||मनुस्मृति ||
\separate
\separate
अध्याय १
\ENM1.01a/ मनुमेकाग्रमासीनमभिगम्य महर्षयः |
\ENM1.01c/ प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ||\BC. \SC||
\ENM1.02a/ भगवन् सर्ववर्णानां यथावदनुपूर्वशः |
\ENM1.02c/ अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ||\BC. \SC||
\ENM1.03a/ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः |
\ENM1.03c/ अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ||\BC. \SC||
\ENM1.04a/ स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः |
\ENM1.04c/ प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ||\BC. \SC||
\ENM1.05a/ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् |
\ENM1.05c/ अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ||\BC. \SC||
\ENM1.06a/ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् |
\ENM1.06c/ महाभूतादि वृत्तोजाः प्रादुरासीत् तमोनुदः ||\BC. \SC||
\ENM1.07a/ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः |
\ENM1.07c/ सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ||\BC. \SC|||%[M. sa eSha]
\ENM1.08a/ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः |
\ENM1.08c/ अप एव ससर्जादौ तासु वीर्यमवासृजत् ||\BC. \SC||
\ENM1.09a/ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् |
\ENM1.09c/ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ||\BC. \SC||
\ENM1.10a/ आपो नारा इति प्रोक्ता आपो वै नरसूनवः |
\ENM1.10c/ ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ||\BC. \SC||
\ENM1.11a/ यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् |
\ENM1.11c/ तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ||\BC. \SC||
\ENM1.12a/ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् |
\ENM1.12c/ स्वयमेवात्मनो ध्यानात् तदण्डमकरोद् द्विधा ||\BC. \SC||
\ENM1.13a/ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे |
\ENM1.13c/ मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ||\BC. \SC||
\ENM1.14a/ उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् |
\ENM1.14c/ मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ||\BC. \SC||%[M. aha~NkAram]
\ENM1.15a/ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च |
\ENM1.15c/ विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ||\BC. \SC||
\ENM1.16a/ तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् |
\ENM1.16c/ संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ||\BC. \SC||%[M. sanniveshya]
\ENM1.17a/ यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् |
\ENM1.17c/ तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ||\BC. \SC||
\ENM1.18a/ तदाविशन्ति भूतानि महान्ति सह कर्मभिः |
\ENM1.18c/ मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ||\BC. \SC||
\ENM1.19a/ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् |
\ENM1.19c/ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम् ||\BC. \SC||
\ENM1.20a/ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः |
\ENM1.20c/ यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः ||\BC. \SC||
\ENM1.21a/ सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् |
\ENM1.21c/ वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ||\BC. \SC||
\ENM1.22a/ कर्मात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः |
\ENM1.22c/ साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ||\BC. \SC||
\ENM1.23a/ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् |
\ENM1.23c/ दुदोह यज्ञसिद्ध्यर्थं ऋच्.यजुस्.सामलक्षणम् ||\BC. \SC||
\ENM1.24a/ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा |
\ENM1.24c/ सरितः सागरान् शैलान् समानि विषमानि च ||\BC. \SC||
\ENM1.25a/ तपो वाचं रतिं चैव कामं च क्रोधमेव च |
\ENM1.25c/ सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ||\BC. \SC||
\ENM1.26a/ कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् | %[k:vivekAya ]
\ENM1.26c/ द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ||\BC. \SC||
\ENM1.27a/ अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः |
\ENM1.27c/ ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ||\BC. \SC||
\ENM1.28a/ यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः |
\ENM1.28c/ स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ||\BC. \SC||
\ENM1.29a/ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते |
\ENM1.29c/ यद् यस्य सोऽदधात् सर्गे तत् तस्य स्वयमाविशत् ||\BC. \SC||% ****
\ENM1.30a/ यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये |
\ENM1.30c/ स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ||\BC. \SC||
\ENM1.31a/ लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः |
\ENM1.31c/ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ||\BC. \SC||
\ENM1.32a/ द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् |
\ENM1.32c/ अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ||\BC. \SC||
\ENM1.33a/ तपस्तप्त्वाऽसृजद् यं तु स स्वयं पुरुषो विराट् |
\ENM1.33c/ तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ||\BC. \SC||
\ENM1.34a/ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् |
\ENM1.34c/ पतीन् प्रजानामसृजं महर्षीनादितो दश ||\BC. \SC||
\ENM1.35a/ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् |
\ENM1.35c/ प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ||\BC. \SC||
\ENM1.36a/ एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः |
\ENM1.36c/ देवान् देवनिकायांश्च महर्षींश्चामितोजसः ||\BC. \SC||
\ENM1.37a/ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् |
\ENM1.37c/ नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ||\BC. \SC||%[M. pitR^INAM]
\ENM1.38a/ विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च |
\ENM1.38c/ उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ||\BC. \SC||
\ENM1.39a/ किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् |
\ENM1.39c/ पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ||\BC. \SC||
\ENM1.40a/ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् |
\ENM1.40c/ सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ||\BC. \SC||
\ENM1.41a/ एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः |
\ENM1.41c/ यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ||\BC. \SC||
\ENM1.42a/ येषां तु यादृशं कर्म भूतानामिह कीर्तितम् |
\ENM1.42c/ तत् तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ||\BC. \SC||
\ENM1.43a/ पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः |
\ENM1.43c/ रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ||\BC. \SC||%[M.manuShAshcha ]
\ENM1.44a/ अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः |
\ENM1.44c/ यानि चैवं.प्रकाराणि स्थलजान्यौदकानि च ||\BC. \SC||
\ENM1.45a/ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् |
\ENM1.45c/ ऊष्मणश्चोपजायन्ते यच्चान्यत् किं चिदीदृशम् ||\BC. \SC||
\ENM1.46a/ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः |
\ENM1.46c/ ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ||\BC. \SC||
\ENM1.47a/ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः |
\ENM1.47c/ पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ||\BC. \SC||
\ENM1.48a/ गुच्छगुल्मं तु विविधं तथैव तृणजातयः |
\ENM1.48c/ बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ||\BC. \SC||
\ENM1.49a/ तमसा बहुरूपेण वेष्टिताः कर्महेतुना |
\ENM1.49c/ अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ||\BC. \SC||
\ENM1.50a/ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः |
\ENM1.50c/ घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ||\BC. \SC||
\ENM1.51a/ एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः |
\ENM1.51c/ आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ||\BC. \SC||
\ENM1.52a/ यदा स देवो जागर्ति तदेवं चेष्टते जगत् |
\ENM1.52c/ यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ||\BC. \SC||
\ENM1.53a/ तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः | %[M.svapati ]
\ENM1.53c/ स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ||\BC. \SC||
\ENM1.54a/ युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि |
\ENM1.54c/ तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ||\BC. \SC||
\ENM1.55a/ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः |
\ENM1.55c/ न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ||\BC. \SC||
\ENM1.56a/ यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च |
\ENM1.56c/ समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ||\BC. \SC||
\ENM1.57a/ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् |
\ENM1.57c/ सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ||\BC. \SC||
\ENM1.58a/ इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः |
\ENM1.58c/ विधिवद् ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ||\BC. \SC||
\ENM1.59a/ एतद् वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः |
\ENM1.59c/ एतद् हि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ||\BC. \SC||
\ENM1.60a/ ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः |
\ENM1.60c/ तानब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयतामिति ||\BC. \SC||
\ENM1.61a/ स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे |
\ENM1.61c/ सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ||\BC. \SC||
\ENM1.62a/ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा |
\ENM1.62c/ चाक्षुषश्च महातेजा विवस्वत्सुत एव च ||\BC. \SC||
\ENM1.63a/ स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः |
\ENM1.63c/ स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ||\BC. \SC||
\ENM1.64a/ निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला |
\ENM1.64c/ त्रिंशत् कला मुहूर्तः स्यादहोरात्रं तु तावतः ||\BC. \SC||
\ENM1.65a/ अहोरात्रे विभजते सूर्यो मानुषदैविके |
\ENM1.65c/ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ||\BC. \SC||
\ENM1.66a/ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः |
\ENM1.66c/ कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ||\BC. \SC||
\ENM1.67a/ दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः |
\ENM1.67c/ अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ||\BC. \SC||
\ENM1.68a/ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः |
\ENM1.68c/ एकैकशो युगानां तु क्रमशस्तन्निबोधत ||\BC. \SC||
\ENM1.69a/ चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् |
\ENM1.69c/ तस्य तावत्शती संध्या संध्यांशश्च तथाविधः ||\BC. \SC||
\ENM1.70a/ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु |
\ENM1.70c/ एकापायेन वर्तन्ते सहस्राणि शतानि च ||\BC. \SC||
\ENM1.71a/ यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम् |
\ENM1.71c/ एतद् द्वादशसाहस्रं देवानां युगमुच्यते ||\BC. \SC||
\ENM1.72a/ दैविकानां युगानां तु सहस्रं परिसङ्ख्यया |
\ENM1.72c/ ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ||\BC. \SC||%[M.tAvatI rAtrireva cha ]
\ENM1.73a/ तद् वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः |
\ENM1.73c/ रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ||\BC. \SC||
\ENM1.74a/ तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते |
\ENM1.74c/ प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ||\BC. \SC||
\ENM1.75a/ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया |
\ENM1.75c/ आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ||\BC. \SC||
\ENM1.76a/ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः |
\ENM1.76c/ बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ||\BC. \SC||
\ENM1.77a/ वायोरपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् |
\ENM1.77c/ ज्योतिरुत्पद्यते भास्वत् तद् रूपगुणमुच्यते ||\BC. \SC||
\ENM1.78a/ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः |
\ENM1.78c/ अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ||\BC. \SC||
\ENM1.79a/ यद् प्राग् द्वादशसाहस्रमुदितं दैविकं युगम् |
\ENM1.79c/ तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ||\BC. \SC||
\ENM1.80a/ मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च |
\ENM1.80c/ क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ||\BC. \SC||
\ENM1.81a/ चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे |
\ENM1.81c/ नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ||\BC. \SC||%[M. upavartate ]
\ENM1.82a/ इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः |
\ENM1.82c/ चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ||\BC. \SC||
\ENM1.83a/ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः |
\ENM1.83c/ कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ||\BC. \SC||%[V. vayo hrasati ]
\ENM1.84a/ वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् |
\ENM1.84c/ फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ||\BC. \SC||
\ENM1.85a/ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे | %[M.pare ]
\ENM1.85c/ अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ||\BC. \SC||
\ENM1.86a/ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते |
\ENM1.86c/ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ||\BC. \SC||
\ENM1.87a/ सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः |
\ENM1.87c/ मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ||\BC. \SC||
\ENM1.88a/ अध्यापनमध्ययनं यजनं याजनं तथा |
\ENM1.88c/ दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ||\BC. \SC||
\ENM1.89a/ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च |
\ENM1.89c/ विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ||\BC. \SC||%[M.samAdishat]
\ENM1.90a/ पशूनां रक्षणं दानमिज्याऽध्ययनमेव च |
\ENM1.90c/ वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ||\BC. \SC||
\ENM1.91a/ एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् |
\ENM1.91c/ एतेषामेव वर्णानां शुश्रूषामनसूयया ||\BC. \SC||
\ENM1.92a/ ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः |
\ENM1.92c/ तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ||\BC. \SC||
\ENM1.93a/ उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश्चैव धारणात् | %[M.jyaiShThyAd]
\ENM1.93c/ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ||\BC. \SC||
\ENM1.94a/ तं हि स्वयंभूः स्वादास्यात् तपस्तप्त्वाऽदितोऽसृजत् |
\ENM1.94c/ हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ||\BC. \SC||
\ENM1.95a/ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः |
\ENM1.95c/ कव्यानि चैव पितरः किं भूतमधिकं ततः ||\BC. \SC||
\ENM1.96a/ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः |
\ENM1.96c/ बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ||\BC. \SC||
\ENM1.97a/ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः |
\ENM1.97c/ कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ||\BC. \SC||
\ENM1.98a/ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती |
\ENM1.98c/ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ||\BC. \SC||
\ENM1.99a/ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते |
\ENM1.99c/ ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ||\BC. \SC||
\ENM1.100a/ सर्वं स्वं ब्राह्मणस्येदं यत् किं चित्जगतीगतम् |
\ENM1.100c/ श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ||\BC. \SC||
\ENM1.101a/ स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |
\ENM1.101c/ आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ||\BC. \SC||
\ENM1.102a/ तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः |
\ENM1.102c/ स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ||\BC. \SC||
\ENM1.103a/ विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः |
\ENM1.103c/ शिश्येभ्यश्च प्रवक्तव्यं सम्यग़् नान्येन केन चित् ||\BC. \SC||
\ENM1.104a/ इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः |
\ENM1.104c/ मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ||\BC. \SC||
\ENM1.105a/ पुनाति पङ्क्तिं वंश्यांश्च ? ? सप्तसप्त परावरान् |
\ENM1.105c/ पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ||\BC. \SC||
\ENM1.106a/ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् |
\ENM1.106c/ इदं यशस्यमायुष्यं इदं निःश्रेयसं परम् ||\BC. \SC||%[M. idaM yashasyaM satatam]
\ENM1.107a/ अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् |
\ENM1.107c/ चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ||\BC. \SC||
\ENM1.108a/ आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च |
\ENM1.108c/ तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ||\BC. \SC||
\ENM1.109a/ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते |
\ENM1.109c/ आचारेण तु संयुक्तः सम्पूर्णफलभाग् भवेत् ||\BC. \SC||%[M. saMpUrNaphalabhAk.h smR^itaH]
\ENM1.110a/ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् |
\ENM1.110c/ सर्वस्य तपसो मूलमाचारं जगृहुः परम् ||\BC. \SC||
\ENM1.111a/ जगतश्च समुत्पत्तिं संस्कारविधिमेव च |
\ENM1.111c/ व्रतचर्यौपचारं च स्नानस्य च परं विधिम् ||\BC. \SC||
\ENM1.112a/ दाराधिगमनं चैव विवाहानां च लक्षणम् |
\ENM1.112c/ महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ||\BC. \SC||
\ENM1.113a/ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च |
\ENM1.113c/ भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ||\BC. \SC||
\ENM1.114a/ स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च |
\ENM1.114c/ राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ||\BC. \SC||
\ENM1.115a/ साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि |
\ENM1.115c/ विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ||\BC. \SC||
\ENM1.116a/ वैश्यशूद्रोपचारं च सङ्कीर्णानां च संभवम् |
\ENM1.116c/ आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ||\BC. \SC||
\ENM1.117a/ संसारगमनं चैव त्रिविधं कर्मसंभवम् |
\ENM1.117c/ निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ||\BC. \SC||
\ENM1.118a/ देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् |
\ENM1.118c/ पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ||\BC. \SC||
\ENM1.119a/ यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया |
\ENM1.119c/ तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ||\BC. \SC||
\separate
अध्याय २
\ENM2.01a/ विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः |
\ENM2.01c/ हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ||\BC. \SC||
\ENM2.02a/ कामात्मता न प्रशस्ता न चैवैहास्त्यकामता |
\ENM2.02c/ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ||\BC. \SC||
\ENM2.03a/ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसंभवाः |
\ENM2.03c/ व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ||\BC. \SC||
\ENM2.04a/ अकामस्य क्रिया का चिद् दृश्यते नैह कर्हि चित् |
\ENM2.04c/ यद् यद् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ||\BC. \SC||
\ENM2.05a/ तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् |
\ENM2.05c/ यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ||\BC. \SC||
\ENM2.06a/ वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् |
\ENM2.06c/ आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ||\BC. \SC||
\ENM2.07a/ यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः |
\ENM2.07c/ स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ||\BC. \SC||
\ENM2.08a/ सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा |
\ENM2.08c/ श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ||\BC. \SC||
\ENM2.09a/ श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः |
\ENM2.09c/ इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ||\BC. \SC||
\ENM2.10a/ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः |
\ENM2.10c/ ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ||\BC. \SC||
\ENM2.11a/ योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः |
\ENM2.11c/ स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ||\BC. \SC||
\ENM2.12a/ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः |
\ENM2.12c/ एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ||\BC. \SC||
\ENM2.13a/ अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते |
\ENM2.13c/ धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ||\BC. \SC||
\ENM2.14a/ श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ |
\ENM2.14c/ उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ||\BC. \SC||
\ENM2.15a/ उदितेऽनुदिते चैव समयाध्युषिते तथा |
\ENM2.15c/ सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ||\BC. \SC||
\ENM2.16a/ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः |
\ENM2.16c/ तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ||\BC. \SC||
\ENM2.17a/ सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् |
\ENM2.17c/ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ||\BC. \SC||
\ENM2.18a/ तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः |
\ENM2.18c/ वर्णानां सान्तरालानां स सदाचार उच्यते ||\BC. \SC||
\ENM2.19a/ कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः |
\ENM2.19c/ एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ||\BC. \SC||
\ENM2.20a/ एतद् देशप्रसूतस्य सकाशादग्रजन्मनः |
\ENM2.20c/ स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ||\BC. \SC||
\ENM2.21a/ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि |
\ENM2.21c/ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ||\BC. \SC||
\ENM2.22a/ आ समुद्रात् तु वै पूर्वादा समुद्राच्च पश्चिमात् |
\ENM2.22c/ तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ||\BC. \SC||
\ENM2.23a/ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः |
\ENM2.23c/ स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ||\BC. \SC||
\ENM2.24a/ एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः |
\ENM2.24c/ शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ||\BC. \SC||%[M.yasmi.nstasmin.h vA ]
\ENM2.25a/ एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता |
\ENM2.25c/ संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ||\BC. \SC||
\ENM2.26a/ वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् |
\ENM2.26c/ कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ||\BC. \SC||
\ENM2.27a/ गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः |
\ENM2.27c/ बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ||\BC. \SC||
\ENM2.28a/ स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः |
\ENM2.28c/ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ||\BC. \SC||
\ENM2.29a/ प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते |
\ENM2.29c/ मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ||\BC. \SC||
\ENM2.30a/ नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् |
\ENM2.30c/ पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ||\BC. \SC||
\ENM2.31a/ मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् |
\ENM2.31c/ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ||\BC. \SC||
\ENM2.32a/ शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् | %[M.rAGYA ##? ##]
\ENM2.32c/ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ||\BC. \SC||
\ENM2.33a/ स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् |
\ENM2.33c/ मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ||\BC. \SC||
\ENM2.34a/ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् |
\ENM2.34c/ षष्ठेऽन्नप्राशनं मासि यद् वैष्टं मङ्गलं कुले ||\BC. \SC||
\ENM2.35a/ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः |
\ENM2.35c/ प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ||\BC. \SC||%[M.shrutinodanAt]
\ENM2.36a/ गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् |
\ENM2.36c/ गर्भादेकादशे राज्ञो गर्भात् तु द्वादशे विशः ||\BC. \SC||
\ENM2.37a/ ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे |
\ENM2.37c/ राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ||\BC. \SC||
\ENM2.38a/ आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते |
\ENM2.38c/ आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः ||\BC. \SC||
\ENM2.39a/ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः |
\ENM2.39c/ सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ||\BC. \SC||
\ENM2.40a/ नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् |
\ENM2.40c/ ब्राह्मान् यौनांश्च संबन्धान्नाचरेद् ब्राह्मणः सह ||\BC. \SC||%[M.brAhmaNaiH saha ]
\ENM2.41a/ कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः |
\ENM2.41c/ वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ||\BC. \SC||
\ENM2.42a/ मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला |
\ENM2.42c/ क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ||\BC. \SC||
\ENM2.43a/ मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः |
\ENM2.43c/ त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ||\BC. \SC||
\ENM2.44a/ कार्पासमुपवीतं स्याद् विप्रस्यौर्ध्ववृतं त्रिवृत् |
\ENM2.44c/ शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ||\BC. \SC||
\ENM2.45a/ ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ |
\ENM2.45c/ पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ||\BC. \SC||
\ENM2.46a/ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः |
\ENM2.46c/ ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ||\BC. \SC||
\ENM2.47a/ ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः |
\ENM2.47c/ अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ||\BC. \SC||
\ENM2.48a/ प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् |
\ENM2.48c/ प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ||
\BC. \SC||
\ENM2.49a/ भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः |
\ENM2.49c/ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ||\BC. \SC||
\ENM2.50a/ मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् |
\ENM2.50c/ भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ||\BC. \SC||
\ENM2.51a/ समाहृत्य तु तद् भैक्षं यावदन्नममायया | %[M.yAvadarthaM ]
\ENM2.51c/ निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ||\BC. \SC||
\ENM2.52a/ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः |
\ENM2.52c/ श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ||\BC. \SC||
\ENM2.53a/ उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः |
\ENM2.53c/ भुक्त्वा चौपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ||\BC. \SC||
\ENM2.54a/ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् |
\ENM2.54c/ दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ||\BC. \SC||
\ENM2.55a/ पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति |
\ENM2.55c/ अपूजितं तु तद् भुक्तमुभयं नाशयेदिदम् ||\BC. \SC||
\ENM2.56a/ नौच्छिष्टं कस्य चिद् दद्यान्नाद्यादेतत् तथाऽन्तरा |
\ENM2.56c/ न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद् व्रजेत् ||\BC. \SC||
\ENM2.57a/ अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् |
\ENM2.57c/ अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ||\BC. \SC||
\ENM2.58a/ ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् |
\ENM2.58c/ कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ||\BC. \SC||
\ENM2.59a/ अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते |
\ENM2.59c/ कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ||\BC. \SC||
\ENM2.60a/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् |
\ENM2.60c/ खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ||\BC. \SC||
\ENM2.61a/ अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् |
\ENM2.61c/ शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ||\BC. \SC||
\ENM2.62a/ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः |
\ENM2.62c/ वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ||\BC. \SC||
\ENM2.63a/ उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः |
\ENM2.63c/ सव्ये प्राचीनावीती निवीती कण्ठसज्जने ||\BC. \SC||
\ENM2.64a/ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् |
\ENM2.64c/ अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ||\BC. \SC||
\ENM2.65a/ केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते |
\ENM2.65c/ राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः ||\BC. \SC||
\ENM2.66a/ अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः |
\ENM2.66c/ संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ||\BC. \SC||
\ENM2.67a/ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः |
\ENM2.67c/ पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ||\BC. \SC||
\ENM2.68a/ एष प्रोक्तो द्विजातीनामौपनायनिको विधिः |
\ENM2.68c/ उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ||\BC. \SC||
\ENM2.69a/ उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः |
\ENM2.69c/ आचारमग्निकार्यं च संध्यौपासनमेव च ||\BC. \SC||
\ENM2.70a/ अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः |
\ENM2.70c/ ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ||\BC. \SC||
\ENM2.71a/ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा |
\ENM2.71c/ संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ||\BC. \SC||
\ENM2.72a/ व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः |
\ENM2.72c/ सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ||\BC. \SC||
\ENM2.73a/ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः |
\ENM2.73c/ अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति चारमेत् ||\BC. \SC||
\ENM2.74a/ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा |
\ENM2.74c/ स्रवत्यनोङ्कृतं ? ? पूर्वं परस्ताच्च विशीर्यति ||\BC. \SC||
\ENM2.75a/ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः |
\ENM2.75c/ प्राणायामैस्त्रिभिः पूतस्तत ओं.कारमर्हति ||\BC. \SC||
\ENM2.76a/ अकारं चाप्युकारं च मकारं च प्रजापतिः |
\ENM2.76c/ वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ||\BC. \SC||
\ENM2.77a/ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् |
\ENM2.77c/ तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ||\BC. \SC||
\ENM2.78a/ एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् |
\ENM2.78c/ संध्ययोर्वेदविद् विप्रो वेदपुण्येन युज्यते ||\BC. \SC||
\ENM2.79a/ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः |
\ENM2.79c/ महतोऽप्येनसो मासात् त्वचैवाहिर्विमुच्यते ||\BC. \SC||
\ENM2.80a/ एतयाऋचा विसंयुक्तः काले च क्रियया स्वया |
\ENM2.80c/ ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ||\BC. \SC||
\ENM2.81a/ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः | %[Mo~NkAra]
\ENM2.81c/ त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ||\BC. \SC||
\ENM2.82a/ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः |
\ENM2.82c/ स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ||\BC. \SC||
\ENM2.83a/ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः |
\ENM2.83c/ सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ||\BC. \SC||
\ENM2.84a/ क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः |
\ENM2.84c/ अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ||\BC. \SC||%[M. akSharaM tvakSharaM GYeyaM]
\ENM2.85a/ विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर्गुणैः |
\ENM2.85c/ उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ||\BC. \SC||
\ENM2.86a/ ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः |
\ENM2.86c/ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ||\BC. \SC||
\ENM2.87a/ जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः |
\ENM2.87c/ कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ||\BC. \SC||
\ENM2.88a/ इन्द्रियाणां विचरतां विषयेष्वपहारिषु |
\ENM2.88c/ संयमे यत्नमातिष्ठेद् विद्वान् यन्तैव वाजिनाम् ||\BC. \SC||
\ENM2.89a/ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः |
\ENM2.89c/ तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः ||\BC. \SC||
\ENM2.90a/ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी |
\ENM2.90c/ पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता |
\ENM2.91a/ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः |
\ENM2.91c/ कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ||\BC. \SC||
\ENM2.92a/ एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् |
\ENM2.92c/ यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ||\BC. \SC||
\ENM2.93a/ इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् |
\ENM2.93c/ संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ||\BC. \SC||
\ENM2.94a/ न जातु कामः कामानामुपभोगेन शाम्यति |
\ENM2.94c/ हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ||\BC. \SC||
\ENM2.95a/ यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् ||\BC. \SC||
\ENM2.95c/ प्रापणात् सर्वकामानां परित्यागो विशिष्यते |
\ENM2.96a/ न तथैतानि शक्यन्ते संनियन्तुमसेवया ||\BC. \SC||
\ENM2.96c/ विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ||\BC. \SC||
\ENM2.97a/ वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च |
\ENM2.97c/ न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ||\BC. \SC||
\ENM2.98a/ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः |
\ENM2.98c/ न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ||\BC. \SC||
\ENM2.99a/ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् |
\ENM2.99c/ तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ||\BC. \SC||
\ENM2.100a/ वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा |
\ENM2.100c/ सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ||\BC. \SC||
\ENM2.101a/ पूर्वां संध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् |
\ENM2.101c/ पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ||\BC. \SC||%[M. pashchimAM tu sadAsIta]
\ENM2.102a/ पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति |
\ENM2.102c/ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ||\BC. \SC||
\ENM2.103a/ न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् |
\ENM2.103c/ स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ||\BC. \SC||
\ENM2.104a/ अपां समीपे नियतो नैत्यकं विधिमास्थितः |
\ENM2.104c/ सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ||\BC. \SC||
\ENM2.105a/ वेदौपकरणे चैव स्वाध्याये चैव नैत्यके |
\ENM2.105c/ नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ||\BC. \SC||
\ENM2.106a/ नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ||\BC. \SC||
\ENM2.106c/ ब्रह्माहुतिहुतं पुण्यमनध्यायवषट् कृतम् ? ? ||\BC. \SC||
\ENM2.107a/ यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः |
\ENM2.107c/ तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ||\BC. \SC||
\ENM2.108a/ अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् |
\ENM2.108c/ आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ||\BC. \SC||
\ENM2.109a/ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः |
\ENM2.109c/ आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ? ? ||\BC. \SC||
\ENM2.110a/ नापृष्टः कस्य चिद् ब्रूयान्न चान्यायेन पृच्छतः |
\ENM2.110c/ जानन्नपि हि मेधावी जडवल्लोक आचरेत् ||\BC. \SC||
\ENM2.111a/ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति |
\ENM2.111c/ तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ||\BC. \SC||
\ENM2.112a/ धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा |
\ENM2.112c/ तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ||\BC. \SC||
\ENM2.113a/ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना |
\ENM2.113c/ आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ||\BC. \SC||
\ENM2.114a/ विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् | %[M.shevadhiSh Te]
\ENM2.114c/ असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ||\BC. \SC||
\ENM2.115a/ यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् | %[M. vidyA niyataM brahmachAriNam]
\ENM2.115c/ तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने |
\ENM2.116a/ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् |
\ENM2.116c/ स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते |
\ENM2.117a/ लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा |
\ENM2.117c/ आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ||\BC. \SC||
\ENM2.118a/ सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः |
\ENM2.118c/ नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ||\BC. \SC||
\ENM2.119a/ शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् |
\ENM2.119c/ शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ||\BC. \SC||
\ENM2.120a/ ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति |
\ENM2.120c/ प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ||\BC. \SC||
\ENM2.121a/ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः |
\ENM2.121c/ चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ||\BC. \SC||%[M. chatvAri saMpravardhante]
\ENM2.122a/ अभिवादात् परं विप्रो ज्यायांसमभिवादयन् |
\ENM2.122c/ असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ||\BC. \SC||
\ENM2.123a/ नामधेयस्य ये के चिदभिवादं न जानते |
\ENM2.123c/ तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ||\BC. \SC||
\ENM2.124a/ भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने |
\ENM2.124c/ नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ||\BC. \SC||
\ENM2.125a/ आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने |
\ENM2.125c/ अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ||\BC. \SC||
\ENM2.126a/ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् |
\ENM2.126c/ नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ||\BC. \SC||
\ENM2.127a/ ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् |
\ENM2.127c/ वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ||\BC. \SC||
\ENM2.128a/ अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् |
\ENM2.128c/ भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ||\BC. \SC||
\ENM2.129a/ परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः |
\ENM2.129c/ तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च ||\BC. \SC||
