महामुद्रां प्रवक्ष्यामि भैरवेणोक्तमादरात् || १२०||
पार्ष्णिवामस्य पादस्य योनिस्थाने नियोजयेत् |
प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् || १२१||
चिबुकं हृदि विन्यस्य पूरयेत् वायुना पुनः |
कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत् |
वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत् || १२२||
प्रसारितस्तु यः पादस्तमुरूपरि विन्यसेत् |
अयमेव महाबन्धो मुद्रावच्चामुमभ्यसेत् || १२३||
महाबन्धस्थितो योगी स्फिचौ सन्ताडयेच्छनैः |
अयमेव महाबन्धः सिद्धैः अभ्यस्यते नरैः || १२४||
अन्तः कपालकुहरे जिह्वां व्यावर्त्य बन्धयेत् |
भ्रूमध्ये दृष्टिः अप्येषा मुद्रा भवति खेचरी || १२५||
कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया |
जलन्धरो बन्ध एष अमृतद्रवपालकः || १२६||
नाभिस्थोऽग्निः कपालस्थसहस्रकमलच्युतम् |
अमृतं सर्वदा तावदन्तर्ज्वलति देहिनाम् || १२७||
यथा चाग्निस्तदमृतं न पिबेत्तु पिबेत्स्वयम् |
याति पश्चिममार्गेणैवमभ्यासतः सदा |
अमृतं कुरुते देहं जलन्धरमतोऽभ्यसेत् || १२८||
उड्याणं तु सहजं गुणौघात्कथितं सदा |
अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत् || १२९||
नाभेः ऊर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः |
षण्मासमभ्यसेन्मृत्युं जयेदेव न संशयः || १३०||
मूलबन्धं तु यो नित्यमभ्यसेत्स च योगवित् |
गुदे पार्ष्णिं तु सम्पीड्य वायुमाकुञ्चयेद्बलात् |
वारं वारं यथा चोर्ध्वं समायाति समीरणः || १३१||
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् |
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः || १३२||
करणं विपरिताख्यं सर्वव्याधिविनाशनम् |
नित्यमभ्यासयुक्तस्य जठराग्निः विवर्द्धते || १३३||
आहारो बहुलः तस्य सम्पाद्यः सांकृते ध्रुवम् |
अल्पाहारो यदि भवेदग्निः दाहं करोति वै |
ऊर्ध्वं भानुरधश्चन्द्रस्तद्यथा शृणु सांकृते || १३४||
अधः शिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने |
क्षणात्तु किंचिदधिकमभ्यसेन दिने दिने || १३५||
वलिश्च पलितश्चैव षण्मासोर्ध्वं न दृश्यते |
याममात्रं तु यो नित्यमभ्यसेत्स तु ओगवित् || १३६||
वज्रोलिं कथयिष्यामि गोपितं सर्वयोगिभिः |
अतीवैतद्रहस्यं तु न देयं यस्य कस्यचित् |
स्वप्राणैस्तु समो यो स्यात्तसमै च कथयेद्ध्रुवम् || १३७||
स्वेच्छया वर्त्तमानोऽपि योगोक्तनियमैः विना |
वज्रोलिं यो विजानति स योगी सिद्धिभाजनः || १३८||
तत्र वस्तु द्वयं वक्ष्ये दुर्लभं येन केनचित् |
लभ्यते यदि तस्यैव योगसिद्धिकरं स्मृतम् || १३९||
क्षीरमाङ्गिरसं चेति द्वयोराद्यं तु लभते |
द्वितीयं दुर्लभं पुंसां स्त्रीभ्यः साध्यमुपायतः |
योगाभ्यासरता स्त्री च पुंसा यत्नेन साधयेत् || १४०||
पुमान् स्त्री वा यदन्योन्यं स्त्रीपुंस्त्वानपेक्षया |
स्वप्रयोजनमात्रैकसाधनात्सिद्धिमाप्नुयात् || १४१||
चलितो यदि बिन्दुः तमुर्ध्वमाकृष्य रक्षयेत् |
एवं च रक्षितो बिन्दुः मृतुं जयति तत्त्वतः || १४२||
मरणं बिन्दुपातेन जीवनं बिन्दुधारणत् |
बिन्दुरक्षाप्रसादेन सर्वं सिध्यति योगिनः || १४३||
अमरोलिस्तद्यथा स्यात्सहजोलिस्ततो यथा |
तदभ्यासक्रमः शस्यः सिद्धानां संप्रदायतः || १४४||
एतैः सैः वैस्तु कथितैरभ्यसेत् काललालतः |
ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् |
न दिङ्मात्रेण सिद्धिः स्यादभ्यसेनैव जायते || १४५||
राजयोगं वरं प्राण्य सर्वसत्त्ववशंकरम् |
सर्वं कुर्यान्नवा कुर्याद्यथारुचिविचोष्टितम् || १४६||
यथान्तरा च योगेन निष्पन्ना योगिनः क्रिया |
यथावस्था हि निष्पत्तिर्भुक्तिमुक्तिफलप्रदा || १४७||
सर्वं ते कथितं ब्रह्मन् सांस्कृते योगमाचर |
इति तस्य वचः श्रुत्वा सांस्कृतिः योगमाप्तवान् |
सर्वासिद्धीरवाप्यासौ दत्तात्रेयप्रसादतः || १४८||
य इदं पठते नित्यं साधुभ्यः श्रावयेदपि |
तस्य योगः क्रमेणैव सिध्यत्येव न संशयः || १४९||
योगिनोऽभ्यासयुक्ताः ये ह्यरण्येषु गृहेषु वा |
बहुकालं रमन्ते स्म बहुकालविवर्जिताः || १५०||
तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् |
योगाभ्यासो जन्मफलं विफला हि तथा क्रिया || १५१||
महामायाप्रसादेन सर्वेषामस्तु तत्सुखम् |
एतत्सर्वं यथायुक्तं तामेवाराधयेत्ततः || १५२||
यः संस्मृत्या मुनीनामपि दुरितहरो योगसिद्धिप्रदश्च |
कारूण्याद्यः प्रवक्ता सुखदुःखसुहृद्योगशास्त्रस्य नाथः || १५३||
तस्याहं भक्तिशुन्योऽप्यखिलजनगुरोः भक्तिचिन्तामणेः हि |
दत्तत्रेयस्य विष्णोः पदनलिनयुगं नित्यमेव प्रपद्ये || १५४||
Encoded by Vlad Sovarel, 1998 Bucharest svlad1972@rediffmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com