.. जीवन्मुक्ति गीता ..
असतो मा सद्गमय |
तमसो मा ज्योतिर्गमय |
मृत्योर्मा अमृतंगमय ||
सर्वभूतान्तरस्थ्याय नित्यमुक्तचिदात्मने |
प्रत्यच्चैतन्यरूपाय मह्यमेव नमो नमः ||
सर्वभूतानर्वर्तिने नित्यमुक्तचिद्स्वरूपिणे सर्वसाक्षिणे मह्यमेव
स्वात्मन एव नमः | नम इति द्विरुक्तिः आदरार्थम् ||
जीवन्मुक्तिश् \footnoteमुक्तो - खच या मुक्तिः सा मुक्तिः पिण्डपातने |
या मुक्तिः पिण्डपातने सा मुक्तिः शुनिशूकरे \footnoteसूकरे - क|| १||
जीवन्मुक्तिरिति या मुक्तिरुच्यते सा यदि पिण्डपातन परा तर्हि
सा मुक्तिः सूकरादिष्वपि प्रसक्ता भवतीत्यर्थः |
पिण्डपातनं न जीवन्मुक्तिरिति भावः ||
जीवः शिवः सर्वमेव भूतेष्वेवं \footnoteभूते भूते - खव्यवस्थितः |
एवमेवाभिपश्यन् हि \footnoteएवमेव पश्यति यो - खजीवन्मुक्तः स उच्यते || २||
जीव इति यः सः सर्वभूतेष्वपि शिवत्वेनैव व्यवस्थितः शिव एव |
तज्ज्ञानी जीवन्मुक्त इत्यर्थः ||
एवं ब्रह्म जगत्सर्वमखिलं भासते रविः |
संस्थितं सर्वभूतानां जीवन्मुक्तः स उच्यते || ३||
यथा रविः सर्वं जगद्भासते एवं ब्रह्म सर्वभूतानामात्मत्वेन
संस्थितं सदखिलं भासते प्रकाश्यति | एवमेवान्हिपश्यन् इत्यनुवर्तते |
सः तादृशः ज्ञानी जीवन्मुक्त इत्युच्यते इत्यर्थः ||
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् |
आत्मज्ञानी तथैवैको जीवन्मुक्तः स उच्यते || ४||
जलचन्द्रवज्जले चन्द्रः यथानेकधा दृश्यते तथैव एकः आत्म |
उपाधिभेदेन इत्यध्याहारः. . . . एकधा बहुधा चैव दृश्यते | एवमात्मानं
यो जानाति सः आत्मज्ञानी जीवन्मुक्त इत्युच्यते ||
सर्वभूते स्थितं ब्रह्म भेदाभेदो न विद्यते |
एकमेवाभिपश्यंश्च \footnoteपश्यति - खजीवन्मुक्तः स उच्यते || ५||
ब्रह्म सर्वभूतस्थितम् | यत्र भेदोऽभेदः भेदाभेदो न विद्यते |
तदेकमेव | एवमभिपश्यंश्च यः स जीवन्मुक्त इत्युच्यते ||
तत्त्वं क्षेत्रं व्योमातीतमहं क्षेत्रज्ञ उच्यते |
अहं कर्ता च भोक्ता च \footnoteअहं कर्ता अहं भोक्ता - खजीवन्मुक्तः स उच्यते || ६||
तत्त्वस्वरूपमेवास्ति | क्षेत्रमाकाशातीतं, परमात्म क्षेत्रज्ञः |
कर्तृत्वं भोक्तृत्वं च तस्यैव | एवं यो विजानाति सः जीवन्मुक्त उच्यते ||
कर्मेन्द्रियपरित्यागी ध्यानवर्जितचेतसः \footnoteचेतसम् - ख|
अत्मज्ञानी तथैवेको जीवन्मुक्तः स उच्यते || ७||
कर्मेन्द्रियपरित्यागी स्वस्वव्यापाररहितानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि
चकुर्वन् तानि परित्यजतीत्यर्थः | तथ्हा चेतोऽपि विषयध्यानवर्जितं
करोत्येवमद्वयं जानाति यः सः जीवन्मुक्तः ||
