\Large haTha-yoga-pradIpikA
.. हठ- योग- प्रदीपिका ..
|| १|| प्रथमोपदेशः
श्री- आदि- नाथाय नमोऽस्तु तस्मै
येनोपदिष्टा हठ- योग- विद्या |
विभ्राजते प्रोन्नत- राज- योगम्
आरोढुमिच्छोरधिरोहिणीव || १||
प्रणम्य श्री- गुरुं नाथं स्वात्मारामेण योगिना |
केवलं राज- योगाय हठ- विद्योपदिश्यते || २||
भ्रान्त्या बहुमत- ध्वान्ते राज- योगमजानताम् |
हठ- प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः || ३||
हठ- विद्यां हि मत्स्येन्द्र- गोरक्षाद्या विजानते |
स्वात्मारामोऽथवा योगी जानीते तत्- प्रसादतः || ४||
श्री- आदिनाथ- मत्स्येन्द्र- शावरानन्द- भैरवाः |
चौरङ्गी- मीन- गोरक्ष- विरूपाक्ष- बिलेशयाः || ५||
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः |
कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः || ६||
कानेरी पूज्यपादश्च नित्य- नाथो निरञ्जनः |
कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः || ७||
अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः |
भानुकी नारदेवश्च खण्डः कापालिकस्तथा || ८||
इत्यादयो महासिद्धा हठ- योग- प्रभावतः |
खण्डयित्वा काल- दण्डं ब्रह्माण्डे विचरन्ति ते || ९||
अशेष- ताप- तप्तानां समाश्रय- मठो हठः |
अशेष- योग- युक्तानामाधार- कमठो हठः || १०||
हठ- विद्या परं गोप्या योगिना सिद्धिमिच्छता |
भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता || ११||
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे |
धनुः प्रमाण- पर्यन्तं शिलाग्नि- जल- वर्जिते |
एकान्ते मठिका- मध्ये स्थातव्यं हठ- योगिना || १२||
अल्प- द्वारमरन्ध्र- गर्त- विवरं नात्युच्च- नीचायतं
सम्यग्- गोमय- सान्द्र- लिप्तममलं निःशेस- जन्तूज्झितम् |
बाह्ये मण्डप- वेदि- कूप- रुचिरं प्राकार- संवेष्टितं
प्रोक्तं योग- मठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः || १३||
एवं विधे मठे स्थित्वा सर्व- चिन्ता- विवर्जितः |
गुरूपदिष्ट- मार्गेण योगमेव समभ्यसेत् || १४||
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः |
जन- सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति || १५||
उत्साहात्साहसाद्धैर्यात्तत्त्व- ज्ञानाश्च निश्चयात् |
जन- सङ्ग- परित्यागात्षड्भिर्योगः प्रसिद्ध्यति || १६||
अथ यम- नियमाः
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः |
दयार्जवं मिताहारः शौचं चैव यमा दश || १७||
तपः सन्तोष आस्तिक्यं दानमीश्वर- पूजनम् |
सिद्धान्त- वाक्य- श्रवणं ह्रीमती च तपो हुतम् |
नियमा दश सम्प्रोक्ता योग- शास्त्र- विशारदैः || १८||
अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते |
कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग- लाघवम् || १९||
वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः |
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया || २०||
जानूर्वोरन्तरे सम्यक्कृत्वा पाद- तले उभे |
ऋजु- कायः समासीनः स्वस्तिकं तत्प्रचक्षते || २१||
सव्ये दक्षिण- गुल्कं तु पृष्ठ- पार्श्वे नियोजयेत् |
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः || २२||
एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् |
इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् || २३||
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः |
कूर्मासनं भवेदेतदिति योग- विदो विदुः || २४||
पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ |
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् || २५||
कुक्कुटासन- बन्ध- स्थो दोर्भ्यां सम्बद्य कन्धराम् |
भवेद्कूर्मवदुत्तान एतदुत्तान- कूर्मकम् || २६||
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि |
धनुराकर्षणं कुर्याद्धनुर्- आसनमुच्यते || २७||
वामोरु- मूलार्पित- दक्ष- पादं
जानोर्बहिर्वेष्टित- वाम- पादम् |
प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः
श्री- मत्य्सनाथोदितमासनं स्यात् || २८||
मत्स्येन्द्र- पीठं जठर- प्रदीप्तिं
प्रचण्ड- रुग्मण्डल- खण्डनास्त्रम् |
अभ्यासतः कुण्डलिनी- प्रबोधं
चन्द्र- स्थिरत्वं च ददाति पुंसाम् || २९||
प्रसार्य पादौ भुवि दण्ड- रूपौ
दोर्भ्यां पदाग्र- द्वितयं गृहीत्वा |
जानूपरिन्यस्त- ललाट- देशो
वसेदिदं पश्चिमतानमाहुः || ३०||
इति पश्चिमतानमासनाग्र्यं
पवनं पश्चिम- वाहिनं करोति |
उदयं जठरानलस्य कुर्याद्
उदरे कार्श्यमरोगतां च पुंसाम् || ३१||
धरामवष्टभ्य कर- द्वयेन
तत्- कूर्पर- स्थापित- नाभि- पार्श्वः |
उच्चासनो दण्डवदुत्थितः खे
मायूरमेतत्प्रवदन्ति पीठम् || ३२||
हरति सकल- रोगानाशु गुल्मोदरादीन्
अभिभवति च दोषानासनं श्री- मयूरम् |
बहु कदशन- भुक्तं भस्म कुर्यादशेषं
जनयति जठराग्निं जारयेत्काल- कूटम् || ३३||
उत्तानं शबवद्भूमौ शयनं तच्छवासनम् |
शवासनं श्रान्ति- हरं चित्त- विश्रान्ति- कारकम् || ३४||
चतुरशीत्यासनानि शिवेन कथितानि च |
तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् || ३५||
सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् |
श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा || ३६||
अथ सिद्धासनम्
योनि- स्थानकमङ्घ्रि- मूल- घटितं कृत्वा दृढं विन्यसेत्
मेण्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् |
स्थाणुः संयमितेन्द्रियोऽचल- दृशा पश्येद्भ्रुवोरन्तरं
ह्येतन्मोक्ष- कपाट- भेद- जनकं सिद्धासनं प्रोच्यते || ३७||
मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि |
गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् || ३८||
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः |
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे || ३९||
यमेष्विव मिताहारमहिंसा नियमेष्विव |
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः || ४०||
चतुरशीति- पीठेषु सिद्धमेव सदाभ्यसेत् |
द्वासप्तति- सहस्राणां नाडीनां मल- शोधनम् || ४१||
आत्म- ध्यायी मिताहारी यावद्द्वादश- वत्सरम् |
सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात् || ४२||
किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति |
प्राणानिले सावधाने बद्धे केवल- कुम्भके |
उत्पद्यते निरायासात्स्वयमेवोन्मनी कला || ४३||
तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति |
बन्ध- त्रयमनायासात्स्वयमेवोपजायते || ४४||
नासनं सिद्ध- सदृशं न कुम्भः केवलोपमः |
न खेचरी- समा मुद्रा न नाद- सदृशो लयः || ४५||
अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् |
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत्
एतद्व्याधि- विनाश- कारि यमिनां पद्मासनं प्रोच्यते || ४६||
उत्तानौ चरणौ कृत्वा ऊरु- संस्थौ प्रयत्नतः |
ऊरु- मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ || ४७||
नासाग्रे विन्यसेद्राजद्- अन्त- मूले तु जिह्वया |
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य् पवनं शनैः || ४८||
इदं पद्मासनं प्रोक्तं सर्व- व्याधि- विनाशनम् |
दुर्लभं येन केनापि धीमता लभ्यते भुवि || ४९||
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि |
वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं
न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति- प्रभावान्नरः || ५०||
पद्मासने स्थितो योगी नाडी- द्वारेण पूरितम् |
मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः || ५१||
अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत् |
दक्षिणे सव्य- गुल्फं तु दक्ष- गुल्फं तु सव्यके || ५२||
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च |
व्यात्त- वक्तो निरीक्षेत नासाग्रं सुसमाहितः || ५३||
सिंहासनं भवेदेतत्पूजितं योगि- पुङ्गवैः |
बन्ध- त्रितय- सन्धानं कुरुते चासनोत्तमम् || ५४||
अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते |
सव्य- गुल्फं तथा सव्ये दक्ष- गुल्फं तु दक्षिणे || ५५||
पार्श्व- पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् |
भद्रासनं भवेदेतत्सर्व- व्याधि- विनाशनम् |
गोरक्षासनमित्याहुरिदं वै सिद्ध- योगिनः || ५६||
एवमासन- बन्धेषु योगीन्द्रो विगत- श्रमः |
अभ्यसेन्नाडिका- शुद्धिं मुद्रादि- पवनी- क्रियाम् || ५७||
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा |
अथ नादानुसन्धानमभ्यासानुक्रमो हठे || ५८||
ब्रह्मचारी मिताहारी त्यागी योग- परायणः |
अब्दादूर्ध्वं भवेद्सिद्धो नात्र कार्या विचारणा || ५९||
सुस्निग्ध- मधुराहारश्चतुर्थांश- विवर्जितः |
भुज्यते शिव- सम्प्रीत्यै मिताहारः स उच्यते || ६०||
कट्वाम्ल- तीक्ष्ण- लवणोष्ण- हरीत- शाक-
सौवीर- तैल- तिल- सर्षप- मद्य- मत्स्यान् |
आजादि- मांस- दधि- तक्र- कुलत्थकोल-
पिण्याक- हिङ्गु- लशुनाद्यमपथ्यमाहुः || ६१||
भोजनमहितं विद्यात्पुनरस्योष्णी- कृतं रूक्षम् |
अतिलवणमम्ल- युक्तं कदशन- शाकोत्कं वर्ज्यम् || ६२||
वह्नि- स्त्री- पथि- सेवानामादौ वर्जनमाचरेत् || ६३||
तथा हि गोरक्ष- वचनम्
वर्जयेद्दुर्जन- प्रान्तं वह्नि- स्त्री- पथि- सेवनम् |
प्रातः- स्नानोपवासादि काय- क्लेश- विधिं तथा || ६४||
गोधूम- शालि- यव- षाष्टिक- शोभनान्नं
क्षीराज्य- खण्ड- नवनीत- सिद्धा- मधूनि |
शुण्ठी- पटोल- कफलादिक- पञ्च- शाकं
मुद्गादि- दिव्यमुदकं च यमीन्द्र- पथ्यम् || ६५||
पुष्टं सुमधुरं स्निग्धं गव्यं धातु- प्रपोषणम् |
मनोभिलषितं योग्यं योगी भोजनमाचरेत् || ६६||
युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा |
अभ्यासात्सिद्धिमाप्नोति सर्व- योगेष्वतन्द्रितः || ६७||
क्रिया- युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् |
न शास्त्र- पाठ- मात्रेण योग- सिद्धिः प्रजायते || ६८||
न वेष- धारणं सिद्धेः कारणं न च तत्- कथा |
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः || ६९||
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च |
सर्वाण्यपि हठाभ्यासे राज- योग- फलावधि || ७०||
इति हठ- प्रदीपिकायां प्रथमोपदेशः |
|| २|| द्वितीयोपदेशः
अथासने दृधे योगी वशी हित- मिताशनः |
गुरूपदिष्ट- मार्गेण प्राणायामान्समभ्यसेत् || १||
चले वाते चलं चित्तं निश्चले निश्चलं भवेत्||
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् || २||
यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते |
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् || ३||
मलाकलासु नाडीषु मारुतो नैव मध्यगः |
कथं स्यादुन्मनीभावः कार्य- सिद्धिः कथं भवेत् || ४||
शुद्धमेति यदा सर्वं नाडी- चक्रं मलाकुलम् |
तदैव जायते योगी प्राण- संग्रहणे क्षमः || ५||
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया |
यथा सुषुम्णा- नाडीस्था मलाः शुद्धिं प्रयान्ति च || ६||
बद्ध- पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् |
धारयित्वा यथा- शक्ति भूयः सूर्येण रेचयेत् || ७||
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः |
विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् || ८||
येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः |
रेचयेच्च ततोऽन्येन शनैरेव न वेगतः || ९||
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया |
सूर्य- चन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां
शुद्धा नाडि- गणा भवन्ति यमिनां मास- त्रयादूर्ध्वतः || १०||
प्रातर्मध्यन्दिने सायमर्ध- रात्रे च कुम्भकान् |
शनैरशीति- पर्यन्तं चतुर्वारं समभ्यसेत् || ११||
कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे |
उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् || १२||
जलेन श्रम- जातेन गात्र- मर्दनमाचरेत् |
दृढता लघुता चैव तेन गात्रस्य जायते || १३||
अभ्यास- काले प्रथमे शस्तं क्षीराज्य- भोजनम् |
ततोऽभ्यासे दृढीभूते न तादृङ्- नियम- ग्रहः || १४||
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः |
तथैव सेवितो वायुरन्यथा हन्ति साधकम् || १५||
प्राणायामेन युक्तेन सर्व- रोग- क्षयो भवेत् |
अयुक्ताभ्यास- योगेन सर्व- रोग- समुद्गमः || १६||
हिक्का श्वासश्च कासश्च शिरः- कर्णाक्षि- वेदनाः |
भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः || १७||
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् |
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् || १८||
यदा तु नाडी- शुद्धिः स्यात्तथा चिह्नानि बाह्यतः |
कायस्य कृशता कान्तिस्तदा जायते निश्चितम् || १९||
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् |
नादाभिव्यक्तिरारोग्यं जायते नाडि- शोधनात् || २०||
मेद- श्लेष्माधिकः पूर्वं षट्- कर्माणि समाचरेत् |
अन्यस्तु नाचरेत्तानि दोषाणां समभावतः || २१||
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा |
कपाल- भातिश्चैतानि षट्- कर्माणि प्रचक्षते || २२||
कर्म षट्कमिदं गोप्यं घट- शोधन- कारकम् |
विचित्र- गुण- सन्धाय पूज्यते योगि- पुङ्गवैः || २३||
तत्र धौतिः
चतुर्- अङ्गुल- विस्तारं हस्त- पञ्च- दशायतम् |
गुरूपदिष्ट- मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् |
पुनः प्रत्याहरेच्चैतदुदितं धौति- कर्म तत् || २४||
कास- श्वास- प्लीह- कुष्ठं कफरोगाश्च विंशतिः |