\ENM2.130a/ मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् |
\ENM2.130c/ असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः ||\BC. \SC||
\ENM2.131a/ मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा |
\ENM2.131c/ संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ||\BC. \SC||
\ENM2.132a/ भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि |
\ENM2.132c/ विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसंबन्धियोषितः ||\BC. \SC||
\ENM2.133a/ पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि |
\ENM2.133c/ मातृवद् वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ||\BC. \SC||
\ENM2.134a/ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् |
\ENM2.134c/ त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ||\BC. \SC||
\ENM2.135a/ ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् |
\ENM2.135c/ पितापुत्रौ विजानीयाद् ब्राह्मणस्तु तयोः पिता ||\BC. \SC||
\ENM2.136a/ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी |
\ENM2.136c/ एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ||\BC. \SC||%[M.mAnasthAnAni ]
\ENM2.137a/ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च |
\ENM2.137c/ यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ||\BC. \SC||
\ENM2.138a/ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः |
\ENM2.138c/ स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ||\BC. \SC||
\ENM2.139a/ तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ |
\ENM2.139c/ राजस्नातकयोश्चैव स्नातको नृपमानभाक् ||\BC. \SC||
\ENM2.140a/ उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः |
\ENM2.140c/ सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ||\BC. \SC||
\ENM2.141a/ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः |
\ENM2.141c/ योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ||\BC. \SC||
\ENM2.142a/ निषेकादीनि कर्माणि यः करोति यथाविधि |
\ENM2.142c/ संभावयति चान्नेन स विप्रो गुरुरुच्यते ||\BC. \SC||
\ENM2.143a/ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् |
\ENM2.143c/ यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ||\BC. \SC||
\ENM2.144a/ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ |
\ENM2.144c/ स माता स पिता ज्ञेयस्तं न द्रुह्येत् कदा चन ||\BC. \SC||
\ENM2.145a/ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता |
\ENM2.145c/ सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ||\BC. \SC||
\ENM2.146a/ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता |
\ENM2.146c/ ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ||\BC. \SC||
\ENM2.147a/ कामान् माता पिता चैनं यदुत्पादयतो मिथः |
\ENM2.147c/ संभूतिं तस्य तां विद्याद् यद् योनावभिजायते ||\BC. \SC||
\ENM2.148a/ आचार्यस्त्वस्य यां जातिं विधिवद् वेदपारगः |
\ENM2.148c/ उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ||\BC. \SC||
\ENM2.149a/ अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः |
\ENM2.149c/ तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ||\BC. \SC||
\ENM2.150a/ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता |
\ENM2.150c/ बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ||\BC. \SC||
\ENM2.151a/ अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः |
\ENM2.151c/ पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ||\BC. \SC||
\ENM2.152a/ ते तमर्थमपृच्छन्त देवानागतमन्यवः |
\ENM2.152c/ देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ||\BC. \SC||
\ENM2.153a/ अज्ञो भवति वै बालः पिता भवति मन्त्रदः |
\ENM2.153c/ अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ||\BC. \SC||
\ENM2.154a/ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |
\ENM2.154c/ ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||\BC. \SC||
\ENM2.155a/ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः |
\ENM2.155c/ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ||\BC. \SC||
\ENM2.156a/ न तेन वृद्धो भवति येनास्य पलितं शिरः |
\ENM2.156c/ यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ||\BC. \SC||
\ENM2.157a/ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः |
\ENM2.157c/ यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ||\BC. \SC||
\ENM2.158a/ यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला |
\ENM2.158c/ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ||\BC. \SC||
\ENM2.159a/ अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् |
\ENM2.159c/ वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ||\BC. \SC||
\ENM2.160a/ यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सर्वदा |
\ENM2.160c/ स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ||\BC. \SC||
\ENM2.161a/ नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः |
\ENM2.161c/ ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ||\BC. \SC||
\ENM2.162a/ सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव |
\ENM2.162c/ अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ||\BC. \SC||
\ENM2.163a/ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ||\BC. \SC||
\ENM2.163c/ सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ||\BC. \SC||
\ENM2.164a/ अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः |
\ENM2.164c/ गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ||\BC. \SC||
\ENM2.165a/ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः |
\ENM2.165c/ वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ||\BC. \SC||
\ENM2.166a/ वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः |
\ENM2.166c/ वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ||\BC. \SC||
\ENM2.167a/ आ हैव स नखाग्रेभ्यः परमं तप्यते तपः |
\ENM2.167c/ यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ||\BC. \SC||
\ENM2.168a/ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् |
\ENM2.168c/ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ||\BC. \SC||
\ENM2.169a/ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने |
\ENM2.169c/ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ||\BC. \SC||
\ENM2.170a/ तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् |
\ENM2.170c/ तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ||\BC. \SC||
\ENM2.171a/ वेदप्रदानादाचार्यं पितरं परिचक्षते |
\ENM2.171c/ न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ||\BC. \SC||
\ENM2.172a/ नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते |
\ENM2.172c/ शूद्रेण हि समस्तावद् यावद् वेदे न जायते ||\BC. \SC||
\ENM2.173a/ कृतौपनयनस्यास्य व्रतादेशनमिष्यते |
\ENM2.173c/ ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ||\BC. \SC||
\ENM2.174a/ यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला |
\ENM2.174c/ यो दण्डो यत्च वसनं तत् तदस्य व्रतेष्वपि ||\BC. \SC||
\ENM2.175a/ सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् |
\ENM2.175c/ सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ||\BC. \SC||
\ENM2.176a/ नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् |
\ENM2.176c/ देवताभ्यर्चनं चैव समिदाधानमेव च ||\BC. \SC||
\ENM2.177a/ वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः |
\ENM2.177c/ शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ||\BC. \SC||
\ENM2.178a/ अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् |
\ENM2.178c/ कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ||\BC. \SC||
\ENM2.179a/ द्यूतं च जनवादं च परिवादं तथाऽनृतम् |
\ENM2.179c/ स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ||\BC. \SC||%##( ##M.AlambhA.av##) ##
\ENM2.180a/ एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् |
\ENM2.180c/ कामाद् हि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ||\BC. \SC||
\ENM2.181a/ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः |
\ENM2.181c/ स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ||\BC. \SC||
\ENM2.182a/ उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् |
\ENM2.182c/ आहरेद् यावदर्थानि भैक्षं चाहरहश्चरेत् ||\BC. \SC||
\ENM2.183a/ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु |
\ENM2.183c/ ब्रह्मचार्याहरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ||\BC. \SC||
\ENM2.184a/ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु |
\ENM2.184c/ अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ||\BC. \SC||
\ENM2.185a/ सर्वं वापि चरेद् ग्रामं पूर्वौक्तानामसंभवे |
\ENM2.185c/ नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ||\BC. \SC||
\ENM2.186a/ दूरादाहृत्य समिधः सन्निदध्याद् विहायसि |
\ENM2.186c/ सायं.प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ||\BC. \SC||
\ENM2.187a/ अकृत्वा भैक्षचरणमसमिध्य च पावकम् |
\ENM2.187c/ अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ||\BC. \SC||
\ENM2.188a/ भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती |
\ENM2.188c/ भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ||\BC. \SC||
\ENM2.189a/ व्रतवद् देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् |
\ENM2.189c/ काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते ||\BC. \SC||
\ENM2.190a/ ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः |
\ENM2.190c/ राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते ||\BC. \SC||
\ENM2.191a/ चोदितो गुरुणा नित्यमप्रचोदित एव वा |
\ENM2.191c/ कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ||\BC. \SC||%[M.adhyayane yogam]
\ENM2.192a/ शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च |
\ENM2.192c/ नियम्य प्राञ्जलिस्तिष्ठेद् वीक्षमाणो गुरोर्मुखम् ||\BC. \SC||
\ENM2.193a/ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः |
\ENM2.193c/ आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ||\BC. \SC||
\ENM2.194a/ हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ |
\ENM2.194c/ उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ||\BC. \SC||
\ENM2.195a/ प्रतिश्रावणसंभाषे शयानो न समाचरेत् |
\ENM2.195c/ नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ||\BC. \SC||
\ENM2.196a/ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः |
\ENM2.196c/ प्रत्युद्गम्य त्वाव्रजतः पश्चाद् धावंस्तु धावतः ||\BC. \SC||
\ENM2.197a/ पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् |
\ENM2.197c/ प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ||\BC. \SC||
\ENM2.198a/ नीचं शय्याऽऽसनं चास्य नित्यं स्याद् गुरुसन्निधौ |
\ENM2.198c/ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ||\BC. \SC||
\ENM2.199a/ नौदाहरेदस्य नाम परोक्षमपि केवलम् |
\ENM2.199c/ न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ||\BC. \SC||
\ENM2.200a/ गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते |
\ENM2.200c/ कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ||\BC. \SC||
\ENM2.201a/ परीवादात् खरो भवति श्वा वै भवति निन्दकः |
\ENM2.201c/ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ||\BC. \SC||
\ENM2.202a/ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः |
\ENM2.202c/ यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ||\BC. \SC||
\ENM2.203a/ प्रतिवातेऽनुवाते च नासीत गुरुणा सह | %[M.prativAtAnuvAte]
\ENM2.203c/ असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ||\BC. \SC||
\ENM2.204a/ गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च |
\ENM2.204c/ आसीत गुरुणा सार्धं शिलाफलकनौषु च ||\BC. \SC||
\ENM2.205a/ गुरोर्गुरौ सन्निहिते गुरुवद् वृत्तिमाचरेत् |
\ENM2.205c/ न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ||\BC. \SC||
\ENM2.206a/ विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु |
\ENM2.206c/ प्रतिषेधत्सु चाधर्माद् हितं चोपदिशत्स्वपि ||\BC. \SC||
\ENM2.207a/ श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् |
\ENM2.207c/ गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ||\BC. \SC||%[M.guruputre tathAchArye]
\ENM2.208a/ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि |
\ENM2.208c/ अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ||\BC. \SC||
\ENM2.209a/ उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने |
\ENM2.209c/ न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् ||\BC. \SC||
\ENM2.210a/ गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः |
\ENM2.210c/ असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ||\BC. \SC||
\ENM2.211a/ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च |
\ENM2.211c/ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ||\BC. \SC||
\ENM2.212a/ गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः |
\ENM2.212c/ पूर्णविंशतिवर्षेण गुणदोषौ विजानता ||\BC. \SC||
\ENM2.213a/ स्वभाव एष नारीणां नराणामिह दूषणम् |
\ENM2.213c/ अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ||\BC. \SC||
\ENM2.214a/ अविद्वांसमलं लोके विद्वांसमपि वा पुनः |
\ENM2.214c/ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ||\BC. \SC||
\ENM2.215a/ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् |
\ENM2.215c/ बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ||\BC. \SC||
\ENM2.216a/ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि |
\ENM2.216c/ विधिवद् वन्दनं कुर्यादसावहमिति ब्रुवन् ||\BC. \SC||
\ENM2.217a/ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् |
\ENM2.217c/ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ||\BC. \SC||
\ENM2.218a/ यथा खनन् खनित्रेण नरो वार्यधिगच्छति |
\ENM2.218c/ तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ||\BC. \SC||
\ENM2.219a/ मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः |
\ENM2.219c/ नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् ||\BC. \SC||
\ENM2.220a/ तं चेदभ्युदियात् सूर्यः शयानं कामचारतः |
\ENM2.220c/ निम्लोचेद् वाऽप्यविज्ञानाज् जपन्नुपवसेद् दिनम् ||\BC. \SC||
\ENM2.221a/ सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः | %[M.abhinimluktaH]
\ENM2.221c/ प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ||\BC. \SC||
\ENM2.222a/ आचम्य प्रयतो नित्यमुभे संध्ये समाहितः |
\ENM2.222c/ शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ||\BC. \SC||
\ENM2.223a/ यदि स्त्री यद्यवरजः श्रेयः किं चित् समाचरेत् |
\ENM2.223c/ तत् सर्वमाचरेद् युक्तो यत्र चास्य रमेन् मनः ||\BC. \SC||
\ENM2.224a/ धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च |
\ENM2.224c/ अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ||\BC. \SC||
\ENM2.225a/ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः |
\ENM2.225c/ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ||\BC. \SC||
\ENM2.226a/ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः |
\ENM2.226c/ माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ||\BC. \SC||
\ENM2.227a/ यं मातापितरौ क्लेशं सहेते संभवे नृणाम् |
\ENM2.227c/ न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ||\BC. \SC||
\ENM2.228a/ तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा |
\ENM2.228c/ तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ||\BC. \SC||
\ENM2.229a/ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते |
\ENM2.229c/ न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ||\BC. \SC||
\ENM2.230a/ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः |
\ENM2.230c/ त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ||\BC. \SC||
\ENM2.231a/ पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः |
\ENM2.231c/ गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ||\BC. \SC||
\ENM2.232a/ त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही |
\ENM2.232c/ दीप्यमानः स्ववपुषा देववद् दिवि मोदते ||\BC. \SC||
\ENM2.233a/ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् |
\ENM2.233c/ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ||\BC. \SC||
\ENM2.234a/ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः |
\ENM2.234c/ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ||\BC. \SC||
\ENM2.235a/ यावत् त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् |
\ENM2.235c/ तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ||\BC. \SC||
\ENM2.236a/ तेषामनुपरोधेन पारत्र्यं यद् यदाचरेत् |
\ENM2.236c/ तत् तन्निवेदयेत् तेभ्यो मनोवचनकर्मभिः ||\BC. \SC||
\ENM2.237a/ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते |
\ENM2.237c/ एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ||\BC. \SC||
\ENM2.238a/ श्रद्दधानः शुभां विद्यामाददीतावरादपि |
\ENM2.238c/ अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ||\BC. \SC||
\ENM2.239a/ विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् |
\ENM2.239c/ अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ||\BC. \SC||
\ENM2.240a/ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् |
\ENM2.240c/ विविधानि च शिल्पानि समादेयानि सर्वतः ||\BC. \SC||
\ENM2.241a/ अब्राह्मणादध्यायनमापत्काले विधीयते |
\ENM2.241c/ अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ||\BC. \SC||
\ENM2.242a/ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् |
\ENM2.242c/ ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ||\BC. \SC||
\ENM2.243a/ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले |
\ENM2.243c/ युक्तः परिचरेदेनमा शरीरविमोक्षणात् ||\BC. \SC||
\ENM2.244a/ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् |
\ENM2.244c/ स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ||\BC. \SC||
\ENM2.245a/ न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् |
\ENM2.245c/ स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ||\BC. \SC||
\ENM2.246a/ क्षेत्रं हिरण्यं गामश्वं छत्रौपानहमासनम् | %[M.ChatropAnahamantataH]
\ENM2.246c/ धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ||\BC. \SC||%[M.dhAnyaM vAsA.nsi shAkaM vA gurave prItimAharan##) ##]
\ENM2.247a/ आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते |
\ENM2.247c/ गुरुदारे सपिण्डे वा गुरुवद् वृत्तिमाचरेत् ||\BC. \SC||
\ENM2.248a/ एतेष्वविद्यमानेषु स्थानासनविहारवान् |
\ENM2.248c/ प्रयुञ्जानोऽग्निशुश्रूषां साधयेद् देहमात्मनः ||\BC. \SC||
\ENM2.249a/ एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः |
\ENM2.249c/ स गच्छत्युत्तमस्थानं न चैह जायते पुनः ||\BC. \SC||
\separate
अध्याय ३
\ENM3.01a/ षट् त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् |
\ENM3.01c/ तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ||\BC. \SC||
\ENM3.02a/ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् |
\ENM3.02c/ अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ||\BC. \SC||
\ENM3.03a/ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः |
\ENM3.03c/ स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ||\BC. \SC||
\ENM3.04a/ गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि |
\ENM3.04c/ उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ||\BC. \SC||
\ENM3.05a/ असपिण्डा च या मातुरसगोत्रा च या पितुः |
\ENM3.05c/ सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ||\BC. \SC||%[M.amaithinI]
\ENM3.06a/ महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः |
\ENM3.06c/ स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ||\BC. \SC||
\ENM3.07a/ हीनक्रियं निश्पुरुषं निश्छन्दो रोमशार्शसम् ? ? |
\ENM3.07c/ क्षयामयाव्य्ऽपस्मारिश्वित्रिकुष्ठिकुलानि च ? ? ||\BC. \SC||
\ENM3.08a/ नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् |
\ENM3.08c/ नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ||\BC. \SC||%[M.vAchAlAM ]
\ENM3.09a/ नऋक्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् |
\ENM3.09c/ न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ||\BC. \SC||
\ENM3.10a/ अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् |
\ENM3.10c/ तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ||\BC. \SC||
\ENM3.11a/ यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता | %[M.vai##( ##vA pitA]
\ENM3.11c/ नौपयच्छेत तां प्राज्ञः पुत्रिकाऽधर्मशङ्कया ||\BC. \SC||
\ENM3.12a/ सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि |
\ENM3.12c/ कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ||\BC. \SC||
\ENM3.13a/ शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते |
\ENM3.13c/ ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ||\BC. \SC||
\ENM3.14a/ न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः |
\ENM3.14c/ कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्यौपदिश्यते ||\BC. \SC||
\ENM3.15a/ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः |
\ENM3.15c/ कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ||\BC. \SC||
\ENM3.16a/ शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च |
\ENM3.16c/ शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ||\BC. \SC||
\ENM3.17a/ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् |
\ENM3.17c/ जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ||\BC. \SC||
\ENM3.18a/ दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु |
\ENM3.18c/ नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ||\BC. \SC||
\ENM3.19a/ वृषलीफेनपीतस्य निःश्वासोपहतस्य च |
\ENM3.19c/ तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ||\BC. \SC||
\ENM3.20a/ चतुर्णामपि वर्णानं प्रेत्य चैह हिताहितान् |
\ENM3.20c/ अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ||\BC. \SC||
\ENM3.21a/ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽसुरः |
\ENM3.21c/ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ||\BC. \SC||
\ENM3.22a/ यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ |
\ENM3.22c/ तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ||\BC. \SC||
\ENM3.23a/ षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् |
\ENM3.23c/ विश्.शूद्रयोस्तु तानेव विद्याद् धर्म्यानराक्षसान् ||\BC. \SC||%[M.dharmyAnna rAkShasAn]
\ENM3.24a/ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः |
\ENM3.24c/ राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ||\BC. \SC||
\ENM3.25a/ पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह |
\ENM3.25c/ पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन ||\BC. \SC||
\ENM3.26a/ पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ |
\ENM3.26c/ गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ||\BC. \SC||
\ENM3.27a/ आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् |
\ENM3.27c/ आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ||\BC. \SC||
\ENM3.28a/ यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते |
\ENM3.28c/ अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ||\BC. \SC||
\ENM3.29a/ एकं गोमिथुनं द्वे वा वरादादाय धर्मतः |
\ENM3.29c/ कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ||\BC. \SC||
\ENM3.30a/ सहौभौ चरतां धर्ममिति वाचाऽनुभाष्य च |
\ENM3.30c/ कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ||\BC. \SC||
\ENM3.31a/ ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः |
\ENM3.31c/ कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ||\BC. \SC||
\ENM3.32a/ इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च |
\ENM3.32c/ गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ||\BC. \SC||
\ENM3.33a/ हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् |
\ENM3.33c/ प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ||\BC. \SC||
\ENM3.34a/ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति |
\ENM3.34c/ स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ||\BC. \SC||%[M.paishAchaH prathito.adhamaH]
\ENM3.35a/ अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते |
\ENM3.35c/ इतरेषां तु वर्णानामितरेतरकाम्यया ||\BC. \SC||
\ENM3.36a/ यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः |
\ENM3.36c/ सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम ||\BC. \SC||%[M.samyak.h kIrtayato]
\ENM3.37a/ दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् |
\ENM3.37c/ ब्राह्मीपुत्रः सुकृतकृत्मोचयत्येनसः पितॄन् ||\BC. \SC||
\ENM3.38a/ दैवौढाजः सुतश्चैव सप्त सप्त परावरान् |
\ENM3.38c/ आर्षौढाजः सुतस्त्रींस्त्रीन् षट् षट् कायौढजः सुतः ||\BC. \SC||
\ENM3.39a/ ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः |
\ENM3.39c/ ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ||\BC. \SC||%[M.brahmavarchasinaH]
\ENM3.40a/ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः |
\ENM3.40c/ पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ||\BC. \SC||
\ENM3.41a/ इतरेषु तु शिष्टेषु नृशंसाऽनृतवादिनः |
\ENM3.41c/ जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ||\BC. \SC||
\ENM3.42a/ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा |
\ENM3.42c/ निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ||\BC. \SC||
\ENM3.43a/ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते |
\ENM3.43c/ असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ||\BC. \SC||
\ENM3.44a/ शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया |
\ENM3.44c/ वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ||\BC. \SC||
\ENM3.45a/ ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा |
\ENM3.45c/ पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ||\BC. \SC||
\ENM3.46a/ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः |
\ENM3.46c/ चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ||\BC. \SC||
\ENM3.47a/ तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या |
\ENM3.47c/ त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ||\BC. \SC||
\ENM3.48a/ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु |
\ENM3.48c/ तस्माद् युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ||\BC. \SC||
\ENM3.49a/ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः |
\ENM3.49c/ समेऽपुमान् पुं.स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ||\BC. \SC||
\ENM3.50a/ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् |
\ENM3.50c/ ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ||\BC. \SC||
\ENM3.51a/ न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कमण्वपि |
\ENM3.51c/ गृह्णंशुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ? ? ||\BC. \SC||
\ENM3.52a/ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः |
\ENM3.52c/ नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ||\BC. \SC||
\ENM3.53a/ आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् |
\ENM3.53c/ अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः ||\BC. \SC||%[M.tAvAneva sa vikrayaH]
\ENM3.54a/ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः |
\ENM3.54c/ अर्हणं तत् कुमारीणामानृशंस्यं च केवलम् ||\BC. \SC||%[M.na kevalam]
\ENM3.55a/ पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा |
\ENM3.55c/ पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ||\BC. \SC||
\ENM3.56a/ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः |
\ENM3.56c/ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ||\BC. \SC||
\ENM3.57a/ शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् | %[notin.h M]
\ENM3.57c/ न शोचन्ति तु यत्रैता वर्धते तद् हि सर्वदा ||\BC. \SC||%[notin.h M]
\ENM3.58a/ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ||\BC. \SC||%[notin.h M]
\ENM3.58c/ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ||\BC. \SC||%[notin.h M]
\ENM3.59a/ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः | %[notin.h M]
\ENM3.59c/ भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च | %[notin.h M] |
\ENM3.60a/ संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च | %[notin.h M]
\ENM3.60c/ यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ||\BC. \SC||%[notin.h M]
\ENM3.61a/ यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् | %[notin.h M]
\ENM3.61c/ अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ||\BC. \SC||%[notin.h M]
\ENM3.62a/ स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् | %[notin.h M]
\ENM3.62c/ तस्यां त्वरोचमानायां सर्वमेव न रोचते ||\BC. \SC||%[notin.h M]
\ENM3.63a/ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च | %[notin.h M]
\ENM3.63c/ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ||\BC. \SC||%[notin.h M]
\ENM3.64a/ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः | %[notin.h M]
\ENM3.64c/ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ||\BC. \SC||%[notin.h M]
\ENM3.65a/ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् | %[notin.h M]
\ENM3.65c/ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ||\BC. \SC||%[notin.h M]
\ENM3.66a/ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि | %[notin.h M]
\ENM3.66c/ कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ||\BC. \SC||%[notin.h M]
\ENM3.67a[५७ंअ]/ वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि |
\ENM3.67c[५७ंच्]/ पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ||\BC. \SC||
\ENM3.68a[५८ंअ]/ पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः |
\ENM3.68c[५८ंच्]/ कण्डनी चौदकुम्भश्च बध्यते यास्तु वाहयन् ||\BC. \SC||%[M.vadhyate]
\ENM3.69a[५९ंअ]/ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः |
\ENM3.69c[५९ंच्]/ पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ||\BC. \SC||
\ENM3.70a[६०ंअ]/ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् |
\ENM3.70c[६०ंच्]/ होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ||\BC. \SC||
\ENM3.71a[६१ंअ]/ पञ्चैतान् यो महाऽयज्ञान्न हापयति शक्तितः |
\ENM3.71c[६१ंच्]/ स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ||\BC. \SC||
\ENM3.72a[६२ंअ]/ देवताऽतिथिभृत्यानां पितॄणामात्मनश्च यः |
\ENM3.72c[६२ंच्]/ न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ||\BC. \SC||
\ENM3.73a[६३ंअ]/ अहुतं च हुतं चैव तथा प्रहुतमेव च |
\ENM3.73c[६३ंच्]/ ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ? ||\BC. \SC||
\ENM3.74a[६४ंअ]/ जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः |
\ENM3.74c[६४ंच्]/ ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ? ||\BC. \SC||
\ENM3.75a[६५ंअ]/ स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवैह कर्मणि |
\ENM3.75c[६५ंच्]/ दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ||\BC. \SC||
\ENM3.76a[६६ंअ]/ अग्नौ प्रास्ताऽहुतिः सम्यगादित्यमुपतिष्ठते |
\ENM3.76c[६६ंच्]/ आदित्याज् जायते वृष्तिर्वृष्टेरन्नं ततः प्रजाः ||\BC. \SC||
\ENM3.77a[६७ंअ]/ यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः | %[M.sarve jIvanti jantavaH]
\ENM3.77c[६७ंच्]/ तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ||\BC. \SC||%[M.vartanta itarAshramaH]
\ENM3.78a[६८ंअ]/ यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् |
\ENM3.78c[६८ंच्]/ गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही ||\BC. \SC||%[k:gR^ihaM ]
\ENM3.79a[६९ंअ]/ स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता |
\ENM3.79c[६९ंच्]/ सुखं चेहेच्छताऽत्यन्तं योऽधार्यो दुर्बलेन्द्रियैः ||\BC. \SC||
\ENM3.80a[७०ंअ]/ ऋषयः पितरो देवा भूतान्यतिथयस्तथा |
\ENM3.80c[७०ंच्]/ आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ||\BC. \SC||
\ENM3.81a[७१ंअ]/ स्वाध्यायेनार्चयेतऋषीन् होमैर्देवान् यथाविधि |
\ENM3.81c[७१ंच्]/ पितॄंश्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा ||\BC. \SC||
\ENM3.82a[७२ंअ]/ कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा | %[M.dadyAdaharahaH ]
\ENM3.82c[७२ंच्]/ पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ||\BC. \SC||
\ENM3.83a[७३ंअ]/ एकमप्याशयेद् विप्रं पित्र्यर्थे पाञ्चयज्ञिके | %[M.pitryarthaM]
\ENM3.83c[७३ंच्]/ न चैवात्राशयेत् किं चिद् वैश्वदेवं प्रति द्विजम् ||\BC. \SC||
\ENM3.84a[७४ंअ]/ वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् |
\ENM3.84c[७४ंच्]/ आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होममन्वहम् ||\BC. \SC||
\ENM3.85a[७५ंअ]/ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः |
\ENM3.85c[७५ंच्]/ विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ||\BC. \SC||
\ENM3.86a[७६ंअ]/ कुह्वै चैवानुमत्यै च प्रजापतय एव च |
\ENM3.86c[७६ंच्]/ सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ||\BC. \SC||
\ENM3.87a[७७ंअ]/ एवं सम्यग् हविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् |
\ENM3.87c[७७ंच्]/ इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ? ? ||\BC. \SC||
\ENM3.88a[७८ंअ]/ मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ? ? |
\ENM3.88c[७८ंच्]/ वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ||\BC. \SC||
\ENM3.89a[७९ंअ]/ उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः |
\ENM3.89c[७९ंच्]/ ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ||\BC. \SC||
\ENM3.90a[८०ंअ]/ विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् |
\ENM3.90c[८०ंच्]/ दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ||\BC. \SC||
\ENM3.91a[८१ंअ]/ पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये | %[M.sarvAnnabhUtaye ]
\ENM3.91c[८१ंच्]/ पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ||\BC. \SC||
\ENM3.92a[८२ंअ]/ शूनां च पतितानां च श्वपचां पापरोगिणाम् |
\ENM3.92c[८२ंच्]/ वयसानां कृमीणां च शनकैर्निर्वपेद् भुवि ||\BC. \SC||%[M.vayasAM cha]
\ENM3.93a[८३ंअ]/ एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति |
\ENM3.93c[८३ंच्]/ स गच्छति परं स्थानं तेजोमूर्तिः पथार्जुना ||\BC. \SC||
\ENM3.94a[८४ंअ]/ कृत्वैतद् बलिकर्मैवमतिथिं पूर्वमाशयेत् |
\ENM3.94c[८४ंच्]/ भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ||\BC. \SC||
\ENM3.95a[८५ंअ]/ यत् पुण्यफलमाप्नोति गां दत्त्वा विधिवद् गुरोः |
\ENM3.95c[८५ंच्]/ तत् पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ||\BC. \SC||
\ENM3.96a[८६ंअ]/ भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् |
\ENM3.96c[८६ंच्]/ वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ||\BC. \SC||
\ENM3.97a[८७ंअ]/ नश्यन्ति हव्यकव्यानि नराणामविजानताम् |
\ENM3.97c[८७ंच्]/ भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ||\BC. \SC||%[M.bhasmabhUteShu ]
\ENM3.98a[८८ंअ]/ विद्यातपस्समृद्धेषु हुतं विप्रमुखाग्निषु |
\ENM3.98c[८८ंच्]/ निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ||\BC. \SC||
\ENM3.99a[८९ंअ]/ संप्राप्ताय त्वतिथये प्रदद्यादासनौदके |
\ENM3.99c[८९ंच्]/ अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ||\BC. \SC||%[k:sa.nskR^itya##) ##]
\ENM3.100a[९०ंअ]/ शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः |
\ENM3.100c[९०ंच्]/ सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ||\BC. \SC||
\ENM3.101a[९१ंअ]/ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता |
\ENM3.101c[९१ंच्]/ एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन ||\BC. \SC||
\ENM3.102a[९२ंअ]/ एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः |
\ENM3.102c[९२ंच्]/ अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ||\BC. \SC||
\ENM3.103a[९३ंअ]/ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा |
\ENM3.103c[९३ंच्]/ उपस्थितं गृहे विद्याद् भार्या यत्राग्नयोऽपि वा ||\BC. \SC||
\ENM3.104a[९४ंअ]/ उपासते ये गृहस्थाः परपाकमबुद्धयः |
\ENM3.104c[९४ंच्]/ तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः ||\BC. \SC||
\ENM3.105a[९५ंअ]/ अप्रणोद्योऽतिथिः सायं सूर्यौढो गृहमेधिना |
\ENM3.105c[९५ंच्]/ काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ||\BC. \SC||
\ENM3.106a[९६ंअ]/ न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् |
\ENM3.106c[९६ंच्]/ धन्यं यशस्यमायुष्यं स्वर्ग्यं वाऽतिथिपूजनम् ||\BC. \SC||
\ENM3.107a[९७ंअ]/ आसनावसथौ शय्यामनुव्रज्यामुपासनाम् |
\ENM3.107c[९७ंच्]/ उत्तमेषूत्तमं कुर्याद् हीने हीनं समे समम् ||\BC. \SC||
\ENM3.108a[९८ंअ]/ वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् |
\ENM3.108c[९८ंच्]/ तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ||\BC. \SC||
\ENM3.109a[९९ंअ]/ न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् |
\ENM3.109c[९९ंच्]/ भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ||\BC. \SC||
\ENM3.110a[१००ंअ]/ न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते |
\ENM3.110c[१००ंच्]/ वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ||\BC. \SC||
\ENM3.111a[१०१ंअ]/ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् |
\ENM3.111c[१०१ंच्]/ भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ||\BC. \SC||
\ENM3.112a[१०२ंअ]/ वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ |
\ENM3.112c[१०२ंच्]/ भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ||\BC. \SC||
\ENM3.113a[१०३ंअ]/ इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् |
\ENM3.113c[१०३ंच्]/ प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ||\BC. \SC||
\ENM3.114a[१०४ंअ]/ सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः |
\ENM3.114c[१०४ंच्]/ अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ||\BC. \SC||%[M.atithibhyo.anvagevaitAn]
\ENM3.115a[१०५ंअ]/ अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः |
\ENM3.115c[१०५ंच्]/ स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ||\BC. \SC||
\ENM3.116a[१०६ंअ]/ भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि |
\ENM3.116c[१०६ंच्]/ भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ||\BC. \SC||
\ENM3.117a[१०७ंअ]/ देवान् ऋषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः |
\ENM3.117c[१०७ंच्]/ पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ||\BC. \SC||
\ENM3.118a[१०८ंअ]/ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् |
\ENM3.118c[१०८ंच्]/ यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ||\BC. \SC||
\ENM3.119a[१०९ंअ]/ राजर्त्विग्स्नातकगुरून् प्रियश्वशुरमातुलान् |
\ENM3.119c[१०९ंच्]/ अर्हयेन् मधुपर्केण परिसंवत्सरात् पुनः ||\BC. \SC||
\ENM3.120a[११०ंअ]/ राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ | %[Mupasthite ]
\ENM3.120c[११०ंच्]/ मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः ||\BC. \SC||
\ENM3.121a[१११ंअ]/ सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् |
\ENM3.121c[१११ंच्]/ वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते ||\BC. \SC||
