.. मधुराष्टकं ..
.. मधुराष्टक् ..
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् .. १..
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् .. २..
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् .. ३..
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् .. ४..
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् .. ५..
गुञ्जा मधुरा बाला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् .. ६..
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् .. ७..
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् .. ८..
.. इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com