धौति- कर्म- प्रभावेण प्रयान्त्येव न संशयः || २५||
अथ बस्तिः
नाभि- दघ्न- जले पायौ न्यस्त- नालोत्कटासनः |
आधाराकुञ्चनं कुर्यात्क्षालनं बस्ति- कर्म तत् || २६||
गुल्म- प्लीहोदरं चापि वात- पित्त- कफोद्भवाः |
बस्ति- कर्म- प्रभावेण क्षीयन्ते सकलामयाः || २७||
धान्त्वद्रियान्तः- करण- प्रसादं
दधाच्च कान्तिं दहन- प्रदीप्तम् |
अशेष- दोषोपचयं निहन्याद्
अभ्यस्यमानं जल- बस्ति- कर्म || २८||
अथ नेतिः
सूत्रं वितस्ति- सुस्निग्धं नासानाले प्रवेशयेत् |
मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते || २९||
कपाल- शोधिनी चैव दिव्य- दृष्टि- प्रदायिनी |
जत्रूर्ध्व- जात- रोगौघं नेतिराशु निहन्ति च || ३०||
अथ त्राटकम्
निरीक्षेन्निश्चल- दृशा सूक्ष्म- लक्ष्यं समाहितः |
अश्रु- सम्पात- पर्यन्तमाचार्यैस्त्राटकं स्मृतम् || ३१||
मोचनं नेत्र- रोगाणां तन्दाद्रीणां कपाटकम् |
यत्नतस्त्राटकं गोप्यं यथा हाटक- पेटकम् || ३२||
अथ नौलिः
अमन्दावर्त- वेगेन तुन्दं सव्यापसव्यतः |
नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते || ३३||
मन्दाग्नि- सन्दीपन- पाचनादि-
सन्धापिकानन्द- करी सदैव |
अशेष- दोष- मय- शोषणी च
हठ- क्रिया मौलिरियं च नौलिः || ३४||
अथ कपालभातिः
भस्त्रावल्लोह- कारस्य रेच- पूरौ ससम्भ्रमौ |
कपालभातिर्विख्याता कफ- दोष- विशोषणी || ३५||
षट्- कर्म- निर्गत- स्थौल्य- कफ- दोष- मलादिकः |
प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति || ३६||
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति |
आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् || ३७||
अथ गज- करणी
उदर- गत- पदार्थमुद्वमन्ति
पवनमपानमुदीर्य कण्ठ- नाले |
क्रम- परिचय- वश्य- नाडि- चक्रा
गज- करणीति निगद्यते हठज्ञैः || ३८||
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास- तत्पराः |
अभूवन्नन्तक- भ्यात्तस्मात्पवनमभ्यसेत् || ३९||
यावद्बद्धो मरुद्- देशे यावच्चित्तं निराकुलम् |
यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्काल- भयं कुतः || ४०||
विधिवत्प्राण- संयामैर्नाडी- चक्रे विशोधिते |
सुषुम्णा- वदनं भित्त्वा सुखाद्विशति मारुतः || ४१||
अथ मनोन्मनी
मारुते मध्य- संचारे मनः- स्थैर्यं प्रजायते |
यो मनः- सुस्थिरी- भावः सैवावस्था मनोन्मनी || ४२||
तत्- सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् |
विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् || ४३||
अथ कुम्भक- भेदाः
सूर्य- भेदनमुज्जायी सीत्कारी शीतली तथा |
भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट- कुम्भकाः || ४४||
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः |
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः || ४५||
अधस्तात्कुञ्चनेनाशु कण्ठ- सङ्कोचने कृते |
मध्ये पश्चिम- तानेन स्यात्प्राणो ब्रह्म- नाडिगः || ४६||
आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् |
योगी जरा- विमुक्तः सन्षोडशाब्द- वया भवेत् || ४७||
अथ सूर्य- भेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः |
दक्ष- नाड्या समाकृष्य बहिःस्थं पवनं शनैः || ४८||
आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् |
ततः शनैः सव्य- नाड्या रेचयेत्पवनं शनैः || ४९||
कपाल- शोधनं वात- दोष- घ्नं कृमि- दोष- हृत् |
पुनः पुनरिदं कार्यं सूर्य- भेदनमुत्तमम् || ५०||
अथ उज्जायी
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः |
यथा लगति कण्ठात्तु हृदयावधि स- स्वनम् || ५१||
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा |
श्लेष्म- दोष- हरं कण्ठे देहानल- विवर्धनम् || ५२||
नाडी- जलोदराधातु- गत- दोष- विनाशनम् |
गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् || ५३||
अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् |
एवमभ्यास- योगेन काम- देवो द्वितीयकः || ५४||
योगिनी चक्र- संमान्यः सृष्टि- संहार- कारकः |
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते || ५५||
भवेत्सत्त्वं च देहस्य सर्वोपद्रव- वर्जितः |
अनेन विधिना सत्यं योगीन्द्रो भूमि- मण्डले || ५६||
अथ शीतली
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भ- साधनम् |
शनकैर्घ्राण- रन्ध्राभ्यां रेचयेत्पवनं सुधीः || ५७||
गुल्म- प्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् |
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि || ५८||
अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पाद- तले उभे |
पद्मासनं भवेदेतत्सर्व- पाप- प्रणाशनम् || ५९||
सम्यक्पद्मासनं बद्ध्वा सम- ग्रीवोदरः सुधीः |
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् || ६०||
यथा लगति हृत्- कण्ठे कपालावधि स- स्वनम् |
वेगेन पूरयेच्चापि हृत्- पद्मावधि मारुतम् || ६१||
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः |
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते || ६२||
तथैव स्व- शरीर- स्थं चालयेत्पवनं धिया |
यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् || ६३||
यथोदरं भवेत्पूर्णमनिलेन तथा लघु |
धारयेन्नासिकां मध्या- तर्जनीभ्यां विना दृढम् || ६४||
विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् |
वात- पित्त- श्लेष्म- हरं शरीराग्नि- विवर्धनम् || ६५||
कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् |
ब्रह्म- नाडी- मुखे संस्थ- कफाद्य्- अर्गल- नाशनम् || ६६||
सम्यग्गात्र- समुद्भूत- ग्रन्थि- त्रय- विभेदकम् |
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् || ६७||
अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्ग- नादं
भृङ्गी- नादं रेचकं मन्द- मन्दम् |
योगीन्द्राणमेवमभ्यास- योगाच्
चित्ते जाता काचिदानन्द- लीला || ६८||
अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः |
रेचयेन्मूर्च्छाख्येयं मनो- मूर्च्छा सुख- प्रदा || ६९||
अथ प्लाविनी
अन्तः प्रवर्तितोदार- मारुतापूरितोदरः |
पयस्यगाधेऽपि सुखात्प्लवते पद्म- पत्रवत् || ७०||
प्राणायामस्त्रिधा प्रोक्तो रेच- पूरक- कुम्भकैः |
सहितः केवलश्चेति कुम्भको द्विविधो मतः || ७१||
यावत्केवल- सिद्धिः स्यात्सहितं तावदभ्यसेत् |
रेचकं पूरकं मुक्त्वा सुखं यद्वायु- धारणम् || ७२||
प्राणायामोऽयमित्युक्तः स वै केवल- कुम्भकः |
कुम्भके केवले सिद्धे रेच- पूरक- वर्जिते || ७३||
न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते |
शक्तः केवल- कुम्भेन यथेष्टं वायु- धारणात् || ७४||
राज- योग- पदं चापि लभते नात्र संशयः |
कुम्भकात्कुण्डली- बोधः कुण्डली- बोधतो भवेत् |