तत्त्वं केवलं कर्म \footnoteकर्मो - खशोकमोहादिवर्जितम् |
शुभाशुभपरित्यागी जीवन्मुक्तः स उच्यते || ८||
ज्ञानिना यत्कर्म क्रियते तच्छोकमोहादिवर्जितम् | तच्च केवलं
शारीरपरिरक्षणायैव | एवं तेन शुभाशुभादिकं
परित्यक्तं भवति | स जीवन्मुक्त उच्यते ||
कर्मसर्वत्र आदिष्टं न जानामि च किंचन |
कर्म ब्रह्म विजानाति जीवन्मुक्तः स उच्यते || ९||
यः आदिष्टं विध्युक्तम् कर्म न जानाति कर्तृत्वारोपेण कर्मन
करोतीत्यर्थः | अत एव कर्म ब्रह्मस्वरूपमेवेति
विजानाति सः जीवन्मुक्तः ||
चिन्मयं व्यापितं सर्वमाकाशं जगदीश्वरम् |
सहितं \footnoteसंस्थितम् - खसर्वभूतानां जीवन्मुक्तः स उच्यते || १०||
यः जगदीश्वरं चित्स्वरूपमित्याकाशव्यापिनमिति सर्वभूतसहितमित्यपि
जानाति सः जीवन्मुक्त उच्यते ||
अनादिवर्ति भूतानां \footnoteअनाद्य व्यक्तभूतानां - खजीवः शिवो न हन्यते |
निर्वैरः सर्वभूतेषु \footnoteसर्वभूतानां - खजीवन्मुक्तः स उच्यते || ११||
सर्वेषु भूतेषु यः अनादिः जीवः सः शिव एव | अत एव सः न हन्यते |
अतः सर्वेषु भूतेषु निर्वैरो यः जीवन्मुक्त उच्यते ||
आत्मा गुरुस्त्वं विश्वं \footnoteगुरुस्त्वद्विश्वंच चिदाकाशो न लिप्यते |
गतागतं \footnoteयतागतः - खद्वयोर्नास्ति जीवन्मुक्तः स उच्यते || १२||
यः गुरुः आत्मा सः त्वं एव | स एव निर्लिप्तः चिदाकाशः | तद् एव
सर्वम् | अत एव तस्य गतागतं गतमागतमागतं गतं वा न विद्यते |
एवं यः आत्मानं सः जीवन्मुक्त इत्युच्यते ||
गर्भ \footnoteअन्तर् - खध्यानेन पश्यन्ति ज्ञानीनां मन उच्यते |
सोऽहं मनो विलीयन्ते जीवन्मुक्तः स उच्यते || १३||
गर्भध्यानेन अन्तर्ध्यानेन इत्यर्थः | एतादृशध्यानेन ज्ञानिनः यत्पश्यन्ति
तदेव ज्ञानिनां मन उच्यते | इदमेव सोऽहं मनः | एतादृशमनोविशिष्टाः
ज्ञानिनः | चिदाकाश इत्यनुवर्तते | तत्र विलीयन्ते | ते तत्र विलयं
यान्तीत्यर्थः | एवं स्थितस्य आत्मतत्त्वस्य ज्ञानीत्यनुवर्तते |
सः जीवन्मुक्त इत्युच्यते ||
ऊर्ध्वध्यानेन पश्यन्ति विज्ञानं मन उच्यते |
शून्यं लयं च विलयं जीवन्मुक्तः स उच्यते || १४||
ज्ञानिनः ऊर्ध्वध्यानेन समाधिना यत्पश्यन्ति तद्विज्ञानम् | तत्तेषां मन
उच्यते | तदेव शून्यं लयम् | तदेव विज्ञानम् | तथात्मज्ञान्यात्मानं जानाति
यः सः जीवन्मुक्त उच्यते ||
अभ्यासे \footnoteआभाषे - खरमते नित्यं मनो ध्यानलयं गतम् |
बन्धमोक्षद्वयं नास्ति जीवन्मुक्तः स उच्यते || १५||
यस्य ज्ञानिनः मनः नित्यमभ्यासे श्रवणमनननिदिध्यासनाख्यतपसि
