.. देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ..
ॐ अथ श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम्
उषसि मागधमङ्गलगायनैः
झटिति जागृहि जागृहि जागृहि .
अतिकृपार्द्रकटाक्षनिऱीक्षणैः
जगदिदं जगदम्ब सुखीकुरु .. १ ..
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् .
मणिमयमण्टपमध्यमेहि मातः
मयि कृपयाशु समर्चनं ग्रहीतुम् .. २ ..
कनककलशशोभमानशीर्षं
जलधरलम्बि समुल्लसत्पताकम् .
भगवति तव संनिवासहेतोः
मणिमयमन्दिरमेतदर्पयामि .. ३ ..
तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा .
नवरत्नविभूषिता मया
शिबिकेयं जगदम्ब तेऽर्पिता .. ४ ..
कनकमयवितर्दिस्थापिते तूलिकाढये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे .
भगवति रमणीये रत्नसिंहासनेऽस्मिन्
उपविश पदयुग्मं हेमपीठे निधाय .. ५ ..
मणिमौक्तिकनिर्मितं महान्तं
कनकस्तम्भचतुष्टयेन युक्तम् .
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि .. ६ ..
दूर्वया सरसिजान्वितविष्णु-
कान्तया च सहितं कुसुमाढ्यम् .
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ..७..
गन्धपुष्पयवसर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम् .
हेमपात्रनिहितं सह रत्नैः
अध्यर्मेतदुररीकुरु मातः .. ८ ..
जलजद्युतिना करेण जाती-
फलतक्कोललवङ्गगन्धयुक्तैः .
अमृतैरमृतौरिवातिशीतैः
भगवत्याचमनं विधीयताम् .. ९ ..
निहितं कनकस्य संपुटे
पिहितं रत्नपिधानकेन यत् .
तदिदं जगदम्ब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् .. १० ..
एतच्चम्पकतैलमम्ब विविधैः पुष्पैः मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृङ्गैः भ्रमद्भिः वृतम् .
सानन्दं सुरसुन्दरीभिरभितो हस्तैः धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते .. ११ ..
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः .
केशानामलकैः विशोध्य विशदान्कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः .. १२ ..
दुधिदुग्धघृतैः समाक्षिकैः
सितया शर्करया समन्वितैः .
स्नपयामि तवाहमादरात्
जननि त्वां पुनरुष्णवारिभिः .. १३ ..
एलोशीरसुवासितैः सकुसुमैर्गङ्गादि तीर्थोदकैः
माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः .
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात्
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु .. १४ ..
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् .
मुक्ताभिः ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु .. १५ ..
नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके .
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम् .. १६ ..
बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान्कङ्कतैर्मार्जयित्वा .
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि .. १७ ..
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् .
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय .. १८ ..
मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले .
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् .. १९ ..
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् .
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
कटखां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ .. २० ..
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः .
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् .. २१ ..
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः .
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा .. २२ ..
जननि चम्पकतलैमिदं पुरो
मृगमदोपयुतं पटवासकम् .
सुरभिगन्धमिदं च चतुःसमं
सपदि सर्वमिदं परिगृह्यताम् .. २३ ..
सीमन्ते ते भगवति मया सादरं न्यस्तमेतत्
सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति .
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव .. २४ ..
मन्दारकुन्दकरवीरलवङ्गपुष्पैः
त्वां देवि सन्ततं अहं परिपूजयामि .
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि .. २५ ..
मालतीवकुलहेमपुष्पिका-
काञ्चनारकरवीरकैतकैः .
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदम्ब ते वपुः .. २६ ..
पारिजातशतपत्रपाटलैः
मल्लिकावकुलचम्पकादिभिः .
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः .. २७ ..
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः .
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्त्तुभिः
धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु .. २८ ..
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः
दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः .
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः .. २९ ..
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः .
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् .. ३० ..
सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि .
शाकोल्लसन्मरिचिजीरकबाह्निकानि
भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि .. ३१ ..
क्षीरमेतदिदंमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु .
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः .. ३२ ..
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे .
कर्पूरमिश्रेण सकुङ्कुमेन
हस्तौ समुद्वर्तय चन्दनेन .. ३३ ..
अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम् .
पटपूतमिदं जितामृतं
शुचि गङ्गाजलमम्ब पीयताम् .. ३४ ..
जम्बवाम्ररम्भाफलसंयुतानि
द्राक्षाफलक्षौद्रसमन्वितानि .
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि .. ३५ ..
कूश्माण्डकोशातकिसंयुतानि
जम्बीरनारङ्गसमन्वितानि .
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि .. ३६ ..
कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः .
मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु .. ३७ ..
एलालवङ्गादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि .
ताम्बूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि .. ३८ ..
ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् .
सौवर्णपात्रनिहितं खदिरेन सार्धं
ताम्बूलमम्ब वदनाम्बुरुहे गृहाण .. ३९ ..
महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान् .
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते .. ४० ..
सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य .
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः .. ४१ ..
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः .
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि .. ४२ ..
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् .
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् .. ४३ ..
शरदिन्दुमरीचिगौरबर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः .
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण बीजयामि .. ४४ ..
मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते .
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् .. ४५ ..
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् .
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः .. ४६ ..
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः .
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंगः .. ४७ ..
मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्कणीशोभिकण्ठः .
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातङ्ग एषः .. ४८ ..
द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तम् .
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि .. ४९ ..
हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तम् .
अतिबहु चतुरङ्गसैन्यमेत-
द्भगवति भक्तिभरेण तेऽर्पयामि .. ५० ..
परिघीकृतसप्तसागरं
बहुसंपत्सहितं मयाम्ब ते विपुलम् .
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि .. ५१ ..
शतपत्रयुतैः स्वभावशीतैः
अतिसौरभ्ययुतैः परागपीतैः .
भ्रमरीमुखरीकृतैरनन्तैः
व्यजनैस्त्वां जगदम्ब वीजयामि .. ५२ ..
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभूमिः .
इयमतिरुचिरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः .. ५३ ..
मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृङ्गमालाः .
युवजनसुखकारिचारुलीला
भगवति ते पुरतो नटन्ति बालाः .. ५४ ..
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः .
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु .. ५५ ..
डमरुडिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्द्रगडादयः .
झटिति झाङ्कृतझाङ्कृतझाङ्कृतैः
बहुदयं हृदयं सुखयन्तु ते .. ५६ ..
विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः .
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि .. ५७ ..
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षनमपि रमयित्वा चेत एतत्त्वदीयम् .
स्वयमहमतिचितैर्नृत्तवादित्रगीतैः
भगवति भवदीयं मानसं रञ्जयामि .. ५८ ..
तव देवि गुणानुवर्णने
चतुरा नो चतुराननादयः .
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तव कर्तुमीश्वरः .. ५९ ..
पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति .
तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि .. ६० ..
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् .
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् .. ६१ ..
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कन्ठदेशेऽर्पयित्वा .
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु .. ६२ ..
अथ मणिमयञ्चकाभिरामे
कनकमयवितानराजमाने .
प्रसरदगरुधूपधूपितेऽस्मि-
न्भगवति भवनेऽस्तु ते निवासः .. ६३ ..
एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ .
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
न्पर्यङ्के कनकमये निषीद मातः .. ६४ ..
तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः .
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् .. ६५ ..
अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् .
तपनीयमये हि पट्टके मुखगण्डूचजलं विधीयताम् .. ६६ ..
क्षणमथ जगदम्ब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने .
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती .. ६७ ..
मुक्ताकुन्देन्दुगौरां मणिमयकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् .
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि .. ६८ ..
एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व .
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः .. ६९ ..
पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे .
ध्रमार्थकामान्पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति .. ७० ..
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः .
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति .. ७१ ..
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् .
वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् .. ७२ ..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ..
Encoded and proofread by Sridhar Seshagiri seshagir@egr.msu.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com