अनर्गला सुषुम्णा च हठ- सिद्धिश्च जायते || ७५||
हठं विना राजयोगो राज- योगं विना हठः |
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् || ७६||
कुम्भक- प्राण- रोधान्ते कुर्याच्चित्तं निराश्रयम् |
एवमभ्यास- योगेन राज- योग- पदं व्रजेत् || ७७||
वपुः कृशत्वं वदने प्रसन्नता
नाद- स्फुटत्वं नयने सुनिर्मले |
अरोगता बिन्दु- जयोऽग्नि- दीपनं
नाडी- विशुद्धिर्हठ- सिद्धि- लक्षणम् || ७८||
इति हठ- प्रदीपिकायां द्वितीयोपदेशः |
|| ३|| तृतीयोपदेशः
स- शैल- वन- धात्रीणां यथाधारोऽहि- नायकः |
सर्वेषां योग- तन्त्राणां तथाधारो हि कुण्डली || १||
सुप्ता गुरु- प्रसादेन यदा जागर्ति कुण्डली |
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च || २||
प्राणस्य शून्य- पदवी तदा राजपथायते |
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् || ३||
सुषुम्णा शून्य- पदवी ब्रह्म- रन्ध्रः महापथः |
श्मशानं शाम्भवी मध्य- मार्गश्चेत्येक- वाचकाः || ४||
तस्मात्सर्व- प्रयत्नेन प्रबोधयितुमीश्वरीम् |
ब्रह्म- द्वार- मुखे सुप्तां मुद्राभ्यासं समाचरेत् || ५||
महामुद्रा महाबन्धो महावेधश्च खेचरी |
उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः || ६||
करणी विपरीताख्या वज्रोली शक्ति- चालनम् |
इदं हि मुद्रा- दशकं जरा- मरण- नाशनम् || ७||
आदिनाथोदितं दिव्यमष्टैश्वर्य- प्रदायकम् |
वल्लभं सर्व- सिद्धानां दुर्लभं मरुतामपि || ८||
गोपनीयं प्रयत्नेन यथा रत्न- करण्डकम् |
कस्यचिन्नैव वक्तव्यं कुल- स्त्री- सुरतं यथा || ९||
अथ महा- मुद्रा
पाद- मूलेन वामेन योनिं सम्पीड्य दक्षिणाम् |
प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् || १०||
कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः |
यथा दण्ड- हतः सर्पो दण्डाकारः प्रजायते || ११||
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् |
तदा सा मरणावस्था जायते द्विपुटाश्रया || १२||
ततः शनैः शनैरेव रेचयेन्नैव वेगतः |
महा- मुद्रां च तेनैव वदन्ति विबुधोत्तमाः || १३||
इयं खलु महामुद्रा महा- सिद्धैः प्रदर्शिता |
महा- क्लेशादयो दोषाः क्षीयन्ते मरणादयः |
महा- मुद्रां च तेनैव वदन्ति विबुधोत्तमाः || १४||
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् |
यावत्- तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् || १५||
न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः |
अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति || १६||
क्षय- कुष्ठ- गुदावर्त- गुल्माजीर्ण- पुरोगमाः |
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् || १७||
कथितेयं महामुद्रा महा- सिद्धि- करा नॄणाम् |
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् || १८||
अथ महा- बन्धः
पार्ष्णिं वामस्य पादस्य योनि- स्थाने नियोजयेत् |
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा || १९||
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् |
निष्पीड्यं वायुमाकुञ्च्य मनो- मध्ये नियोजयेत् || २०||
धारयित्वा यथा- शक्ति रेचयेदनिलं शनैः |
सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् || २१||
मतमत्र तु केषांचित्कण्ठ- बन्धं विवर्जयेत् |
राज- दन्त- स्थ- जिह्वाया बन्धः शस्तो भवेदिति || २२||
अयं तु सर्व- नाडीनामूर्ध्वं गति- निरोधकः |
अयं खलु महा- बन्धो महा- सिद्धि- प्रदायकः || २३||
काल- पाश- महा- बन्ध- विमोचन- विचक्षणः |
त्रिवेणी- सङ्गमं धत्ते केदारं प्रापयेन्मनः || २४||
रूप- लावण्य- सम्पन्ना यथा स्त्री पुरुषं विना |
महा- मुद्रा- महा- बन्धौ निष्फलौ वेध- वर्जितौ || २५||
अथ महा- वेधः
महा- बन्ध- स्थितो योगी कृत्वा पूरकमेक- धीः |
वायूनां गतिमावृत्य निभृतं कण्ठ- मुद्रया || २६||
सम- हस्त- युगो भूमौ स्फिचौ सनाडयेच्छनैः |
पुट- द्वयमतिक्रम्य वायुः स्फुरति मध्यगः || २७||
सोम- सूर्याग्नि- सम्बन्धो जायते चामृताय वै |
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् || २८||
महा- वेधोऽयमभ्यासान्महा- सिद्धि- प्रदायकः |
वली- पलित- वेप- घ्नः सेव्यते साधकोत्तमैः || २९||
एतत्त्रयं महा- गुह्यं जरा- मृत्यु- विनाशनम् |
वह्नि- वृद्धि- करं चैव ह्यणिमादि- गुण- प्रदम् || ३०||
अष्टधा क्रियते चैव यामे यामे दिने दिने |
पुण्य- संभार- सन्धाय पापौघ- भिदुरं सदा |
सम्यक्- शिक्षावतामेवं स्वल्पं प्रथम- साधनम् || ३१||
अथ खेचरी
कपाल- कुहरे जिह्वा प्रविष्टा विपरीतगा |
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी || ३२||
छेदन- चालन- दोहैः कलां क्रमेणाथ वर्धयेत्तावत् |
सा यावद्भ्रू- मध्यं स्पृशति तदा खेचरी- सिद्धिः || ३३||
स्नुही- पत्र- निभं शस्त्रं सुतीक्ष्णं स्निग्ध- निर्मलम् |
समादाय ततस्तेन रोम- मात्रं समुच्छिनेत् || ३४||
ततः सैन्धव- पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् |
पुनः सप्त- दिने प्राप्ते रोम- मात्रं समुच्छिनेत् || ३५||
एवं क्रमेण षण्- मासं नित्यं युक्तः समाचरेत् |
षण्मासाद्रसना- मूल- शिरा- बन्धः प्रणश्यति || ३६||
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् |
सा भवेत्खेचरी मुद्रा व्योम- चक्रं तदुच्यते || ३७||
रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति |
विषैर्विमुच्यते योगी व्याधि- मृत्यु- जरादिभिः || ३८||
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा |
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् || ३९||
पीड्यते न स रोगेण लिप्यते न च कर्मणा |
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् || ४०||
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता |
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता || ४१||
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः |
न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च || ४२||
चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि- मण्डलम् |
व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनि- मुद्रया || ४३||
ऊर्ध्व- जिह्वः स्थिरो भूत्वा सोमपानं करोति यः |
मासार्धेन न सन्देहो मृत्युं जयति योगवित् || ४४||
नित्यं सोम- कला- पूर्णं शरीरं यस्य योगिनः |
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति || ४५||
इन्धनानि यथा वह्निस्तैल- वर्ति च दीपकः |
तथा सोम- कला- पूर्णं देही देहं न मुञ्चति || ४६||
गोमांसं भक्षयेन्नित्यं पिबेदमर- वारुणीम् |
कुलीनं तमहं मन्ये चेतरे कुल- घातकाः || ४७||
गो- शब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि |
गो- मांस- भक्षणं तत्तु महा- पातक- नाशनम् || ४८||