\ENM3.122a[११२ंअ]/ पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् | %[k:chaindukShaye ]
\ENM3.122c[११२ंच्]/ पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ||\BC. \SC||
\ENM3.123a[११३ंअ]/ पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः |
\ENM3.123c[११३ंच्]/ तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः ? ? ||\BC. \SC||
\ENM3.124a[११४ंअ]/ तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः |
\ENM3.124c[११४ंच्]/ यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्याम्यशेषतः ||\BC. \SC||
\ENM3.125a[११५ंअ]/ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा | %[M.pitR^ikR^itye]
\ENM3.125c[११५ंच्]/ भोजयेत् सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ||\BC. \SC||%[M.na pravarteta]
\ENM3.126a[११६ंअ]/ सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः |
\ENM3.126c[११६ंच्]/ पञ्चैतान् विस्तरो हन्ति तस्मान्नैहेत विस्तरम् ||\BC. \SC||
\ENM3.127a[११७ंअ]/ प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये |
\ENM3.127c[११७ंच्]/ तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ||\BC. \SC||
\ENM3.128a[११८ंअ]/ श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः |
\ENM3.128c[११८ंच्]/ अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ||\BC. \SC||
\ENM3.129a[११९ंअ]/ एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् | %[M.bhojayan]
\ENM3.129c[११९ंच्]/ पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि ||\BC. \SC||
\ENM3.130a[१२०ंअ]/ दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् |
\ENM3.130c[१२०ंच्]/ तीर्थं तद् हव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ||\BC. \SC||
\ENM3.131a[१२१ंअ]/ सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते |
\ENM3.131c[१२१ंच्]/ एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ||\BC. \SC||
\ENM3.132a[१२२ंअ]/ ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च |
\ENM3.132c[१२२ंच्]/ न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ||\BC. \SC||
\ENM3.133a[१२३ंअ]/ यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् |
\ENM3.133c[१२३ंच्]/ तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ||\BC. \SC||
\ENM3.134a[१२४ंअ]/ ज्ञाननिष्ठा द्विजाः के चित् तपोनिष्ठास्तथाऽपरे |
\ENM3.134c[१२४ंच्]/ तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथाऽपरे ||\BC. \SC||
\ENM3.135a[१२५ंअ]/ ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः |
\ENM3.135c[१२५ंच्]/ हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ||\BC. \SC||
\ENM3.136a[१२६ंअ]/ अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः |
\ENM3.136c[१२६ंच्]/ अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ||\BC. \SC||
\ENM3.137a[१२७ंअ]/ ज्यायांसमनयोर्विद्याद् यस्य स्यात्श्रोत्रियः पिता |
\ENM3.137c[१२७ंच्]/ मन्त्रसंपूजनार्थं तु सत्कारमितरोऽर्हति ||\BC. \SC||
\ENM3.138a[१२८ंअ]/ न श्राद्धे भोजयेन् मित्रं धनैः कार्योऽस्य सङ्ग्रहः |
\ENM3.138c[१२८ंच्]/ नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ||\BC. \SC||
\ENM3.139a[१२९ंअ]/ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च |
\ENM3.139c[१२९ंच्]/ तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ||\BC. \SC||
\ENM3.140a[१३०ंअ]/ यः सङ्गतानि कुरुते मोहात्श्राद्धेन मानवः |
\ENM3.140c[१३०ंच्]/ स स्वर्गाच्च्यवते लोकात्श्राद्धमित्रो द्विजाधमः ||\BC. \SC||
\ENM3.141a[१३१ंअ]/ संभोजानि साऽभिहिता पैशाची दक्षिणा द्विजैः |
\ENM3.141c[१३१ंच्]/ इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ||\BC. \SC||
\ENM3.142a[१३२ंअ]/ यथैरिणे बीजमुप्त्वा न वप्ता लभते फलम् |
\ENM3.142c[१३२ंच्]/ तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ||\BC. \SC||
\ENM3.143a[१३३ंअ]/ दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः |
\ENM3.143c[१३३ंच्]/ विदुषे दक्षिणां दत्त्वा विधिवत् प्रेत्य चैह च ||\BC. \SC||
\ENM3.144a[१३४ंअ]/ कामं श्राद्धेऽर्चयेन् मित्रं नाभिरूपमपि त्वरिम् |
\ENM3.144c[१३४ंच्]/ द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ||\BC. \SC||
\ENM3.145a[१३५ंअ]/ यत्नेन भोजयेत्श्राद्धे बह्वृचं वेदपारगम् |
\ENM3.145c[१३५ंच्]/ शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ||\BC. \SC||
\ENM3.146a[१३६ंअ]/ एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः |
\ENM3.146c[१३६ंच्]/ पितॄणां तस्य तृप्तिः स्यात्शाश्वती साप्तपौरुषी ||\BC. \SC||
\ENM3.147a[१३७ंअ]/ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः |
\ENM3.147c[१३७ंच्]/ अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ||\BC. \SC||
\ENM3.148a[१३८ंअ]/ मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् |
\ENM3.148c[१३८ंच्]/ दौहित्रं विट्पतिं बन्धुं ऋत्विग् याज्यौ च भोजयेत् ||\BC. \SC||
\ENM3.149a[१३९ंअ]/ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् |
\ENM3.149c[१३९ंच्]/ पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ||\BC. \SC||
\ENM3.150a[१४०ंअ]/ ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः |
\ENM3.150c[१४०ंच्]/ तान् हव्यकव्ययोर्विप्राननर्हान् मनुरब्रवीत् ||\BC. \SC||
\ENM3.151a[१४१ंअ]/ जटिलं चानधीयानं दुर्बालं कितवं तथा |
\ENM3.151c[१४१ंच्]/ याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ||\BC. \SC||
\ENM3.152a[१४२ंअ]/ चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा | %[M.chikitsakAdevalakAmA.nsavikrayiNastathA]
\ENM3.152c[१४२ंच्]/ विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ||\BC. \SC||
\ENM3.153a[१४३ंअ]/ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः |
\ENM3.153c[१४३ंच्]/ प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ||\BC. \SC||
\ENM3.154a[१४४ंअ]/ यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः |
\ENM3.154c[१४४ंच्]/ ब्रह्मद्विष्परिवित्तिश्च गणाभ्यन्तर एव च ||\BC. \SC||
\ENM3.155a[१४५ंअ]/ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च |
\ENM3.155c[१४५ंच्]/ पौनर्भवश्च काणश्च यस्य चौपपतिर्गृहे ||\BC. \SC||
\ENM3.156a[१४६ंअ]/ भृतकाध्यापको यश्च भृतकाध्यापितस्तथा |
\ENM3.156c[१४६ंच्]/ शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ||\BC. \SC||
\ENM3.157a[१४७ंअ]/ अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा | %[k:akAraNaparityaktA ]
\ENM3.157c[१४७ंच्]/ ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः ||\BC. \SC||
\ENM3.158a[१४८ंअ]/ अगारदाही गरदः कुण्डाशी सोमविक्रयी |
\ENM3.158c[१४८ंच्]/ समुद्रयायी बन्दी च तैलिकः कूटकारकः ||\BC. \SC||
\ENM3.159a[१४९ंअ]/ पित्रा विवदमानश्च कितवो मद्यपस्तथा |
\ENM3.159c[१४९ंच्]/ पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ||\BC. \SC||
\ENM3.160a[१५०ंअ]/ धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः |
\ENM3.160c[१५०ंच्]/ मित्रध्रुग् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ||\BC. \SC||
\ENM3.161a[१५१ंअ]/ भ्रामरी गन्डमाली च श्वित्र्यथो पिशुनस्तथा |
\ENM3.161c[१५१ंच्]/ उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ||\BC. \SC||
\ENM3.162a[१५२ंअ]/ हस्तिगोऽश्वौष्ट्रदमको नक्षत्रैर्यश्च जीवति |
\ENM3.162c[१५२ंच्]/ पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ||\BC. \SC||
\ENM3.163a[१५३ंअ]/ स्रोतसां भेदको यश्च तेषां चावरणे रतः |
\ENM3.163c[१५३ंच्]/ गृहसंवेशको दूतो वृक्षारोपक एव च ||\BC. \SC||
\ENM3.164a[१५४ंअ]/ श्वक्रीडी श्येनजीवी च कन्यादूषक एव च |
\ENM3.164c[१५४ंच्]/ हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ||\BC. \SC||
\ENM3.165a[१५५ंअ]/ आचारहीनः क्लीबश्च नित्यं याचनकस्तथा |
\ENM3.165c[१५५ंच्]/ कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ||\BC. \SC||
\ENM3.166a[१५६ंअ]/ औरभ्रिको माहिषिकः परपूर्वापतिस्तथा |
\ENM3.166c[१५६ंच्]/ प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ||\BC. \SC||
\ENM3.167a[१५७ंअ]/ एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् |
\ENM3.167c[१५७ंच्]/ द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ||\BC. \SC||
\ENM3.168a[१५८ंअ]/ ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति | %[M.brAhmaNaH hyanadhIyAnaH ]
\ENM3.168c[१५८ंच्]/ तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ||\BC. \SC||
\ENM3.169a[१५९ंअ]/ अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलौदयः | %[M.apa~NktyadAne]
\ENM3.169c[१५९ंच्]/ दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ||\BC. \SC||%[M.daive karmaNi]
\ENM3.170a[१६०ंअ]/ अव्रतैर्यद् द्विजैर्भुक्तं परिवेत्र्यादिभिस्तथा |
\ENM3.170c[१६०ंच्]/ अपाङ्क्तेयैर्यदन्यैश्च तद् वै रक्षांसि भुञ्जते ||\BC. \SC||
\ENM3.171a[१६१ंअ]/ दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते |
\ENM3.171c[१६१ंच्]/ परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ||\BC. \SC||
\ENM3.172a[१६२ंअ]/ परिवित्तिः परिवेत्ता यया च परिविद्यते |
\ENM3.172c[१६२ंच्]/ सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ||\BC. \SC||
\ENM3.173a[१६३ंअ]/ भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः |
\ENM3.173c[१६३ंच्]/ धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ||\BC. \SC||
\ENM3.174a[१६४ंअ]/ परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ |
\ENM3.174c[१६४ंच्]/ पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ||\BC. \SC||
\ENM3.175a[१६५ंअ]/ तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चैह च | %[M.te tu jAtAH parakShetre prANinaH]
\ENM3.175c[१६५ंच्]/ दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ||\BC. \SC||
\ENM3.176a[१६६ंअ]/ अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानाननुपश्यति | %[M.apa~Nktyo yAvataH]
\ENM3.176c[१६६ंच्]/ तावतां न फलं तत्र दाता प्राप्नोति बालिशः ||\BC. \SC||
\ENM3.177a[१६७ंअ]/ वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु | %[M.shatasya cha ]
\ENM3.177c[१६७ंच्]/ पापरोगी सहस्रस्य दातुर्नाशयते फलम् ||\BC. \SC||
\ENM3.178a[१६८ंअ]/ यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः |
\ENM3.168c[१६८ंच्]/ तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ||\BC. \SC||
\ENM3.179a[१६९ंअ]/ वेदविद्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम् |
\ENM3.179c[१६९ंच्]/ विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ||\BC. \SC||
\ENM3.180a[१७०ंअ]/ सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् |
\ENM3.180c[१७०ंच्]/ नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ||\BC. \SC||
\ENM3.181a[१७१ंअ]/ यत् तु वाणिजके दत्तं नैह नामुत्र तद् भवेत् |
\ENM3.181c[१७१ंच्]/ भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ||\BC. \SC||
\ENM3.182a[१७२ंअ]/ इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु | %[
\ENM3.182c[१७२ंच्]/ मेदोऽसृङ्मांसमज्जाऽस्थि वदन्त्यन्नं मनीषिणः ||\BC. \SC||
\ENM3.183a[१७३ंअ]/ अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः | %[M:apa~NktyaupahatA pa~NktiH]
\ENM3.183c[१७३ंच्]/ तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ||\BC. \SC||
\ENM3.184a[१७४ंअ]/ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च |
\ENM3.184c[१७४ंच्]/ श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ||\BC. \SC||
\ENM3.185a[१७५ंअ]/ त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् |
\ENM3.185c[१७५ंच्]/ ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ||\BC. \SC||%[M.brahmadeyAnusantAno ]
\ENM3.186a[१७६ंअ]/ वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः |
\ENM3.186c[१७६ंच्]/ शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ||\BC. \SC||
\ENM3.187a[१७७ंअ]/ पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते |
\ENM3.187c[१७७ंच्]/ निमन्त्रयेत त्र्य्ऽवरान् सम्यग् विप्रान् यथौदितान् ||\BC. \SC||%[M.nimantrayIta ]
\ENM3.188a[१७८ंअ]/ निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा |
\ENM3.188c[१७८ंच्]/ न च छन्दांस्यधीयीत यस्य श्राद्धं च तद् भवेत् ||\BC. \SC||
\ENM3.189a[१७९ंअ]/ निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् |
\ENM3.189c[१७९ंच्]/ वायुवत्चानुगच्छन्ति तथाऽसीनानुपासते ||\BC. \SC||
\ENM3.190a[१८०ंअ]/ केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः |
\ENM3.190c[१८०ंच्]/ कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ||\BC. \SC||
\ENM3.191a[१८१ंअ]/ आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते |
\ENM3.191c[१८१ंच्]/ दातुर्यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ||\BC. \SC||
\ENM3.192a[१८२ंअ]/ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः |
\ENM3.192c[१८२ंच्]/ न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ||\BC. \SC||
\ENM3.193a[१८३ंअ]/ यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः |
\ENM3.193c[१८३ंच्]/ ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ||\BC. \SC||
\ENM3.194a[१८४ंअ]/ मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः |
\ENM3.194c[१८४ंच्]/ तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ||\BC. \SC||
\ENM3.195a[१८५ंअ]/ विराज्सुताः सोमसदः साध्यानां पितरः स्मृताः ? |
\ENM3.195c[१८५ंच्]/ अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ||\BC. \SC||
\ENM3.196a[१८६ंअ]/ दैत्यदानवयक्षाणां गन्धर्वौरगरक्षसाम् |
\ENM3.196c[१८६ंच्]/ सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ||\BC. \SC||
\ENM3.197a[१८७ंअ]/ सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः |
\ENM3.197c[१८७ंच्]/ वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ||\BC. \SC||
\ENM3.198a[१८८ंअ]/ सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः |
\ENM3.198c[१८८ंच्]/ पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ||\BC. \SC||
\ENM3.199a[१८९ंअ]/ अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा | %[M.anagnidagdhAnagnidagdhAn]
\ENM3.199c[१८९ंच्]/ अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ||\BC. \SC||
\ENM3.200a[१९०ंअ]/ य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः |
\ENM3.200c[१९०ंच्]/ तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ||\BC. \SC||
\ENM3.201a[१९१ंअ]/ ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः |
\ENM3.201c[१९१ंच्]/ देवेभ्यस्तु जगत् सर्वं चरं स्थाण्वनुपूर्वशः ||\BC. \SC||
\ENM3.202a[१९२ंअ]/ राजतैर्भाजनैरेषामथो वा रजतान्वितैः |
\ENM3.202c[१९२ंच्]/ वार्यपि श्रद्धया दत्तमक्षयायौपकल्पते ||\BC. \SC||
\ENM3.203a[१९३ंअ]/ दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते |
\ENM3.203c[१९३ंच्]/ दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ||\BC. \SC||
\ENM3.204a[१९४ंअ]/ तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् |
\ENM3.204c[१९४ंच्]/ रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ||\BC. \SC||
\ENM3.205a[१९५ंअ]/ दैवाद्यन्तं तदीहेत पित्र्याद्यन्तं न तद् भवेत् |
\ENM3.205c[१९५ंच्]/ पित्र्याद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ||\BC. \SC||
\ENM3.206a[१९६ंअ]/ शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् |
\ENM3.206c[१९६ंच्]/ दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ||\BC. \SC||
\ENM3.207a[१९७ंअ]/ अवकाशेषु चोक्षेषु जलतीरेषु चैव हि |
\ENM3.207c[१९७ंच्]/ विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ||\BC. \SC||
\ENM3.208a[१९८ंअ]/ आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् |
\ENM3.208c[१९८ंच्]/ उपस्पृष्टौदकान् सम्यग् विप्रांस्तानुपवेशयेत् ||\BC. \SC||
\ENM3.209a[१९९ंअ]/ उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् |
\ENM3.209c[१९९ंच्]/ गन्धमाल्यैः सुरभिभिरर्चयेद् दैवपूर्वकम् ||\BC. \SC||
\ENM3.210a[२००ंअ]/ तेषामुदकमानीय सपवित्रांस्तिलानपि |
\ENM3.210c[२००ंच्]/ अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ||\BC. \SC||
\ENM3.211a[२०१ंअ]/ अग्नेः सोमयमाभ्यां च कृत्वाऽप्यायनमादितः |
\ENM3.211c[२०१ंच्]/ हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ||\BC. \SC||
\ENM3.212a[२०२ंअ]/ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् |
\ENM3.212c[२०२ंच्]/ यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ||\BC. \SC||
\ENM3.213a[२०३ंअ]/ अक्रोधनान् सुप्रसादान् वदन्त्येतान् पुरातनान् |
\ENM3.213c[२०३ंच्]/ लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ||\BC. \SC||%[M.shrAddhe devAn.h dvijottamAn]
\ENM3.214a[२०४ंअ]/ अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् | %[M.AvR^itparikramaM ]
\ENM3.214c[२०४ंच्]/ अपसव्येन हस्तेन निर्वपेदुदकं भुवि ||\BC. \SC||
\ENM3.215a[२०५ंअ]/ त्रींस्तु तस्माद् हविःशेषात् पिण्डान् कृत्वा समाहितः |
\ENM3.215c[२०५ंच्]/ औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ||\BC. \SC||
\ENM3.216a[२०६ंअ]/ न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् |
\ENM3.216c[२०६ंच्]/ तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ||\BC. \SC||
\ENM3.217a[२०७ंअ]/ आचम्यौदक्परावृत्य त्रिरायम्य शनैरसून् |
\ENM3.217c[२०७ंच्]/ षड् ऋतूंश्च नमस्कुर्यात् पितॄनेव च मन्त्रवत् ||\BC. \SC||
\ENM3.218a[२०८ंअ]/ उदकं निनयेत्शेषं शनैः पिण्डान्तिके पुनः |
\ENM3.218c[२०८ंच्]/ अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ||\BC. \SC||
\ENM3.219a[२०९ंअ]/ पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः | %[M.piNDebhyaH svalpikAM]
\ENM3.219c[२०९ंच्]/ तानेव विप्रानासीनान् विधिवत् पूर्वमाशयेत् ||\BC. \SC||
\ENM3.220a[२१०ंअ]/ ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् |
\ENM3.220c[२१०ंच्]/ विप्रवद् वाऽपि तं श्राद्धे स्वकं पितरमाशयेत् ||\BC. \SC||%[M.shrAddhaM ]
\ENM3.221a[२११ंअ]/ पिता यस्य निवृत्तः स्याज् जीवेच्चापि पितामहः | %[M.pitA yasya tu vR^ittaH syAj]
\ENM3.221c[२११ंच्]/ पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ||\BC. \SC||
\ENM3.222a[२१२ंअ]/ पितामहो वा तत्श्राद्धं भुञ्जीतैत्यब्रवीन् मनुः |
\ENM3.222c[२१२ंच्]/ कामं वा समनुज्ञातः स्वयमेव समाचरेत् ||\BC. \SC||
\ENM3.223a[२१३ंअ]/ तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलौदकम् |
\ENM3.223c[२१३ंच्]/ तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ||\BC. \SC||%[M.prayachChet.h tu ]
\ENM3.224a[२१४ंअ]/ पाणिभ्यां तूपसङ्गृह्य स्वयमन्नस्य वर्धितम् | %[M.varddhitam]
\ENM3.224c[२१४ंच्]/ विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ||\BC. \SC||
\ENM3.225a[२१५ंअ]/ उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते |
\ENM3.225c[२१५ंच्]/ तद् विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ||\BC. \SC||
\ENM3.226a[२१६ंअ]/ गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु |
\ENM3.226c[२१६ंच्]/ विन्यसेत् प्रयतः पूर्वं भूमावेव समाहितः ||\BC. \SC||
\ENM3.227a[२१७ंअ]/ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च |
\ENM3.227c[२१७ंच्]/ हृद्यानि चैव मांसानि पानानि सुरभीणि च ||\BC. \SC||
\ENM3.228a[२१८ंअ]/ उपनीय तु तत् सर्वं शनकैः सुसमाहितः |
\ENM3.228c[२१८ंच्]/ परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ||\BC. \SC||
\ENM3.229a[२१९ंअ]/ नास्रमापातयेज् जातु न कुप्येन्नानृतं वदेत् |
\ENM3.229c[२१९ंच्]/ न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ||\BC. \SC||
\ENM3.230a[२२०ंअ]/ अस्रं गमयति प्रेतान् कोपोऽरीननृतं शुनः |
\ENM3.230c[२२०ंच्]/ पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ||\BC. \SC||
\ENM3.231a[२२१ंअ]/ यद् यद् रोचेत विप्रेभ्यस्तत् तद् दद्यादमत्सरः |
\ENM3.231c[२२१ंच्]/ ब्रह्मोद्याश्च कथाः कुर्यात् पितॄणामेतदीप्सितम् ||\BC. \SC||
\ENM3.232a[२२२ंअ]/ स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि |
\ENM3.232c[२२२ंच्]/ आख्यानानीतिहासांश्च पुराणानि खिलानि च ||\BC. \SC||
\ENM3.233a[२२३ंअ]/ हर्षयेद् ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः |
\ENM3.233c[२२३ंच्]/ अन्नाद्येनासकृच्चैतान् गुणैश्च परिचोदयेत् ||\BC. \SC||
\ENM3.234a[२२४ंअ]/ व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् |
\ENM3.234c[२२४ंच्]/ कुतपं चासनं दद्यात् तिलैश्च विकिरेन् महीम् ||\BC. \SC||
\ENM3.235a[२२५ंअ]/ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः |
\ENM3.235c[२२५ंच्]/ त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ||\BC. \SC||
\ENM3.236a[२२६ंअ]/ अत्युष्णं सर्वमन्नं स्याद् भुञ्जीरंस्ते च वाग्यताः |
\ENM3.236c[२२६ंच्]/ न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ||\BC. \SC||
\ENM3.237a[२२७ंअ]/ यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः |
\ENM3.237c[२२७ंच्]/ पितरस्तावदश्नन्ति यावन्नओक्ता हविर्गुणाः ||\BC. \SC||
\ENM3.238a[२२८ंअ]/ यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः |
\ENM3.238c[२२८ंच्]/ सौपानत्कश्च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ||\BC. \SC||
\ENM3.239a[२२९ंअ]/ चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च |
\ENM3.239c[२२९ंच्]/ रजस्वला च षण्ढश्च नैक्षेरन्नश्नतो द्विजान् ||\BC. \SC||
\ENM3.240a[२३०ंअ]/ होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते |
\ENM3.240c[२३०ंच्]/ दैवे हविषि पित्र्ये वा तद् गच्छत्ययथातथम् ||\BC. \SC||
\ENM3.241a[२३१ंअ]/ घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः | %[M.shUkaro ]
\ENM3.241c[२३१ंच्]/ श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ||\BC. \SC||
\ENM3.242a[२३२ंअ]/ खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् |
\ENM3.242c[२३२ंच्]/ हीनातिरिक्तगात्रो वा तमप्यपनयेत् पुनः ||\BC. \SC||
\ENM3.243a[२३३ंअ]/ ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् |
\ENM3.243c[२३३ंच्]/ ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ||\BC. \SC||
\ENM3.244a[२३४ंअ]/ सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा |
\ENM3.244c[२३४ंच्]/ समुत्सृजेद् भुक्तवतामग्रतो विकिरन् भुवि ||\BC. \SC||
\ENM3.245a[२३५ंअ]/ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् |
\ENM3.245c[२३५ंच्]/ उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश्च यः ||\BC. \SC||
\ENM3.246a[२३६ंअ]/ उच्छेषणां भूमिगतमजिह्मस्याशठस्य च |
\ENM3.246c[२३६ंच्]/ दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ||\BC. \SC||
\ENM3.247a[२३७ंअ]/ आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु |
\ENM3.247c[२३७ंच्]/ अदैवं भोजयेत्श्राद्धं पिण्डमेकं च निर्वपेत् ||\BC. \SC||
\ENM3.248a[२३८ंअ]/ सहपिण्डक्रियायां तु कृतायामस्य धर्मतः |
\ENM3.248c[२३८ंच्]/ अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः ||\BC. \SC||
\ENM3.249a[२३९ंअ]/ श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति |
\ENM3.249c[२३९ंच्]/ स मूढो नरकं याति कालसूत्रमवाक्षिराः ||\BC. \SC||
\ENM3.250a[२४०ंअ]/ श्राद्धभुग् वृषलीतल्पं तदहर्योऽधिगच्छति |
\ENM3.250c[२४०ंच्]/ तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ||\BC. \SC||
\ENM3.251a[२४१ंअ]/ पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत् ततः |
\ENM3.251c[२४१ंच्]/ आचान्तांश्चानुजानीयादभितो रम्यतामिति ||\BC. \SC||
\ENM3.252a[२४२ंअ]/ स्वधाऽस्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् |
\ENM3.252c[२४२ंच्]/ स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु ||\BC. \SC||
\ENM3.253a[२४३ंअ]/ ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् |
\ENM3.253c[२४३ंच्]/ यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ||\BC. \SC||
\ENM3.254a[२४४ंअ]/ पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम् |
\ENM3.254c[२४४ंच्]/ संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ||\BC. \SC||%[M.saMpannam]
\ENM3.255a[२४५ंअ]/ अपराह्णस्तथा दर्भा वास्तुसंपादनं तिलाः | %[M.saMpAdanaM]
\ENM3.255c[२४५ंच्]/ सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः ||\BC. \SC||
\ENM3.256a[२४६ंअ]/ दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः |
\ENM3.256c[२४६ंच्]/ पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः ||\BC. \SC||
\ENM3.257a[२४७ंअ]/ मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् |
\ENM3.257c[२४७ंच्]/ अक्सारलवणं चैव प्रकृत्या हविरुच्यते ||\BC. \SC||
\ENM3.258a[२४८ंअ]/ विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः | %[M.visarjya brAhmanA.nstA.nstu prayato vidhipUrvakam]
\ENM3.258c[२४८ंच्]/ दक्षिणां दिशमाकाङ्क्षन् याचेतैमान् वरान् पितॄन् ||\BC. \SC||
\ENM3.259a[२४९ंअ]/ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च |
\ENM3.259c[२४९ंच्]/ श्रद्धा च नो मा व्यगमद् बहुदेयं च नोऽस्त्विति ||\BC. \SC||
\ENM3.260a[२५०ंअ]/ एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् |
\ENM3.260c[२५०ंच्]/ गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ||\BC. \SC||
\ENM3.261a[२५१ंअ]/ पिण्डनिर्वपणं के चित् परस्तादेव कुर्वते |
\ENM3.261c[२५१ंच्]/ वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ||\BC. \SC||
\ENM3.262a[२५२ंअ]/ पतिव्रता धर्मपत्नी पितृपूजनतत्परा |
\ENM3.262c[२५२ंच्]/ मध्यमं तु ततः पिण्डमद्यात् सम्यक् सुतार्थिनी ||\BC. \SC||
\ENM3.263a[२५३ंअ]/ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् |
\ENM3.263c[२५३ंच्]/ धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ||\BC. \SC||
\ENM3.264a[२५४ंअ]/ प्रक्षाल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् |
\ENM3.264c[२५४ंच्]/ ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ||\BC. \SC||%[M.datvA]
\ENM3.265a[२५५ंअ]/ उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः | %[k:yat.h tiShThed.h ]
\ENM3.265c[२५५ंच्]/ ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ||\BC. \SC||
\ENM3.266a[२५६ंअ]/ हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते |
\ENM3.266c[२५६ंच्]/ पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्यशेषतः ||\BC. \SC||
\ENM3.267a[२५७ंअ]/ तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा |
\ENM3.267c[२५७ंच्]/ दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ||\BC. \SC||
\ENM3.268a[२५८ंअ]/ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु |
\ENM3.268c[२५८ंच्]/ औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ||\BC. \SC||
\ENM3.269a[२५९ंअ]/ षण्मासांश्छागमांसेन पार्षतेन च सप्त वै |
\ENM3.269c[२५९ंच्]/ अष्टावेनस्य मांसेन रौरवेण नवैव तु ||\BC. \SC||%[M.aiNeyamA.nsena ]
\ENM3.270a[२६०ंअ]/ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः |
\ENM3.270c[२६०ंच्]/ शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ||\BC. \SC||
\ENM3.271a[२६१ंअ]/ संवत्सरं तु गव्येन पयसा पायसेन च | %[M.sa.nvatsare ]
\ENM3.271c[२६१ंच्]/ वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ||\BC. \SC||
\ENM3.272a[२६२ंअ]/ कालशाकं महाशल्काः खङ्गलोहामिषं मधु |
\ENM3.272c[२६२ंच्]/ आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ||\BC. \SC||
\ENM3.273a[२६३ंअ]/ यत् किं चिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् |
\ENM3.273c[२६३ंच्]/ तदप्यक्षयमेव स्याद् वर्षासु च मघासु च ||\BC. \SC||
\ENM3.274a[२६४ंअ]/ अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् |
\ENM3.274c[२६४ंच्]/ पायसं मधुसर्पिर्भ्यां प्राक् छाये कुञ्जरस्य च ||\BC. \SC||
\ENM3.275a[२६५ंअ]/ यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः |
\ENM3.275c[२६५ंच्]/ तत् तत् पितॄणां भवति परत्रानन्तमक्षयम् ||\BC. \SC||
\ENM3.276a[२६६ंअ]/ कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् |
\ENM3.276c[२६६ंच्]/ श्राद्धे प्रशस्तास्तिथयो यथैता न तथैतराः ||\BC. \SC||
\ENM3.277a[२६७ंअ]/ युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते |
\ENM3.277c[२६७ंच्]/ अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ||\BC. \SC||
\ENM3.278a[२६८ंअ]/ यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते |
\ENM3.278c[२६८ंच्]/ तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ||\BC. \SC||
\ENM3.279a[२६९ंअ]/ प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा |
\ENM3.279c[२६९ंच्]/ पित्र्यमानिधनात् कार्यं विधिवद् दर्भपाणिना ||\BC. \SC||
\ENM3.280a[२७०ंअ]/ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा |
\ENM3.280c[२७०ंच्]/ संध्ययोरुभयोश्चैव सूर्ये चैवाचिरौदिते ||\BC. \SC||
\ENM3.281a[२७१ंअ]/ अनेन विधिना श्राद्धं त्रिरब्दस्यैह निर्वपेत् |
\ENM3.281c[२७१ंच्]/ हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ||\BC. \SC||
\ENM3.282a[२७२ंअ]/ न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते |
\ENM3.282c[२७२ंच्]/ न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ||\BC. \SC||
\ENM3.283a[२७३ंअ]/ यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः |
\ENM3.283c[२७३ंच्]/ तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ||\BC. \SC||
\ENM3.284a[२७४ंअ]/ वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान् |
\ENM3.284c[२७४ंच्]/ प्रपितामहांस्तथाऽदित्यान् श्रुतिरेषा सनातनी ||\BC. \SC||
\ENM3.285a[२७५ंअ]/ विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः |
\ENM3.285c[२७५ंच्]/ विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ||\BC. \SC||
\ENM3.286a[२७६ंअ]/ एतद् वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् |
\ENM3.286c[२७६ंच्]/ द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ||\BC. \SC||
\separate
अध्याय ४
\ENM4.01a/ चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः |
\ENM4.01c/ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ||\BC. \SC||
\ENM4.02a/ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः |
\ENM4.02c/ या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ||\BC. \SC||
\ENM4.03a/ यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः |
\ENM4.03c/ अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ||\BC. \SC||
\ENM4.04a/ ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन वा |
\ENM4.04c/ सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ||\BC. \SC||
\ENM4.05a/ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् |
\ENM4.05c/ मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ||\BC. \SC||
\ENM4.06a/ सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते |
\ENM4.06c/ सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत् ||\BC. \SC||
\ENM4.07a/ कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा |
\ENM4.07c/ त्र्यहेहिको वाऽपि भवेदश्वस्तनिक एव वा ||\BC. \SC||
\ENM4.08a/ चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् |
\ENM4.08c/ ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ||\BC. \SC||
\ENM4.09a/ षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते |
\ENM4.09c/ द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति ||\BC. \SC||
\ENM4.10a/ वर्तयंश्च शिलौञ्छाभ्यामग्निहोत्रपरायणः |
\ENM4.10c/ इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ||\BC. \SC||
\ENM4.11a/ न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन |
\ENM4.11c/ अजिह्मामशथां शुद्धां जीवेद् ब्राह्मणजीविकाम् ||\BC. \SC||
\ENM4.12a/ संतोषं परमास्थाय सुखार्थी संयतो भवेत् |
\ENM4.12c/ संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ||\BC. \SC||
\ENM4.13a/ अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः |
\ENM4.13c/ स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ||\BC. \SC||%[M.svargyAyuShya ]
\ENM4.14a/ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः |
\ENM4.14c/ तद् हि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ||\BC. \SC||
\ENM4.15a/ नैहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा |
\ENM4.15c/ न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ||\BC. \SC||%[M.na kalpamAneShvartheShu ]
\ENM4.16a/ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः |
\ENM4.16c/ अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ||\BC. \SC||
\ENM4.17a/ सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः |
\ENM4.17c/ यथा तथाऽध्यापयंस्तु सा ह्यस्य कृतकृत्यता ||\BC. \SC||
\ENM4.18a/ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च |
\ENM4.18c/ वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ||\BC. \SC||
\ENM4.19a/ बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च |
\ENM4.19c/ नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ||\BC. \SC||
\ENM4.20a/ यथा यथा हि पुरुषः शास्त्रं समधिगच्छति |
\ENM4.20c/ तथा तथा विजानाति विज्ञानं चास्य रोचते ||\BC. \SC||
\ENM4.21a/ ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा |
\ENM4.21c/ नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ||\BC. \SC||
\ENM4.22a/ एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः |
\ENM4.22c/ अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ||\BC. \SC||
\ENM4.23a/ वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा |
\ENM4.23c/ वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ||\BC. \SC||
\ENM4.24a/ ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा | %[M. yajante tairmakhaiH sadA]
\ENM4.24c/ ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ||\BC. \SC||
\ENM4.25a/ अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा |
\ENM4.25c/ दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ||\BC. \SC||
\ENM4.26a/ सस्यान्ते नवसस्येष्ट्या तथार्तुअन्ते द्विजोऽध्वरैः |
\ENM4.26c/ पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः ||\BC. \SC||%[M.ayanAnte tu samA.nte]
\ENM4.27a/ नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः |
\ENM4.27c/ नवान्नमद्यात्मांसं वा दीर्घमायुर्जिजीविषुः ||\BC. \SC||
\ENM4.28a/ नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः |
\ENM4.28c/ प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ||\BC. \SC||
\ENM4.29a/ आसनाशनशय्याभिरद्भिर्मूलफलेन वा |
\ENM4.29c/ नास्य कश्चिद् वसेद् गेहे शक्तितोऽनर्चितोऽतिथिः ||\BC. \SC||
\ENM4.30a/ पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् |
\ENM4.30c/ हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ||\BC. \SC||
\ENM4.31a/ वेदविद्याव्रतस्नातांश्रोत्रियान् गृहमेधिनः |
\ENM4.31c/ पूजयेद् हव्यकव्येन विपरीतांश्च वर्जयेत् ||\BC. \SC||
\ENM4.32a/ शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना |
\ENM4.32c/ संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ||\BC. \SC||
\ENM4.33a/ राजतो धनमन्विच्छेत् संसीदन् स्नातकः क्षुधा |
\ENM4.33c/ याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ||\BC. \SC||
\ENM4.34a/ न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन |
\ENM4.34c/ न जीर्णमलवद्वासा भवेच्च विभवे सति ||\BC. \SC||
\ENM4.35a/ कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः |
\ENM4.35c/ स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ||\BC. \SC||
\ENM4.36a/ वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् |
\ENM4.36c/ यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ||\BC. \SC||
\ENM4.37a/ नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन |
\ENM4.37c/ नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ||\BC. \SC||
\ENM4.38a/ न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच्च वर्षति |
\ENM4.38c/ न चोदके निरीक्षेत स्वरूपमिति धारणा ||\BC. \SC||
\ENM4.39a/ मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् |
\ENM4.39c/ प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ||\BC. \SC||
\ENM4.40a/ नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्तवदर्शने |
\ENM4.40c/ समानशयने चैव न शयीत तया सह ||\BC. \SC||
\ENM4.41a/ रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः |
\ENM4.41c/ प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ||\BC. \SC||
\ENM4.42a/ तां विवर्जयतस्तस्य रजसा समभिप्लुताम् |
\ENM4.42c/ प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ||\BC. \SC||
\ENM4.43a/ नाश्नीयाद् भार्यया सार्धं नैनामीक्षेत चाश्नतीम् |
\ENM4.43c/ क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ||\BC. \SC||
\ENM4.44a/ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् |
\ENM4.44c/ न पश्येत् प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ||\BC. \SC||
\ENM4.45a/ नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् |
\ENM4.45c/ न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ||\BC. \SC||
\ENM4.46a/ न फालकृष्टे न जले न चित्यां न च पर्वते |
\ENM4.46c/ न जीर्णदेवायतने न वल्मीके कदा चन ||\BC. \SC||
\ENM4.47a/ न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः |
\ENM4.47c/ न नदीतीरमासाद्य न च पर्वतमस्तके ||\BC. \SC||
\ENM4.48a/ वायुअग्निविप्रमादित्यमपः पश्यंस्तथैव गाः |
\ENM4.48c/ न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ||\BC. \SC||
\ENMK4.49a[५०ंअ]/ तिरस्कृत्योच्चरेत् काष्ठलोष्ठपत्रतृणादिना | %[M.tR^iNAdi cha]
\ENMK4.49c[५०ंच्]/ नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ||\BC. \SC||
\ENMK4.50a[५१ंअ]/ मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः |
\ENMK4.50c[५१ंच्]/ दक्षिणाऽभिमुखो रात्रौ संध्यायोश्च यथा दिवा ||\BC. \SC||
\ENMK4.51a[५२ंअ]/ छायायामन्धकारे वा रात्रावहनि वा द्विजः |
\ENMK4.51c[५२ंच्]/ यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ||\BC. \SC||
\ENMK4.52a[४९ंअ]/ प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् |
\ENMK4.52c[४९ंच्]/ प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ||\BC. \SC||%[k:pratigAM prativAtaM]
\ENM4.53a/ नाग्निं मुखेनोपधमेन्नग्नां नैक्षेत च स्त्रियम् |
\ENM4.53c/ नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ||\BC. \SC||
\ENM4.54a/ अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् |
\ENM4.54c/ न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ||\BC. \SC||
\ENM4.55a/ नाश्नीयात् संधिवेलायां न गच्छेन्नापि संविशेत् | %[
\ENM4.55c/ न चैव प्रलिखेद् भूमिं नात्मनोऽपहरेत् स्रजम् ||\BC. \SC||
\ENM4.56a/ नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् |
\ENM4.56c/ अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा |
\ENM4.57a/ नैकः सुप्यात्शून्यगेहे न श्रेयांसं प्रबोधयेत् | %[shUnyagR^ihe svapyAn]
\ENM4.57c/ नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चावृतः ||\BC. \SC||
\ENM4.58a/ अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ |
\ENM4.58c/ स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ||\BC. \SC||
\ENM4.59a/ न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित् |
\ENM4.59c/ न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ||\BC. \SC||
\ENM4.60a/ नाधर्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् |
\ENM4.60c/ नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ||\BC. \SC||
\ENM4.61a/ न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते |
\ENM4.61c/ न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ||\BC. \SC||
\ENM4.62a/ न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ||
\ENM4.62c/ नातिप्रगे नातिसायं न सायं प्रातराशितः ||\BC. \SC||
\ENM4.63a/ न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् |
\ENM4.63c/ नोत्सङ्गे भक्षयेद् भक्ष्यान्न जातु स्यात् कुतूहली ||\BC. \SC||
\ENM4.64a/ न नृत्येदथ वा गायेन्न वादित्राणि वादयेत् | %[M.na nR^ityennaiva gAyechcha na vAditrANi vAdayet##) ##]
\ENM4.64c/ नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ||\BC. \SC||%[M.na cha rakto virodhayet]
\ENM4.65a/ न पादौ धावयेत् कांस्ये कदा चिदपि भाजने |
\ENM4.65c/ न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ||\BC. \SC||
