.. .. हारीतगीता.. ..
२६९
य्
किं शीलः किं समाचारः किं विद्यः किं परायनः .
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् .. १..
भी
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः .
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् .. २..
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः .
समुपोधेषु कामेषु निरपेक्षः परिव्रजेत् .. ३..
न चक्षुषा न मनसा न वाचा दूसयेदपि .
न प्रत्यक्षं परोक्षं वा दूसनं व्याहरेत्क्व चित् .. ४..
न हिंस्यात्सर्वभूतानि मैत्रायण गतिश् चरेत् .
नेदं जीवितमासाद्य वैरं कुर्वीत केन चित् .. ५..
अतिवादांस्तितिक्षेत नाभिमन्येत्कथं चन .
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् .. ६..
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् .
भैक्ष चर्यामनापन्नो न गच्छेत्पूर्वकेतितः .. ७..
अविकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् .
मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः .. ८..
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने .
अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः .. ९..
अनुयात्रिकमर्थस्य मात्रा लाभेष्वनादृतः .
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् .. १०..
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः .
अभिपूजित लाभं हि जुगुप्सेतैव तादृशः .. ११..
न चान्न दोषान्निन्देत न गुणानभिपूजयेत् .
शयासने विविक्ते च नित्यमेवाभिपूजयेत् .. १२..
शून्यागरं वृक्षमूलमरण्यमथ वा गुहाम् .
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् .. १३..
अनुरोध विरोधाभ्यां समः स्यादचलो ध्रुवः .
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि .. १४..
वाचो वेगं मनसः क्रोधवेगं
विवित्सा वेगमुदरोपस्थ वेगम् .
एतान्वेगान्विनयेद्वै तपस्वी
निन्दा चास्य हृदयं नोपहन्यात् .. १५..
मध्यस्थ एव तिष्ठेत प्रशंसा निन्दयोः समः .
एतत्पवित्रं परमं परिव्राजक आश्रमे .. १६..
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः .
अपूर्व चारकः सौम्यो अनिकेतः समाहितः .. १७..
वान प्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित् .
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् .. १८..
विजानतां मोक्ष एष श्रमः स्यादविजानताम् .
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् .. १९..
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् .
लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते .. २०..
.. इति हारीतगीता समाप्ता ..
Please send corrections to Sunder Hattangadi( sunderh@hotmail.com OR sanskrit@cheerful.com) ;
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com