जिह्वा- प्रवेश- सम्भूत- वह्निनोत्पादितः खलु |
चन्द्रात्स्रवति यः सारः सा स्यादमर- वारुणी || ४९||
चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा- रस- स्यन्दिनी
स- क्षारा कटुकाम्ल- दुग्ध- सदृशी मध्वाज्य- तुल्या तथा |
व्याधीनां हरणं जरान्त- करणं शस्त्रागमोदीरणं
तस्य स्यादमरत्वमष्ट- गुणितं सिद्धाङ्गनाकर्षणम् || ५०||
मूर्ध्नः षोडश- पत्र- पद्म- गलितं प्राणादवाप्तं हठाद्
ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् |
उत्कल्लोल- कला- जलं च विमलं धारामयं यः पिबेन्
निर्व्याधिः स मृणाल- कोमल- वपुर्योगी चिरं जीवति || ५१||
यत्प्रालेयं प्रहित- सुषिरं मेरु- मूर्धान्तर- स्थं
तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्- मुखं निम्नगानाम् |
चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां
तद्बध्नीयात्सुकरणमधो नान्यथा काय- सिद्धिः || ५२||
सुषिरं ज्ञान- जनकं पञ्च- स्रोतः- समन्वितम् |
तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने || ५३||
एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी |
एको देवो निरालम्ब एकावस्था मनोन्मनी || ५४||
अथ उड्डीयान- बन्धः
बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः |
तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः || ५५||
उड्डीनं कुरुते यस्मादविश्रान्तं महा- खगः |
उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते || ५६||
उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् |
उड्डीयानो ह्यसौ बन्धो मृत्यु- मातङ्ग- केसरी || ५७||
उड्डीयानं तु सहजं गुरुणा कथितं सदा |
अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते || ५८||
नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः |
षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः || ५९||
सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः |
उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् || ६०||
अथ मूल- बन्धः
पार्ष्णि- भागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् |
अपानमूर्ध्वमाकृष्य मूल- बन्धोऽभिधीयते || ६१||
अधो- गतिमपानं वा ऊर्ध्वगं कुरुते बलात् |
आकुञ्चनेन तं प्राहुर्मूल- बन्धं हि योगिनः || ६२||
गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात् |
वारं वारं यथा चोर्ध्वं समायाति समीरणः || ६३||
प्राणापानौ नाद- बिन्दू मूल- बन्धेन चैकताम् |
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः || ६४||
अपान- प्राणयोरैक्यं क्षयो मूत्र- पुरीषयोः |
युवा भवति वृद्धोऽपि सततं मूल- बन्धनात् || ६५||
अपान ऊर्ध्वगे जाते प्रयाते वह्नि- मण्डलम् |
तदानल- शिखा दीर्घा जायते वायुनाहता || ६६||
ततो यातो वह्न्य्- अपानौ प्राणमुष्ण- स्वरूपकम् |
तेनात्यन्त- प्रदीप्तस्तु ज्वलनो देहजस्तथा || ६७||
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते |
दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् || ६८||
बिलं प्रविष्टेव ततो ब्रह्म- नाड्यं तरं व्रजेत् |
तस्मान्नित्यं मूल- बन्धः कर्तव्यो योगिभिः सदा || ६९||
अथ जलन्धर- बन्धः
कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् |
बन्धो जालन्धराख्योऽयं जरा- मृत्यु- विनाशकः || ७०||
बध्नाति हि सिराजालमधो- गामि नभो- जलम् |
ततो जालन्धरो बन्धः कण्ठ- दुःखौघ- नाशनः || ७१||
जालन्धरे कृते बन्धे कण्ठ- संकोच- लक्षणे |
न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति || ७२||
कण्ठ- संकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् |
मध्य- चक्रमिदं ज्ञेयं षोडशाधार- बन्धनम् || ७३||
मूल- स्थानं समाकुञ्च्य उड्डियानं तु कारयेत् |
इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि || ७४||
अनेनैव विधानेन प्रयाति पवनो लयम् |
ततो न जायते मृत्युर्जरा- रोगादिकं तथा || ७५||
बन्ध- त्रयमिदं श्रेष्ठं महा- सिद्धैश्च सेवितम् |
सर्वेषां हठ- तन्त्राणां साधनं योगिनो विदुः || ७६||
यत्किंचित्स्रवते चन्द्रादमृतं दिव्य- रूपिणः |
तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः || ७७||
अथ विपरीत- करणी मुद्रा
तत्रास्ति करणं दिव्यं सूर्यस्य मुख- वञ्चनम् |
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ- कोटिभिः || ७८||
ऊर्ध्व- नाभेरधस्तालोरूर्ध्वं भानुरधः शशी |
करणी विपरीताखा गुरु- वाक्येन लभ्यते || ७९||
नित्यमभ्यास- युक्तस्य जठराग्नि- विवर्धनी |
आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च || ८०||
अल्पाहारो यदि भवेदग्निर्दहति तत्- क्षणात् |
अधः- शिराश्चोर्ध्व- पादः क्षणं स्यात्प्रथमे दिने || ८१||
क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने |
वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते |
याम- मात्रं तु यो नित्यमभ्यसेत्स तु कालजित् || ८२||
अथ वज्रोली
स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना |
वज्रोलीं यो विजानाति स योगी सिद्धि- भाजनम् || ८३||
तत्र वस्तु- द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् |
क्षीरं चैकं द्वितीयं तु नारी च वश- वर्तिनी || ८४||
मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत् |
पुरुषोऽप्यथवा नारी वज्रोली- सिद्धिमाप्नुयात् || ८५||
यत्नतः शस्त- नालेन फूत्कारं वज्र- कन्दरे |
शनैः शनैः प्रकुर्वीत वायु- संचार- कारणात् || ८६||
नारी- भगे पदद्- बिन्दुमभ्यासेनोर्ध्वमाहरेत् |
चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत् || ८७||
एवं संरक्षयेद्बिन्दुं जयति योगवित् |
मरणं बिन्दु- पातेन जीवनं बिन्दु- धारणात् || ८८||
सुगन्धो योगिनो देहे जायते बिन्दु- धारणात् |
यावद्बिन्दुः स्थिरो देहे तावत्काल- भयं कुतः || ८९||
चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् |
तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः || ९०||
ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् |
मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यास- योग- वित् || ९१||
अथ सहजोलिः
सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः |
जले सुभस्म निक्षिप्य दग्ध- गोमय- सम्भवम् || ९२||
वज्रोली- मैथुनादूर्ध्वं स्त्री- पुंसोः स्वाङ्ग- लेपनम् |
आसीनयोः सुखेनैव मुक्त- व्यापारयोः क्षणात् || ९३||
सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा |
अयं शुभकरो योगो भोग- युक्तोऽपि मुक्तिदः || ९४||
अयं योगः पुण्यवतां धीराणां तत्त्व- दर्शिनाम् |
निर्मत्सराणां वै सिध्येन्न तु मत्सर- शालिनाम् || ९५||
अथ अमरोली
