.. मन्त्रपुष्पांजलि ..
ॐ योऽपां पुष्पं वेद . पुष्पवान् प्रजावान् पशुमान् भवति .
चंद्र मा वा अपां पुष्पम् . पुष्पवान् प्रजावान् पशुमान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. १..
अग्निर्वा अपामायतनम् . आयतनवान् भवति .
योऽग्नेरायतनं वेद . आयतनवान् भवति .
आपो वा अग्नेरायतनम् . आयतनवान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. २..
वायुर्वा अपामायतनम् . आयतनवान् भवति .
यो वायोरायतनं वेद . आयतनवान् भवति .
आपो वै वायोरायतनम् . आयतनवान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. ३..
असौ वै तपन्नपामायतनम् . आयतनवान् भवति .
योऽमुष्य तपत आयतनं वेद . आयतनवान् भवति .
आपो वाऽमुष्य तपतपमयतनम् . आयतनवान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. ४..
चंद्रमा वा अपामायतनम् . आयतनवान् भवति .
यश्चंद्रमस आयतनं वेद . आयतनवान् भवति .
आपो वै चंद्रमस आयतनम् . आयतनवान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. ५..
नक्षत्राणि वा अपामायतनम् . आयतनवान् भवति .
यो नक्षत्राणामायतनं वेद . आयतनवान् भवति .
आपो वै नक्षत्राणामायतनम् . आयतनवान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. ६..
पर्जन्यो वा अपामायतनम् . आयतनवान् भवति .
यः पर्जन्यस्यायतनं वेद . आयतनवान् भवति .
आपो वै पर्जन्यस्यायतनम् . आयतनवान् भवति .
य एवं वेद . योऽपामायतनं वेद . आयतनवान् भवति .. ७..
संवत्सरो वा अपामायतनम् . आयतनवान् भवति .
यस्संवत्सरस्यायतनं वेद . आयतनवान् भवति .
आपो वै संवत्सरस्यायतनम् . आयतनवान् भवति .
य एवं वेद . योऽप्सुनावं प्रतिष्ठितां वेद . प्रत्येव तिष्ठति .. ८..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com