.. जटायुक्ऱितं रामस्तोत्रम् ..
जटायुरुवाच
अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् |
उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचन्द्रम् || १||
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् |
नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् || २||
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम् |
शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये || ३||
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम् |
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये || ४||
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम् |
भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये || ५||
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम् |
सुरवरदनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रपद्ये || ६||
परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् |
परहितनिरतात्मनां सुसेव्यं रघुवरमम्बुजलोचनं प्रपद्ये || ७||
स्मितरुचिरविकासिताननाब्जमतिसुलभं सुरराजनीलनीलम् |
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये || ८||
हरिकमलजशम्भुरूपभेदात्त्वमिह विभासि गुणत्रयानुवृत्तः |
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे || ९||
रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम् |
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये || १०||
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः |
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् || ११||
शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् |
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् || १२||
इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः ||
रघुनन्दनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम् || १३||
|| इति श्रीमदध्यात्मरामायणे अरण्यकाण्डेऽष्टमे
सर्गे जटायुकृतं श्रीरामस्तोत्र ||
Visit http://www.webdunia.com for additional texts with Hindi meanings.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com