पित्तोल्बणत्वात्प्रथमाम्बु- धारां
विहाय निःसारतयान्त्यधाराम् |
निषेव्यते शीतल- मध्य- धारा
कापालिके खण्डमतेऽमरोली || ९६||
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने |
वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते || ९७||
अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् |
धारयेदुत्तमाङ्गेषु दिव्य- दृष्टिः प्रजायते || ९८||
पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यास- पाटवात् |
यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी || ९९||
तस्याः किंचिद्रजो नाशं न गच्छति न संशयः |
तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति || १००||
स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ |
वज्रोल्य्- अभ्यास- योगेन सर्व- सिद्धिं प्रयच्छतः || १०१||
रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी |
अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् || १०२||
देह- सिद्धिं च लभते वज्रोल्य्- अभ्यास- योगतः |
अयं पुण्य- करो योगो भोगे भुक्तेऽपि मुक्तिदः || १०३||
अथ शक्ति- चालनम्
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी |
कुण्डल्यरुन्धती चैते शब्दाः पर्याय- वाचकाः || १०४||
उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् |
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् || १०५||
येन मार्गेण गन्तव्यं ब्रह्म- स्थानं निरामयम् |
मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी || १०६||
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् |
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् || १०७||
कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता |
सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः || १०८||
गङ्गा- यमुनयोर्मध्ये बाल- रण्डां तपस्विनीम् |
बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् || १०९||
इडा भगवती गङ्गा पिङ्गला यमुना नदी |
इडा- पिङ्गलयोर्मध्ये बालरण्डा च कुण्डली || ११०||
पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम् |
निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात् || १११||
अवस्थिता चैव फणावती सा
प्रातश्च सायं प्रहरार्ध- मात्रम् |
प्रपूर्य सूर्यात्परिधान- युक्त्या
प्रगृह्य नित्यं परिचालनीया || ११२||
ऊर्ध्वं वितस्ति- मात्रं तु विस्तारं चतुरङ्गुलम् |
मृदुलं धवलं प्रोक्तं वेष्टिताम्बर- लक्षणम् || ११३||
सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् |
गुल्फ- देश- समीपे च कन्दं तत्र प्रपीडयेत् || ११४||
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् |
कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् || ११५||
भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः |
मृत्यु- वक्त्र- गतस्यापि तस्य मृत्यु- भयं कुतः || ११६||
मुहूर्त- द्वय- पर्यन्तं निर्भयं चालनादसौ |
ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता || ११७||
तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् |
जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः || ११८||
तस्मात्संचालयेन्नित्यं सुख- सुप्तामरुन्धतीम् |
तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते || ११९||
येन संचालिता शक्तिः स योगी सिद्धि- भाजनम् |
किमत्र बहुनोक्तेन कालं जयति लीलया || १२०||
ब्रह्मचर्य- रतस्यैव नित्यं हित- मिताशिनः |
मण्डलाद्दृश्यते सिद्धिः कुण्डल्य्- अभ्यास- योगिनः || १२१||
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः |
एवमभ्यस्यतो नित्यं यमिनो यम- भीः कुतः || १२२||
द्वा- सप्तति- सहस्राणां नाडीनां मल- शोधने |
कुतः प्रक्षालनोपायः कुण्डल्य्- अभ्यसनादृते || १२३||
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् |
आसन- प्राण- संयाम- मुद्राभिः सरला भवेत् || १२४||
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना |
रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति || १२५||
राज- योगं विना पृथ्वी राज- योगं विना निशा |
राज- योगं विना मुद्रा विचित्रापि न शोभते || १२६||
मारुतस्य विधिं सर्वं मनो- युक्तं समभ्यसेत् |
इतरत्र न कर्तव्या मनो- वृत्तिर्मनीषिणा || १२७||
इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना |
एकैका तासु यमिनां महा- सिद्धि- प्रदायिनी || १२८||
उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् |
स एव श्री- गुरुः स्वामी साक्षादीश्वर एव सः || १२९||
तस्य वाक्य- परो भूत्वा मुद्राभ्यासे समाहितः |
अणिमादि- गुणैः सार्धं लभते काल- वञ्चनम् || १३०||
इति हठ- प्रदीपिकायां तृतीयोपदेशः |
|| ४|| चतुर्थोपदेशः
नमः शिवाय गुरवे नाद- बिन्दु- कलात्मने |
निरञ्जन- पदं याति नित्यं तत्र परायणः || १||
अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम् |
मृत्युघ्नं च सुखोपायं ब्रह्मानन्द- करं परम् || २||
राज- योगः समाधिश्च उन्मनी च मनोन्मनी |
अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् || ३||
अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् |
जीवन्मुक्तिश्च सहजा तुर्या चेत्येक- वाचकाः || ४||
सलिले सैन्धवं यद्वत्साम्यं भजति योगतः |
तथात्म- मनसोरैक्यं समाधिरभिधीयते || ५||
यदा संक्षीयते प्राणो मानसं च प्रलीयते |
तदा समरसत्वं च समाधिरभिधीयते || ६||
तत्- समं च द्वयोरैक्यं जीवात्म- परमात्मनोः |
प्रनष्ट- सर्व- सङ्कल्पः समाधिः सोऽभिधीयते || ७||
राज- योगस्य माहात्म्यं को वा जानाति तत्त्वतः |
ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरु- वाक्येन लभ्यते || ८||
दुर्लभो विषय- त्यागो दुर्लभं तत्त्व- दर्शनम् |
दुर्लभा सहजावस्था सद्- गुरोः करुणां विना || ९||
विविधैरासनैः कुभैर्विचित्रैः करणैरपि |
प्रबुद्धायां महा- शक्तौ प्राणः शून्ये प्रलीयते || १०||
उत्पन्न- शक्ति- बोधस्य त्यक्त- निःशेष- कर्मणः |
योगिनः सहजावस्था स्वयमेव प्रजायते || ११||
सुषुम्णा- वाहिनि प्राणे शून्ये विशति मानसे |
तदा सर्वाणि कर्माणि निर्मूलयति योगवित् || १२||
अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः |
पतितं वदने यस्य जगदेतच्चराचरम् || १३||
चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे |
तदामरोली वज्रोली सहजोली प्रजायते || १४||
ज्ञानं कुतो मनसि सम्भवतीह तावत्
प्राणोऽपि जीवति मनो म्रियते न यावत् |
प्राणो मनो द्वयमिदं विलयं नयेद्यो
मोक्षं स गच्छति नरो न कथंचिदन्यः || १५||
ज्ञात्वा सुषुम्णासद्- भेदं कृत्वा वायुं च मध्यगम् |
स्थित्वा सदैव सुस्थाने ब्रह्म- रन्ध्रे निरोधयेत् || १६||