रमते क्रीडति | यस्य मनः ध्यानलयं ध्ह्याने लयं गतं; यस्य
बन्धमोक्षद्वन्द्वं नास्ति सः जिवन्मुक्त उच्यते ||
एककी रमते नित्यं स्वभावगुणवर्जितम् |
ब्रह्मज्ञानरसास्वादी \footnoteरसास्वादो - खजीवन्मुक्तः स उच्यते || १६||
यस्य ज्ञानिनः मनः इत्यनुवर्तते | नित्यं स्वभावगुणवर्जितं
प्रकृति गुणातीतं, सः ज्ञानी एकाकी रमते आत्मन्येव क्रीडति |
ब्रह्मज्ञानरसास्वादी ब्रह्माख्यज्ञानरसास्वादी सः जीवन्मुक्त इत्युच्यते ||
हृदि ध्यानेन पश्यन्ति प्रकाशं क्रियते मनः |
सोऽहं हंसेति पश्यन्ति जीवन्मुक्तः स उच्यते || १७||
ये ज्ञानिनः हृदि ध्यानेन प्रकाशं पश्यन्ति तैः मनः क्रियते तेषां
मनोऽभिव्यक्तं भवतीति यावत् | तदा ते सोऽहं हंसः इति पश्यन्ति |
एवमात्मतत्त्वं पश्यन् जीवन्मुक्त इत्युच्यते ||
शिवशक्तिसमात्मानं पिण्डब्रह्माण्डम् \footnoteशिवशक्तिर्ममात्मानो पिण्डनि ब्रह्माण्डम् - खएव च |
चिदाकाशं हृदं मोहं \footnoteकृतं सोऽहं - खजीवन्मुक्तः स उच्यते || १८||
ज्ञानिनः शिवशक्तिसमात्मानं शिवशक्तिसमः यः आत्मा तमात्मानं
महात्मानम् | पिण्डः शारीरम् | तेन सहितं ब्रह्माण्डं हृदं हृत्स्थं
बन्धकं मोहं च चिदाकाशमिति चैतन्यमेव पश्यन्ति, य
एवमात्मतत्त्वज्ञानी सः जीवन्मुक्त इत्युच्यते ||
जाग्रत्स्वप्नसुषुप्तिं च तुरीयावस्थितं सदा |
सोऽहं मनो विलीयेत \footnoteविलीयते - खजीवन्मुक्तः स उच्यते || १९||
यस्य ज्ञानिनः सोऽहं मनः सोऽहमिति ध्यानैकापरं मनः
जाग्रत्स्वप्नसुषुप्तिमतीत्य सदा तुरीयावस्थितं सच्चिदाकाशपरमात्मनि
विलीयेत सः ज्ञानी जीवन्मुक्त इत्युच्यते ||
सोऽहं स्थितं ज्ञानमिदं सूत्रेषु मणिवत्परम् \footnoteज्योतिरूपं निर्मलं - ख सूत्रमभित उत्तरम् - ग|
सोऽहं ब्रह्म निराकारं जीवन्मुक्तः स उच्यते || २०||
इदं सोऽहं स्थितं ज्ञानं सूत्रेषु मणिवच्चिदाकाशे स्थितमित्यन्वयः |
सोऽहं परं ब्रह्म निराकारम् | एवमात्मज्ञानी यः सः
जीवन्मुक्त इत्युच्यते ||
मन एव मनुष्याणां भेदाभेदस्य कारणम् |
विकल्पनैव संकल्पं \footnoteसंकल्पो - खजीवन्मुक्तः स उच्यते || २१||
विकल्पना इदमित्थमेवेत्यादि तत्त्वविरुद्धा कल्पना स एव संकल्प इति
प्रसिद्धः | तदेव मनोरूपं सन्मनुष्यानामहं ममेत्यादि
भेदाभेदव्यवहारकारणम् | एवं यो जानाति ज्ञानफलं च
संकल्पराहित्यं तथा च यः सर्वथा संकल्परहितः |
सः जीवन्मुक्त इत्युच्यते ||
मन एव विदुः प्राज्ञाः सिद्धसिद्धान्त \footnoteविदुःप्राज्ञासिद्धसिद्धान्त - खएव च |
यदा \footnoteसदा - कदृढं तदा मोक्षो \footnoteमोक्ष - खजीवन्मुक्तः स उच्यते || २२||
