.. जाबाल्युपनिषत् ..
जाबाल्युपनिषद्वेद्यपदतत्त्वस्वरूपकम् .
पारमैश्वर्यविभवं रामचन्द्रपदं भजे ..
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं
ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा
ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. अथ हैनं भगवन्तं जाबालिं पैप्पलादिः
पप्रच्छ भगवन्मे ब्रूहि परमतत्त्वरहस्यम् . किं
तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति .
स तं होवाच साधु पृष्टं सर्वं निवेदयामि
यथाज्ञातमिति . पुनः स तमुवाच कुतस्त्वया ज्ञातमिति .
पुनः स तमुवाच षडाननादिति . पुनः स तमुवाच
तेनाथ कुतो ज्ञातमिति . पुनः स तमुवाच तेनेशानादिति .
पुनः स तमुवाच कथं तस्मात्तेन ज्ञातमिति . पुनः स
तमुवाच तदु[पासनादिति . पुनः स तमुवाच भगवन्कृपया
मे सरहस्यं सर्वं निवेदयेति . स तेन पृष्टः सर्वं
निवेदयामास तत्त्वम् . पशुपतिरहङ्काराविष्टः
संसारी जीवः स एव पशुः . सर्वज्ञः पञ्चकृत्यसंपन्नः
सर्वेश्वर ईशः पशुपतिः . के पशव इति पुनः स तमुवाच जीवाः
पशव उक्ताः . तत्पतित्वात्पशुपतिः . स पुनस्तं होवाच कथं
जीवाः पशव इति . कथं तत्पतिरिति . स तमुवाच यथा तृणाशिनो
विवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः
सकलदुःखसहाः स्वस्वामिबध्यमाना गवादयः पशवः .
यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः . तज्ज्ञानं
केनोपायेन जायते . पुनः स तमुवाच विभूतिधारणादेव .
तत्प्रकारः कथमिति . कुत्रकुत्र धार्यम् . पुनः स तमुवाच
सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति
भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य जलेन
संसृज्य त्र्यायुपमिति शिरोललाटवक्षःस्कन्धेष्विति
तिसृभिस्त्र्यायुपैस्त्रियम्बकैस्तिस्रो रेखाः प्रकुर्वीत .
व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं
भवति . तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय . अथ
सनत्कुमारः प्रमाणं पृच्छति . त्रिपुण्ड्रधारणस्य
त्रिधः रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च .
यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः
स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो
देवतेति . यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः
सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो
माध्यन्दिनसवनं विष्णुर्देवो देवतेति . यास्य तृतीया रेखा
साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः
सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रं भस्मना
करोति . यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स
महापातकोपपातकेभ्यः पूतो भवति . स सर्वान्देवान्ध्यातो
भवति . स सर्वेषु तीर्थेषु स्नातो भवति . स सकलरुद्रमन्त्रजापी
भवति . न स पुनरावर्तते न स पुनरावर्तते .. इति . ॐ सत्यमित्युपनिषत् ..
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं
ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा
ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति श्रीजाबाल्युपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com