सूर्य- चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् |
भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् || १७||
द्वा- सप्तति- सहस्राणि नाडी- द्वाराणि पञ्जरे |
सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः || १८||
वायुः परिचितो यस्मादग्निना सह कुण्डलीम् |
बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः || १९||
सुषुम्णा- वाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी |
अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् || २०||
पवनो बध्यते येन मनस्तेनैव बध्यते |
मनश्च बध्यते येन पवनस्तेन बध्यते || २१||
हेतु- द्वयं तु चित्तस्य वासना च समीरणः |
तयोर्विनष्ट एकस्मिन्तौ द्वावपि विनश्यतः || २२||
मनो यत्र विलीयेत पवनस्तत्र लीयते |
पवनो लीयते यत्र मनस्तत्र विलीयते || २३||
दुग्धाम्बुवत्संमिलितावुभौ तौ
तुल्य- क्रियौ मानस- मारुतौ हि |
यतो मरुत्तत्र मनः- प्रवृत्तिर्
यतो मनस्तत्र मरुत्- प्रवृत्तिः || २४||
तत्रैक- नाशादपरस्य नाश
एक- प्रवृत्तेरपर- प्रवृत्तिः |
अध्वस्तयोश्चेन्द्रिय- वर्ग- वृत्तिः
प्रध्वस्तयोर्मोक्ष- पदस्य सिद्धिः || २५||
रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः |
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले || २६||
मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम् |
बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति || २७||
मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् |
बिन्दु- स्थैर्यात्सदा सत्त्वं पिण्ड- स्थैर्यं प्रजायते || २८||
इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः |
मारुतस्य लयो नाथः स लयो नादमाश्रितः || २९||
सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे |
मनः- प्राण- लये कश्चिदानन्दः सम्प्रवर्तते || ३०||
प्रनष्ट- श्वास- निश्वासः प्रध्वस्त- विषय- ग्रहः |
निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् || ३१||
उच्छिन्न- सर्व- सङ्कल्पो निःशेषाशेष- चेष्टितः |
स्वावगम्यो लयः कोऽपि जायते वाग्- अगोचरः || ३२||
यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय- सनातनी |
सा शक्तिर्जीव- भूतानां द्वे अलक्ष्ये लयं गते || ३३||
लयो लय इति प्राहुः कीदृशं लय- लक्षणम् |
अपुनर्- वासनोत्थानाल्लयो विषय- विस्मृतिः || ३४||
वेद- शास्त्र- पुराणानि सामान्य- गणिका इव |
एकैव शाम्भवी मुद्रा गुप्ता कुल- वधूरिव || ३५||
अथ शाम्भवी
अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष- वर्जिता |
एषा सा शाम्भवी मुद्रा वेद- शास्त्रेषु गोपिता || ३६||
अन्तर्लक्ष्य- विलीन- चित्त- पवनो योगी यदा वर्तते
दृष्ट्या निश्चल- तारया बहिरधः पश्यन्नपश्यन्नपि |
मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः
शून्याशून्य- विलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम् || ३७||
श्री- शाम्भव्याश्च खेचर्या अवस्था- धाम- भेदतः |
भवेच्चित्त- लयानन्दः शून्ये चित्- सुख- रूपिणि || ३८||
तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ |
पूर्व- योगं मनो युञ्जन्नुन्मनी- कारकः क्षणात् || ३९||
केचिदागम- जालेन केचिन्निगम- सङ्कुलैः |
केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् || ४०||
अर्धोन्मीलित- लोचनः स्थिर- मना नासाग्र- दत्तेक्षणश्
चन्द्रार्कावपि लीनतामुपनयन्निस्पन्द- भावेन यः |
ज्योती- रूपमशेष- बीजमखिलं देदीप्यमानं परं
तत्त्वं तत्- पदमेति वस्तु परमं वाच्यं किमत्राधिकम् || ४१||
दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् |
सर्वदा पूजयेल्लिङ्गं दिवारात्रि- निरोधतः || ४२||
अथ खेचरी
सव्य- दक्षिण- नाडी- स्थो मध्ये चरति मारुतः |
तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः || ४३||
इडा- पिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् |
तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः || ४४||
सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः |
संस्थिता व्योम- चक्रे या सा मुद्रा नाम खेचरी || ४५||
सोमाद्यत्रोदिता धारा साक्षात्सा शिव- वल्लभा |
पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे || ४६||
पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् |
अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते || ४७||
भ्रुवोर्मध्ये शिव- स्थानं मनस्तत्र विलीयते |
ज्ञातव्यं तत्- पदं तुर्यं तत्र कालो न विद्यते || ४८||
अभ्यसेत्खेचरीं तावद्यावत्स्याद्योग- निद्रितः |
सम्प्राप्त- योग- निद्रस्य कालो नास्ति कदाचन || ४९||
निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् |
स- बाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम् || ५०||
बाह्य- वायुर्यथा लीनस्तथा मध्यो न संशयः |
स्व- स्थाने स्थिरतामेति पवनो मनसा सह || ५१||
एवमभ्यस्यतस्तस्य वायु- मार्गे दिवानिशम् |
अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते || ५२||
अमृतैः प्लावयेद्देहमापाद- तल- मस्तकम् |
सिद्ध्यत्येव महा- कायो महा- बल- पराक्रमः || ५३||
शक्ति- मध्ये मनः कृत्वा शक्तिं मानस- मध्यगाम् |
मनसा मन आलोक्य धारयेत्परमं पदम् || ५४||
ख- मध्ये कुरु चात्मानमात्म- मध्ये च खं कुरु |
सर्वं च ख- मयं कृत्वा न किंचिदपि चिन्तयेत् || ५५||
अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे |
अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे || ५६||
बाह्य- चिन्ता न कर्तव्या तथैवान्तर- चिन्तनम् |
सर्व- चिन्तां परित्यज्य न किंचिदपि चिन्तयेत् || ५७||
सङ्कल्प- मात्र- कलनैव जगत्समग्रं
सङ्कल्प- मात्र- कलनैव मनो- विलासः |
सङ्कल्प- मात्र- मतिमुत्सृज निर्विकल्पम्
आश्रित्य निश्चयमवाप्नुहि राम शान्तिम् || ५८||
कर्पूरमनले यद्वत्सैन्धवं सलिले यथा |
तथा सन्धीयमानं च मनस्तत्त्वे विलीयते || ५९||
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते |
ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः || ६०||
मनो- दृश्यमिदं सर्वं यत्किंचित्स- चराचरम् |
मनसो ह्युन्मनी- भावाद्द्वैतं नैवोलभ्यते || ६१||
ज्ञेय- वस्तु- परित्यागाद्विलयं याति मानसम् |
मनसो विलये जाते कैवल्यमवशिष्यते || ६२||
एवं नाना- विधोपायाः सम्यक्स्वानुभवान्विताः |
समाधि- मार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः || ६३||
सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र- जन्मने |
मनोन्मन्यै नमस्तुभ्यं महा- शक्त्यै चिद्- आत्मने || ६४||
अशक्य- तत्त्व- बोधानां मूढानामपि संमतम् |
