.. मन्त्रिकोपनिषत् ..
स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् .
मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् .
त्रिवर्त्मानं तेजसोहं सर्वतःपश्यन्न पश्यति .. १..
भूतसंमोहने काले भिन्ने तमसि वैखरे .
अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे .. २..
अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः .
विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् .. ३..
ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः .
सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् .. ४..
गौरनाद्यन्तवती सा जनित्री भूतभाविनी .
सितासिता च रक्ता च सर्वकामदुधा विभोः .. ५..
पिबन्त्येनामविषयामविज्ञातां कुमारकाः .
एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः .. ६..
ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः .
सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वमिः .. ७..
पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम् .
उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः .. ८..
शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः .
रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते .. ९..
मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् .
पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः .. १०..
सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा .
अनड्वान्रोहितोच्छिष्टः पश्यन्तो बहुविस्तरम् .. ११..
कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः .
उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा .. १२..
प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च .
स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः .. १३..
तं षड्विंशक इत्येते सप्तविंशं तथापरे .
पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदुः .. १४..
चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च .
अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा .. १५..
ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः .
तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः .. १६..
यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् .
तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा .. १७..
यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः .
पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव .. १८..
क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः .
एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः .. १९..
ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा .
अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः ..
लीनाश्चाव्यक्तशालिन इत्युपनिषत् ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति मन्त्रिकोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com