\ENM4.66a/ उपानहौ च वासश्च धृतमन्यैर्न धारयेत् |
\ENM4.66c/ उपवीतमलङ्कारं स्रजं करकमेव च ||\BC. \SC||
\ENM4.67a/ नाविनीतैर्भजेद् धुर्यैर्न च क्षुध्व्याधिपीडितैः | %[M.nAvinItairvrajed##) ##]
\ENM4.67c/ न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ||\BC. \SC||
\ENM4.68a/ विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः |
\ENM4.68c/ वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ||\BC. \SC||%[M.pratodenAkShipan]
\ENM4.69a/ बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथाऽसनम् |
\ENM4.69c/ न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ||\BC. \SC||%[M.na chChindyAn]
\ENM4.70a/ न मृत्लोष्ठं च मृद्नीयान्न छिन्द्यात् करजैस्तृणम् | %[M.chChindyAt]
\ENM4.70c/ न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ||\BC. \SC||
\ENM4.71a/ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः |
\ENM4.71c/ स विनाशं व्रजत्याशु सूचकाऽशुचिरेव च ||\BC. \SC||%[M.sUchako.ashuchireva cha]
\ENM4.72a/ न विगर्ह्य कथां कुर्याद् बहिर्माल्यं न धारयेत् | %[M. na vigR^ihya kathAM kuryAd]
\ENM4.72c/ गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ||\BC. \SC||
\ENM4.73a/ अद्वारेण च नातीयाद् ग्रामं वा वेश्म वाऽवृतम् |
\ENM4.73c/ रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ||\BC. \SC||
\ENM4.74a/ नाक्षैर्दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत् |
\ENM4.74c/ शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ||\BC. \SC||
\ENM4.75a/ सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ |
\ENM4.75c/ न च नग्नः शयीतैह न चोच्छिष्टः क्व चिद् व्रजेत् ||\BC. \SC||
\ENM4.76a/ आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् |
\ENM4.76c/ आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ||\BC. \SC||
\ENM4.77a/ अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित् |
\ENM4.77c/ न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ||\BC. \SC||
\ENM4.78a/ अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः |
\ENM4.78c/ न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः ||\BC. \SC||
\ENM4.79a/ न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः |
\ENM4.79c/ न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ||\BC. \SC||
\ENM4.80a/ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् |
\ENM4.80c/ न चास्योपदिशेद् धर्मं न चास्य व्रतमादिशेत् ||\BC. \SC||
\ENM4.81a/ यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् |
\ENM4.81c/ सोऽसंवृतं नाम तमः सह तेनैव मज्जति ||\BC. \SC||
\ENM4.82a/ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः |
\ENM4.82c/ न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद् विना ततः ||\BC. \SC||
\ENM4.83a/ केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् |
\ENM4.83c/ शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ||\BC. \SC||
\ENM4.84a/ न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः |
\ENM4.84c/ सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ||\BC. \SC||
\ENM4.85a/ दशसूनासमं चक्रं दशचक्रसमो ध्वजः |
\ENM4.85c/ दशध्वजसमो वेशो दशवेशसमो नृपः ||\BC. \SC||
\ENM4.86a/ दश सूणासहस्राणि यो वाहयति सौनिकः |
\ENM4.86c/ तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ||\BC. \SC||
\ENM4.87a/ यो राज्ञः प्रतिगृह्णाति लुब्धस्यौच्छास्त्रवर्तिनः |
\ENM4.87c/ स पर्यायेण यातीमान्नरकानेकविंशतिम् ||\BC. \SC||
\ENM4.88a/ तामिस्रमन्धतामिस्रं महारौरवरौरवौ |
\ENM4.88c/ नरकं कालसूत्रं च महानरकमेव च ||\BC. \SC||
\ENM4.89a/ सञ्जीवनं महावीचिं तपनं संप्रतापनम् |
\ENM4.89c/ संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ||\BC. \SC||%[M.pUtimR^ittikaM ]
\ENM4.90a/ लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् |
\ENM4.90c/ असिपत्रवनं चैव लोहदारकमेव च ||\BC. \SC||
\ENM4.91a/ एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः |
\ENM4.91c/ न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ||\BC. \SC||
\ENM4.92a/ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् |
\ENM4.92c/ कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ||\BC. \SC||
\ENM4.93a/ उत्थायावश्यकं कृत्वा कृतशौचः समाहितः |
\ENM4.93c/ पूर्वां संध्यां जपंस्तिष्ठेत् स्वकाले चापरां चिरम् ||\BC. \SC||%[
\ENM4.94a/ ऋषयो दीर्घसंध्यत्वाद् दीर्घमायुरवाप्नुयुः |
\ENM4.94c/ प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ||\BC. \SC||
\ENM4.95a/ श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि |
\ENM4.95c/ युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ||\BC. \SC||
\ENM4.96a/ पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः |
\ENM4.96c/ माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ||\BC. \SC||
\ENM4.97a/ यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः |
\ENM4.97c/ विरमेत् पक्षिणीं रात्रिं तदेवैकमहर्निशम् ||\BC. \SC||
\ENM4.98a/ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् |
\ENM4.98c/ वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ||\BC. \SC||
\ENM4.99a/ नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ |
\ENM4.99c/ न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ||\BC. \SC||
\ENM4.100a/ यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् |
\ENM4.100c/ ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ||\BC. \SC||
\ENM4.101a/ इमान्नित्यमनध्यायानधीयानो विवर्जयेत् |
\ENM4.101c/ अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ||\BC. \SC||
\ENM4.102a/ कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने |
\ENM4.102c/ एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ||\BC. \SC||
\ENM4.103a/ विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे |
\ENM4.103c/ आकालिकमनध्यायमेतेषु मनुरब्रवीत् ||\BC. \SC||
\ENM4.104a/ एतांस्त्वभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु |
\ENM4.104c/ तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ||\BC. \SC||
\ENM4.105a/ निर्घाते भूमिचलने ज्योतिषां चोपसर्जने |
\ENM4.104c/ एतानाकालिकान् विद्यादनध्यायान् ऋतावपि ||\BC. \SC||
\ENM4.106a/ प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने |
\ENM4.106c/ सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ||\BC. \SC||
\ENM4.107a/ नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च |
\ENM4.107c/ धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ||\BC. \SC||%[M.sarvashaH ]
\ENM4.108a/ अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ |
\ENM4.108c/ अनध्यायो रुद्यमाने समवाये जनस्य च ||\BC. \SC||
\ENM4.109a/ उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने |
\ENM4.109c/ उच्छिष्टः श्राद्धभुक् चैव मनसाऽपि न चिन्तयेत् ||\BC. \SC||
\ENM4.110a/ प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् | %[MekoddiShTaniketanam]
\ENM4.110c/ त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ||\BC. \SC||
\ENM4.111a/ यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति |
\ENM4.111c/ विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ||\BC. \SC||
\ENM4.112a/ शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् |
\ENM4.112c/ नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ||\BC. \SC||
\ENM4.113a/ नीहारे बाणशब्दे च संध्ययोरेव चोभयोः |
\ENM4.113c/ अमावास्याचतुर्दश्योः पौर्णमास्य्ऽष्टकासु च ||\BC. \SC||
\ENM4.114a/ अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी |
\ENM4.114c/ ब्रह्माष्टकपौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ||\BC. \SC||
\ENM4.115a/ पांसुवर्षे दिशां दाहे गोमायुविरुते तथा |
\ENM4.115c/ श्वखरोष्ट्रे च रुवति पङ्क्तो च न पठेद् द्विजः ||\BC. \SC||
\ENM4.116a/ नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा |
\ENM4.116c/ वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ||\BC. \SC||
\ENM4.117a/ प्राणि वा यदि वाऽप्राणि यत् किं चित्श्राद्धिकं भवेत् |
\ENM4.117c/ तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ? ? ||\BC. \SC||
\ENM4.118a/ चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते | % ][M.chorairupaplute##, ## saMbhrame]
\ENM4.118c/ आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च ||\BC. \SC||
\ENM4.119a/ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् |
\ENM4.119c/ अष्टकासु त्वहोरात्रं ऋत्वन्तासु च रात्रिषु ||\BC. \SC||
\ENM4.120a/ नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् |
\ENM4.120c/ न नावं न खरं नोष्ट्रं नैरिणस्थो न यानगः ||\BC. \SC||
\ENM4.121a/ न विवादे न कलहे न सेनायां न सङ्गरे |
\ENM4.121c/ न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ||\BC. \SC||
\ENM4.122a/ अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् |
\ENM4.122c/ रुधिरे च स्रुते गात्रात्शस्त्रेण च परिक्षते ||\BC. \SC||
\ENM4.123a/ सामध्वनावृग्यजुषी नाधीयीत कदा चन |
\ENM4.123c/ वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ||\BC. \SC||
\ENM4.124a/ ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः |
\ENM4.124c/ सामवेदः स्मृतः पित्र्यस्तस्मात् तस्याशुचिर्ध्वनिः ||\BC. \SC||
\ENM4.125a/ एतद् विद्वन्तो ? ? विद्वांसस्त्रयीनिष्कर्षमन्वहम् |
\ENM4.125c/ क्रमतः पूर्वमभ्यस्य पश्चाद् वेदमधीयते ||\BC. \SC||
\ENM4.126a/ पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः |
\ENM4.126c/ अन्तरागमने विद्यादनध्यायमहर्निशम् ||\BC. \SC||
\ENM4.127a/ द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः |
\ENM4.127c/ स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः ||\BC. \SC||
\ENM4.128a/ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् |
\ENM4.128c/ ब्रह्मचारी भवेन्नित्यमप्यर्तौ स्नातको द्विजः ||\BC. \SC||
\ENM4.129a/ न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि |
\ENM4.129c/ न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ||\BC. \SC||
\ENM4.130a/ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा |
\ENM4.130c/ नाक्रामेत् कामतश्छायां बभ्रुणो दीक्षितस्य च ||\BC. \SC||
\ENM4.131a/ मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् |
\ENM4.131c/ संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ||\BC. \SC||
\ENM4.132a/ उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च |
\ENM4.132c/ श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ||\BC. \SC||
\ENM4.133a/ वैरिणं नोपसेवेत सहायं चैव वैरिणः |
\ENM4.133c/ अधार्मिकं तस्करं च परस्यैव च योषितम् ||\BC. \SC||
\ENM4.134a/ न हीदृशमनायुष्यं लोके किं चन विद्यते |
\ENM4.134c/ यादृशं पुरुषस्येह परदारोपसेवनम् ||\BC. \SC||
\ENM4.135a/ क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् |
\ENM4.135c/ नावमन्येत वै भूष्णुः कृशानपि कदा चन ||\BC. \SC||
\ENM4.136a/ एतत् त्रयं हि पुरुषं निर्दहेदवमानितम् |
\ENM4.136c/ तस्मादेतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ||\BC. \SC||
\ENM4.137a/ नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः |
\ENM4.137c/ आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ||\BC. \SC||
\ENM4.138a/ सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् |
\ENM4.138c/ प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ||\BC. \SC||
\ENM4.139a/ भद्रं भद्रमिति ब्रूयाद् भद्रमित्येव वा वदेत् |
\ENM4.139c/ शुष्कवैरं विवादं च न कुर्यात् केन चित् सह ||\BC. \SC||
\ENM4.140a/ नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते |
\ENM4.140c/ नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ||\BC. \SC||
\ENM4.141a/ हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् |% \BC##. ##\SC||%[M.vayo##' ##atigAn]
\ENM4.141c/ रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ||\BC. \SC||%[M.rUpadravyahInA.nshcha]
\ENM4.142a/ न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् |
\ENM4.142c/ न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा ||\BC. \SC||%[M.svastho jyotirgaNAn.h divi]
\ENM4.143a/ स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् |
\ENM4.143c/ गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ||\BC. \SC||
\ENM4.144a/ अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः |
\ENM4.144c/ रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ||\BC. \SC||
\ENM4.145a/ मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः |
\ENM4.145c/ जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ||\BC. \SC||
\ENM4.146a/ मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् |
\ENM4.146c/ जपतां जुह्वतां चैव विनिपातो न विद्यते ||\BC. \SC||
\ENM4.147a/ वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः | %[M.vedameva japen]
\ENM4.147c/ तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ||\BC. \SC||
\ENM4.148a/ वेदाभ्यासेन सततं शौचेन तपसैव च |
\ENM4.148c/ अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ||\BC. \SC||
\ENM4.149a/ पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः | %[M.dvijaH]
\ENM4.149c/ ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ||\BC. \SC||
\ENM4.150a/ सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः | %[M.sAvitrAn.h shAntihomA.nsh]
\ENM4.150c/ पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ||\BC. \SC||
\ENM4.151a/ दूरादावसथान् मूत्रं दूरात् पादावसेचनम् |
\ENM4.151c/ उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ||\BC. \SC||
\ENM4.152a/ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् |
\ENM4.152c/ पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ||\BC. \SC||
\ENM4.153a/ दैवतान्यभिगच्छेत् तु धार्मिकांश्च द्विजोत्तमान् |
\ENM4.153c/ ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु |
\ENM4.154a/ अभिवादयेद् वृद्धांश्च दद्याच्चैवासनं स्वकम् |
\ENM4.154c/ कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ||\BC. \SC||
\ENM4.155a/ श्रुतिस्मृत्योदितं सम्यग़् निबद्धं स्वेषु कर्मसु |
\ENM4.155c/ धर्ममूलं निषेवेत सदाचारमतन्द्रितः ||\BC. \SC||
\ENM4.156a/ आचारात्लभते ह्यायुराचारादीप्सिताः प्रजाः |
\ENM4.156c/ आचाराद् धनमक्षय्यमाचारो हन्त्यलक्षणम् ||\BC. \SC||
\ENM4.157a/ दुराचारो हि पुरुषो लोके भवति निन्दितः |
\ENM4.157c/ दुःखभागी च सततं व्याधितोऽल्पायुरेव च ||\BC. \SC||
\ENM4.158a/ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः |
\ENM4.158c/ श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ||\BC. \SC||
\ENM4.159a/ यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ||\BC. \SC||
\ENM4.159c/ यद् यदात्मवशं तु स्यात् तत् तत् सेवेत यत्नतः |
\ENM4.160a/ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् |
\ENM4.160c/ एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ||\BC. \SC||
\ENM4.161a/ यत् कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः |
\ENM4.161c/ तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ||\BC. \SC||
\ENM4.162a/ आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् |
\ENM4.162c/ न हिंस्याद् ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ||\BC. \SC||
\ENM4.163a/ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् |
\ENM4.163c/ द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ह्ण्यं च वर्जयेत् ||\BC. \SC||%[M.dveShaM stambhaM cha]
\ENM4.164a/ परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् |
\ENM4.164c/ अन्यत्र पुत्रात्शिष्याद् वा शिष्ट्यर्थं ताडयेत् तु तौ ||\BC. \SC||
\ENM4.165a/ ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ? ? |
\ENM4.165c/ शतं वर्षाणि तामिस्रे नरके परिवर्तते ||\BC. \SC||
\ENM4.166a/ ताडयित्वा तृणेनापि संरम्भात्मतिपूर्वकम् |
\ENM4.166c/ एकविंशतीमाजातीः पापयोनिषु जायते ||\BC. \SC||
\ENM4.167a/ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः |
\ENM4.167c/ दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ||\BC. \SC||
\ENM4.168a/ शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात् |
\ENM4.168c/ तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ||\BC. \SC||
\ENM4.169a/ न कदा चिद् द्विजे तस्माद् विद्वानवगुरेदपि |
\ENM4.169c/ न ताडयेत् तृणेनापि न गात्रात् स्रावयेदसृक् ||\BC. \SC||
\ENM4.170a/ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् |
\ENM4.170c/ हिंसारतश्च यो नित्यं नैहासौ सुखमेधते ||\BC. \SC||%[M.hi.nsAratish]
\ENM4.171a/ न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् |
\ENM4.171c/ अधार्मिकानां पापानामाशु पश्यन् विपर्ययम् ||\BC. \SC||
\ENM4.172a/ नाधर्मश्चरितो लोके सद्यः फलति गौरिव |
\ENM4.172c/ शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ||\BC. \SC||
\ENM4.173a/ यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु |
\ENM4.173c/ न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ||\BC. \SC||%[M.kR^ito dharmaH##? ##]
\ENM4.174a/ अधर्मेणैधते तावत् ततो भद्राणि पश्यति |
\ENM4.174c/ ततः सपत्नान् जयति समूलस्तु विनश्यति ||\BC. \SC||
\ENM4.175a/ सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा |
\ENM4.175c/ शिष्यांश्च शिष्याद् धर्मेण वाच्.बाहूदरसंयतः ||\BC. \SC||
\ENM4.176a/ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ |
\ENM4.176c/ धर्मं चाप्यसुखोदर्कं लोकसङ्क्रुष्टमेव च ||\BC. \SC||
\ENM4.177a/ न पाणिपादचपलो न नेत्रचपलोऽनृजुः |
\ENM4.177c/ न स्याद् वाक्चपलश्चैव न परद्रोहकर्मधीः ||\BC. \SC||
\ENM4.178a/ येनास्य पितरो याता येन याताः पितामहाः |
\ENM4.178c/ तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति ||\BC. \SC||
\ENM4.179a/ ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः |
\ENM4.179c/ बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ||\BC. \SC||
\ENM4.180a/ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया |
\ENM4.180c/ दुहित्रा दासवर्गेण विवादं न समाचरेत् ||\BC. \SC||
\ENM4.181a/ एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते |
\ENM4.181c/ एतैर्जितैश्च जयति सर्वान्लोकानिमान् गृही ||\BC. \SC||
\ENM4.182a/ आचार्यो ब्रह्मलोकैशः प्राजापत्ये पिता प्रभुः |
\ENM4.182c/ अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ||\BC. \SC||
\ENM4.183a/ जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः |
\ENM4.183c/ संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ||\BC. \SC||
\ENM4.184a/ आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः |
\ENM4.184c/ भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ||\BC. \SC||
\ENM4.185a/ छाया स्वो दासवर्गश्च दुहिता कृपणं परम् |
\ENM4.185c/ तस्मादेतैरधिक्षिप्तः सहेतासञ्ज्वरः सदा ||\BC. \SC||
\ENM4.186a/ प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् |
\ENM4.186c/ प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ||\BC. \SC||
\ENM4.187a/ न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे |
\ENM4.187c/ प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ||\BC. \SC||
\ENM4.188a/ हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् |
\ENM4.188c/ प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ||\BC. \SC||
\ENM4.189a/ हिरण्यमायुरन्नं च भूर्गोश्चाप्योषतस्तनुम् |
\ENM4.189c/ अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ||\BC. \SC||
\ENM4.190a/ अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः |
\ENM4.190c/ अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ||\BC. \SC||
\ENM4.191a/ तस्मादविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् |
\ENM4.191c/ स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति ||\BC. \SC||
\ENM4.192a/ न वार्यपि प्रयच्छेत् तु बैडालव्रतिके द्विजे |
\ENM4.192c/ न बकव्रतिके पापे नावेदविदि धर्मवित् ||\BC. \SC||
\ENM4.193a/ त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् |
\ENM4.193c/ दातुर्भवत्यनर्थाय परत्रादातुरेव च ||\BC. \SC||
\ENM4.194a/ यथा प्लवेनोपलेन निमज्जत्युदके तरन् |
\ENM4.194c/ तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ||\BC. \SC||
\ENM4.195a/ धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः ||\BC. \SC||
\ENM4.195c/ बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ||\BC. \SC||
\ENM4.196a[१९७ंअ]/ अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः |
\ENM4.196c[१९७ंच्]/ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ||\BC. \SC||
\ENM4.197a[१९८ंअ]/ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः |
\ENM4.197c[१९८ंच्]/ ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ||\BC. \SC||
\ENM4.198a[१९९ंअ]/ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् |
\ENM4.198c[१९९ंच्]/ व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ||\BC. \SC||
\ENM4.199a[२००ंअ]/ प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः |
\ENM4.199c[२००ंच्]/ छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ||\BC. \SC||
\ENM4.200a[२०१ंअ]/ अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति |
\ENM4.200c[२०१ंच्]/ स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ||\BC. \SC||
\ENM4.201a[२०२ंअ]/ परकीयनिपानेषु न स्नायाद् हि कदा चन | %[k:snAyAchcha kadA chana ]
\ENM4.201c[२०२ंच्]/ निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ||\BC. \SC||
\ENM4.202a[२०३ंअ]/ यानशय्याऽऽसनान्यस्य कूपोद्यानगृहाणि च |
\ENM4.202c[२०३ंच्]/ अदत्तान्युपयुञ्जान एनसः स्यात् तुरीयभाक् ||\BC. \SC||
\ENM4.203a[२०४ंअ]/ नदीषु देवखातेषु तडागेषु सरःसु च |
\ENM4.203c[२०४ंच्]/ स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ||\BC. \SC||
\ENM4.204a[२०५ंअ]/ यमान् सेवेत सततं न नित्यं नियमान् बुधः |
\ENM4.204c[२०५ंच्]/ यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ||\BC. \SC||
\ENM4.205a[२०६ंअ]/ नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा |
\ENM4.205c[२०६ंच्]/ स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ||\BC. \SC||
\ENM4.206a[२०७ंअ]/ अश्लीकमेतत् साधूनां यत्र जुह्वत्यमी हविः | %[M.ashlIlam]
\ENM4.206c[२०७ंच्]/ प्रतीपमेतद् देवानां तस्मात् तत् परिवर्जयेत् ||\BC. \SC||
\ENM4.207a[२०८ंअ]/ मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन |
\ENM4.207c[२०८ंच्]/ केशकीटावपन्नं च पदा स्पृष्टं च कामतः ||\BC. \SC||
\ENM4.208a[२०९ंअ]/ भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया |
\ENM4.208c[२०९ंच्]/ पतत्रिणावलीढं च शुना संस्पृष्टमेव च ||\BC. \SC||
\ENM4.209a[२१०ंअ]/ गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः |
\ENM4.209c[२१०ंच्]/ गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ||\BC. \SC||
\ENM4.210a[२११ंअ]/ स्तेनगायनयोश्चान्नं तक्ष्ह्णो वार्धुषिकस्य च |
\ENM4.210c[२११ंच्]/ दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ||\BC. \SC||
\ENM4.211a[२१२ंअ]/ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च |
\ENM4.211c[२१२ंच्]/ शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ||\BC. \SC||
\ENM4.212a[२१३ंअ]/ चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः |
\ENM4.212c[२१३ंच्]/ उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ||\BC. \SC||
\ENM4.213a[२१४ंअ]/ अनर्चितं वृथामांसमवीरायाश्च योषितः |
\ENM4.213c[२१४ंच्]/ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ||\BC. \SC||
\ENM4.214a[२१५ंअ]/ पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा ||\BC. \SC||| %[M.kratuvikrayakasya cha]
\ENM4.214c[२१५ंच्]/ शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ||\BC. \SC||
\ENM4.215a[२१६ंअ]/ कर्मारस्य निषादस्य रङ्गावतारकस्य च |
\ENM4.215c[२१६ंच्]/ सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ||\BC. \SC||
\ENM4.216a[२१७ंअ]/ श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च |
\ENM4.216c[२१७ंच्]/ रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ||\BC. \SC||%[M.rajakasya]
\ENM4.217a[२१८ंअ]/ मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः |
\ENM4.217c[२१८ंच्]/ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ||\BC. \SC||
\ENM4.218a[२१९ंअ]/ राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् |
\ENM4.218c[२१९ंच्]/ आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ||\BC. \SC||
\ENM4.219a[२२०ंअ]/ कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च |
\ENM4.219c[२२०ंच्]/ गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ||\BC. \SC||
\ENM4.220a[२२१ंअ]/ पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् |
\ENM4.220c[२२१ंच्]/ विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ||\BC. \SC||
\ENM4.221a[२२२ंअ]/ य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः |
\ENM4.221c[२२२ंच्]/ तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ||\BC. \SC||
\ENM4.222a[२२३ंअ]/ भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् |
\ENM4.222c[२२३ंच्]/ मत्या भुक्त्वाऽचरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ||\BC. \SC||
\ENM4.223a[२२४ंअ]/ नाद्यात्शूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः |
\ENM4.223c[२२४ंच्]/ आददीताममेवास्मादवृत्तावेकरात्रिकम् |
\ENM4.224a[२२५ंअ]/ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः |
\ENM4.224c[२२५ंच्]/ मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ||\BC. \SC||
\ENM4.225a[२२६ंअ]/ तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् |
\ENM4.225c[२२६ंच्]/ श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ||\BC. \SC||
\ENM4.226a[२२७ंअ]/ श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः |
\ENM4.226c[२२७ंच्]/ श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ||\BC. \SC||
\ENM4.227a[२२८ंअ]/ दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् |
\ENM4.227c[२२८ंच्]/ परितुष्टेन भावेन पात्रमासाद्य शक्तितः ||\BC. \SC||
\ENM4.228a[२२९ंअ]/ यत् किं चिदपि दातव्यं याचितेनानसूयया | %[M.anasUyatA##? ##]
\ENM4.228c[२२९ंच्]/ उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ||\BC. \SC||
\ENM4.229a[२३०ंअ]/ वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः | %[M.akShayam]
\ENM4.229c[२३०ंच्]/ तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ||\BC. \SC||
\ENM4.230a[२३१ंअ]/ भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः |
\ENM4.230c[२३१ंच्]/ गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ||\BC. \SC||
\ENM4.231a[२३२ंअ]/ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः |
\ENM4.231c[२३२ंच्]/ अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ||\BC. \SC||
\ENM4.232a[२३३ंअ]/ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः |
\ENM4.232c[२३३ंच्]/ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ||\BC. \SC||
\ENM4.233a[२३४ंअ]/ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते |
\ENM4.233c[२३४ंच्]/ वार्यन्नगोमहीवासस्.तिलकाञ्चनसर्पिषाम् ||\BC. \SC||
\ENM4.234a[२३५ंअ]/ येन येन तु भावेन यद् यद् दानं प्रयच्छति |
\ENM4.234c[२३५ंच्]/ तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ||\BC. \SC||
\ENM4.235a[२३६ंअ]/ योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा |
\ENM4.235c[२३६ंच्]/ तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ||\BC. \SC||
\ENM4.236a[२३७ंअ]/ न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् |
\ENM4.236c[२३७ंच्]/ नार्तोऽप्यपवदेद् विप्रान्न दत्त्वा परिकीर्तयेत् ||\BC. \SC||%[M.datvA]
\ENM4.237a[२३८ंअ]/ यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् |
\ENM4.237c[२३८ंच्]/ आयुर्विप्रापवादेन दानं च परिकीर्तनात् ||\BC. \SC||
\ENM4.238a[२३९ंअ]/ धर्मं शनैः सञ्चिनुयाद् वल्मीकमिव पुत्तिकाः | %[M.sa~nchinuyAd]
\ENM4.238c[२३९ंच्]/ परलोकसहायार्थं सर्वभूतान्यपीडयन् ||\BC. \SC||
\ENM4.239a[२४०ंअ]/ नामुत्र हि सहायार्थं पिता माता च तिष्ठतः |
\ENM4.239c[२४०ंच्]/ न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ||\BC. \SC||
\ENM4.240a[२४१ंअ]/ एकः प्रजायते जन्तुरेक एव प्रलीयते |
\ENM4.240c[२४१ंच्]/ एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ||\BC. \SC||
\ENM4.241a[२४२ंअ]/ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ |
\ENM4.241c[२४२ंच्]/ विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ||\BC. \SC||
\ENM4.242a[२४३ंअ]/ तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयात्शनैः |
\ENM4.242c[२४३ंच्]/ धर्मेण हि सहायेन तमस्तरति दुस्तरम् ||\BC. \SC||
\ENM4.243a[२४४ंअ]/ धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् |
\ENM4.243c[२४४ंच्]/ परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ||\BC. \SC||
\ENM4.244a[२४५ंअ]/ उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह | %[M.saMbhandhAn]
\ENM4.244c[२४५ंच्]/ निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ||\BC. \SC||
\ENM4.245a[२४६ंअ]/ उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् |
\ENM4.245c[२४६ंच्]/ ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ||\BC. \SC||
\ENM4.246a[२४७ंअ]/ दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् |
\ENM4.246c[२४७ंच्]/ अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ||\BC. \SC||
\ENM4.247a[२४८ंअ]/ एधौदकं मूलफलमन्नमभ्युद्यतं च यत् |
\ENM4.247c[२४८ंच्]/ सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ||\BC. \SC||
\ENM4.248a[२४९ंअ]/ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् |
\ENM4.248c[२४९ंच्]/ मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ||\BC. \SC||
\ENM4.249a[२५०ंअ]/ नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ||\BC. \SC||
\ENM4.249c[२५०ंच्]/ न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ||\BC. \SC||
\ENM4.250a[२५१ंअ]/ शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि |
\ENM4.250c[२५१ंच्]/ धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ||\BC. \SC||
\ENM4.251a[२५२ंअ]/ गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन् |
\ENM4.251c[२५२ंच्]/ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ||\BC. \SC||
\ENM4.252a[२५३ंअ]/ गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् |
\ENM4.252c[२५३ंच्]/ आत्मनो वृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा ||\BC. \SC||
\ENM4.253a[२५४ंअ]/ आर्धिकः कुलमित्रं च गोपालो दासनापितौ |
\ENM4.253c[२५४ंच्]/ एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ||\BC. \SC||
\ENM4.254a[२५५ंअ]/ यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् |
\ENM4.254c[२५५ंच्]/ यथा चौपचरेदेनं तथाऽत्मानं निवेदयेत् ||\BC. \SC||
\ENM4.255a[२५६ंअ]/ योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते |
\ENM4.255c[२५६ंच्]/ स पापकृत्तमो लोके स्तेन आत्मापहारकः ||\BC. \SC||
\ENM4.256a[२५७ंअ]/ वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः |
\ENM4.256c[२५७ंच्]/ तांस्तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन्नरः ||\BC. \SC||%[M.tAn.h tu##? ##]
\ENM4.257a[२५८ंअ]/ महर्षिपितृदेवानां गत्वाऽनृण्यं यथाविधि |
\ENM4.257c[२५८ंच्]/ पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यमाश्रितः ||\BC. \SC||%[M.AsthitaH]
\ENM4.258a[२५९ंअ]/ एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः | %[M.hitamAtmani ]
\ENM4.258c[२५९ंच्]/ एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ||\BC. \SC||
\ENM4.259a[२६०ंअ]/ एषौदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती |
\ENM4.259c[२६०ंच्]/ स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ||\BC. \SC||
\ENM4.260a[२६१ंअ]/ अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् |
\ENM4.260c[२६१ंच्]/ व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ||\BC. \SC||
\separate
अध्याय ५
\ENM5.01a/ श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् |
\ENM5.01c/ इदमूचुर्महात्मानमनलप्रभवं भृगुम् ||\BC. \SC||
\ENM5.02a/ एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् |
\ENM5.02c/ कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ||\BC. \SC||
\ENM5.03a/ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः |
\ENM5.03c/ श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति ||\BC. \SC||
\ENM5.04a/ अनभ्यासेन वेदानामाचारस्य च वर्जनात् |
\ENM5.04c/ आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ||\BC. \SC||%[M.viprAn]
\ENM5.05a/ लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च |
\ENM5.05c/ अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ||\BC. \SC||
\ENM5.06a/ लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस्तथा | %[M.vrashchanaprabhavAMH ]
\ENM5.06c/ शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ||\BC. \SC||%[M.pIyUShaM ]
\ENM5.07a/ वृथा कृसरसंयावं पायसापूपमेव च |
\ENM5.07c/ अनुपाकृतमांसानि देवान्नानि हवींषि च ||\BC. \SC||
\ENM5.08a/ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा |
\ENM5.08c/ आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ||\BC. \SC||%[M.sandhinIkShIraM]
\ENM5.09a/ आरण्यानां च सर्वेषां मृगाणां माहिषं विना |
\ENM5.09c/ स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ||\BC. \SC||
\ENM5.10a/ दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् | %[M.dadhisaMbhavam]
\ENM5.10c/ यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ||\BC. \SC||
\ENM5.11a/ क्रव्यादान् शकुनान् सर्वान्तथा ग्रामनिवासिनः | %[M.kravyAdaH shakunIn]
\ENM5.11c/ अनिर्दिष्टांश्चेकशफान् टिट्टिभं च विवर्जयेत् ||\BC. \SC||
\ENM5.12a/ कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् |
\ENM5.12c/ सारसं रज्जुवालं च दात्यूहं शुकसारिके ||\BC. \SC||%[M.rajjudAlaM]
\ENM5.13a/ प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् | %[M.pratudAn]
\ENM5.13c/ निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ||\BC. \SC||
\ENM5.14a/ बकं चैव बलाकां च काकोलं खञ्जरीटकम् |
\ENM5.14c/ मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ||\BC. \SC||
\ENM5.15a/ यो यस्य मांसमश्नाति स तन्मांसाद उच्यते |
\ENM5.15c/ मत्स्यादः सर्वमांसादस्तस्मान् मत्स्यान् विवर्जयेत् ||\BC. \SC||
\ENM5.16a/ पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः |
\ENM5.16c/ राजीवान् सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ||\BC. \SC||%[M.rAjIvAH ]
\ENM5.17a/ न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् |
\ENM5.17c/ भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ||\BC. \SC||
\ENM5.18a/ श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा |
\ENM5.18c/ भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ||\BC. \SC||
\ENM5.19a/ छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् |
\ENM5.19c/ पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ||\BC. \SC||
\ENM5.20a/ अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् |
\ENM5.20c/ यतिचान्द्रायाणं वाऽपि शेषेषूपवसेदहः ||\BC. \SC||
\ENM5.21a/ संवत्सरस्यैकमपि चरेत् कृच्छ्रं द्विजोत्तमः |
\ENM5.21c/ अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ||\BC. \SC||
\ENM5.22a/ यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः |
\ENM5.22c/ भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ||\BC. \SC||
\ENM5.23a/ बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् |
\ENM5.23c/ पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ||\BC. \SC||%[[M.purANeShvR^iShiyaGYeShu]
\ENM5.24a/ यत् किं चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् |
\ENM5.24c/ तत् पर्युषितमप्याद्यं हविःशेषं च यद् भवेत् ||\BC. \SC||
\ENM5.25a/ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः |
\ENM5.25c/ यवगोधूमजं सर्वं पयसश्चैव विक्रिया ||\BC. \SC||
\ENM5.26a/ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः |
\ENM5.26c/ मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ||\BC. \SC||
\ENM5.27a/ प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया |
\ENM5.27c/ यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ||\BC. \SC||
\ENM5.28a/ प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् |
\ENM5.28c/ स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ||\BC. \SC||
\ENM5.29a/ चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः |
\ENM5.29c/ अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ||\BC. \SC||
\ENM5.30a/ नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्य्ऽहन्यपि |
\ENM5.30c/ धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ||\BC. \SC||
\ENM5.31a/ यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः |
\ENM5.31c/ अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ||\BC. \SC||
\ENM5.32a/ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा |
\ENM5.32c/ देवान् पितॄंश्चार्चयित्वा खादन् मांसं न दुष्यति ||\BC. \SC||
\ENM5.33a/ नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः |
\ENM5.33c/ जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ||\BC. \SC||
\ENM5.34a/ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः |
\ENM5.34c/ यादृशं भवति प्रेत्य वृथामांसानि खादतः ||\BC. \SC||
\ENM5.35a/ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः |
\ENM5.35c/ स प्रेत्य पशुतां याति संभवानेकविंशतिम् ||\BC. \SC||
\ENM5.36a/ असंस्कृतान् पशून् मन्त्रैर्नाद्याद् विप्रः कदा चन |
\ENM5.36c/ मन्त्रैस्तु संस्कृतानद्यात्शाश्वतं विधिमास्थितः ||\BC. \SC||
\ENM5.37a/ कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा |
\ENM5.37c/ न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदा चन ||\BC. \SC||
\ENM5.38a/ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् |
\ENM5.38c/ वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ||\BC. \SC||
\ENM5.39a/ यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा |
\ENM5.39c/ यज्ञोऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ||\BC. \SC||
\ENM5.40a/ ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा |
\ENM5.40c/ यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ||\BC. \SC||%[MuchChritIH]
\ENM5.41a/ मधुपर्के च यज्ञे च पितृदैवतकर्मणि |
\ENM5.41c/ अत्रैव पशवो हिंस्या नान्यत्रैत्यब्रवीन् मनुः ||\BC. \SC||
\ENM5.42a/ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः |
\ENM5.42c/ आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् ||\BC. \SC||
\ENM5.43a/ गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः |
\ENM5.43c/ नावेदविहितां हिंसामापद्यपि समाचरेत् ||\BC. \SC||
\ENM5.44a/ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे |
\ENM5.44c/ अहिंसामेव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ||\BC. \SC||
\ENM5.45a/ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखैच्छया |
\ENM5.45c/ स जीवांश्च मृतश्चैव न क्व चित् सुखमेधते ||\BC. \SC||
\ENM5.46a/ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति |
\ENM5.46c/ स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ||\BC. \SC||
\ENM5.47a/ यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च |
\ENM5.47c/ तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन ||\BC. \SC||
\ENM5.48a/ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् |
\ENM5.48c/ न च प्राणिवधः स्वर्ग्यस्तस्मान् मांसं विवर्जयेत् ||\BC. \SC||
\ENM5.49a/ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् |
\ENM5.49c/ प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ||\BC. \SC||
\ENM5.50a/ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् |
\ENM5.50c/ न लोके प्रियतां याति व्याधिभिश्च न पीड्यते ||\BC. \SC||
\ENM5.51a/ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी |
\ENM5.51c/ संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ||\BC. \SC||
\ENM5.52a/ स्वमांसं परमांसेन यो वर्धयितुमिच्छति |
\ENM5.52c/ अनभ्यर्च्य पितॄन् देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ||\BC. \SC||
\ENM5.53a/ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः |
\ENM5.53c/ मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ||\BC. \SC||
\ENM5.54a/ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः |
\ENM5.54c/ न तत् फलमवाप्नोति यत्मांसपरिवर्जनात् ||\BC. \SC||
\ENM5.55a/ मां स भक्षयिताऽमुत्र यस्य मांसमिहाद् म्यहम् |
\ENM5.55c/ एतत्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ||\BC. \SC||
\ENM5.56a/ न मांसभक्षणे दोषो न मद्ये न च मैथुने |
\ENM5.56c/ प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ||\BC. \SC||
\ENM5.57a/ प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च |
\ENM5.57c/ चतुर्णामपि वर्णानां यथावदनुपूर्वशः ||\BC. \SC||
\ENM5.58a/ दन्तजातेऽनुजाते च कृतचूडे च संस्थिते |
\ENM5.58c/ अशुद्धा बान्धवाः सर्वे सूतके च तथौच्यते ||\BC. \SC||
\ENM5.59a/ दशाहं शावमाशौचं सपिण्डेषु विधीयते |
\ENM5.59c/ अर्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव वा ||\BC. \SC||
\ENM5.60a/ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते |
\ENM5.60c/ समानोदकभावस्तु जन्मनाम्नोरवेदने ||\BC. \SC||
\ENM5.61a/ यथैदं शावमाशौचं सपिण्डेषु विधीयते | %[notin.h M]
\ENM5.61c/ जननेऽप्येवमेव स्यात्निपुणं शुद्धिमिच्छताम् ||\BC. \SC||%[notin.h M]
\ENM5.62a[६१ंअ]/ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् | %[M: janane.apyevameva syAn.h mAtApitrostu sUtakaM |]
\ENM5.62c[६१ंच्]/ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ||\BC. \SC||
\ENM5.63a[६२ंअ]/ निरस्य तु पुमांशुक्रमुपस्पृस्यैव शुध्यति |
\ENM5.63c[६२ंच्]/ बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ||\BC. \SC||
\ENM5.64a[६३ंअ]/ अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः |
\ENM5.64c[६३ंच्]/ शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ||\BC. \SC||
\ENM5.65a[६४ंअ]/ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् |
\ENM5.65c[६४ंच्]/ प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ||\BC. \SC||%[M.pretAhAraiH ]
\ENM5.66a[६५ंअ]/ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति |
\ENM5.66c[६५ंच्]/ रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ||\BC. \SC||
\ENM5.67a[६६ंअ]/ नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता |
\ENM5.67c[६६ंच्]/ निर्वृत्तचूडकानां तु त्रिरात्रात्शुद्धिरिष्यते ||\BC. \SC||%[M. nirvR^ittamuNDakAnAM ]
\ENM5.68a[६७ंअ]/ ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः |
\ENM5.68c[६७ंच्]/ अलङ्कृत्य शुचौ भूमावस्थिसञ्चयनाद् ऋते ||\BC. \SC||
\ENM5.69a[६८ंअ]/ नास्य कार्योऽग्निसंस्कारो न च कार्यौदकक्रिया |
\ENM5.69c[६८ंच्]/ अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस्त्र्यहमेव तु ||\BC. \SC||%[M. kShapeta tryahameva cha]
\ENM5.70a[६९ंअ]/ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया |
\ENM5.70c[६९ंच्]/ जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ||\BC. \SC||
\ENM5.71a[७०ंअ]/ सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् |
\ENM5.71c[७०ंच्]/ जन्मन्येकौदकानां तु त्रिरात्रात्शुद्धिरिष्यते ||\BC. \SC||
\ENM5.72a[७१ंअ]/ स्त्रीणामसंस्कृतानां तु त्र्यहात्शुध्यन्ति बान्धवाः |
\ENM5.72c[७१ंच्]/ यथौक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ||\BC. \SC||
\ENM5.73a[७२ंअ]/ अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् |
\ENM5.73c[७२ंच्]/ मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ||\BC. \SC||
\ENM5.74a[७३ंअ]/ संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः |
\ENM5.74c[७३ंच्]/ असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः ||\BC. \SC||
\ENM5.75a[७४ंअ]/ विगतं तु विदेशस्थं शृणुयाद् यो ह्यनिर्दशम् |
\ENM5.75c[७४ंच्]/ यत्शेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ||\BC. \SC||
\ENM5.76a[७५ंअ]/ अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् |
\ENM5.76c[७५ंच्]/ संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ||\BC. \SC||
\ENM5.77a[७६ंअ]/ निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च |
\ENM5.77c[७६ंच्]/ सवासा जलमाप्लुत्य शुद्धो भवति मानवः ||\BC. \SC||
\ENM5.78a[७७ंअ]/ बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते |
\ENM5.78c[७७ंच्]/ सवासा जलमाप्लुत्य सद्य एव विशुध्यति ||\BC. \SC||
\ENM5.79a[७८ंअ]/ अन्तर्दशाहे स्यातां चेत् पुनर्मरणजन्मनी | %[M. chet.h syAtAM]
\ENM5.79c[७८ंच्]/ तावत् स्यादशुचिर्विप्रो यावत् तत् स्यादनिर्दशम् ||\BC. \SC||
\ENM5.80a[७९ंअ]/ त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति |
\ENM5.80c[७९ंच्]/ तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ||\BC. \SC||
\ENM5.81a[८०ंअ]/ श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् |
\ENM5.81c[८०ंच्]/ मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ||\BC. \SC||
\ENM5.82a[८१ंअ]/ प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितः |
\ENM5.82c[८१ंच्]/ अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ||\BC. \SC||%[M.kR^itsnAM ]
\ENM5.83a[८२ंअ]/ शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः |
\ENM5.83c[८२ंच्]/ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ||\BC. \SC||
\ENM5.84a[८३ंअ]/ न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः |
\ENM5.84c[८३ंच्]/ न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ||\BC. \SC||
\ENM5.85a[८४ंअ]/ दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा |
\ENM5.85c[८४ंच्]/ शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ||\BC. \SC||
\ENM5.86a[८५ंअ]/ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने |
\ENM5.86c[८५ंच्]/ सौरान् मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ||\BC. \SC||
\ENM5.87a[८६ंअ]/ नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति |
\ENM5.87c[८६ंच्]/ आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ||\BC. \SC||
\ENM5.88a[८७ंअ]/ आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् |
\ENM5.88c[८७ंच्]/ समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ||\BC. \SC||
\ENM5.89a[८८ंअ]/ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ||\BC. \SC||
\ENM5.89c[८८ंच्]/ आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ||\BC. \SC||
\ENM5.90a[८९ंअ]/ पाषण्डमाश्रितानां च चरन्तीनां च कामतः |
\ENM5.90c[८९ंच्]/ गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ||\BC. \SC||
\ENM5.91a[९०ंअ]/ आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् |
\ENM5.91c[९०ंच्]/ निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ||\BC. \SC||
\ENM5.92a[९१ंअ]/ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् |
\ENM5.92c[९१ंच्]/ पश्चिमौत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ||\BC. \SC||
\ENM5.93a[९२ंअ]/ न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् |
\ENM5.93c[९२ंच्]/ ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ||\BC. \SC||
\ENM5.94a[९३ंअ]/ राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते |
\ENM5.94c[९३ंच्]/ प्रजानां परिरक्षार्थमासनं चात्र कारणम् ||\BC. \SC||
\ENM5.95a[९४ंअ]/ डिम्भाहवहतानां च विद्युता पार्थिवेन च | %[M.DimbAhavahatAnAM]
\ENM5.95c[९४ंच्]/ गोब्राह्मणस्य चेवार्थे यस्य चैच्छति पार्थिवः ||\BC. \SC||
\ENM5.96a[९५ंअ]/ सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च |
\ENM5.96c[९५ंच्]/ अष्टानां लोकपालानां वपुर्धारयते नृपः ||\BC. \SC||
\ENM5.97a[९६ंअ]/ लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते |
\ENM5.97c[९६ंच्]/ शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ||\BC. \SC||
\ENM5.98a[९७ंअ]/ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च |
\ENM5.98c[९७ंच्]/ सद्यः संतिष्ठते यज्ञस्तथाऽशौचमिति स्थितिः ||\BC. \SC||
\ENM5.99c[९८ंअ]/ विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् |
\ENM5.99c[९८ंच्]/ वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ||\BC. \SC||
\ENM5.100a[९९ंअ]/ एतद् वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः |
\ENM5.100c[९९ंच्]/ असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ||\BC. \SC||
\ENM5.101a[१००ंअ]/ असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् |
\ENM5.101c[१००ंच्]/ विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ||\BC. \SC||
\ENM5.102a[१०१ंअ]/ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति |
\ENM5.102c[१०१ंच्]/ अनदन्नन्नमह्नैव न चेत् तस्मिन् गृहे वसेत् ||\BC. \SC||
\ENM5.103a[१०२ंअ]/ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च | %\BC##. ##\SC||%[M. aGYAtimeva vA]
\ENM5.103c[१०२ंच्]/ स्नात्वा सचैलः स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ||\BC. \SC||%[M.sachailaM##, ## vishuddhyati ]
\ENM5.104a[१०३ंअ]/ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् |
\ENM5.104c[१०३ंच्]/ अस्वर्ग्या ह्याहुतिः सा स्यात्शूद्रसंस्पर्शदूषिता ||\BC. \SC||
\ENM5.105a[१०४ंअ]/ ज्ञानं तपोऽग्निराहारो मृत्मनो वार्युपाञ्जनम् |
\ENM5.105c[१०४ंच्]/ वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ||\BC. \SC||
\ENM5.106a[१०५ंअ]/ सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् |
\ENM5.106c[१०५ंच्]/ योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ||\BC. \SC||
\ENM5.107a[१०६ंअ]/ क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः | %[M.shuddhyanti]
\ENM5.107c[१०६ंच्]/ प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ||\BC. \SC||
\ENM5.108a[१०७ंअ]/ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति |
\ENM5.108c[१०७ंच्]/ रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ||\BC. \SC||
\ENM5.109a[१०८ंअ]/ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति |
\ENM5.109c[१०८ंच्]/ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ||\BC. \SC||%[M.shuddhyati]
\ENM5.110a[१०९ंअ]/ एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः |
\ENM5.110c[१०९ंच्]/ नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ||\BC. \SC||
\ENM5.111a[११०ंअ]/ तैजसानां मणीनां च सर्वस्याश्ममयस्य च |
\ENM5.111c[११०ंच्]/ भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ||\BC. \SC||
\ENM5.112a[१११ंअ]/ निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति | %[M.vishuddhyati]
\ENM5.112c[१११ंच्]/ अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ||\BC. \SC||
\ENM5.113a[११२ंअ]/ अपामग्नेश्च संयोगाद् हैमं रौप्यं च निर्बभौ |
\ENM5.113c[११२ंच्]/ तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ||\BC. \SC||
\ENM5.114a[११३ंअ]/ ताम्रायस्कांस्यरैत्यानां त्रपुणः सीसकस्य च |
\ENM5.114c[११३ंच्]/ शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ||\BC. \SC||
\ENM5.115a[११४ंअ]/ द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् |
\ENM5.115c[११४ंच्]/ प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ||\BC. \SC||
\ENM5.116a[११५ंअ]/ मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि |
\ENM5.116c[११५ंच्]/ चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ||\BC. \SC||
\ENM5.117a[११६ंअ]/ चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा |
\ENM5.117c[११६ंच्]/ स्फ्यशूर्पशकटानां च मुसलौलूखलस्य च ||\BC. \SC||
\ENM5.118a[११७ंअ]/ अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् |
\ENM5.118c[११७ंच्]/ प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ||\BC. \SC||
\ENM5.119a[११८ंअ]/ चैलवत्चर्मणां शुद्धिर्वैदलानां तथैव च |
\ENM5.119c[११८ंच्]/ शाकमूलफलानां च धान्यवत्शुद्धिरिष्यते ||\BC. \SC||%[M. tu]
\ENM5.120a[११९ंअ]/ कौशेयाविकयोरूषैः कुतपानामरिष्टकैः |
\ENM5.120c[११९ंच्]/ श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ||\BC. \SC||
\ENM5.121a[१२०ंअ]/ क्षौमवत्शङ्खशृङ्गाणामस्थिदन्तमयस्य च |
\ENM5.121c[१२०ंच्]/ शुद्धिर्विजानता कार्या गोमूत्रेणौदकेन वा ||\BC. \SC||
\ENM5.122a[१२१ंअ]/ प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति |
\ENM5.122c[१२१ंच्]/ मार्जनौपाञ्जनैर्वेश्म पुनःपाकेन मृण्मयम् ||\BC. \SC||
\ENM5.124a[१२२ंअ]/ संमार्जनौपाञ्जनेन सेकेनौल्लेखनेन च |
\ENM5.124c[१२२ंच्]/ गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ||\BC. \SC||%[M.shuddhyati]
\ENM5.125a[१२३ंअ]/ पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् |
\ENM5.125c[१२३ंच्]/ दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ||\BC. \SC||
\ENM5.126a[१२४ंअ]/ यावन्नापेत्यमेध्याक्ताद् गन्धो लेपश्च तत्कृतः |
\ENM5.126c[१२४ंच्]/ तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ||\BC. \SC||
\ENM5.127a[१२५ंअ]/ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् |
\ENM5.127c[१२५ंच्]/ अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ||\BC. \SC||
\ENM5.128a[१२६ंअ]/ आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् |
\ENM5.128c[१२६ंच्]/ अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ||\BC. \SC||
\ENM5.129a[१२७ंअ]/ नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् | %[M.paNyaM]
\ENM5.129c[१२७ंच्]/ ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ||\BC. \SC||
\ENM5.130a[१२८ंअ]/ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने |
\ENM5.130c[१२८ंच्]/ प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ||\BC. \SC||
\ENM5.131a[१२९ंअ]/ श्वभिर्हतस्य यन् मांसं शुचि तन् मनुरब्रवीत् |
\ENM5.131c[१२९ंच्]/ क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ||\BC. \SC||
\ENM5.132a[१३०ंअ]/ ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः |
\ENM5.132c[१३०ंच्]/ यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ||\BC. \SC||
\ENM5.133a[१३१ंअ]/ मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः |
\ENM5.133c[१३१ंच्]/ रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ||\BC. \SC||
\ENM5.134a[१३२ंअ]/ विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् |
\ENM5.134c[१३२ंच्]/ दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ||\BC. \SC||
\ENM5.135a[१३३ंअ]/ वसा शुक्रमसृग्मज्जा मूत्रविड्घ्राणकर्णविट् |
\ENM5.135c[१३३ंच्]/ श्लेश्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ||\BC. \SC||
\ENM5.136a[१३४ंअ]/ एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश |
\ENM5.136c[१३४ंच्]/ उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ||\BC. \SC||
\ENM5.137a[१३५ंअ]/ एतत्शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् |
\ENM5.137c[१३५ंच्]/ त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ||\BC. \SC||
\ENM5.138a[१३६ंअ]/ कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् |
\ENM5.138c[१३६ंच्]/ वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ||\BC. \SC||
\ENM5.139a[१३७ंअ]/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् |
\ENM5.139c[१३७ंच्]/ शरीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत् सकृत् ||\BC. \SC||
\ENM5.140a[१३८ंअ]/ शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् |
\ENM5.140c[१३८ंच्]/ वैश्यवत्शौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ||\BC. \SC||
\ENM5.141a[१३९ंअ]/ नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः |
\ENM5.141c[१३९ंच्]/ न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ||\BC. \SC||
\ENM5.142a[१४०ंअ]/ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् |
\ENM5.142c[१४०ंच्]/ भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ||\BC. \SC||%[M. aprayato]
\ENM5.143a[१४१ंअ]/ उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन |
\ENM5.143c[१४१ंच्]/ अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ||\BC. \SC||
\ENM5.144a[१४२ंअ]/ वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् |
\ENM5.144c[१४२ंच्]/ आचामेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ||\BC. \SC||
\ENM5.145a[१४३ंअ]/ सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्यौक्त्वाऽनृतानि च |
\ENM5.145c[१४३ंच्]/ पीत्वाऽपोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन् ||\BC. \SC||
\ENM5.146a[१४४ंअ]/ एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च | %[MeSha]
\ENM5.146c[१४४ंच्]/ उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ||\BC. \SC||
\ENM5.147a[१४५ंअ]/ बालया वा युवत्या वा वृद्धया वाऽपि योषिता |
\ENM5.147c[१४५ंच्]/ न स्वातन्त्र्येण कर्तव्यं किं चिद् कार्यं गृहेष्वपि ||\BC. \SC||
\ENM5.148a[१४६ंअ]/ बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने |
\ENM5.148c[१४६ंच्]/ पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ||\BC. \SC||
\ENM5.149a[१४७ंअ]/ पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेद् विरहमात्मनः |
\ENM5.149c[१४७ंच्]/ एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ||\BC. \SC||
\ENM5.150a[१४८ंअ]/ सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया |
\ENM5.150c[१४८ंच्]/ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ||\BC. \SC||
\ENM5.151a[१४९ंअ]/ यस्मै दद्यात् पिता त्वेनां भ्राता वाऽनुमते पितुः |
\ENM5.151c[१४९ंच्]/ तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ||\BC. \SC||
\ENM5.152a[१५०ंअ]/ मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः |
\ENM5.152c[१५०ंच्]/ प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ||\BC. \SC||
\ENM5.153a[१५१ंअ]/ अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः |
\ENM5.153c[१५१ंच्]/ सुखस्य नित्यं दातैह परलोके च योषितः ||\BC. \SC||
\ENM5.154a[१५२ंअ]/ विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः |
\ENM5.154c[१५२ंच्]/ उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ||\BC. \SC||
\ENM5.155a[१५३ंअ]/ नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् | %[MupoShitam]
\ENM5.155c[१५३ंच्]/ पतिं शुश्रूषते येन तेन स्वर्गे महीयते ||\BC. \SC||
\ENM5.156a[१५४ंअ]/ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा |
\ENM5.156c[१५४ंच्]/ पतिलोकमभीप्सन्ती नाचरेत् किं चिदप्रियम् ||\BC. \SC||
\ENM5.157a[१५५ंअ]/ कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः |
\ENM5.157c[१५५ंच्]/ न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ||\BC. \SC||
\ENM5.158a[१५६ंअ]/ आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी |
\ENM5.158c[१५६ंच्]/ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ||\BC. \SC||
\ENM5.159a[१५७ंअ]/ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् |
\ENM5.159c[१५७ंच्]/ दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ||\BC. \SC||
\ENM5.160a[१५८ंअ]/ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता |
\ENM5.160c[१५८ंच्]/ स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ||\BC. \SC||
\ENM5.161a[१५९ंअ]/ अपत्यलोभाद् या तु स्त्री भर्तारमतिवर्तते |
\ENM5.161c[१५९ंच्]/ सेह निन्दामवाप्नोति परलोकाच्च हीयते ||\BC. \SC||
\ENM5.162a[१६०ंअ]/ नान्योत्पन्ना प्रजाऽस्तीह न चाप्यन्यपरिग्रहे | %[M.na chAnyasya parigrahe]
\ENM5.162c[१६०ंच्]/ न द्वितीयश्च साध्वीनां क्व चिद् भर्तोपदिश्यते ||\BC. \SC||
\ENM5.163a[१६१ंअ]/ पतिं हित्वाऽपकृष्टं स्वमुत्कृष्टं या निषेवते | %[M.hitvA.avakR^iShTaM]
\ENM5.163c[१६१ंच्]/ निन्द्यैव सा भवेल्लोके परपूर्वैति चौच्यते ||\BC. \SC||
\ENM5.164a[१६२ंअ]/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् | %[M.vyabhichAre tu]
\ENM5.164c[१६२ंच्]/ शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ||\BC. \SC||
\ENM5.165a[१६३ंअ]/ पतिं या नाभिचरति मनोवाग्देहसंयुता | %[M. dehasa.nyatA]
\ENM5.165c[१६३ंच्]/ सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ||\BC. \SC||
\ENM5.166a[१६४ंअ]/ अनेन नारी वृत्तेन मनोवाग्देहसंयता |
\ENM5.166c[१६४ंच्]/ इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ||\BC. \SC||
\ENM5.167a[१६५ंअ]/ एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् |
\ENM5.167c[१६५ंच्]/ दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ||\BC. \SC||
\ENM5.168a[१६६ंअ]/ भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि |
\ENM5.168c[१६६ंच्]/ पुनर्दारक्रियां कुर्यात् पुनराधानमेव च ||\BC. \SC||
\ENM5.169a[१६७ंअ]/ अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् |
\ENM5.169c[१६७ंच्]/ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ||\BC. \SC||
\separate
अध्याय ६
\ENM6.01a/ एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः |
\ENM6.01c/ वने वसेत् तु नियतो यथावद् विजितैन्द्रियः ||\BC. \SC||
\ENM6.02a/ गृहस्थस्तु यथा पश्येद् वलीपलितमात्मनः |
\ENM6.02c/ अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ||\BC. \SC||
\ENM6.03a/ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् |
\ENM6.03c/ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ||\BC. \SC||
\ENM6.04a/ अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् |
\ENM6.04c/ ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ||\BC. \SC||%[M.niShkramya]
\ENM6.05a/ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा |
\ENM6.05c/ एतानेव महायज्ञान्निर्वपेद् विधिपूर्वकम् ||\BC. \SC||
\ENM6.06a/ वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा |
\ENM6.06c/ जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ||\BC. \SC||
\ENM6.07a/ यद्भक्ष्यं स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः | %[M.yadbhakShaH ]
\ENM6.07c/ अब्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ||\BC. \SC||%[M:AshramAgataM ]
\ENM6.08a/ स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः |
\ENM6.08c/ दाता नित्यमनादाता सर्वभूतानुकम्पकः ||\BC. \SC||
\ENM6.09a/ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि |
\ENM6.09c/ दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः ||\BC. \SC||
\ENM6.10a/ ऋक्षेष्ट्य्.आग्रयणं चैव चातुर्मास्यानि चाहरेत् | %[M.darsheShTy.AgrayaNaM]
\ENM6.10c/ तुरायणं च क्रमशो दक्षस्यायनमेव च ||\BC. \SC||%[kM.dAkShasyAyanaM ]
\ENM6.11a/ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः |
\ENM6.11c/ पुरोडाशांश्चरूंश्चैव विधिवत्निर्वपेत् पृथक् ||\BC. \SC||
\ENM6.12a/ देवताभ्यस्तु तद् हुत्वा वन्यं मेध्यतरं हविः |
\ENM6.12c/ शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ||\BC. \SC||
\ENM6.13a/ स्थलजौदकशाकानि पुष्पमूलफलानि च |
\ENM6.13c/ मेध्यवृक्षोद्भवान्यद्यात् स्नेहांश्च फलसंभवान् ||\BC. \SC||
\ENM6.14a/ वर्जयेन् मधु मांसं च भौमानि कवकानि च |
\ENM6.14c/ भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ||\BC. \SC||
\ENM6.15a/ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् |
\ENM6.15c/ जीर्णानि चैव वासांसि शाकमूलफलानि च ||\BC. \SC||
\ENM6.16a/ न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् |
\ENM6.16c/ न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च ||\BC. \SC||%[M.puShpAni cha phalAni cha ]
\ENM6.17a/ अग्निपक्वाशनो वा स्यात् कालपक्वभुजेव वा |
\ENM6.17c/ अश्मकुट्टो भवेद् वाऽपि दन्तोलूखलिकोऽपि वा ||\BC. \SC||
\ENM6.18a/ सद्यः प्रक्षालको वा स्यान् माससञ्चयिकोऽपि वा |
\ENM6.18c/ षण्मासनिचयो वा स्यात् समानिचय एव वा ||\BC. \SC||
\ENM6.19a/ नक्तं चान्नं समश्नीयाद् दिवा वाऽहृत्य शक्तितः |
\ENM6.19c/ चतुर्थकालिको वा स्यात् स्याद् वाऽप्यष्टमकालिकः ||\BC. \SC||
\ENM6.20a/ चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् |
\ENM6.20c/ पक्षान्तयोर्वाऽप्यश्नीयाद् यवागूं क्वथितां सकृत् ||\BC. \SC||
\ENM6.21a/ पुष्पमूलफलैर्वाऽपि केवलैर्वर्तयेत् सदा |
\ENM6.21c/ कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ||\BC. \SC||
\ENM6.22a/ भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् |
\ENM6.22c/ स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ||\BC. \SC||
\ENM6.23a/ ग्रीष्मे पञ्चतपास्तु स्याद् वर्षास्वभ्रावकाशिकः |
\ENM6.23c/ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ||\BC. \SC||
\ENM6.24a/ उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् |
\ENM6.24c/ तपस्चरंश्चोग्रतरं शोषयेद् देहमात्मनः ||\BC. \SC||
\ENM6.25a/ अग्नीनात्मनि वैतानान् समारोप्य यथाविधि |
\ENM6.25c/ अनग्निरनिकेतः स्यान् मुनिर्मूलफलाशनः ||\BC. \SC||
\ENM6.26a/ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराऽऽशयः |
\ENM6.26c/ शरणेष्वममश्चैव वृक्षमूलनिकेतनः ||\BC. \SC||
\ENM6.27a/ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् |
\ENM6.27c/ गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ||\BC. \SC||
\ENM6.28a/ ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान् वने वसन् |
\ENM6.28c/ प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ||\BC. \SC||
\ENM6.29a/ एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् |
\ENM6.29c/ विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ||\BC. \SC||
\ENM6.30a/ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः |
\ENM6.30c/ विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ||\BC. \SC||
\ENM6.31a/ अपराजितां वाऽस्थाय व्रजेद् दिशमजिह्मगः |
\ENM6.31c/ आ निपातात्शरीरस्य युक्तो वार्यनिलाशनः ||\BC. \SC||
\ENM6.32a/ आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् |
\ENM6.32c/ वीतशोकभयो विप्रो ब्रह्मलोके महीयते ||\BC. \SC||
\ENM6.33a/ वनेषु च विहृत्यैवं तृतीयं भागमायुषः |
\ENM6.33c/ चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ||\BC. \SC||
\ENM6.34a/ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः |
\ENM6.34c/ भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ||\BC. \SC||
\ENM6.35a/ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् |
\ENM6.35c/ अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ||\BC. \SC||
\ENM6.36a/ अधीत्य विधिवद् वेदान् पुत्रांश्चोत्पाद्य धर्मतः |
\ENM6.36c/ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ||\BC. \SC||
\ENM6.37a/ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् | %[M.tathA prajAM ]
\ENM6.37c/ अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ||\BC. \SC||
\ENM6.38a/ प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् | %[M.sArvavedasadakShiNAm]
\ENM6.38c/ आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ||\BC. \SC||
\ENM6.39a/ यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् |
\ENM6.39c/ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ||\BC. \SC||
\ENM6.40a/ यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् |
\ENM6.40c/ तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ||\BC. \SC||
\ENM6.41a/ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः |
\ENM6.41c/ समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ||\BC. \SC||
\ENM6.42a/ एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् |
\ENM6.42c/ सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ||\BC. \SC||%[M.siddham]
\ENM6.43a/ अनग्निरनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् |
\ENM6.43c/ उपेक्षकोऽसङ्कुसुको मुनिर्भावसमाहितः ||\BC. \SC||%[M.asA~Nkusuko ]
\ENM6.44a/ कपालं वृक्षमूलानि कुचेलमसहायता | %[M.kuchailaM ]
\ENM6.44c/ समता चैव सर्वस्मिन्नेतत्मुक्तस्य लक्षणम् ||\BC. \SC||
\ENM6.45a/ नाभिनन्देत मरणं नाभिनन्देत जीवितम् |
\ENM6.45c/ कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ||\BC. \SC||
\ENM6.46a/ दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् |
\ENM6.46c/ सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ||\BC. \SC||
\ENM6.47a/ अतिवादांस्तितिक्षेत नावमन्येत कं चन |
\ENM6.47c/ न चैमं देहमाश्रित्य वैरं कुर्वीत केन चित् ||\BC. \SC||
\ENM6.48a/ क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् |
\ENM6.48c/ सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ||\BC. \SC||
\ENM6.49a/ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः |
\ENM6.49c/ आत्मनैव सहायेन सुखार्थी विचरेदिह ||\BC. \SC||
\ENM6.50a/ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया |
\ENM6.50c/ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ||\BC. \SC||
\ENM6.51a/ न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः |
\ENM6.51c/ आकीर्णं भिक्षुकैर्वाऽन्यैरगारमुपसंव्रजेत् ||\BC. \SC||
\ENM6.52a/ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् |
\ENM6.52c/ विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ||\BC. \SC||
\ENM6.53a/ अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च |
\ENM6.53c/ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ||\BC. \SC||
\ENM6.54a/ अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा |
\ENM6.54c/ एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ||\BC. \SC||
\ENM6.55a/ एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे |
\ENM6.55c/ भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ||\BC. \SC||
\ENM6.56a/ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने |
\ENM6.56c/ वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ||\BC. \SC||
\ENM6.57a/ अलाभे न विषदी स्यात्लाभे चैव न हर्षयेत् |
\ENM6.57c/ प्राणयात्रिकमात्रः स्यात्मात्रासङ्गाद् विनिर्गतः ||\BC. \SC||
\ENM6.58a/ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः |
\ENM6.58c/ अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ||\BC. \SC||
\ENM6.59a/ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च |
\ENM6.59c/ ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ||\BC. \SC||
\ENM6.60a/ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च |
\ENM6.60c/ अहिंसया च भूतानाममृतत्वाय कल्पते ||\BC. \SC||
\ENM6.61a/ अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः |
\ENM6.61c/ निरये चैव पतनं यातनाश्च यमक्षये ||\BC. \SC||
\ENM6.62a/ विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः |
\ENM6.62c/ जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ||\BC. \SC||
\ENM6.63a/ देहादुत्क्रमणं चास्मात् पुनर्गर्भे च संभवम् |
\ENM6.63c/ योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ||\BC. \SC||
\ENM6.64a/ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् |
\ENM6.64c/ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ||\BC. \SC||
\ENM6.65a/ सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः |
\ENM6.65c/ देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ||\BC. \SC||%[M.deheShu chaivopapattim]
\ENM6.66a/ दूषितोऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः | %[M.bhUShito.api ]
\ENM6.66c/ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ||\BC. \SC||
\ENM6.67a/ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् |
\ENM6.67c/ न नामग्रहणादेव तस्य वारि प्रसीदति ||\BC. \SC||
\ENM6.68a/ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा |
\ENM6.68c/ शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ||\BC. \SC||
\ENM6.69a/ अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः |
\ENM6.69c/ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ||\BC. \SC||
\ENM6.70a/ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः |
\ENM6.70c/ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ||\BC. \SC||
\ENM6.71a/ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः |
\ENM6.71c/ तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ||\BC. \SC||
\ENM6.72a/ प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्बिषम् |
\ENM6.72c/ प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ||\BC. \SC||
\ENM6.73a/ उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः |
\ENM6.73c/ ध्यानयोगेन संपश्येद् गतिमस्यान्तरात्मनः ||\BC. \SC||
\ENM6.74a/ सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते |
\ENM6.74c/ दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ||\BC. \SC||
\ENM6.75a/ अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः |
\ENM6.75c/ तपसश्चरणैश्चौग्रैः साधयन्तीह तत्पदम् ||\BC. \SC||
\ENM6.76a/ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् |
\ENM6.76c/ चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ||\BC. \SC||
\ENM6.77a/ जराशोकसमाविष्टं रोगायतनमातुरम् |
\ENM6.77c/ रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ||\BC. \SC||
\ENM6.78a/ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा |
\ENM6.78c/ तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ||\BC. \SC||
\ENM6.79a/ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् |
\ENM6.79c/ विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ||\BC. \SC||
\ENM6.80a/ यदा भावेन भवति सर्वभावेषु निःस्पृहः |
\ENM6.80c/ तदा सुखमवाप्नोति प्रेत्य चैह च शाश्वतम् ||\BC. \SC||
\ENM6.81a/ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान् शनैः शनैः |
\ENM6.81c/ सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ||\BC. \SC||
\ENM6.82a/ ध्यानिकं सर्वमेवैतद् यदेतदभिशब्दितम् |
\ENM6.82c/ न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ||\BC. \SC||
\ENM6.83a/ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च |
\ENM6.83c/ आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ||\BC. \SC||
\ENM6.84a/ इदं शरणमज्ञानामिदमेव विजानताम् |
\ENM6.84c/ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ||\BC. \SC||
\ENM6.85a/ अनेन क्रमयोगेन परिव्रजति यो द्विजः |
\ENM6.85c/ स विधूयैह पाप्मानं परं ब्रह्माधिगच्छति ||\BC. \SC||
\ENM6.86a/ एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् |
\ENM6.86c/ वेदसंन्यासिकानां तु कर्मयोगं निबोधत ||\BC. \SC||
\ENM6.87a/ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा |
\ENM6.87c/ एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ||\BC. \SC||
\ENM6.88a/ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः |
\ENM6.88c/ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ||\BC. \SC||
\ENM6.89a/ सर्वेषामपि चैतेषां वेदस्मृतिविधानतः | %[M.vedashrutividhAnataH ]
\ENM6.89c/ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ||\BC. \SC||
\ENM6.90a/ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् |
\ENM6.90c/ तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ||\BC. \SC||
\ENM6.91a/ चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः |
\ENM6.91c/ दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ||\BC. \SC||
\ENM6.92a/ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः |
\ENM6.92c/ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ||\BC. \SC||
\ENM6.93a/ दश लक्षणानि धर्मस्य ये विप्राः समधीयते |
\ENM6.93c/ अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ||\BC. \SC||
\ENM6.94a/ दशलक्षणकं धर्ममनुतिष्ठन् समाहितः |
\ENM6.94c/ वेदान्तं विधिवत्श्रुत्वा संन्यसेदनृणो द्विजः ||\BC. \SC||
\ENM6.95a/ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् |
\ENM6.95c/ नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ||\BC. \SC||
\ENM6.96a/ एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः |
\ENM6.96c/ संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ||\BC. \SC||
\ENM6.97a/ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः |
\ENM6.97c/ पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ||\BC. \SC||
\separate
अध्याय ७
\ENM7.01a/ राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः |
\ENM7.01c/ संभवश्च यथा तस्य सिद्धिश्च परमा यथा ||\BC. \SC||
\ENM7.02a/ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि |
\ENM7.02c/ सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ||\BC. \SC||
\ENM7.03a/ अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् |
\ENM7.03c/ रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ||\BC. \SC||
\ENM7.04a/ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च |
\ENM7.04c/ चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ||\BC. \SC||
\ENM7.05a/ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः |
\ENM7.05c/ तस्मादभिभवत्येष सर्वभूतानि तेजसा ||\BC. \SC||
\ENM7.06a/ तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च |
\ENM7.06c/ न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ||\BC. \SC||
\ENM7.07a/ सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् |
\ENM7.07c/ स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ||\BC. \SC||%[M.sa chaindraH svaprabhAvataH] ||\BC##. ##\SC||%[k: ]
\ENM7.08a/ बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः |
\ENM7.08c/ महती देवता ह्येषा नररूपेण तिष्ठति ||\BC. \SC||
\ENM7.09a/ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् |
\ENM7.09c/ कुलं दहति राजाऽग्निः सपशुद्रव्यसञ्चयम् ||\BC. \SC||
\ENM7.10a/ कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः |
\ENM7.10c/ कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ||\BC. \SC||
\ENM7.11a/ यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे |
\ENM7.11c/ मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ||\BC. \SC||
\ENM7.12a/ तं यस्तु द्वेष्टि संमोहात् स विनश्यत्यसंशयम् |
\ENM7.12c/ तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ||\BC. \SC||
\ENM7.13a/ तस्माद् धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः |
\ENM7.13c/ अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ||\BC. \SC||
\ENM7.14a/ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् | %[M.tadarthaM]
\ENM7.14c/ ब्रह्मतेजोमयं दण्डमसृजत् पूर्वमीश्वरः ||\BC. \SC||
\ENM7.15a/ तस्य सर्वाणि भूतानि स्थावराणि चराणि च |
\ENM7.15c/ भयाद् भोगाय कल्पन्ते स्वधर्मात्न चलन्ति च ||\BC. \SC||
\ENM7.16a/ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः |
\ENM7.16c/ यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ||\BC. \SC||
\ENM7.17a/ स राजा पुरुषो दण्डः स नेता शासिता च सः |
\ENM7.17c/ चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ||\BC. \SC||
\ENM7.18a/ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति |
\ENM7.18c/ दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ||\BC. \SC||
\ENM7.19a/ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः |
\ENM7.19c/ असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ||\BC. \SC||
\ENM7.20a/ यदि न प्रणयेद् राजा दण्डं दण्ड्येष्वतन्द्रितः |
\ENM7.20c/ शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ||\BC. \SC||
\ENM7.21a/ अद्यात् काकः पुरोडाशं श्वा च लिह्याद्द् हविस्तथा | %[M.shvA.avalihyAdd]
\ENM7.21c/ स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ||\BC. \SC||
\ENM7.22a/ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः |
\ENM7.22c/ दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ||\BC. \SC||
\ENM7.23a/ देवदानवगन्धर्वा रक्षांसि पतगोरगाः |
\ENM7.23c/ तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ||\BC. \SC||
\ENM7.24a/ दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः |
\ENM7.24c/ सर्वलोकप्रकोपश्च भवेद् दण्डस्य विभ्रमात् ||\BC. \SC||
\ENM7.25a/ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा |
\ENM7.25c/ प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ||\BC. \SC||
\ENM7.26a/ तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् |
\ENM7.26c/ समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ||\BC. \SC||
\ENM7.27a/ तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते |
\ENM7.27c/ कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ||\BC. \SC||%[M.kAmAndho ]
\ENM7.28a/ दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः |
\ENM7.28c/ धर्माद् विचलितं हन्ति नृपमेव सबान्धवम् ||\BC. \SC||
\ENM7.29a/ ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् |
\ENM7.29c/ अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ||\BC. \SC||
\ENM7.30a/ सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना |
\ENM7.30c/ न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ||\BC. \SC||
\ENM7.31a/ शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा |
\ENM7.31c/ प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ||\BC. \SC||
\ENM7.32a/ स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु |
\ENM7.32c/ सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ||\BC. \SC||
\ENM7.33a/ एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः |
\ENM7.33c/ विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ||\BC. \SC||
\ENM7.34a/ अतस्तु विपरीतस्य नृपतेरजितात्मनः |
\ENM7.34c/ सङ्क्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ||\BC. \SC||
\ENM7.35a/ स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः |
\ENM7.35c/ वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ||\BC. \SC||
\ENM7.36a/ तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः |
\ENM7.36c/ तत् तद् वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ||\BC. \SC||
\ENM7.37a/ ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः |
\ENM7.37c/ त्रैविद्यवृद्धान् विदुषस्तिष्ठेत् तेषां च शासने ||\BC. \SC||
\ENM7.38a/ वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् |
\ENM7.38c/ वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ||\BC. \SC||
\ENM7.39a/ तेभ्योऽधिगच्छेद् विनयं विनीतात्माऽपि नित्यशः |
\ENM7.39c/ विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ||\BC. \SC||
\ENM7.40a/ बहवोऽविनयात्नष्टा राजानः सपरिच्छदाः | %[M.saparigrahAH]
\ENM7.40c/ वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ||\BC. \SC||
\ENM7.41a/ वेनो विनष्टोऽविनयात्नहुषश्चैव पार्थिवः |
\ENM7.41c/ सुदाः पैजवनश्चैव सुमुखो निमिरेव च ||\BC. \SC||
\ENM7.42a/ पृथुस्तु विनयाद् राज्यं प्राप्तवान् मनुरेव च |
\ENM7.42c/ कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ||\BC. \SC||
\ENM7.43a/ त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् | %[M.trayIM vidyAt.h ]
\ENM7.43c/ आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ||\BC. \SC||
\ENM7.44a/ इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् |
\ENM7.44c/ जितैन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ||\BC. \SC||
\ENM7.45a/ दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च |
\ENM7.45c/ व्यसनानि दुर्ऽन्तानि प्रयत्नेन विवर्जयेत् ||\BC. \SC||
\ENM7.46a/ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः |
\ENM7.46c/ वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ||\BC. \SC||
\ENM7.47a/ मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः |
\ENM7.47c/ तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ||\BC. \SC||
\ENM7.48a/ पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् |
\ENM7.48c/ वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ||\BC. \SC||
\ENM7.49a/ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः |
\ENM7.49c/ तं यत्नेन जयेत्लोभं तज्जावेतावुभौ गणौ ||\BC. \SC||
\ENM7.50a/ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् |
\ENM7.50c/ एतत् कष्टतमं विद्यात्चतुष्कं कामजे गणे ||\BC. \SC||
\ENM7.51a/ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे |
\ENM7.51c/ क्रोधजेऽपि गणे विद्यात् कष्टमेतत् त्रिकं सदा ||\BC. \SC||
\ENM7.52a/ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः |
\ENM7.52c/ पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनमात्मवान् ||\BC. \SC||
\ENM7.53a/ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते |
\ENM7.53c/ व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ||\BC. \SC||
\ENM7.54a/ मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् | %[M.kulodgatAn.h ]
\ENM7.54c/ सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ||\BC. \SC||%[M.kurvIta suparIkShitAn]
\ENM7.55a/ अपि यत् सुकरं कर्म तदप्येकेन दुष्करम् |
\ENM7.55c/ विशेषतोऽसहायेन किं तु राज्यं महोदयम् ||\BC. \SC||%[M.kiM nu ]
\ENM7.56a/ तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् |
\ENM7.56c/ स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ||\BC. \SC||
\ENM7.57a/ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् |
\ENM7.57c/ समस्तानां च कार्येषु विदध्याद्द् हितमात्मनः ||\BC. \SC||
\ENM7.58a/ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता |
\ENM7.58c/ मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ||\BC. \SC||
\ENM7.59a/ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् | %[M.nikShipet]
\ENM7.59c/ तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ||\BC. \SC||
\ENM7.60a/ अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् |
\ENM7.60c/ सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ||\BC. \SC||
\ENM7.61a/ निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः |
\ENM7.61c/ तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ||\BC. \SC||
\ENM7.62a/ तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् |
\ENM7.62c/ शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ||\BC. \SC||
\ENM7.63a/ दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् |
\ENM7.63c/ इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ||\BC. \SC||
\ENM7.64a/ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् |
\ENM7.64c/ वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ||\BC. \SC||
\ENM7.65a/ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया |
\ENM7.65c/ नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ||\BC. \SC||
\ENM7.66a/ दूत एव हि संधत्ते भिनत्त्येव च संहतान् |
\ENM7.66c/ दूतस्तत् कुरुते कर्म भिद्यन्ते येन मानवः ||\BC. \SC||
\ENM7.67a/ स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः |
\ENM7.67c/ आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ||\BC. \SC||
\ENM7.68a/ बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् |
\ENM7.68c/ तथा प्रयत्नमातिष्ठेद् यथाऽत्मानं न पीडयेत् ||\BC. \SC||
\ENM7.69a/ जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम् |
\ENM7.69c/ रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ||\BC. \SC||
\ENM7.70a/ धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा |
\ENM7.70c/ नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ||\BC. \SC||
\ENM7.71a/ सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् |
\ENM7.71c/ एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ||\BC. \SC||
\ENM7.72a/ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः |
\ENM7.72c/ त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ||\BC. \SC||
\ENM7.73a/ यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः |
\ENM7.73c/ तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ||\BC. \SC||
\ENM7.74a/ एकः शतं योधयति प्राकारस्थो धनुर्धरः |
\ENM7.74c/ शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ||\BC. \SC||
\ENM7.75a/ तत् स्यादायुधसंपन्नं धनधान्येन वाहनैः |
\ENM7.75c/ ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ||\BC. \SC||
\ENM7.76a/ तस्य मध्ये सुपर्याप्तं कारयेद् गृहमात्मनः |
\ENM7.76c/ गुप्तं सर्वऋतुकं शुभ्रं जलवृक्षसमन्वितम् ||\BC. \SC||
\ENM7.77a/ तदध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् |
\ENM7.77c/ कुले महति संभूतां हृद्यां रूपगुणान्विताम् ||\BC. \SC||
\ENM7.78a/ पुरोहितं च कुर्वीत वृणुयादेव चर्त्विजः |
\ENM7.78c/ तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ||\BC. \SC||
\ENM7.79a/ यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः |
\ENM7.79c/ धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ||\BC. \SC||
\ENM7.80a/ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद् बलिम् |
\ENM7.80c/ स्याच्चाम्नायपरो लोके वर्तेत पितृवत्नृषु ||\BC. \SC||
\ENM7.81a/ अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः |
\ENM7.81c/ तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ||\BC. \SC||
\ENM7.82a/ आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् |
\ENM7.82c/ नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ||\BC. \SC||
\ENM7.83a/ न तं स्तेना न चामित्रा हरन्ति न च नश्यति |
\ENM7.83c/ तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ||\BC. \SC||
\ENM7.84a/ न स्कन्दते न व्यथते न विनश्यति कर्हि चित् | %[M. na skandati na chyavate]
\ENM7.84c/ वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ||\BC. \SC||
\ENM7.85a/ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे |
\ENM7.85c/ प्राधीते शतसाहस्रमनन्तं वेदपारगे ||\BC. \SC||%[M.AchArye shatasAhasram]] [~n: sahasraguNamAchArye]
\ENM7.86a/ पात्रस्य हि विशेषेण श्रद्दधानतयैव च |
\ENM7.86c/ अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ||\BC. \SC||
\ENM7.87a[८८ंअ]/ समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः |
\ENM7.87c[८८ंच्]/ न निवर्तेत सङ्ग्रामात् क्षात्रं धर्ममनुस्मरन् ||\BC. \SC||
\ENM7.88a[८९ंअ]/ सङ्ग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् |
\ENM7.88c[८९ंच्]/ शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ||\BC. \SC||
\ENM7.89a[९०ंअ]/ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः |
\ENM7.89c[९०ंच्]/ युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ||\BC. \SC||
\ENM7.90a[९१ंअ]/ न कूटैरायुधैर्हन्याद् युध्यमानो रणे रिपून् |
\ENM7.90c[९१ंच्]/ न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ||\BC. \SC||
\ENM7.91a[९२ंअ]/ न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् |
\ENM7.91c[९२ंच्]/ न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ||\BC. \SC||
\ENM7.92a[९३ंअ]/ न सुप्तं न विसंनाहं न नग्नं न निरायुधम् |
\ENM7.92c[९३ंच्]/ नायुध्यमानं पश्यन्तं न परेण समागतम् ||\BC. \SC||
\ENM7.93a[९४ंअ]/ नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् |
\ENM7.93c[९४ंच्]/ न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ||\BC. \SC||
\ENM7.94a[९५ंअ]/ यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः |
\ENM7.94c[९५ंच्]/ भर्तुर्यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ||\BC. \SC||
\ENM7.95a[९६ंअ]/ यत्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम् |
\ENM7.95c[९६ंच्]/ भर्ता तत् सर्वमादत्ते परावृत्तहतस्य तु ||\BC. \SC||
\ENM7.96a[९७ंअ]/ रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः |
\ENM7.96c[९७ंच्]/ सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ||\BC. \SC||
\ENM7.97a[९८ंअ]/ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः |
\ENM7.97c[९८ंच्]/ राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ||\BC. \SC||
\ENM7.98a[९९ंअ]/ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः |
\ENM7.98c[९९ंच्]/ अस्माद् धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ||\BC. \SC||
\ENM7.99a[१००ंअ]/ अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः |
\ENM7.99c[१००ंच्]/ रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ||\BC. \SC||
\ENM7.100a[१०१ंअ]/ एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् |
\ENM7.100c[१०१ंच्]/ अस्य नित्यमनुष्ठानं सम्यक् कुर्यादतन्द्रितः ||\BC. \SC||
\ENM7.101a[१०२ंअ]/ अलब्धमिच्छेद् दण्डेन लब्धं रक्षेदवेक्षया |
\ENM7.101c[१०२ंच्]/ रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ||\BC. \SC||
\ENM7.102a[१०३ंअ]/ नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः |
\ENM7.102c[१०३ंच्]/ नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ||\BC. \SC||
\ENM7.103a[१०४ंअ]/ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् |
\ENM7.103c[१०४ंच्]/ तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ||\BC. \SC||
\ENM7.104a[१०५ंअ]/ अमाययैव वर्तेत न कथं चन मायया |
\ENM7.104c[१०५ंच्]/ बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ||\BC. \SC||
\ENM7.105a[१०६ंअ]/ नास्य छिद्रं परो विद्याद् विद्यात्छिद्रं परस्य च |
\ENM7.105c[१०६ंच्]/ गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः ||\BC. \SC||
\ENM7.106a[१०७ंअ]/ बकवत्चिन्तयेदर्थान् सिंहवत्च पराक्रमे |
\ENM7.106c[१०७ंच्]/ वृकवत्चावलुम्पेत शशवत्च विनिष्पतेत् ||\BC. \SC||
\ENM7.107a[१०८ंअ]/ एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः |
\ENM7.107c[१०८ंच्]/ तानानयेद् वशं सर्वान् सामादिभिरुपक्रमैः ||\BC. \SC||
\ENM7.108a[१०९ंअ]/ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः |
\ENM7.108c[१०९ंच्]/ दण्डेनैव प्रसह्यैतांशनकैर्वशमानयेत् ||\BC. \SC||
\ENM7.109a[११०ंअ]/ सामादीनामुपायानां चतुर्णामपि पण्डिताः |
\ENM7.109c[११०ंच्]/ सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ||\BC. \SC||
\ENM7.110[१११ंअ]/ यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति |
\ENM7.110c[१११ंच्]/ तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ||\BC. \SC||
\ENM7.111a[११२ंअ]/ मोहाद् राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया |
\ENM7.111c[११२ंच्]/ सोऽचिराद् भ्रश्यते राज्यात्जीवितात्च सबान्धवः ||\BC. \SC||
\ENM7.112a[११३ंअ]/ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा |
\ENM7.112c[११३ंच्]/ तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ||\BC. \SC||
\ENM7.113a[११४ंअ]/ राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् |
\ENM7.113c[११४ंच्]/ सुसङ्गृहीतराष्ट्रे हि पार्थिवः सुखमेधते ||\BC. \SC||
\ENM7.114a[११५ंअ]/ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् |
\ENM7.114c[११५ंच्]/ तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य सङ्ग्रहम् ||\BC. \SC||
\ENM7.115a[११६ंअ]/ ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा |
\ENM7.115c[११६ंच्]/ विंशतीशं शतेशं च सहस्रपतिमेव च ||\BC. \SC||
\ENM7.116a[११७ंअ]/ ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् |
\ENM7.116c[११७ंच्]/ शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ||\BC. \SC||
\ENM7.117a[११८ंअ]/ विंशतीशस्तु तत् सर्वं शतेशाय निवेदयेत् |
\ENM7.117c[११८ंच्]/ शंसेद् ग्रामशतेशस्तु सहस्रपतये स्वयम् ||\BC. \SC||
\ENM7.118a[११९ंअ]/ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः |
\ENM7.118c[११९ंच्]/ अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ||\BC. \SC||
\ENM7.119a[१२०ंअ]/ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च |
\ENM7.119c[१२०ंच्]/ ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ||\BC. \SC||
\ENM7.120a[१२१ंअ]/ तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि |
\ENM7.120c[१२१ंच्]/ राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ||\BC. \SC||
\ENM7.121a[१२२ंअ]/ नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् |
\ENM7.121c[१२२ंच्]/ उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ||\BC. \SC||
\ENM7.122a[१२३ंअ]/ स ताननुपरिक्रामेत् सर्वानेव सदा स्वयम् |
\ENM7.122c[१२३ंच्]/ तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तत्चरैः ||\BC. \SC||
\ENM7.123a[१२४ंअ]/ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः |
\ENM7.123c[१२४ंच्]/ भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ||\BC. \SC||
\ENM7.124a[१२५ंअ]/ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः |
\ENM7.124c[१२५ंच्]/ तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनम् ||\BC. \SC||
\ENM7.125a[१२६ंअ]/ राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च | %[M.rAjakarmasu]
\ENM7.125c[१२६ंच्]/ प्रत्यहं कल्पयेद् वृत्तिं स्थानं कर्मानुरूपतः ||\BC. \SC||%[M.sthAnakarmAnurUpataH]
\ENM7.126a[१२७ंअ]/ पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् |
\ENM7.126c[१२७ंच्]/ षाण्मासिकस्तथाऽच्छादो धान्यद्रोणस्तु मासिकः ||\BC. \SC||
\ENM7.127a[१२८ंअ]/ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् |
\ENM7.127c[१२८ंच्]/ योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करान् ||\BC. \SC||
\ENM7.128a[१२९ंअ]/ यथा फलेन युज्येत राजा कर्ता च कर्मणाम् |
\ENM7.128c[१२९ंच्]/ तथाऽवेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ||\BC. \SC||
\ENM7.129a[१३०ंअ]/ यथाऽल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः |
\ENM7.129c[१३०ंच्]/ तथाऽल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ||\BC. \SC||
\ENM7.130a[१३१ंअ]/ पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः |
\ENM7.130c[१३१ंच्]/ धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ||\BC. \SC||
\ENM7.131a[१३२ंअ]/ आददीताथ षड्भागं द्रुमान् समधुसर्पिषाम् |
\ENM7.131c[१३२ंच्]/ गन्धौषधिरसानां च पुष्पमूलफलस्य च ||\BC. \SC||
\ENM7.132a[१३३ंअ]/ पत्रशाकतृणानां च चर्मणां वैदलस्य च |
\ENM7.132c[१३३ंच्]/ मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ||\BC. \SC||
\ENM7.133a[१३४ंअ]/ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् |
\ENM7.133c[१३४ंच्]/ न च क्षुधाऽस्य संसीदेत्श्रोत्रियो विषये वसन् ||\BC. \SC||
\ENM7.134a[१३५ंअ]/ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा |
\ENM7.134c[१३५ंच्]/ तस्यापि तत् क्षुधा राष्ट्रमचिरेणैव सीदति ||\BC. \SC||
\ENM7.135a[१३६ंअ]/ श्रुतवृत्ते विदित्वाऽस्य वृत्तिं धर्म्यां प्रकल्पयेत् |
\ENM7.135c[१३६ंच्]/ संरक्षेत् सर्वतश्चैनं पिता पुत्रमिवौरसम् ||\BC. \SC||
\ENM7.136a[१३७ंअ]/ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् | %[M.rAGYA.ayaM]
\ENM7.136c[१३७ंच्]/ तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ||\BC. \SC||
\ENM7.137a[१३८ंअ]/ यत् किं चिदपि वर्षस्य दापयेत् करसंज्ञितम् |
\ENM7.137c[१३८ंच्]/ व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ||\BC. \SC||
\ENM7.138a[१३९ंअ]/ कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः |
\ENM7.138c[१३९ंच्]/ एकैकं कारयेत् कर्म मासि मासि महीपतिः ||\BC. \SC||
\ENM7.139a[१४०ंअ]/ नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया |
\ENM7.139c[१४०ंच्]/ उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ||\BC. \SC||
\ENM7.140a[१४१ंअ]/ तीक्ष्णश्चैव मृदुश्च स्यात् कार्यं वीक्ष्य महीपतिः |
\ENM7.140c[१४१ंच्]/ तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः ||\BC. \SC||
\ENM7.141a[१४२ंअ]/ अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् |
\ENM7.141c[१४२ंच्]/ स्थापयेदासने तस्मिन् खिन्नः कार्यैक्षणे नृणाम् ||\BC. \SC||
\ENM7.142a[१४३ंअ]/ एवं सर्वं विधायैदमितिकर्तव्यमात्मनः |
\ENM7.142c[१४३ंच्]/ युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ||\BC. \SC||
\ENM7.143a[१४४ंअ]/ विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः |
\ENM7.143c[१४४ंच्]/ संपश्यतः सभृत्यस्य मृतः स न तु जीवति ||\BC. \SC||
\ENM7.144a[१४५ंअ]/ क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् |
\ENM7.144c[१४५ंच्]/ निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ||\BC. \SC||
\ENM7.145a[१४६ंअ]/ उत्थाय पश्चिमे यामे कृतशौचः समाहितः |
\ENM7.145c[१४६ंच्]/ हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत् स शुभां सभाम् ||\BC. \SC||
\ENM7.146a[१४७ंअ]/ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् |
\ENM7.146c[१४७ंच्]/ विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ||\BC. \SC||
\ENM7.147a[१४८ंअ]/ गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः |
\ENM7.147c[१४८ंच्]/ अरण्ये निःशलाके वा मन्त्रयेदविभावितः ||\BC. \SC||
\ENM7.148a[१४९ंअ]/ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः |
\ENM7.148c[१४९ंच्]/ स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ||\BC. \SC||
\ENM7.149a[१५०ंअ]/ जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् |
\ENM7.149c[१५०ंच्]/ स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ||\BC. \SC||
\ENM7.150a[१५१ंअ]/ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च |
\ENM7.150c[१५१ंच्]/ स्त्रियश्चैव विशेषेण तस्मात् तत्रादृतो भवेत् ||\BC. \SC||
\ENM7.151a[१५२ंअ]/ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः |
\ENM7.151c[१५२ंच्]/ चिन्तयेद् धर्मकामार्थान् सार्धं तैरेक एव वा ||\BC. \SC||%[M.sArthaM ]
\ENM7.152a[१५३ंअ]/ परस्परविरुद्धानां तेषां च समुपार्जनम् |
\ENM7.152c[१५३ंच्]/ कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ||\BC. \SC||
\ENM7.153a[१५४ंअ]/ दूतसंप्रेषणं चैव कार्यशेषं तथैव च |
\ENM7.153c[१५४ंच्]/ अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ||\BC. \SC||
\ENM7.154a[१५५ंअ]/ कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः |
\ENM7.154c[१५५ंच्]/ अनुरागापरागौ च प्रचारं मण्डलस्य च ||\BC. \SC||
\ENM7.155a[१५६ंअ]/ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् |
\ENM7.155c[१५६ंच्]/ उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ||\BC. \SC||
\ENM7.156a[१५७ंअ]/ एताः प्रकृतयो मूलं मण्डलस्य समासतः |
\ENM7.156c[१५७ंच्]/ अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ||\BC. \SC||
\ENM7.157a[१५८ंअ]/ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः |
\ENM7.157c[१५८ंच्]/ प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः ||\BC. \SC||
\ENM7.158a[१५९ंअ]/ अनन्तरमरिं विद्यादरिसेविनमेव च |
\ENM7.158c[१५९ंच्]/ अरेरनन्तरं मित्रमुदासीनं तयोः परम् ||\BC. \SC||
\ENM7.159a[१६०ंअ]/ तान् सर्वानभिसंदध्यात् सामादिभिरुपक्रमैः |
\ENM7.159c[१६०ंच्]/ व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ||\BC. \SC||
\ENM7.160a[१६१ंअ]/ संधिं च विग्रहं चैव यानमासनमेव च |
\ENM7.160c[१६१ंच्]/ द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत् सदा ||\BC. \SC||
\ENM7.161a[१६२ंअ]/ आसनं चैव यानं च संधिं विग्रहमेव च |
\ENM7.161c[१६२ंच्]/ कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ||\BC. \SC||
\ENM7.162a[१६३ंअ]/ संधिं तु द्विविधं विद्याद् राजा विग्रहमेव च |
\ENM7.162c[१६३ंच्]/ उभे यानासने चैव द्विविधः संश्रयः स्मृतः ||\BC. \SC||
\ENM7.163a[१६४ंअ]/ समानयानकर्मा च विपरीतस्तथैव च |
\ENM7.163c[१६४ंच्]/ तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः ||\BC. \SC||
\ENM7.164a[१६५ंअ]/ स्वयङ्कृतश्च कार्यार्थमकाले काल एव वा |
\ENM7.164c[१६५ंच्]/ मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ||\BC. \SC||
\ENM7.165a[१६६ंअ]/ एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया |
\ENM7.165c[१६६ंच्]/ संहतस्य च मित्रेण द्विविधं यानमुच्यते ||\BC. \SC||
\ENM7.166a[१६७ंअ]/ क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा |
\ENM7.166c[१६७ंच्]/ मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ||\BC. \SC||
\ENM7.167a[१६८ंअ]/ बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये |
\ENM7.167c[१६८ंच्]/ द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ||\BC. \SC||
\ENM7.168a[१६९ंअ]/ अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः |
\ENM7.168c[१६९ंच्]/ साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः ||\BC. \SC||
\ENM7.169a[१७०ंअ]/ यदाऽवगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः |
\ENM7.169c[१७०ंच्]/ तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ||\BC. \SC||
\ENM7.170a[१७१ंअ]/ यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् |
\ENM7.170c[१७१ंच्]/ अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ||\BC. \SC||
\ENM7.171a[१७२ंअ]/ यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् |
\ENM7.171c[१७२ंच्]/ परस्य विपरीतं च तदा यायाद् रिपुं प्रति ||\BC. \SC||
\ENM7.172a[१७३ंअ]/ यदा तु स्यात् परिक्षीणो वाहनेन बलेन च |
\ENM7.172c[१७३ंच्]/ तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ||\BC. \SC||
\ENM7.173a[१७४ंअ]/ मन्येतारिं यदा राजा सर्वथा बलवत्तरम् |
\ENM7.173c[१७४ंच्]/ तदा द्विधा बलं कृत्वा साधयेत् कार्यमात्मनः ||\BC. \SC||
\ENM7.174a[१७५ंअ]/ यदा परबलानां तु गमनीयतमो भवेत् |
\ENM7.174c[१७५ंच्]/ तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ||\BC. \SC||
\ENM7.175a[१७६ंअ]/ निग्रहं प्रकृतीनां च कुर्याद् योऽरिबलस्य च |
\ENM7.175c[१७६ंच्]/ उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ||\BC. \SC||
\ENM7.176a[१७७ंअ]/ यदि तत्रापि संपश्येद् दोषं संश्रयकारितम् |
\ENM7.176c[१७७ंच्]/ सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ||\BC. \SC||
\ENM7.177a[१७८ंअ]/ सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः |
\ENM7.177c[१७८ंच्]/ यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ||\BC. \SC||
\ENM7.178a[१७९ंअ]/ आयतिं सर्वकार्याणां तदात्वं च विचारयेत् |
\ENM7.178c[१७९ंच्]/ अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ||\BC. \SC||
\ENM7.179a[१८०ंअ]/ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः |
\ENM7.179c[१८०ंच्]/ अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ||\BC. \SC||
\ENM7.180a[१८१ंअ]/ यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः |
\ENM7.180c[१८१ंच्]/ तथा सर्वं संविदध्यादेष सामासिको नयः ||\BC. \SC||
\ENM7.181a[१८२ंअ]/ तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः |
\ENM7.181c[१८२ंच्]/ तदानेन विधानेन यायादरिपुरं शनैः ||\BC. \SC||
\ENM7.182a[१८३ंअ]/ मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः |
\ENM7.182c[१८३ंच्]/ फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ||\BC. \SC||
\ENM7.183a[१८४ंअ]/ अन्येष्वपि तु कालेषु यदा पश्येद् ध्रुवं जयम् |
\ENM7.183c[१८४ंच्]/ तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ||\BC. \SC||
\ENM7.184a[१८५ंअ]/ कृत्वा विधानं मूले तु यात्रिकं च यथाविधि |
\ENM7.184c[१८५ंच्]/ उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ||\BC. \SC||
\ENM7.185a[१८६ंअ]/ संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् |
\ENM7.185c[१८६ंच्]/ सांपरायिककल्पेन यायादरिपुरं प्रति ||\BC. \SC||
\ENM7.186a[१८७ंअ]/ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् |
\ENM7.186c[१८७ंच्]/ गतप्रत्यागते चैव स हि कष्टतरो रिपुः ||\BC. \SC||
\ENM7.187a[१८८ंअ]/ दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा |
\ENM7.187c[१८८ंच्]/ वराहमकराभ्यां वा सूच्या वा गरुडेन वा ||\BC. \SC||
\ENM7.188a[१८९ंअ]/ यतश्च भयमाशङ्केत् ततो विस्तारयेद् बलम् |
\ENM7.188c[१८९ंच्]/ पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ||\BC. \SC||
\ENM7.189a[१९०ंअ]/ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् |
\ENM7.189c[१९०ंच्]/ यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद् दिशम् ||\BC. \SC||
\ENM7.190a[१९१ंअ]/ गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः |
\ENM7.190c[१९१ंच्]/ स्थाने युद्धे च कुशलानभीरूनविकारिणः ||\BC. \SC||
\ENM7.191a[१९२ंअ]/ संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून् |
\ENM7.191c[१९२ंच्]/ सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ||\BC. \SC||
\ENM7.192a[१९३ंअ]/ स्यन्दनाश्वैः समे युध्येदनूपेनोद्विपैस्तथा |
\ENM7.192c[१९३ंच्]/ वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ||\BC. \SC||
\ENM7.193a[१९४ंअ]/ कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालांशूरसेनजान् | %[M:kaurakShetrA.nshcha ]
\ENM7.193c[१९४ंच्]/ दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ||\BC. \SC||
\ENM7.194a[१९५ंअ]/ प्रहर्षयेद् बलं व्यूह्य तांश्च सम्यक् परीक्षयेत् | %[M.bhR^ishaM parIkShayet##) ##]
\ENM7.194c[१९५ंच्]/ चेष्टाश्चैव विजानीयादरीन् योधयतामपि ||\BC. \SC||
\ENM7.195a[१९६ंअ]/ उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् |
\ENM7.195c[१९६ंच्]/ दूषयेच्चास्य सततं यवसान्नोदकैन्धनम् ||\BC. \SC||
\ENM7.196a[१९७ंअ]/ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा |
\ENM7.196c[१९७ंच्]/ समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत् तथा ||\BC. \SC||
\ENM7.197a[१९८ंअ]/ उपजप्यानुपजपेद् बुध्येतैव च तत्कृतम् |
\ENM7.197c[१९८ंच्]/ युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ||\BC. \SC||
\ENM7.198a[१९९ंअ]/ साम्ना दानेन भेदेन समस्तैरथ वा पृथक् |
\ENM7.198c[१९९ंच्]/ विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ||\BC. \SC||%[MariM]
\ENM7.199a[२००ंअ]/ अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः |
\ENM7.199c[२००ंच्]/ पराजयश्च सङ्ग्रामे तस्माद् युद्धं विवर्जयेत् ||\BC. \SC||
\ENM7.200a[२०१ंअ]/ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे |
\ENM7.200c[२०१ंच्]/ तथा युध्येत संपन्नो विजयेत रिपून् यथा ||\BC. \SC||
\ENM7.201a[२०२ंअ]/ जित्वा संपूजयेद् देवान् ब्राह्मणांश्चैव धार्मिकान् |
\ENM7.201c[२०२ंच्]/ प्रदद्यात् परिहारार्थं ख्यापयेदभयानि च ||\BC. \SC||
\ENM7.202a[२०३ंअ]/ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् |
\ENM7.202c[२०३ंच्]/ स्थापयेत् तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ||\BC. \SC||
\ENM7.203a[२०४ंअ]/ प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् |
\ENM7.203c[२०४ंच्]/ रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ||\BC. \SC||
\ENM7.204a[२०५ंअ]/ आदानमप्रियकरं दानं च प्रियकारकम् |
\ENM7.204c[२०५ंच्]/ अभीप्सितानामर्थानां काले युक्तम् ? ? ||\BC. \SC||%[M.kAlayuktaM prashasyate##) ##]
\ENM7.205a[२०६ंअ]/ सर्वं कर्मैदमायत्तं विधाने दैवमानुषे |
\ENM7.205c[२०६ंच्]/ तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ||\BC. \SC||
\ENM7.206a[२१०ंअ]/ सह वाऽपि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः |
\ENM7.206c[२१०ंच्]/ मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् ||\BC. \SC||
\ENM7.207a[२११ंअ]/ पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले |
\ENM7.207c[२११ंच्]/ मित्रादथाप्यमित्राद् वा यात्राफलमवाप्नुयात् ||\BC. \SC||
\ENM7.208a[२१२ंअ]/ हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते |
\ENM7.208c[२१२ंच्]/ यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ||\BC. \SC||
\ENM7.209a[२१३ंअ]/ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च |
\ENM7.209c[२१३ंच्]/ अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ||\BC. \SC||
\ENM7.210a[२१४ंअ]/ प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च |
\ENM7.210c[२१४ंच्]/ कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ||\BC. \SC||
\ENM7.211a[२१५ंअ]/ आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता |
\ENM7.211c[२१५ंच्]/ स्थौललक्ष्यं च सततमुदासीनगुणौदयः ||\BC. \SC||
\ENM7.212a[२१६ंअ]/ क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि |
\ENM7.212c[२१६ंच्]/ परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ||\BC. \SC||
\ENM7.213a[२१७ंअ]/ आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैरपि | %[M.Apadarthe ]
\ENM7.213c[२१७ंच्]/ आत्मानं सततं रक्षेद् दारैरपि धनैरपि ||\BC. \SC||
\ENM7.214a[२१८ंअ]/ सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् |
\ENM7.214c[२१८ंच्]/ संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद् बुधः ||\BC. \SC||
\ENM7.215a[२१९ंअ]/ उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः |
\ENM7.215c[२१९ंच्]/ एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ||\BC. \SC||
\ENM7.216a[२२०ंअ]/ एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः |
\ENM7.216c[२२०ंच्]/ व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ||\BC. \SC||
\ENM7.217a[२२१ंअ]/ तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः |
\ENM7.217c[२२१ंच्]/ सुपरीक्षितमन्नाद्यमद्यान् मन्त्रैर्विषापहैः ||\BC. \SC||
\ENM7.218a[२२२ंअ]/ विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् | %[M.viShaghnairudakaishchAsya sarvadravyANi shodhayet.h ]
\ENM7.218c[२२२ंच्]/ विषघ्नानि च रत्नानि नियतो धारयेत् सदा ||\BC. \SC||
\ENM7.219a[२२३ंअ]/ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः |
\ENM7.219c[२२३ंच्]/ वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ||\BC. \SC||
\ENM7.220a[२२४ंअ]/ एवं प्रयत्नं कुर्वीत यानशय्याऽऽसनाशने |
\ENM7.220c[२२४ंच्]/ स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ||\BC. \SC||
\ENM7.221a[२२५ंअ]/ भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह |
\ENM7.221c[२२५ंच्]/ विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ||\BC. \SC||
\ENM7.222a[२२६ंअ]/ अलङ्कृतश्च संपश्येदायुधीयं पुनर्जनम् |
\ENM7.222c[२२६ंच्]/ वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ||\BC. \SC||
\ENM7.223a[२२७ंअ]/ संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् |
\ENM7.223c[२२७ंच्]/ रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ||\BC. \SC||
\ENM7.224a[२२८ंअ]/ गत्वा कक्षान्तरं त्वन्यत् समनुज्ञाप्य तं जनम् |
\ENM7.224c[२२८ंच्]/ प्रविशेद् भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ||\BC. \SC||
\ENM7.225a[२२९ंअ]/ तत्र भुक्त्वा पुनः किं चित् तूर्यघोषैः प्रहर्षितः |
\ENM7.255c[२२९ंच्]/ संविशेत् तं यथाकालमुत्तिष्ठेच्च गतक्लमः ||\BC. \SC||
\ENM7.226a[२३०ंअ]/ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः |
\ENM7.226c[२३०ंच्]/ अस्वस्थः सर्वमेतत् तु भृत्येषु विनियोजयेत् ||\BC. \SC||
\separate
अध्याय ८
\ENM8.01a/ व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः |
\ENM8.01c/ मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् ||\BC. \SC||
\ENM8.02a/ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् |
\ENM8.02c/ विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ||\BC. \SC||
\ENM8.03a/ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः |
\ENM8.03c/ अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ||\BC. \SC||
\ENM8.04a/ तेषामाद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः |
\ENM8.04c/ संभूय च समुत्थानं दत्तस्यानपकर्म च ||\BC. \SC||
\ENM8.05a/ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः |
\ENM8.05c/ क्रयविक्रयानुशयो विवादः स्वामिपालयोः ||\BC. \SC||
\ENM8.06a/ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके |
\ENM8.06c/ स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ||\BC. \SC||
\ENM8.07a/ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च |
\ENM8.07c/ पदान्यष्टादशैतानि व्यवहारस्थिताविह ||\BC. \SC||
\ENM8.08a/ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् |
\ENM8.08c/ धर्मं शाश्वतमाश्रित्य कुर्यात् कार्यविनिर्णयम् ||\BC. \SC||
\ENM8.09a/ यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् |
\ENM8.09c/ तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ||\BC. \SC||
\ENM8.10a/ सोऽस्य कार्याणि संपश्येत् सभ्यैरेव त्रिभिर्वृतः |
\ENM8.10c/ सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ||\BC. \SC||
\ENM8.11a/ यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः |
\ENM8.11c/ राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ||\BC. \SC||
\ENM8.12a/ धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते |
\ENM8.12c/ शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ||\BC. \SC||
\ENM8.13a/ सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् | %[M.sabhA vA na praveShTavyA ]
\ENM8.13c/ अब्रुवन् विब्रुवन् वाऽपि नरो भवति किल्बिषी ||\BC. \SC||
\ENM8.14a/ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च |
\ENM8.14c/ हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ||\BC. \SC||
\ENM8.15a/ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः |
\ENM8.15c/ तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ||\BC. \SC||%[M.vadhIt]
\ENM8.16a/ वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम् | %[M.tvalam]
\ENM8.16c/ वृषलं तं विदुर्देवास्तस्माद् धर्मं न लोपयेत् ||\BC. \SC||
\ENM8.17a/ एक एव सुहृद् धर्मो निधानेऽप्यनुयाति यः |
\ENM8.17c/ शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ||\BC. \SC||
\ENM8.18a/ पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति |
\ENM8.18c/ पादः सभासदः सर्वान् पादो राजानमृच्छति ||\BC. \SC||
\ENM8.19a/ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः |
\ENM8.19c/ एनो गच्छति कर्तारं निन्दाऽर्हो यत्र निन्द्यते ||\BC. \SC||
\ENM8.20a/ जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः |
\ENM8.20c/ धर्मप्रवक्ता नृपतेर्न शूद्रः कथं चन ? ? ||\BC. \SC||
\ENM8.21a/ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् |
\ENM8.21c/ तस्य सीदति तद् राष्ट्रं पङ्के गौरिव पश्यतः ||\BC. \SC||
\ENM8.22a/ यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् |
\ENM8.22c/ विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ||\BC. \SC||
\ENM8.23a/ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः |
\ENM8.23c/ प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ||\BC. \SC||
\ENM8.24a/ अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ |
\ENM8.24c/ वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ||\BC. \SC||
\ENM8.25a/ बाह्यैर्विभावयेत्लिङ्गैर्भावमन्तर्गतं नृणाम् |
\ENM8.25c/ स्वरवर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ||\BC. \SC||
\ENM8.26a/ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च |
\ENM8.26c/ नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ||\BC. \SC||
\ENM8.27a/ बालदायादिकं रिक्थं तावद् राजाऽनुपालयेत् |
\ENM8.27c/ यावत् स स्यात् समावृत्तो यावत्चातीतशैशवः ||\BC. \SC||%[M.yAvad.h vA.atItashaishavaH]
\ENM8.28a/ वशाऽपुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च |
\ENM8.28c/ पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ||\BC. \SC||
\ENM8.29a/ जीवन्तीनां तु तासां ये तद् हरेयुः स्वबान्धवाः |
\ENM8.29c/ तांशिष्यात्चौरदण्डेन धार्मिकः पृथिवीपतिः ||\BC. \SC||
\ENM8.30a/ प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् |
\ENM8.30c/ अर्वाक् त्र्यब्दाद्द् हरेत् स्वामी परेण नृपतिर्हरेत् ||\BC. \SC||
\ENM8.31a/ ममैदमिति यो ब्रूयात् सोऽनुयोज्यो यथाविधि |
\ENM8.31c/ संवाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति ||\BC. \SC||
\ENM8.32a/ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः |
\ENM8.32c/ वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ||\BC. \SC||
\ENM8.33a/ आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः |
\ENM8.33c/ दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ||\BC. \SC||
\ENM8.34a/ प्रणष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैरधिष्ठितम् |
\ENM8.34c/ यांस्तत्र चौरान् गृह्णीयात् तान् राजैभेन घातयेत् ||\BC. \SC||
\ENM8.35a/ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः |
\ENM8.35c/ तस्याददीत षड्भागं राजा द्वादशमेव वा ||\BC. \SC||
\ENM8.36a/ अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् |
