||केनोपनिषत् ||ः२>
||अथ केनोपनिषत् ||
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि |
सर्वं ब्रह्मौपनिषदं
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु |
तदात्मनि निरते य
उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु |
ॐ शान्तिः शान्तिः शान्तिः ||
ॐ केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः |
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति ||१||
श्रोत्रस्य श्रोत्रं मनसो मनो यद्
वाचो ह वाचं स उ प्राणस्य प्राणः |
चक्षुषश्चक्षुरतिमुच्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ||२||
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः |
न विद्मो न विजानीमो यथैतदनुशिष्यात् ||३||
अन्यदेव तद्विदितादथो अविदितादधि |
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ||४||
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते |
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ||५||
यन्मनसा न मनुते येनाहुर्मनो मतम् |
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ||६||
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति |
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ||७||
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् |
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ||८||
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते |
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ||९||
||इति केनोपनिषदि प्रथमः खण्डः ||
यदि मन्यसे सुवेदेति दहरमेवापि
नूनं त्वं वेत्थ ब्रह्मणो रूपम् |
यदस्य त्वं यदस्य देवेष्वथ नु
मीमाँस्येमेव ते मन्ये विदितम् ||१||
नाहं मन्ये सुवेदेति नो न वेदेति वेद च |
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ||२||
यस्यामतं तस्य मतं मतं यस्य न वेद सः |
अविज्ञातं विजानतां विज्ञातमविजानताम् ||३||
प्रतिबोधविदितं मतममृतत्वं हि विन्दते |
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ||४||
इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः |
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ||५||
||इति केनोपनिषदि द्वितीयः खण्डः ||
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्त ||१||
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति |
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत
किमिदं यक्षमिति ||२||
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि
किमिदं यक्षमिति तथेति ||३||
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ||४||
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वं
दहेयं यदिदं पृथिव्यामिति ||५||
तस्मै तृणं निदधावेतद्दहेति |
तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव
निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ||६||
अथ वायुमब्रुवन्वायवेतद्विजानीहि
किमेतद्यक्षमिति तथेति ||७||
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ||८||
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ
सर्वमाददीय यदिदं पृथिव्यामिति ||९||
तस्मै तृणं निदधावेतदादत्स्वेति
तदुपप्रेयाय सर्वजवेन तन्न शशाकादतुं स तत एव
निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ||१०||
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति
तदभ्यद्रवत्तस्मात्तिरोदधे ||११||
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
हैमवतीं ताँहोवाच किमेतद्यक्षमिति ||१२||
||इति केनोपनिषदि तृतीयः खण्डः ||
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति
ततो हैव विदाञ्चकार ब्रह्मेति ||१||
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते
ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ||२||
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स
ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ||३||
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३
Extra `A'kAr is used in the sense of comparison
इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ||४||
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन
चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ||५||
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि
हैनँ सर्वाणि भूतानि संवाञ्छन्ति ||६||
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त
उपनिषदमब्रूमेति ||७||
तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि
सत्यमायतनम् ||८||
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे
लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ||९||
||इति केनोपनिषदि चतुर्थः खण्डः ||
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि |
सर्वं ब्रह्मौपनिषदं
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु |
तदात्मनि निरते य
उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु |
ॐ शान्तिः शान्तिः शान्तिः ||
||इति केनोपनिषत् ||
%@@1
% File name : kena.itx
%--------------------------------------------
% Text title : kenopaniShad
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by : NA
% Proofread by : NA
%
% Translation by :
% Latest update : April 29, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .