.. महामायाष्टकम् ..
.. ( पैङ्गनाडु) गणपतिशास्त्रिकृतम् ..
सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतले
यामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा .
भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौ
देवी स्फोटविपाटनैकचतुरा माता महामायिका .. १ ..
मातेत्याह्वय एव जल्पति महद् वात्सल्यमस्मासु ते
कारुण्ये तव शीतलेति यदिदं नामैव साक्षीयते .
इत्थं वत्सलतादयानिधिरिति ख्याता त्वमस्मानिमान्
मातः कातरतां निर्वाय नितरामानन्दितानातनु .. २ ..
प्रत्यक्षेतरवैभवैः किमितरैर्देवव्रजैस्तादृशैः
निन्दायामपि च स्तुतावपि फलं किंचिन्न ये तन्वते .
या निन्दास्तवयोः फलं भगवती दत्सेऽनुरूपं क्षणान्
नूनं तादृशवैभवा विजयसे देवि त्वमेका भुवि .. ३ ..
वृत्तान्तं विविधप्रकारमयि ते जल्पन्ति लोके जनाः
तत्त्वं नोपलभे तथैव न विधिं जाने त्वदाराधने .
तस्मादम्ब कथं पुनः कलयितुं शक्तास्मि ते पूजनं
नूनं वच्मि दयानिधेऽवतु जडानस्मान् भवत्यादरात् .. ४ ..
रोदंरोदमुदीर्णबाष्पलहरीक्लिन्नानने ते शिशा-
वस्मिन् तप्यति किंचिदत्र करुणादृष्टिं विधत्से न चेत् .
पातुं स्फोटगदात् पटुत्वमिव ते कस्यास्ति मातर्वद
क्कायं गच्छतु कस्य पश्यतु मुखं का वा गतिर्लभ्यताम् .. ५ ..
धर्म्यानुच्चरतां पथः कलयतां दोषांस्तथा चात्मनः
स्वैरं निन्दनमातनोतु सततं द्वेष्येऽपथे तिष्ठतु .
एतावत्यपि वत्सके किल शुचं याते मनाक् तत्क्षणं
तत्त्राणे जननी प्रयास्यति हि तन्मातस्त्वमस्मानव .. ६ ..
आबालस्थविरं प्रसिद्धमयि ते मातेति यन्नाम तद्
गोप्तुं नैव हि शक्यमम्ब तदसौ तादृग्विधा त्वं यदि .
अस्मिन् खिद्यति वत्सके न तनुषे मातुर्गुणं चेत्तदा
नूनं स्यादपवादपात्रमयि तन्मातस्त्वमस्मानव .. ७ ..
मुक्ताहारमनोहरद्युतियुतां मूर्तिं नरास्तावकीं
ये ध्यायन्ति मृणालतन्तुसदृशीं नाभीहृदोरन्तरे .
ते घोरज्वरभारजातविषमस्फोटस्फुटद्दुःसह-
क्लेदोद्यत्कटुपूतिगन्धमयि नो जानन्त्यमी जात्वपि .. ८ ..
कारुण्याम्बुधिशीतलापदपयोजातद्वयीभावना-
जातस्फीतहृदम्बुजामितसुधानिर्यासरूपामिमाम् .
ये मर्त्या स्तुतिमादराद् गणपतेर्वक्त्राम्बुजान्निःसृतां
विश्वासेन पठन्ति ते न दधते स्फोटव्यथां जातुचित् .. ९ ..
इति श्रीमहामायाष्टकं संपूर्णम्
From: Sridhar Seshagiri seshagir@egr.msu.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com