प्रोक्तं गोरक्ष- नाथेन नादोपासनमुच्यते || ६५||
श्री- आदिनाथेन स- पाद- कोटि-
लय- प्रकाराः कथिता जयन्ति |
नादानुसन्धानकमेकमेव
मन्यामहे मुख्यतमं लयानाम् || ६६||
मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् |
शृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः || ६७||
श्रवण- पुट- नयन- युगल
घ्राण- मुखानां निरोधनं कार्यम् |
शुद्ध- सुषुम्णा- सरणौ
स्फुटममलः श्रूयते नादः || ६८||
आरम्भश्च घटश्चैव तथा परिचयोऽपि च |
निष्पत्तिः सर्व- योगेषु स्यादवस्था- चतुष्टयम् || ६९||
अथ आरम्भावस्था
ब्रह्म- ग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्य- सम्भवः |
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः || ७०||
दिव्य- देहश्च तेजस्वी दिव्य- गन्धस्त्वरोगवान् |
सम्पूर्ण- हृदयः शून्य आरम्भे योगवान्भवेत् || ७१||
अथ घटावस्था
द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः |
दृढासनो भवेद्योगी ज्ञानी देव- समस्तदा || ७२||
विष्णु- ग्रन्थेस्ततो भेदात्परमानन्द- सूचकः |
अतिशून्ये विमर्दश्च भेरी- शब्दस्तदा भवेत् || ७३||
अथ परिचयावस्था
तृतीयायां तु विज्ञेयो विहायो मर्दल- ध्वनिः |
महा- शून्यं तदा याति सर्व- सिद्धि- समाश्रयम् || ७४||
चित्तानन्दं तदा जित्वा सहजानन्द- सम्भवः |
दोष- दुःख- जरा- व्याधि- क्षुधा- निद्रा- विवर्जितः || ७५||
अथ निष्पत्त्य्- अवस्था
रुद्र- ग्रन्थिं यदा भित्त्वा शर्व- पीठ- गतोऽनिलः |
निष्पत्तौ वैणवः शब्दः क्वणद्- वीणा- क्वणो भवेत् || ७६||
एकीभूतं तदा चित्तं राज- योगाभिधानकम् |
सृष्टि- संहार- कर्तासौ योगीश्वर- समो भवेत् || ७७||
अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् |
लयोद्भवमिदं सौख्यं राज- योगादवाप्यते || ७८||
राज- योगमजानन्तः केवलं हठ- कर्मिणः |
एतानभ्यासिनो मन्ये प्रयास- फल- वर्जितान् || ७९||
उन्मन्य्- अवाप्तये शीघ्रं भ्रू- ध्यानं मम संमतम् |
राज- योग- पदं प्राप्तुं सुखोपायोऽल्प- चेतसाम् |
सद्यः प्रत्यय- सन्धायी जायते नादजो लयः || ८०||
नादानुसन्धान- समाधि- भाजां
योगीश्वराणां हृदि वर्धमानम् |
आनन्दमेकं वचसामगम्यं
जानाति तं श्री- गुरुनाथ एकः || ८१||
कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः |
तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिर- पदं व्रजेत् || ८२||
अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् |
पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् || ८३||
श्रूयते प्रथमाभ्यासे नादो नाना- विधो महान् |
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म- सूक्ष्मकः || ८४||
आदौ जलधि- जीमूत- भेरी- झर्झर- सम्भवाः |
मध्ये मर्दल- शङ्खोत्था घण्टा- काहलजास्तथा || ८५||
अन्ते तु किङ्किणी- वंश- वीणा- भ्रमर- निःस्वनाः |
इति नानाविधा नादाः श्रूयन्ते देह- मध्यगाः || ८६||
महति श्रूयमाणेऽपि मेघ- भेर्य्- आदिके ध्वनौ |
तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत् || ८७||
घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने |
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् || ८८||
यत्र कुत्रापि वा नादे लगति प्रथमं मनः |
तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते || ८९||
मकरन्दं पिबन्भृङ्गी गन्धं नापेक्षते यथा |
नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते || ९०||
मनो- मत्त- गजेन्द्रस्य विषयोद्यान- चारिणः |
समर्थोऽयं नियमने निनाद- निशिताङ्कुशः || ९१||
बद्धं तु नाद- बन्धेन मनः सन्त्यक्त- चापलम् |
प्रयाति सुतरां स्थैर्यं छिन्न- पक्षः खगो यथा || ९२||
सर्व- चिन्तां परित्यज्य सावधानेन चेतसा |
नाद एवानुसन्धेयो योग- साम्राज्यमिच्छता || ९३||
नादोऽन्तरङ्ग- सारङ्ग- बन्धने वागुरायते |
अन्तरङ्ग- कुरङ्गस्य वधे व्याधायतेऽपि च || ९४||
अन्तरङ्गस्य यमिनो वाजिनः परिघायते |
नादोपास्ति- रतो नित्यमवधार्या हि योगिना || ९५||
बद्धं विमुक्त- चाञ्चल्यं नाद- गन्धक- जारणात् |
मनः- पारदमाप्नोति निरालम्बाख्य- खेऽटनम् || ९६||
नाद- श्रवणतः क्षिप्रमन्तरङ्ग- भुजङ्गमम् |
विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति || ९७||
काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति |
नादे प्रवर्तितं चित्तं नादेन सह लीयते || ९८||
घण्टादिनाद- सक्त- स्तब्धान्तः- करण- हरिणस्य |
प्रहरणमपि सुकरं स्याच्छर- सन्धान- प्रवीणश्चेत् || ९९||
अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते |
ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः |
मनस्तत्र लयं याति तद्विष्णोः परमं पदम् || १००||
तावदाकाश- सङ्कल्पो यावच्छब्दः प्रवर्तते |
निःशब्दं तत्- परं ब्रह्म परमातेति गीयते || १०१||
यत्किंचिन्नाद- रूपेण श्रूयते शक्तिरेव सा |
यस्तत्त्वान्तो निराकारः स एव परमेश्वरः || १०२||
इति नादानुसन्धानम्
सर्वे हठ- लयोपाया राजयोगस्य सिद्धये |
राज- योग- समारूढः पुरुषः काल- वञ्चकः || १०३||
तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः |
उन्मनी कल्प- लतिका सद्य एव प्रवर्तते || १०४||
सदा नादानुसन्धानात्क्षीयन्ते पाप- संचयाः |
निरञ्जने विलीयेते निश्चितं चित्त- मारुतौ || १०५||
शङ्ख- दुन्धुभि- नादं च न शृणोति कदाचन |
काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् || १०६||
सर्वावस्था- विनिर्मुक्तः सर्व- चिन्ता- विवर्जितः |
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः || १०७||
खाद्यते न च कालेन बाध्यते न च कर्मणा |
साध्यते न स केनापि योगी युक्तः समाधिना || १०८||
न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् |
नात्मानं न परं वेत्ति योगी युक्तः समाधिना || १०९||
चित्तं न सुप्तं नोजाग्रत्स्मृति- विस्मृति- वर्जितम् |
न चास्तमेति नोदेति यस्यासौ मुक्त एव सः || ११०||
न विजानाति शीतोष्णं न दुःखं न सुखं तथा |
न मानं नोपमानं च योगी युक्तः समाधिना || १११||
स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते |
निःश्वासोच्छ्वास- हीनश्च निश्चितं मुक्त एव सः || ११२||
अवध्यः सर्व- शस्त्राणामशक्यः सर्व- देहिनाम् |
अग्राह्यो मन्त्र- यन्त्राणां योगी युक्तः समाधिना || ११३||
यावन्नैव प्रविशति चरन्मारुतो मध्य- मार्गे
यावद्विदुर्न भवति दृढः प्राण- वात- प्रबन्धात् |
यावद्ध्याने सहज- सदृशं जायते नैव तत्त्वं
तावज्ज्ञानं वदति तदिदं दम्भ- मिथ्या- प्रलापः || ११४||
इति हठ- योग- प्रदीपिकायां समाधि- लक्षणं नाम चतुर्थोपदेशः |
Input by Jan Brzezinski in Balaram encoding
Converted to itx encoding by Ulrich Stiehl
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com