यत्प्राज्ञाः ज्ञानिनः विदुः किमिति | यदा मनः सदा दृढं भवति तदैव
मोक्ष इति | स एव च सिद्धसिद्धान्तः | य एवं सिद्धान्तं
वेद सः जीवन्मुक्त उच्यते ||
योगाभ्यासी मनः श्रेष्ठोऽन्तस्त्यागी बहिर्जडः |
अन्तस्त्यागी बहिस्त्यागी जीवन्मुक्तः स उच्यते || २३||
यो यो योगाभ्यासी योगमभ्यसति स सो मनः श्रेष्ठः मनसा श्रेष्ठः |
एवं विधोऽयमन्तस्त्यागी अन्तस्थं सर्वमपि मायासंभूतं
त्यजतीत्यन्तस्त्यागी | अत एव सः बहिः जडवदाचरति | एवं च
सोऽन्तस्त्यागी बहिस्त्यागी च | स एव जीवन्मुक्त इत्युच्यते ||
इति वेदान्तकेसरिणा श्रीदत्तात्रेय विरचिता जीवन्मुक्तगीता समाप्ता ||
इति श्रीजयचामराजेन्द्रविरचिता जीवन्मुक्तगीताव्याख्या समाप्ता ||
\Large Encoded by Sovarel Vlad svlad1972@rediffmail.com
There are three sources used for the text.
Variation in them is marked in the footnote:
क-- which seems to be the oldest version, along with a sanskrit
commentary by Mysore Jayacamarajendra (see the colofon);
ख-- Satcakra, collection of gitas, bengali script, with some
different readings and reduplication of some consonants,
ग-- a edition in Bengali from Vidyaratna by Kaliprasana Bhattacarya
घ-- collection of gitas, bengali script.
This text is part of a volume of ``Bibliotheca Indica", Romanian
review, dedicated to Rishi Dattatreya as sanskrit source for
``Works of Dattatreya" foreword, introduction and translation
(from Sanskrit to Romanian) by Vlad Sovarel, book published
by Herald Publishing House, Bucharest, Romania.
The ``sanskrit source" contains:
- Avadhuta Upanishad, attributed to Dattatreya; encoded by Vlad Sovarel
- Avadhuta Gita, attributed to Dattatreya, known also as Datta Gita;
encoded by Vlad Sovarel
- Darshana Upanishad, attributed to Dattatreya; encoded by Vlad Sovarel
- Dattatreya Dhyana
- Dattatreya Stotra, attributed to Narada, from Narada Purana
- Dattatreya Tantra, attributed to Dattatreya;
- Dattatreya Upanishad, attributed to Dattatreya;
- Jivanmukti Gita, attributed to Dattatreya, along with a sanskrit
commentary; encoded by Vlad Sovarel
- Tripura Rahasya, attributed to Haritayana;
- Yoga Shastra, attributed to Dattatreya; encoded by Vlad Sovarel
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com