\ENM8.36c/ तस्यैव वा निधानस्य सङ्ख्ययाऽल्पीयसीं कलाम् ||\BC. \SC||
\ENM8.37a/ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् |
\ENM8.38c/ अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ||\BC. \SC||
\ENM8.38a/ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ |
\ENM8.38c/ तस्माद् द्विजेभ्यो दत्त्वाऽर्धमर्धं कोशे प्रवेशयेत् ||\BC. \SC||
\ENM8.39a/ निधीनां तु पुराणानां धातूनामेव च क्षितौ |
\ENM8.39c/ अर्धभाग् रक्षणाद् राजा भूमेरधिपतिर्हि सः ||\BC. \SC||
\ENM8.40a/ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् |
\ENM8.40c/ राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ||\BC. \SC||
\ENM8.41a/ जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् |
\ENM8.41c/ समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ||\BC. \SC||
\ENM8.42a/ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः |
\ENM8.42c/ प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ||\BC. \SC||
\ENM8.43a/ नोत्पादयेत् स्वयं कार्यं राजा नाप्यस्य पूरुषः ? ? |
\ENM8.43c/ न च प्रापितमन्येन ग्रसेदर्थं कथं चन ||\BC. \SC||%[M.grasetArthaM]
\ENM8.44a/ यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् |
\ENM8.44c/ नयेत् तथाऽनुमानेन धर्मस्य नृपतिः पदम् ||\BC. \SC||
\ENM8.45a/ सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः | %[M.sAkShiNam]
\ENM8.45c/ देशं रूपं च कालं च व्यवहारविधौ स्थितः ||\BC. \SC||
\ENM8.46a/ सद्भिराचरितं यत् स्याद् धार्मिकैश्च द्विजातिभिः |
\ENM8.46c/ तद् देशकुलजातीनामविरुद्धं प्रकल्पयेत् ||\BC. \SC||
\ENM8.47a/ अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः |
\ENM8.47c/ दापयेद् धनिकस्यार्थमधमर्णाद् विभावितम् ||\BC. \SC||
\ENM8.48a/ यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः |
\ENM8.48c/ तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम् ||\BC. \SC||
\ENM8.49a/ धर्मेण व्यवहारेण छलेनाचरितेन च |
\ENM8.49c/ प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ||\BC. \SC||
\ENM8.50a/ यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् |
\ENM8.50c/ न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन् धनम् ||\BC. \SC||
\ENM8.51a/ अर्थेऽपव्ययमानं तु करणेन विभावितम् |
\ENM8.51c/ दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ||\BC. \SC||
\ENM8.52a/ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि |
\ENM8.52c/ अभियोक्ता दिशेद् देश्यं करणं वाऽन्यदुद्दिशेत् ||\BC. \SC||
\ENM8.53a/ अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः |
\ENM8.53c/ यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते ||\BC. \SC||
\ENM8.54a/ अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति | %[M.apadishyApadeshaM]
\ENM8.54c/ सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ||\BC. \SC||
\ENM8.55a/ असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः |
\ENM8.55c/ निरुच्यमानं प्रश्नं च नेच्छेद् यश्चापि निष्पतेत् ||\BC. \SC||
\ENM8.56a/ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् |
\ENM8.56c/ न च पूर्वापरं विद्यात् तस्मादर्थात् स हीयते ||\BC. \SC||
\ENM8.57a/ साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः | %[M.GYAtAraH santi mety*] *mety < ma ity ##? ##
\ENM8.57c/ धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ||\BC. \SC||%[M.tamiti nirdishet##) ##
\ENM8.58a/ अभियोक्ता न चेद् ब्रूयाद् बध्यो दण्ड्यश्च धर्मतः | %[M.bandhyo daNDyashcha]
\ENM8.58c/ न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ||\BC. \SC||
\ENM8.59a/ यो यावद् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ? ? |
\ENM8.59c/ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ? ? ||\BC. \SC||
\ENM8.60a/ पृष्टोऽपव्ययमानस्तु कृतावस्थो धनेषिणा |
\ENM8.60c/ त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ||\BC. \SC||
\ENM8.61a/ यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः |
\ENM8.61c/ तादृशान् संप्रवक्ष्यामि यथा वाच्यं ऋतं च तैः ||\BC. \SC||
\ENM8.62a/ गृहिणः पुत्रिणो मौलाः क्षत्रविद् शूद्रयोनयः |
\ENM8.62c/ अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि ||\BC. \SC||
\ENM8.63a/ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः |
\ENM8.63c/ सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ||\BC. \SC||
\ENM8.64a/ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः |
\ENM8.64c/ न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ||\BC. \SC||
\ENM8.65a/ न साक्षी नृपतिः कार्यो न कारुककुशीलवौ |
\ENM8.65c/ न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ||\BC. \SC||
\ENM8.66a/ नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् |
\ENM8.66c/ न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ||\BC. \SC||
\ENM8.67a/ नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः |
\ENM8.67c/ न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ||\BC. \SC||
\ENM8.68a/ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः |
\ENM8.68c/ शूद्राश्च सन्तः शूद्राणां अन्त्यानामन्त्ययोनयः ||\BC. \SC||
\ENM8.69a/ अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् |
\ENM8.69c/ अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ||\BC. \SC||
\ENM8.70a/ स्त्रियाऽप्यसंभावे कार्यं बालेन स्थविरेण वा |
\ENM8.70c/ शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ||\BC. \SC||
\ENM8.71a/ बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा |
\ENM8.71c/ जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ||\BC. \SC||
\ENM8.72a/ साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च |
\ENM8.72c/ वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ||\BC. \SC||
\ENM8.73a/ बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः |
\ENM8.73c/ समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ||\BC. \SC||
\ENM8.74a/ समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति |
\ENM8.74c/ तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ||\BC. \SC||
\ENM8.75a/ साक्षी दृष्टश्रुतादन्यद् विब्रुवन्नार्यसंसदि |
\ENM8.75c/ अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ||\BC. \SC||
\ENM8.76a/ यत्रानिबद्धोऽपीक्षेत शृणुयाद् वाऽपि किं चन |
\ENM8.76c/ पृष्टस्तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ||\BC. \SC||
\ENM8.77a/ एकोऽलुब्धस्तु साक्षी स्याद् बह्व्यः शुच्योऽपि न स्त्रियः | %[M. tvasAkShI]
\ENM8.77c/ स्त्रीबुद्धेरस्थिरत्वात् तु दोषैश्चान्येऽपि ये वृताः ||\BC. \SC||
\ENM8.78a/ स्वभावेनैव यद् ब्रूयुस्तद् ग्राह्यं व्यावहारिकम् |
\ENM8.78c/ अतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम् ||\BC. \SC||
\ENM8.79a/ सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ |
\ENM8.79c/ प्राड् विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ? ? ||\BC. \SC||
\ENM8.80a/ यद् द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः |
\ENM8.80c/ तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ||\BC. \SC||
\ENM8.81a/ सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्यपुष्कलान् | %[M.ApnotyaninditAn]
\ENM8.81c/ इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ||\BC. \SC||
\ENM8.82a/ साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् |
\ENM8.82c/ विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेद् ऋतम् ||\BC. \SC||
\ENM8.83a/ सत्येन पूयते साक्षी धर्मः सत्येन वर्धते |
\ENM8.83c/ तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ||\BC. \SC||
\ENM8.84a/ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽत्मनः |
\ENM8.84c/ माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ||\BC. \SC||
\ENM8.85a/ मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः |
\ENM8.85c/ तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ||\BC. \SC||
\ENM8.86a/ द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः |
\ENM8.86c/ रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ||\BC. \SC||
\ENM8.87a/ देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् |
\ENM8.87c/ उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ||\BC. \SC||
\ENM8.88a/ ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् |
\ENM8.88c/ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ||\BC. \SC||
\ENM8.89a/ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः |
\ENM8.89c/ मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ||\BC. \SC||
\ENM8.90a/ जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम् |
\ENM8.90c/ तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास्त्वमन्यथा ||\BC. \SC||
\ENM8.91a/ एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे |
\ENM8.91c/ नित्यं स्थितस्ते हृद्येष पुण्यपापैक्षिता मुनिः ||\BC. \SC||
\ENM8.92a/ यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः |
\ENM8.92c/ तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ||\BC. \SC||
\ENM8.93a/ नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः | %[M.kapAlI ]
\ENM8.93c/ अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यमनृतं वदेत् ||\BC. \SC||
\ENM8.94a/ अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् |
\ENM8.94c/ यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ||\BC. \SC||
\ENM8.95a/ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह |
\ENM8.95c/ यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ||\BC. \SC||
\ENM8.96a/ यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते | %[M.nAtisha~Nkate##) ##
\ENM8.96c/ तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ||\BC. \SC||
\ENM8.97a/ यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् |
\ENM8.97c/ तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ||\BC. \SC||
\ENM8.98a/ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते |
\ENM8.98c/ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ||\BC. \SC||
\ENM8.99a/ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् |
\ENM8.99c/ सर्वं भूमिअनृते हन्ति मा स्म भूमिअनृतं वदीः ||\BC. \SC||
\ENM8.100a/ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने |
\ENM8.100c/ अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ||\BC. \SC||
\ENM8.101a/ एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे |
\ENM8.101c/ यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ||\BC. \SC||
\ENM8.102a/ गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान् | %[M.vANijakA.ns]
\ENM8.102c/ प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ||\BC. \SC||
\ENM8.103a/ तद् वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः |
\ENM8.103c/ न स्वर्गाच्च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ||\BC. \SC||
\ENM8.104a/ शूद्रविड् क्षत्रविप्राणां यत्रऋतोक्तौ भवेद् वधः |
\ENM8.104c/ तत्र वक्तव्यमनृतं तद् हि सत्याद् विशिष्यते ||\BC. \SC||
\ENM8.105a/ वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् |
\ENM8.105c/ अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ||\BC. \SC||
\ENM8.106a/ कूष्माण्डैर्वाऽपि जुहुयाद् घृतमग्नौ यथाविधि | %[TA10.35##; ## VSh20.14]
\ENM8.106c/ उदित्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ||\BC. \SC||%[R^iSh1.24.15##; ## 10.9.13##; ## VSh12.2##; ##VSh12.50]
\ENM8.107a/ त्रिपक्षादब्रुवन् साक्ष्यं ऋणादिषु नरोऽगदः |
\ENM8.107c/ तदृणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ||\BC. \SC||
\ENM8.108a/ यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः |
\ENM8.108c/ रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ||\BC. \SC||
\ENM8.109a/ असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः |
\ENM8.109c/ अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ||\BC. \SC||
\ENM8.110a/ महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः |
\ENM8.110c/ वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ||\BC. \SC||
\ENM8.111a/ न वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः |
\ENM8.111c/ वृथा हि शपथं कुर्वन् प्रेत्य चैह च नश्यति ||\BC. \SC||
\ENM8.112a/ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने |
\ENM8.112c/ ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ||\BC. \SC||
\ENM8.113a/ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः |
\ENM8.113c/ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ||\BC. \SC||
\ENM8.114a/ अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् |
\ENM8.114c/ पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् ||\BC. \SC||
\ENM8.115a/ यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च |
\ENM8.115c/ न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ||\BC. \SC||
\ENM8.116a/ वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा |
\ENM8.116c/ नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ||\BC. \SC||
\ENM8.117a/ यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् |
\ENM8.117c/ तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ||\BC. \SC||
\ENM8.118a/ लोभान्मोहाद् भयात्मैत्रात् कामात् क्रोधात् तथैव च |
\ENM8.118c/ अज्ञानाद् बालभावात्च साक्ष्यं वितथमुच्यते ||\BC. \SC||
\ENM8.119a/ एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् |
\ENM8.119c/ तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ||\BC. \SC||
\ENM8.120a/ लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वं तु साहसम् |
\ENM8.120c/ भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ||\BC. \SC||
\ENM8.121a/ कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् |
\ENM8.121c/ अज्ञानाद् द्वे शते पूर्णे बालिश्यात्शतमेव तु ||\BC. \SC||
\ENM8.122a/ एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः |
\ENM8.122c/ धर्मस्याव्यभिचारार्थमधर्मनियमाय च ||\BC. \SC||
\ENM8.123a/ कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः |
\ENM8.123c/ प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ||\BC. \SC||
\ENM8.124a/ दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् |
\ENM8.124c/ त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ||\BC. \SC||
\ENM8.125a/ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् |
\ENM8.125c/ चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ||\BC. \SC||
\ENM8.126a/ अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः |
\ENM8.126c/ सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ||\BC. \SC||
\ENM8.127a/ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् |
\ENM8.127c/ अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ||\BC. \SC||
\ENM8.128a/ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् |
\ENM8.128c/ अयशो महदाप्नोति नरकं चैव गच्छति ||\BC. \SC||
\ENM8.129a/ वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् |
\ENM8.129c/ तृतीयं धनदण्डं तु वधदण्डमतः परम् ||\BC. \SC||
\ENM8.130a/ वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् |
\ENM8.130c/ तदेषु सर्वमप्येतत् प्रयुञ्जीत चतुष्टयम् ||\BC. \SC||
\ENM8.131a/ लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि |
\ENM8.131c/ ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ||\BC. \SC||
\ENM8.132a/ जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः |
\ENM8.132c/ प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ||\BC. \SC||
\ENM8.133a/ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः |
\ENM8.133c/ ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ||\BC. \SC||
\ENM8.134a/ सर्षपाः षड् यवो मध्यस्त्रियवं त्वेककृष्णलम् |
\ENM8.134c/ पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ||\BC. \SC||
\ENM8.135a/ पलं सुवर्णाश्चत्वारः पलानि धरणं दश |
\ENM8.135c/ द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ||\BC. \SC||%[M.rUpyamAShakaH ]
\ENM8.136a/ ते षोडश स्याद् धरणं पुराणश्चैव राजतः |
\ENM8.136c/ कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ||\BC. \SC||
\ENM8.137a/ धरणानि दश ज्ञेयः शतमानस्तु राजतः |
\ENM8.137c/ चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ||\BC. \SC||
\ENM8.138a/ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः |
\ENM8.138c/ मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ||\BC. \SC||
\ENM8.139a/ ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति |
\ENM8.139c/ अपह्नवे तद् द्विगुणं तन् मनोरनुशासनम् ||\BC. \SC||
\ENM8.140a/ वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् |
\ENM8.140c/ अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ||\BC. \SC||
\ENM8.141a/ द्विकं शतं वा गृह्णीयात् सतां धर्ममनुस्मरन् |
\ENM8.141c/ द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ||\BC. \SC||
\ENM8.142a/ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् |
\ENM8.142c/ मासस्य वृद्धिं गृह्णीयाद् वर्णानामनुपूर्वशः ||\BC. \SC||
\ENM8.143a/ न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् |
\ENM8.143c/ न चाधेः कालसंरोधात्निसर्गोऽस्ति न विक्रयः ||\BC. \SC||
\ENM8.144a/ न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् |
\ENM8.144c/ मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ||\BC. \SC||
\ENM8.145a/ आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः |
\ENM8.145c/ अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ||\BC. \SC||
\ENM8.146a/ संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन |
\ENM8.146c/ धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ||\BC. \SC||
\ENM8.147a/ यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते धनी |
\ENM8.147c/ भुज्यमानं परैस्तूष्णीं न स तत्लब्धुमर्हति ||\BC. \SC||
\ENM8.148a/ अजडश्चेदपोगण्डो विषये चास्य भुज्यते |
\ENM8.148c/ भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यमर्हति ||\BC. \SC||%[M.tad.h dhanamarhati##) ##]
\ENM8.149a/ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः | %[M.nikShepaupanidhI]
\ENM8.149c/ राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ||\BC. \SC||
\ENM8.150a/ यः स्वामिनाऽननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः |
\ENM8.150c/ तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ||\BC. \SC||
\ENM8.151a/ कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता | %[M.sakR^idAhitA##) ##]
\ENM8.151c/ धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ||\BC. \SC||
\ENM8.152a/ कृतानुसारादधिका व्यतिरिक्ता न सिध्यति |
\ENM8.152c/ कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ||\BC. \SC||
\ENM8.153a/ नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् | %[M.vinirharet##) ##]
\ENM8.153c/ चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ||\BC. \SC||
\ENM8.154a/ ऋणं दातुमशक्तो यः कर्तुमिच्छेत् पुनः क्रियाम् |
\ENM8.154c/ स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ||\BC. \SC||
\ENM8.155a/ अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् |
\ENM8.155c/ यावती संभवेद् वृद्धिस्तावतीं दातुमर्हति ||\BC. \SC||
\ENM8.156a/ चक्रवृद्धिं समारूढो देशकालव्यवस्थितः |
\ENM8.156c/ अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ||\BC. \SC||
\ENM8.157a/ समुद्रयानकुशला देशकालार्थदर्शिनः |
\ENM8.157c/ स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ||\BC. \SC||
\ENM8.158a/ यो यस्य प्रतिभूस्तिष्ठेद् दर्शनायैह मानवः |
\ENM8.158c/ अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ||\BC. \SC||%[M.tasya yateta##) ##]
\ENM8.159a/ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् |
\ENM8.159c/ दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ||\BC. \SC||
\ENM8.160a/ दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः |
\ENM8.160c/ दानप्रतिभुवि प्रेते दायादानपि दापयेत् ||\BC. \SC||
\ENM8.161a/ अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् |
\ENM8.161c/ पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ||\BC. \SC||
\ENM8.162a/ निरादिष्टधनश्चेत् तु प्रतिभूः स्यादलंधनः |
\ENM8.162c/ स्वधनादेव तद् दद्यान्निरादिष्ट इति स्थितिः ||\BC. \SC||
\ENM8.163a/ मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा |
\ENM8.163c/ असंबद्धकृतश्चैव व्यवहारो न सिध्यति ||\BC. \SC||
\ENM8.164a/ सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता |
\ENM8.164c/ बहिश्चेद् भाष्यते धर्मात्नियताद् व्यवहारिकात् ||\BC. \SC||
\ENM8.165a/ योगाधमनविक्रीतं योगदानप्रतिग्रहम् |
\ENM8.165c/ यत्र वाऽप्युपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ||\BC. \SC||
\ENM8.166a/ ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः | %[M.kuTumbe cha ]
\ENM8.166c/ दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः ||\BC. \SC||
\ENM8.167a/ कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् |
\ENM8.167c/ स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ||\BC. \SC||
\ENM8.168a/ बलाद् दत्तं बलाद् भुक्तं बलाद् यच्चापि लेखितम् |
\ENM8.168c/ सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ||\BC. \SC||
\ENM8.169a/ त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् |
\ENM8.169c/ चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ||\BC. \SC||
\ENM8.170a/ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः |
\ENM8.170c/ न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ||\BC. \SC||
\ENM8.171a/ अनादेयस्य चादानादादेयस्य च वर्जनात् |
\ENM8.171c/ दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्यैह च नश्यति ||\BC. \SC||
\ENM8.172a/ स्वादानाद् वर्णसंसर्गात् त्वबलानां च रक्षणात् |
\ENM8.172c/ बलं सञ्जायते राज्ञः स प्रेत्यैह च वर्धते ||\BC. \SC||
\ENM8.173a/ तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये |
\ENM8.173c/ वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ||\BC. \SC||
\ENM8.174a/ यस्त्वधर्मेण कार्याणि मोहात् कुर्यान्नराधिपः |
\ENM8.174c/ अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ||\BC. \SC||
\ENM8.175a/ कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति |
\ENM8.175c/ प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ||\BC. \SC||
\ENM8.176a/ यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे |
\ENM8.176c/ स राज्ञा तत्चतुर्भागं दाप्यस्तस्य च तद् धनम् ||\BC. \SC||
\ENM8.177a/ कर्मणाऽपि समं कुर्याद् धनिकायाधमर्णिकः |
\ENM8.177c/ समोऽवकृष्टजातिस्तु दद्यात्श्रेयांस्तु तत्शनैः ||\BC. \SC||
\ENM8.178a/ अनेन विधिना राजा मिथो विवदतां नृणाम् |
\ENM8.178c/ साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ||\BC. \SC||
\ENM8.179a/ कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि |
\ENM8.179c/ महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद् बुधः ||\BC. \SC||
\ENM8.180a/ यो यथा निक्षिपेद्द् हस्ते यमर्थं यस्य मानवः |
\ENM8.180c/ स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ||\BC. \SC||
\ENM8.181a/ यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति |
\ENM8.181c/ स याच्यः प्राड्विवाकेन तत्निक्षेप्तुरसंनिधौ ||\BC. \SC||
\ENM8.182a/ साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः |
\ENM8.182c/ अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ||\BC. \SC||
\ENM8.183a/ स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् |
\ENM8.183c/ न तत्र विद्यते किं चिद् यत् परैरभियुज्यते ||\BC. \SC||
\ENM8.184a/ तेषां न दद्याद् यदि तु तद् हिरण्यं यथाविधि |
\ENM8.184c/ उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ||\BC. \SC||%[M.sa nigR^ihyaubhayaM dApya iti dharmasya dhAraNA]
\ENM8.185a/ निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे |
\ENM8.185c/ नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ||\BC. \SC||
\ENM8.186a/ स्वयमेव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे |
\ENM8.186c/ न स राज्ञाऽभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ||\BC. \SC||
\ENM8.187a/ अच्छलेनैव चान्विच्छेत् तमर्थं प्रीतिपूर्वकम् |
\ENM8.187c/ विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ||\BC. \SC||
\ENM8.188a/ निक्षेपेष्वेषु सर्वेषु विधिः स्यात् परिसाधने |
\ENM8.188c/ समुद्रे नाप्नुयात् किं चिद् यदि तस्मान्न संहरेत् ||\BC. \SC||
\ENM8.189a/ चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा |
\ENM8.189c/ न दद्याद् यदि तस्मात् स न संहरति किं चन ||\BC. \SC||
\ENM8.190a/ निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च |
\ENM8.190c/ सर्वैरुपायैरन्विच्छेत्शपथैश्चैव वैदिकैः ||\BC. \SC||
\ENM8.191a/ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते |
\ENM8.191c/ तावुभौ चौरवत्शास्यौ दाप्यौ वा तत्समं दमम् ||\BC. \SC||
\ENM8.192a/ निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् |
\ENM8.192c/ तथोपनिधिहर्तारमविशेषेण पार्थिवः ||\BC. \SC||
\ENM8.193a/ उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः |
\ENM8.193c/ ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ||\BC. \SC||
\ENM8.194a/ निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ |
\ENM8.194c/ तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ||\BC. \SC||
\ENM8.195a/ मिथो दायः कृतो येन गृहीतो मिथ एव वा |
\ENM8.195c/ मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ||\BC. \SC||
\ENM8.196a/ निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च |
\ENM8.196c/ राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ? ? ||\BC. \SC||
\ENM8.197a/ विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसंमतः |
\ENM8.197c/ न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ||\BC. \SC||
\ENM8.198a/ अवहार्यो भवेत्चैव सान्वयः षट्शतं दमम् |
\ENM8.198c/ निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ||\BC. \SC||
\ENM8.199a/ अस्वामिना कृतो यस्तु दायो विक्रय एव वा |
\ENM8.199c/ अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ||\BC. \SC||
\ENM8.200a/ संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् |
\ENM8.200c/ आगमः कारणं तत्र न संभोग इति स्थितिः ||\BC. \SC||
\ENM8.201a/ विक्रयाद् यो धनं किं चिद् गृह्णीयात् कुलसंनिधौ |
\ENM8.201c/ क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ||\BC. \SC||
\ENM8.202a/ अथ मूलमनाहार्यं प्रकाशक्रयशोधितः |
\ENM8.202c/ अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ||\BC. \SC||
\ENM8.203a/ नान्यदन्येन संसृष्टरूपं विक्रयमर्हति |
\ENM8.203c/ न चासारं न च न्यूनं न दूरेण तिरोहितम् ||\BC. \SC||%[M. na sAvadyaM na cha nyUnaM na dUre na tirohitaM ]
\ENM8.204a/ अन्यां चेद् दर्शयित्वाऽन्या वोढुः कन्या प्रदीयते |
\ENM8.204c/ उभे त एकशुल्केन वहेदित्यब्रवीन् मनुः ||\BC. \SC||
\ENM8.205a/ नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना |
\ENM8.205c/ पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति ||\BC. \SC||
\ENM8.206a/ ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् |
\ENM8.206c/ तस्य कर्मानुरूपेण देयोंशः सहकर्तृभिः ||\BC. \SC||
\ENM8.207a/ दक्षिणासु च दत्तासु स्वकर्म परिहापयन् |
\ENM8.207c/ कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ||\BC. \SC||
\ENM8.208a/ यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः |
\ENM8.208c/ स एव ता आददीत भजेरन् सर्व एव वा ||\BC. \SC||
\ENM8.209a/ रथं हरेत् चाध्वर्युर्ब्रह्माऽधाने च वाजिनम् |
\ENM8.209c/ होता वाऽपि हरेदश्वमुद्गाता चाप्यनः क्रये ||\BC. \SC||
\ENM8.210a/ सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे |
\ENM8.210c/ तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ||\BC. \SC||
\ENM8.211a/ संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः |
\ENM8.211c/ अनेन विधियोगेन कर्तव्यांशप्रकल्पना ||\BC. \SC||
\ENM8.212a/ धर्मार्थं येन दत्तं स्यात् कस्मै चिद् याचते धनम् |
\ENM8.212c/ पश्चाच्च न तथा तत् स्यान्न देयं तस्य तद् भवेत् ||\BC. \SC||
\ENM8.213a/ यदि संसाधयेत् तत् तु दर्पात्लोभेन वा पुनः |
\ENM8.213c/ राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ||\BC. \SC||
\ENM8.214a/ दत्तस्यैषौदिता धर्म्या यथावदनपक्रिया |
\ENM8.214c/ अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ||\BC. \SC||
\ENM8.215a/ भृतो नार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् | %[M.anArto ]
\ENM8.215c/ स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ||\BC. \SC||
\ENM8.216a/ आर्तस्तु कुर्यात् स्वस्थः सन् यथाभाषितमादितः |
\ENM8.216c/ स दीर्घस्यापि कालस्य तत्लभेतेव वेतनम् ||\BC. \SC||
\ENM8.217a/ यथोक्तमार्तः सुस्थो वा यस्तत् कर्म न कारयेत् |
\ENM8.217c/ न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ||\BC. \SC||
\ENM8.218a/ एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः |
\ENM8.218c/ अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ||\BC. \SC||
\ENM8.219a/ यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् |
\ENM8.219c/ विसंवदेन्नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ||\BC. \SC||
\ENM8.220a/ निगृह्य दापयेच्चैनं समयव्यभिचारिणम् |
\ENM8.220c/ चतुःसुवर्णान् षण्निष्कांश्शतमानं च राजकम् ||\BC. \SC||
\ENM8.221a/ एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः |
\ENM8.221c/ ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ||\BC. \SC||
\ENM8.222a/ क्रीत्वा विक्रीय वा किं चिद् यस्यैहानुशयो भवेत् |
\ENM8.222c/ सोऽन्तर्दशाहात् तद् द्रव्यं दद्याच्चैवाददीत वा ||\BC. \SC||
\ENM8.223a/ परेण तु दशाहस्य न दद्यान्नापि दापयेत् |
\ENM8.223c/ आददानो ददत् चैव राज्ञा दण्ड्यौ शतानि षट् ||\BC. \SC||
\ENM8.224a/ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति |
\ENM8.224c/ तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ||\BC. \SC||
\ENM8.225a/ अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः |
\ENM8.225c/ स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ||\BC. \SC||
\ENM8.226a/ पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः |
\ENM8.226c/ नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ||\BC. \SC||
\ENM8.227a/ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् |
\ENM8.227c/ तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ||\BC. \SC||
\ENM8.228a/ यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् |
\ENM8.228c/ तमनेन विधानेन धर्म्ये पथि निवेशयेत् ||\BC. \SC||
\ENM8.229a/ पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे |
\ENM8.229c/ विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ||\BC. \SC||
\ENM8.230a/ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे |
\ENM8.230c/ योगक्षेमेऽन्यथा चेत् तु पालो वक्तव्यतामियात् ||\BC. \SC||
\ENM8.231a/ गोपः क्षीरभृतो यस्तु स दुह्याद् दशतो वराम् |
\ENM8.231c/ गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः ||\BC. \SC||
\ENM8.232a/ नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् |
\ENM8.232c/ हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ||\BC. \SC||
\ENM8.233a/ विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति |
\ENM8.233c/ यदि देशे च काले च स्वामिनः स्वस्य शंसति ||\BC. \SC||
\ENM8.234a/ कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् |
\ENM8.234c/ पशुषु स्वामिनां दद्यान् मृतेष्वङ्कानि दर्शयेत् ||\BC. \SC||%[M.a~NkA.nshcha darshayet##) ##]
\ENM8.235a/ अजाविके तु संरुद्धे वृकैः पाले त्वनायति |
\ENM8.235c/ यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ||\BC. \SC||
\ENM8.236a/ तासां चेदवरुद्धानां चरन्तीनां मिथो वने |
\ENM8.236c/ यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ||\BC. \SC||
\ENM8.237a/ धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः |
\ENM8.237c/ शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ||\BC. \SC||
\ENM8.238a/ तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि |
\ENM8.238c/ न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ||\BC. \SC|||
\ENM8.239a/ वृतिं तत्र प्रकुर्वीत यामुष्त्रो न विलोकयेत् |
\ENM8.239c/ छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ||\BC. \SC||
\ENM8.240a/ पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः |
\ENM8.240c/ सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ||\BC. \SC||
\ENM8.241a/ क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति |
\ENM8.241c/ सर्वत्र तु सदो देयः क्षेत्रिकस्यैति धारणा ||\BC. \SC||
\ENM8.242a/ अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा |
\ENM8.242c/ सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत् ||\BC. \SC||
\ENM8.243a/ क्षेत्रियस्यात्यये दण्डो भागाद् दशगुणो भवेत् | %[M.kShetrikasyAtyaye]
\ENM8.243c/ ततोऽर्धदण्डो भृत्यानामज्ञानात् क्षेत्रिकस्य तु ||\BC. \SC||
\ENM8.244a/ एतद् विधानमातिष्ठेद् धार्मिकः पृथिवीपतिः |
\ENM8.244c/ स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ||\BC. \SC||
\ENM8.245a/ सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः |
\ENM8.245c/ ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ||\BC. \SC||
\ENM8.246a/ सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् |
\ENM8.246c/ शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान् ||\BC. \SC||
\ENM8.247a/ गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च |
\ENM8.247c/ शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ||\BC. \SC||
\ENM8.248a[ं२५०अ]/ तडागान्युदपानानि वाप्यः प्रस्रवणानि च |
\ENM8.248c[ं२५०च्]/ सीमासंधिषु कार्याणि देवतायतनानि च ||\BC. \SC||
\ENM8.249a/ उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् |
\ENM8.249c/ सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ||\BC. \SC||
\ENM8.250a[ं२४८अ]/ अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः |
\ENM8.250c[ं२४८च्]/ करीषमिष्टकाऽङ्गारां शर्करा वालुकास्तथा ? ? ||\BC. \SC||
\ENM8.251a/ यानि चैवंप्रकाराणि कालाद् भूमिर्न भक्षयेत् |
\ENM8.251c/ तानि संधिषु सीमायामप्रकाशानि कारयेत् ||\BC. \SC||%[M.sImAyA]
\ENM8.252a/ एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः |
\ENM8.252c/ पूर्वभुक्त्या च सततमुदकस्यागमेन च ||\BC. \SC||
\ENM8.253a/ यदि स्ंशय एव स्यात्लिङ्गानामपि दर्शने |
\ENM8.253c/ साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ||\BC. \SC||%[M.sImAvAdavinishchayaH ]
\ENM8.254a/ ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः | %[M. grAmeyaka]
\ENM8.254c/ प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ||\BC. \SC||%[M.sImAli~NgAni ]
\ENM8.255a/ ते पृष्तास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् |
\ENM8.255c/ निबध्नीयात् तथा सीमां सर्वांस्तांश्चैव नामतः ||\BC. \SC||
\ENM8.256a/ शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः |
\ENM8.256c/ सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ||\BC. \SC||
\ENM8.257a/ यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः |
\ENM8.257c/ विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ||\BC. \SC||
\ENM8.258a/ साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः | %[M.grAmasImAntavAsinaH]
\ENM8.258c/ सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ||\BC. \SC||
\ENM8.259a/ सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् |
\ENM8.259c/ इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ||\BC. \SC||
\ENM8.260a/ व्याधांशाकुनिकान् गोपान् कैवर्तान् मूलखानकान् |
\ENM8.260c/ व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ||\BC. \SC||
\ENM8.261a/ ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् |
\ENM8.261c/ तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर्द्वयोः ||\BC. \SC||
\ENM8.262a/ क्षेत्रकूपतडागानामारामस्य गृहस्य च |
\ENM8.262c/ सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ||\BC. \SC||
\ENM8.263a/ सामन्ताश्चेत्मृषा ब्रूयुः सेतौ विवादतां नृणाम् |
\ENM8.263c/ सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ||\BC. \SC||
\ENM8.264a/ गृहं तडागमारामं क्षेत्रं वा भीषया हरन् |
\ENM8.264c/ शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतो दमः ||\BC. \SC||
\ENM8.265a/ सीमायामविषह्यायां स्वयं राजैव धर्मवित् |
\ENM8.265c/ प्रदिशेद् भूमिमेकेषामुपकारादिति स्थितिः ||\BC. \SC||
\ENM8.266a/ एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये |
\ENM8.266c/ अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ||\BC. \SC||
\ENM8.267a/ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति |
\ENM8.267c/ वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ||\BC. \SC||
\ENM8.268a/ पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने |
\ENM8.268c/ वैश्ये स्यादर्धपञ्चाशत्शूद्रे द्वादशको दमः ||\BC. \SC||
\ENM8.269a/ समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे |
\ENM8.269c/ वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ||\BC. \SC||
\ENM8.270a/ एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् |
\ENM8.270c/ जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ||\BC. \SC||
\ENM8.271a/ नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः |
\ENM8.271c/ निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ||\BC. \SC||
\ENM8.272a/ धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः |
\ENM8.272c/ तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ||\BC. \SC||%[M.shrautre ]
\ENM8.273a/ श्रुतं देशं च जातिं च कर्म शरीरमेव च ? ? |
\ENM8.273c/ वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ||\BC. \SC||
\ENM8.274a/ काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम् |
\ENM8.274c/ तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ||\BC. \SC||
\ENM8.275a/ मातरं पितरं जायां भ्रातरं तनयं गुरुम् |
\ENM8.275c/ आक्षारयंशतं दाप्यः पन्थानं चाददद् गुरोः ||\BC. \SC||
\ENM8.276a/ ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता |
\ENM8.276c/ ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ||\BC. \SC||
\ENM8.277a/ विट् शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः |
\ENM8.277c/ छेदवर्जं प्रणयनं दण्डस्यैति विनिश्चयः ||\BC. \SC||
\ENM8.278a/ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः |
\ENM8.278c/ अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ||\BC. \SC||
\ENM8.279a/ येन केन चिदङ्गेन हिंस्याच्चेत्श्रेष्ठमन्त्यजः |
\ENM8.279c/ छेत्तव्यं तद् तदेवास्य तन् मनोरनुशासनम् ||\BC. \SC||
\ENM8.280a/ पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति |
\ENM8.280c/ पादेन प्रहरन् कोपात् पादच्छेदनमर्हति ||\BC. \SC||
\ENM8.281a/ सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः |
\ENM8.281c/ कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ||\BC. \SC||
\ENM8.282a/ अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः |
\ENM8.282c/ अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ||\BC. \SC||
\ENM8.283a/ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् |
\ENM8.283c/ पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ||\BC. \SC||
\ENM8.284a/ त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः |
\ENM8.284c/ मांसभेत्ता तु षट् निष्कान् प्रवास्यस्त्वस्थिभेदकः ||\BC. \SC||
\ENM8.285a/ वनस्पतीनां सर्वेषामुपभोगो यथा यथा |
\ENM8.285c/ यथा तथा दमः कार्यो हिंसायामिति धारणा ||\BC. \SC||
\ENM8.286a/ मनुष्याणां पशूनां च दुःखाय प्रहृते सति |
\ENM8.286c/ यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ||\BC. \SC||
\ENM8.287a/ अङ्गावपीडनायां च व्रणशोणितयोस्तथा | %[M.prANashonitayoH ]
\ENM8.287c/ समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ||\BC. \SC||
\ENM8.288a/ द्रव्याणि हिंस्याद् यो यस्य ज्ञानतोऽज्ञानतोऽपि वा |
\ENM8.288c/ स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच्च तत्समम् ||\BC. \SC||
\ENM8.289a/ चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु |
\ENM8.289c/ मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ||\BC. \SC||
\ENM8.290a/ यानस्य चैव यातुश्च यानस्वामिन एव च |
\ENM8.290c/ दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ||\BC. \SC||
\ENM8.291a/ छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते |
\ENM8.291c/ अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ||\BC. \SC||
\ENM8.292a/ छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च |
\ENM8.292c/ आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ||\BC. \SC||
\ENM8.293a/ यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु |
\ENM8.293c/ तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ||\BC. \SC||
\ENM8.294a/ प्राजकश्चेद् भवेदाप्तः प्राजको दण्डमर्हति |
\ENM8.294c/ युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ||\BC. \SC||
\ENM8.295a/ स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा |
\ENM8.295c/ प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारितः ||\BC. \SC||
\ENM8.296a/ मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् |
\ENM8.296c/ प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ||\BC. \SC||
\ENM8.297a/ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः |
\ENM8.297c/ पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ||\BC. \SC||
\ENM8.298a/ गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः | %[M.pA~nchamAShikaH]
\ENM8.298c/ माषिकस्तु भवेद् दण्डः श्वसूकरनिपातने ||\BC. \SC||
\ENM8.299a/ भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सौदरः |
\ENM8.299c/ प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ||\BC. \SC||
\ENM8.300a/ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन |
\ENM8.300c/ अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ||\BC. \SC||
\ENM8.301a/ एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः |
\ENM8.301c/ स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ||\BC. \SC||
\ENM8.302a/ परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः |
\ENM8.302c/ स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ||\BC. \SC||
\ENM8.303a/ अभयस्य हि यो दाता स पूज्यः सततं नृपः |
\ENM8.303c/ सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ||\BC. \SC||
\ENM8.304a/ सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः |
\ENM8.304c/ अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ||\BC. \SC||
\ENM8.305a/ यदधीते यद् यजते यद् ददाति यदर्चति |
\ENM8.305c/ तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ||\BC. \SC||
\ENM8.306a/ रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् |
\ENM8.306c/ यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ||\BC. \SC||
\ENM8.307a/ योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः |
\ENM8.307c/ प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ||\BC. \SC||
\ENM8.308a/ अरक्षितारं राजानं बलिषड्भागहारिणम् | %[k: arakShitAramattAraM]
\ENM8.308c/ तमाहुः सर्वलोकस्य समग्रमलहारकम् ||\BC. \SC||
\ENM8.309a/ अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् | %[M.anavekShitamaryAdaM ]
\ENM8.309c/ अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ||\BC. \SC||
\ENM8.310a/ अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः |
\ENM8.310c/ निरोधनेन बन्धेन विविधेन वधेन च ||\BC. \SC||
\ENM8.311a/ निग्रहेण हि पापानां साधूनां सङ्ग्रहेण च |
\ENM8.311c/ द्विजातय इवैज्याभिः पूयन्ते सततं नृपाः ||\BC. \SC||
\ENM8.312a/ क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् |
\ENM8.312c/ बालवृद्धातुराणां च कुर्वता हितमात्मनः ||\BC. \SC||
\ENM8.313a/ यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते |
\ENM8.313c/ यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ||\BC. \SC||
\ENM8.314a/ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता | %[M. dhImatA ]
\ENM8.314c/ आचक्षाणेन तत् स्तेयमेवङ्कर्माऽस्मि शाधि माम् ||\BC. \SC||
\ENM8.315a/ स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरम् | %[M.mushalaM ]
\ENM8.315c/ शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ||\BC. \SC||
\ENM8.316a/ शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते |
\ENM8.316c/ अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ||\BC. \SC||
\ENM8.317a/ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी |
\ENM8.317c/ गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ||\BC. \SC||
\ENM8.318a/ राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः | %[M.rAjabhirdhR^itadaNDAstu]
\ENM8.318c/ निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ||\BC. \SC||
\ENM8.319a/ यस्तु रज्जुं घटं कूपाद्द् हरेद् भिन्द्याच्च यः प्रपाम् |
\ENM8.319c/ स दण्डं प्राप्नुयान् माषं तच्च तस्मिन् समाहरेत् ||\BC. \SC||
\ENM8.320a/ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः |
\ENM8.320c/ शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद् धनम् ||\BC. \SC||
\ENM8.321a/ तथा धरिममेयानां शतादभ्यधिके वधः |
\ENM8.321c/ सुवर्णरजतादीनामुत्तमानां च वाससाम् ||\BC. \SC||
\ENM8.322a/ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते |
\ENM8.322c/ शेषे त्वेकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ||\BC. \SC||
\ENM8.323a/ पुरुषाणां कुलीनानां नारीणां च विशेषतः |
\ENM8.323c/ मुख्यानां चैव रत्नानां हरणे वधमर्हति ||\BC. \SC||
\ENM8.324a/ महापशूनां हरणे शस्त्राणामौषधस्य च |
\ENM8.324c/ कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ||\BC. \SC||
\ENM8.325a/ गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने | %[M.kharikAyAshcha]
\ENM8.325c/ पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ||\BC. \SC||
\ENM8.326a/ सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च |
\ENM8.326c/ दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ||\BC. \SC||
\ENM8.327a/ वेणुवैदलभाण्डानां लवणानां तथैव च |
\ENM8.327c/ मृण्मयानां च हरणे मृदो भस्मन एव च ||\BC. \SC||
\ENM8.328a/ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च |
\ENM8.328c/ मांसस्य मधुनश्चैव यच्चान्यत् पशुसंभवम् ||\BC. \SC||
\ENM8.329a/ अन्येषां चैवमादीनां मद्यानामोदनस्य च | %[M.chaivamAdInAmadyAnAm]
\ENM8.329c/ पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ||\BC. \SC||
\ENM8.330a/ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च |
\ENM8.330c/ अन्येष्वपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ||\BC. \SC||
\ENM8.331a/ परिपूतेषु धान्येषु शाकमूलफलेषु च |
\ENM8.331c/ निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ||\BC. \SC||
\ENM8.332a/ स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत् कृतम् |
\ENM8.332c/ निरन्वयं भवेत् स्तेयं हृत्वाऽपव्ययते च यत् ||\BC. \SC||
\ENM8.333a/ यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः |
\ENM8.333c/ तमाद्यं दण्डयेद् राजा यश्चाग्निं चोरयेद् गृहात् ||\BC. \SC||%[M.taM shataM]
\ENM8.334a/ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते |
\ENM8.334c/ तत् तदेव हरेत् तस्य प्रत्यादेशाय पार्थिवः ||\BC. \SC||
\ENM8.335a/ पिताऽचार्यः सुहृत्माता भार्या पुत्रः पुरोहितः |
\ENM8.335c/ नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ||\BC. \SC||
\ENM8.336a/ कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः |
\ENM8.336c/ तत्र राजा भवेद् दण्ड्यः सहस्रमिति धारणा ||\BC. \SC||
\ENM8.337a/ अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् |
\ENM8.337c/ षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ||\BC. \SC||
\ENM8.338a/ ब्राह्मणस्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत् |
\ENM8.338c/ द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्द् हि सः ||\BC. \SC||
\ENM8.339a/ वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च |
\ENM8.339c/ तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ||\BC. \SC||
\ENM8.340a/ योऽदत्तादायिनो हस्तात्लिप्सेत ब्राह्मणो धनम् |
\ENM8.340c/ याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ||\BC. \SC||
\ENM8.341a/ द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके |
\ENM8.341c/ आददानः परक्षेत्रात्न दण्डं दातुमर्हति ||\BC. \SC||
\ENM8.342a/ असंदितानां संदाता संदितानां च मोक्षकः |
\ENM8.342c/ दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ||\BC. \SC||
\ENM8.343a/ अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् |
\ENM8.343c/ यशोऽस्मिन् प्राप्नुयात्लोके प्रेत्य चानुत्तमं सुखम् ||\BC. \SC||
\ENM8.344a/ ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् |
\ENM8.344c/ नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ||\BC. \SC||
\ENM8.345a/ वाग्दुष्टात् तस्कराच्चैव दण्डेनैव च हिंसतः |
\ENM8.345c/ साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ||\BC. \SC||
\ENM8.346a/ साहसे वर्तमानं तु यो मर्षयति पार्थिवः |
\ENM8.346c/ स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ||\BC. \SC||
\ENM8.347a/ न मित्रकारणाद् राजा विपुलाद् वा धनागमात् |
\ENM8.347c/ समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ||\BC. \SC||
\ENM8.348a/ शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते |
\ENM8.348c/ द्विजातीनां च वर्णानां विप्लवे कालकारिते ||\BC. \SC||
\ENM8.349a/ आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे |
\ENM8.349c/ स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ||\BC. \SC||
\ENM8.350a/ गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् |
\ENM8.350c/ आततायिनमायान्तं हन्यादेवाविचारयन् ||\BC. \SC||
\ENM8.351a/ नाततायिवधे दोषो हन्तुर्भवति कश्चन |
\ENM8.351c/ प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ||\BC. \SC||
\ENM8.352a/ परदाराभिमर्शेषु प्रवृत्तान्नॄन् महीपतिः |
\ENM8.352c/ उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ||\BC. \SC||%[M.chihnayitvA##) ##]
\ENM8.353a/ तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः |
\ENM8.353c/ येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ||\BC. \SC||
\ENM8.354a/ परस्य पत्न्या पुरुषः संभाषां योजयन् रहः |
\ENM8.354c/ पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ||\BC. \SC||
\ENM8.355a/ यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् ? ? |
\ENM8.355c/ न दोषं प्राप्नुयात् किं चिन्न हि तस्य व्यतिक्रमः ||\BC. \SC||
\ENM8.356a/ परस्त्रियं योऽभिवदेत् तीर्थेऽरण्ये वनेऽपि वा |
\ENM8.356c/ नदीनां वाऽपि संभेदे स सङ्ग्रहणमाप्नुयात् ||\BC. \SC||
\ENM8.357a/ उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् | %[MupakArakriyA]
\ENM8.357c/ सह खट्वाऽसनं चैव सर्वं सङ्ग्रहणं स्मृतम् ||\BC. \SC||
\ENM8.358a/ स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया |
\ENM8.358c/ परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ||\BC. \SC||
\ENM8.359a/ अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डमर्हति |
\ENM8.359c/ चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ||\BC. \SC||
\ENM8.360a/ भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा |
\ENM8.360c/ संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ||\BC. \SC||
\ENM8.361a/ न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् |
\ENM8.361c/ निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ||\BC. \SC||
\ENM8.362a/ नैष चारणदारेषु विधिर्नात्मोपजीविषु |
\ENM8.362c/ सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ||\BC. \SC||
\ENM8.363a/ किं चिदेव तु दाप्यः स्यात् संभाषां ताभिराचरन् |
\ENM8.363c/ प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ||\BC. \SC||%[M.preShyAsu ]
\ENM8.364a/ योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति |
\ENM8.364c/ सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ||\BC. \SC||
\ENM8.365a/ कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् |
\ENM8.365c/ जघन्यं सेवमानां तु संयतां वासयेद् गृहे ||\BC. \SC||
\ENM8.366a/ उत्तमां सेवमानस्तु जघन्यो वधमर्हति |
\ENM8.366c/ शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि ||\BC. \SC||
\ENM8.367a/ अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः |
\ENM8.367c/ तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ||\BC. \SC||%[M.kartyA a~Ngulyo ]
\ENM8.368a/ सकामां दूषयंस्तुल्यो नाङ्गुलिछेदमाप्नुयात् |
\ENM8.368c/ द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ||\BC. \SC||
\ENM8.369a/ कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः |
\ENM8.369c/ शुल्कं च द्विगुणं दद्यात्शिफाश्चैवाप्नुयाद् दश ||\BC. \SC||
\ENM8.370a/ या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यमर्हति |
\ENM8.370c/ अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ||\BC. \SC||
\ENM8.371a/ भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता |
\ENM8.371c/ तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ||\BC. \SC||
\ENM8.372a/ पुमांसं दाहयेत् पापं शयने तप्त आयसे |
\ENM8.372c/ अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ||\BC. \SC||
\ENM8.373a/ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः | %[M.sa.nvatsare.abhishastasya]
\ENM8.373c/ व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ||\BC. \SC||
\ENM8.374a/ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् |
\ENM8.374c/ अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ||\BC. \SC||%[M.a~NgasarvasvI]
\ENM8.375a/ वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः |
\ENM8.375c/ सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ||\BC. \SC||
\ENM8.376a/ ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ |
\ENM8.376c/ वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ||\BC. \SC||
\ENM8.377a/ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह |
\ENM8.377c/ विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ||\BC. \SC||
\ENM8.378a/ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् |
\ENM8.378c/ शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ||\BC. \SC||
\ENM8.379a/ मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते | %[M.prANAntako][M##' ##H choM refersto the re.adingof "prANAntika".]
\ENM8.379c/ इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ||\BC. \SC||%[M.prANAntako ]
\ENM8.380a/ न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् |
\ENM8.380c/ राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् ||\BC. \SC||
\ENM8.381a/ न ब्राह्मणवधाद् भूयानधर्मो विद्यते भुवि |
\ENM8.381c/ तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ||\BC. \SC||
\ENM8.382a/ वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् |
\ENM8.382c/ यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ||\BC. \SC||
\ENM8.383a/ सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् |
\ENM8.383c/ शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ||\BC. \SC||%[M.shUdrAyA]
\ENM8.384a/ क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः |
\ENM8.384c/ मूत्रेण मौण्ड्यमिच्छेत् तु क्षत्रियो दण्डमेव वा ||\BC. \SC||%[M.R^ichChet.h tu]
\ENM8.385a/ अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् |
\ENM8.385c/ शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्वन्त्यजस्त्रियम् ||\BC. \SC||
\ENM8.386a/ यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् |
\ENM8.386c/ न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ||\BC. \SC||
\ENM8.387a/ एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके |
\ENM8.387c/ सांराज्यकृत् सजात्येषु लोके चैव यशस्करः ? ? ||\BC. \SC||
\ENM8.388a/ ऋत्विजं यस्त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि |
\ENM8.388c/ शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ||\BC. \SC||
\ENM8.389a/ न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति |
\ENM8.389c/ त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ||\BC. \SC||
\ENM8.390a/ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः |
\ENM8.390c/ न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ||\BC. \SC||
\ENM8.391a/ यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः |
\ENM8.391c/ सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ||\BC. \SC||
\ENM8.392a/ प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे |
\ENM8.392c/ अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ||\BC. \SC||
\ENM8.393a/ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् |
\ENM8.393c/ तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ||\BC. \SC||%[M.hairaNyaM ]
\ENM8.394a/ अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः |
\ENM8.394c/ श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित् करम् ||\BC. \SC||
\ENM8.395a/ श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् |
\ENM8.395c/ महाकुलीनमार्यं च राजा संपूजयेत् सदा ||\BC. \SC||
\ENM8.396a/ शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः |
\ENM8.396c/ न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ||\BC. \SC||
\ENM8.397a/ तन्तुवायो दशपलं दद्यादेकपलाधिकम् |
\ENM8.397c/ अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ||\BC. \SC||
\ENM8.398a/ शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः |
\ENM8.398c/ कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ||\BC. \SC||
\ENM8.399a/ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च |
\ENM8.399c/ ताणि निर्हरतो लोभात् सर्वहारं हरेन्नृपः ||\BC. \SC||
\ENM8.400a/ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी |
\ENM8.400c/ मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ||\BC. \SC||
\ENM8.401a/ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ |
\ENM8.401c/ विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ||\BC. \SC||
\ENM8.402a/ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते |
\ENM8.402c/ कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ||\BC. \SC||
\ENM8.403a/ तुलामानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् |
\ENM8.403c/ षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ||\BC. \SC||
\ENM8.404a/ पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे |
\ENM8.404c/ पादं पशुश्च योषित्च पादार्धं रिक्तकः पुमान् ||\BC. \SC||%[M.pAde]
\ENM8.405a/ भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः |
\ENM8.405c/ रिक्तभाण्डानि यत् किं चित् पुमांसश्चपरिच्छदाः ||\BC. \SC||
\ENM8.406a/ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् |
\ENM8.406c/ नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ||\BC. \SC||
\ENM8.407a/ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः |
\ENM8.407c/ ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ||\BC. \SC||
\ENM8.408a/ यन्नावि किं चिद् दाशानां विशीर्येतापराधतः |
\ENM8.408c/ तद् दाशैरेव दातव्यं समागम्य स्वतोऽंशतः ||\BC. \SC||
\ENM8.409a/ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः |
\ENM8.409c/ दाशापराधतस्तोये दैविके नास्ति निग्रहः ||\BC. \SC||
\ENM8.410a/ वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिमेव च |
\ENM8.410c/ पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ||\BC. \SC||
\ENM8.411a/ क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ |
\ENM8.411c/ बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ||\BC. \SC||
\ENM8.412a/ दास्यं तु कारयन्लोभाद् ब्राह्मणः संस्कृतान् द्विजान् |
\ENM8.412c/ अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ||\BC. \SC||
\ENM8.413a/ शूद्रं तु कारयेद् दास्यं क्रीतमक्रीतमेव वा |
\ENM8.413c/ दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ||\BC. \SC||
\ENM8.414a/ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद् विमुच्यते |
\ENM8.414c/ निसर्गजं हि तत् तस्य कस्तस्मात् तदपोहति ||\BC. \SC||
\ENM8.415a/ ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ |
\ENM8.415c/ पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ||\BC. \SC||
\ENM8.416a/ भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः |
\ENM8.416c/ यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ||\BC. \SC||
\ENM8.417a/ विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानमाचरेत् |
\ENM8.417c/ न हि तस्यास्ति किं चित् स्वं भर्तृहार्यधनो हि सः ||\BC. \SC||
\ENM8.418a/ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् |
\ENM8.418c/ तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ||\BC. \SC||
\ENM8.419a/ अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च |
\ENM8.419c/ आयव्ययौ च नियतावाकरान् कोशमेव च ||\BC. \SC||
\ENM8.420a/ एवं सर्वानिमान् राजा व्यवहारान् समापयन् |
\ENM8.420c/ व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ||\BC. \SC||
\separate
अध्याय ९
\ENM9.01a/ पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः | %[M.dharmye ]
\ENM9.01c/ संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ||\BC. \SC||
\ENM9.02a/ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् |
\ENM9.02c/ विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ||\BC. \SC||
\ENM9.03a/ पिता रक्षति कौमारे भर्ता रक्षति यौवने |
\ENM9.03c/ रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ||\BC. \SC||
\ENM9.04a/ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः |
\ENM9.04c/ मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ||\BC. \SC||
\ENM9.05a/ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः | %[M.striyA]
\ENM9.05c/ द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ||\BC. \SC||
\ENM9.06a/ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् |
\ENM9.06c/ यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ||\BC. \SC||
\ENM9.07a/ स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च |
\ENM9.07c/ स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ||\BC. \SC||
\ENM9.08a/ पतिर्भार्यां संप्रविश्य गर्भो भूत्वैह जायते |
\ENM9.08c/ जायायास्तद् हि जायात्वं यदस्यां जायते पुनः ||\BC. \SC||
\ENM9.09a/ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् |
\ENM9.09c/ तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ||\BC. \SC||
\ENM9.10a/ न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् |
\ENM9.10c/ एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ||\BC. \SC||
\ENM9.11a/ अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् |
\ENM9.11c/ शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ||\BC. \SC||
\ENM9.12a/ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः |
\ENM9.12c/ आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ||\BC. \SC||
\ENM9.13a/ पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् |
\ENM9.13c/ स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ||\BC. \SC||
\ENM9.14a/ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः |
\ENM9.14c/ सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ||\BC. \SC||
\ENM9.15a/ पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः | %[M.naiHsnehyAch]
\ENM9.15c/ रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ||\BC. \SC||
\ENM9.16a/ एवं स्वभावं ज्ञात्वाऽसां प्रजापतिनिसर्गजम् |
\ENM9.16c/ परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ||\BC. \SC||
\ENM9.17a/ शय्याऽऽसनमलङ्कारं कामं क्रोधमनार्जवम् | ं:अनार्यतां ]
\ENM9.17c/ द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ||\BC. \SC||%[M.drogdhR^ibhAvaM]
\ENM9.18a/ नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः |
\ENM9.18c/ निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्यो अनृतमिति स्थितिः ||\BC. \SC||%[M.striyo]
\ENM9.19a/ तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि |
\ENM9.19c/ स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ||\BC. \SC||
\ENM9.20a/ यन् मे माता प्रलुलुभे विचरन्त्यपतिव्रता |
\ENM9.20c/ तन् मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ||\BC. \SC||
\ENM9.21a/ ध्यायत्यनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा |
\ENM9.21c/ तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ||\BC. \SC||
\ENM9.22a/ यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि |
\ENM9.22c/ तादृग्गुणा सा भवति समुद्रेणैव निम्नगा ||\BC. \SC||
\ENM9.23a/ अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा |
\ENM9.23c/ शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ||\BC. \SC||
\ENM9.24a/ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः | %[M.avakR^iShTaprasUtayaH]
\ENM9.24c/ उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ||\BC. \SC||
\ENM9.25a/ एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा |
\ENM9.25c/ प्रेत्यैह च सुखोदर्कान् प्रजाधर्मान्निबोधत ||\BC. \SC||
\ENM9.26a/ प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः |
\ENM9.26c/ स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ||\BC. \SC||
\ENM9.27a/ उत्पादनमपत्यस्य जातस्य परिपालनम् |
\ENM9.27c/ प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ||\BC. \SC||%[M.pratyarthaM ]
\ENM9.28a/ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा |
\ENM9.28c/ दाराऽधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ||\BC. \SC||
\ENM9.29a/ पतिं या नाभिचरति मनोवाग्देहसंयता |
\ENM9.29c/ सा भर्तृलोकानाप्नोति सद्भिः साध्वीइति चोच्यते ||\BC. \SC||
\ENM9.30a/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् |
\ENM9.30c/ सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ||\BC. \SC||%[M.shR^igAlayoniM]
\ENM9.31a/ पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः |
\ENM9.31c/ विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ||\BC. \SC||
\ENM9.32a/ भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि | %[M. bhartuH ]
\ENM9.32c/ आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः ||\BC. \SC||
\ENM9.33a/ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् |
\ENM9.33c/ क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ||\BC. \SC||
\ENM9.34a/ विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस्त्वेव कुत्र चित् |
\ENM9.34c/ उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ||\BC. \SC||
\ENM9.35a/ बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते |
\ENM9.35c/ सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ||\BC. \SC||
\ENM9.36a/ यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते |
\ENM9.36c/ तादृग् रोहति तत् तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ||\BC. \SC||
\ENM9.37a/ इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते |
\ENM9.37c/ न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ||\BC. \SC||
\ENM9.38a/ भूमावप्येककेदारे कालोप्तानि कृषीवलैः |
\ENM9.38c/ नानारूपाणि जायन्ते बीजानीह स्वभावतः ||\BC. \SC||
\ENM9.39a/ व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः |
\ENM9.39c/ यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ||\BC. \SC||
\ENM9.40a/ अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते |
\ENM9.40c/ उप्यते यद् हि यद् बीजं तत् तदेव प्ररोहति ||\BC. \SC||
\ENM9.41a/ तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना |
\ENM9.41c/ आयुष्कामेन वप्तव्यं न जातु परयोषिति ||\BC. \SC||
\ENM9.42a/ अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः |
\ENM9.42c/ यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ||\BC. \SC||
\ENM9.43a/ नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः |
\ENM9.43c/ तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ||\BC. \SC||%[M.kShiptaM]
\ENM9.44a/ पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः |
\ENM9.44c/ स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम् ||\BC. \SC||
\ENM9.45a/ एतावानेव पुरुषो यत्जायाऽत्मा प्रजैति ह |
\ENM9.45c/ विप्राः प्राहुस्तथा चैतद् यो भर्ता सा स्मृताङ्गना ||\BC. \SC||
\ENM9.46a/ न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते |
\ENM9.46c/ एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ||\BC. \SC||
\ENM9.47a/ सकृदंशो निपतति सकृत् कन्या प्रदीयते |
\ENM9.47c/ सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ||\BC. \SC||%[M.dadAmIti]
\ENM9.48a/ यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च |
\ENM9.48c/ नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ||\BC. \SC||
\ENM9.49a/ येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः |
\ENM9.49c/ ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ||\BC. \SC||
\ENM9.50a/ यदन्यगोषु वृषभो वत्सानां जनयेत्शतम् |
\ENM9.50c/ गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ||\BC. \SC||
\ENM9.51a/ तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः |
\ENM9.51c/ कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ||\BC. \SC||
\ENM9.52a/ फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा |
\ENM9.52c/ प्रत्यक्षं क्षेत्रिणामर्थो बीजाद् योनिर्गलीयसी ? ? ||\BC. \SC||%[M.barIyasI ]
\ENM9.53a/ क्रियाभ्युपगमात् त्वेतद् बीजार्थं यत् प्रदीयते |
\ENM9.53c/ तस्यैह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ||\BC. \SC||
\ENM9.54a/ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति |
\ENM9.54c/ क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ||\BC. \SC||%[M.na bIjI labhate phalam]
\ENM9.55a/ एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च |
\ENM9.55c/ विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ||\BC. \SC||
\ENM9.56a/ एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् |
\ENM9.56c/ अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ||\BC. \SC||
\ENM9.57a/ भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा |
\ENM9.57c/ यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ||\BC. \SC||
\ENM9.58a/ ज्येष्ठो यवीयसो भार्यां यवीयान् वाऽग्रजस्त्रियम् |
\ENM9.58c/ पतितौ भवतो गत्वा नियुक्तावप्यनापदि ||\BC. \SC||
\ENM9.59a/ देवराद् वा सपिण्डाद् वा स्त्रिया सम्यक्नियुक्तया |
\ENM9.59c/ प्रजेप्सिताऽऽधिगन्तव्या संतानस्य परिक्षये ||\BC. \SC||
\ENM9.60a/ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि |
\ENM9.60c/ एकमुत्पादयेत् पुत्रं न द्वितीयं कथं चन ||\BC. \SC||
\ENM9.61a/ द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः |
\ENM9.61c/ अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः ||\BC. \SC||%[M.anirvR^ittaM]
\ENM9.62a/ विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि | %[M.nivR^itte ]
\ENM9.62c/ गुरुवत्च स्नुषावत्च वर्तेयातां परस्परम् ||\BC. \SC||
\ENM9.63a/ नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः |
\ENM9.63c/ तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ||\BC. \SC||
\ENM9.64a/ नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः |
\ENM9.64c/ अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ||\BC. \SC||
\ENM9.65a/ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् |
\ENM9.65c/ न विवाहविधावुक्तं विधवावेदनं पुनः ||\BC. \SC||
\ENM9.66a/ अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः |
\ENM9.66c/ मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ||\BC. \SC||
\ENM9.67a/ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा |
\ENM9.67c/ वर्णानां सङ्करं चक्रे कामोपहतचेतनः ||\BC. \SC||
\ENM9.68a/ ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् |
\ENM9.68c/ नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ||\BC. \SC||
\ENM9.69a/ यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः |
\ENM9.69c/ तामनेन विधानेन निजो विन्देत देवरः ||\BC. \SC||
\ENM9.70a/ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् |
\ENM9.70c/ मिथो भजेता प्रसवात् सकृत्सकृद् ऋतावृतौ ||\BC. \SC||
\ENM9.71a/ न दत्त्वा कस्य चित् कन्यां पुनर्दद्याद् विचक्षणः |
\ENM9.71c/ दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ||\BC. \SC||
\ENM9.72a/ विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् |
\ENM9.72c/ व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ||\BC. \SC||
\ENM9.73a/ यस्तु दोषवतीं कन्यामनाख्यायौपपादयेत् |
\ENM9.73c/ तस्य तद् वितथं कुर्यात् कन्यादातुर्दुरात्मनः ||\BC. \SC||
\ENM9.74a/ विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान्नरः |
\ENM9.74c/ अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि ||\BC. \SC||
\ENM9.75a/ विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता |
\ENM9.75c/ प्रोषिते त्वविधायैव जीवेत्शिल्पैरगर्हितैः ||\BC. \SC||
\ENM9.76a/ प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः |
\ENM9.76c/ विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ||\BC. \SC||
\ENM9.77a/ संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः | %[M.dviShANAM]
\ENM9.77c/ ऊर्ध्वं संवत्सरात् त्वेनां दायं हृत्वा न संवसेत् ||\BC. \SC||
\ENM9.78a/ अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तमेव वा |
\ENM9.78c/ सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ||\BC. \SC||
\ENM9.79a/ उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् |
\ENM9.79c/ न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ||\BC. \SC||
\ENM9.80a/ मद्यपाऽसाधुवृत्ता च प्रतिकूला च या भवेत् | %[M.madyapAsatyavR^ittA ]
\ENM9.80c/ व्याधिता वाऽधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ||\BC. \SC||
\ENM9.81a/ वन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा |
\ENM9.81c/ एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ||\BC. \SC||
\ENM9.82a/ या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः |
\ENM9.82c/ साऽनुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ||\BC. \SC||
\ENM9.83a/ अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् |
\ENM9.83c/ सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ||\BC. \SC||
\ENM9.84a/ प्रतिषिद्धाऽपि चेद् या तु मद्यमभ्युदयेष्वपि | %[ M.pratiShedhe pibed.h yA tu]
\ENM9.84c/ प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ||\BC. \SC||
\ENM9.85a/ यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः |
\ENM9.85c/ तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ||\BC. \SC||
\ENM9.86a/ भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् |
\ENM9.86c/ स्वा चैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ||\BC. \SC||%[M.svA svaiva]
\ENM9.87a/ यस्तु तत् कारयेन् मोहात् सजात्या स्थितयाऽन्यया |
\ENM9.87c/ यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ||\BC. \SC||
\ENM9.88a/ उत्कृष्टायाभिरूपाय वराय सदृशाय च |
\ENM9.88c/ अप्राप्तामपि तां तस्मै कन्यां दद्याद् यथाविधि ||\BC. \SC||
\ENM9.89a/ काममामरणात् तिष्ठेद् गृहे कन्यार्तुमत्यपि |
\ENM9.89c/ न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हि चित् ||\BC. \SC||
\ENM9.90a/ त्रीणि वर्षाण्युदीक्षेत कुमार्यर्तुमती सती |
\ENM9.90c/ ऊर्ध्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् ||\BC. \SC||
\ENM9.91a/ अदीयमाना भर्तारमधिगच्छेद् यदि स्वयम् |
\ENM9.91c/ नैनः किं चिदवाप्नोति न च यं साऽधिगच्छति ||\BC. \SC||
\ENM9.92a/ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा |
\ENM9.92c/ मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ||\BC. \SC||
\ENM9.93a/ पित्रे न दद्यात्शुल्कं तु कन्यां ऋतुमतीं हरन् |
\ENM9.93c/ स च स्वाम्यादतिक्रामेद् ऋतूनां प्रतिरोधनात् ||\BC. \SC||
\ENM9.94a/ त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् |
\ENM9.94c/ त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ||\BC. \SC||
\ENM9.95a/ देवदत्तां पतिर्भार्यां विन्दते नेच्छयाऽत्मनः |
\ENM9.95c/ तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ||\BC. \SC||
\ENM9.96a/ प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः |
\ENM9.96c/ तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ||\BC. \SC||
\ENM9.97a/ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः |
\ENM9.97c/ देवराय प्रदातव्या यदि कन्याऽनुमन्यते ||\BC. \SC||
\ENM9.98a/ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् |
\ENM9.98c/ शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ||\BC. \SC||
\ENM9.99a/ एतत् तु न परे चक्रुर्नापरे जातु साधवः |
\ENM9.99c/ यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ||\BC. \SC||
\ENM9.100a/ नानुशुश्रुम जात्वेतत् पूर्वेष्वपि हि जन्मसु |
\ENM9.100c/ शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ||\BC. \SC||
\ENM9.101a/ अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः |
\ENM9.101c/ एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ||\BC. \SC||
\ENM9.102a/ तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ |
\ENM9.102c/ यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ||\BC. \SC||%[M.nAticharetAM ]
\ENM9.103a/ एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः |
\ENM9.103c/ आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ||\BC. \SC||
\ENM9.104a/ ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् |
\ENM9.104c/ भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ||\BC. \SC||
\ENM9.105a/ ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः |
\ENM9.105c/ शेषास्तमुपजीवेयुर्यथैव पितरं तथा ||\BC. \SC||
\ENM9.106a/ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः |
\ENM9.106c/ पितॄणामनृणश्चैव स तस्मात् सर्वमर्हति ||\BC. \SC||
\ENM9.107a/ यस्मिनृणं संनयति येन चानन्त्यमश्नुते |
\ENM9.107c/ स एव धर्मजः पुत्रः कामजानितरान् विदुः ||\BC. \SC||
\ENM9.108a/ पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रातॄन् यवीयसः |
\ENM9.108c/ पुत्रवत्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ||\BC. \SC||
\ENM9.109a/ ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः |
\ENM9.109c/ ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ||\BC. \SC||
\ENM9.110a/ यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातैव स पितैव सः |
\ENM9.110c/ अज्येष्ठवृत्तिर्यस्तु स्यात् स संपूज्यस्तु बन्धुवत् ||\BC. \SC||
\ENM9.111a/ एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया |
\ENM9.111c/ पृथग् विवर्धते धर्मस्तस्माद् धर्म्या पृथक्क्रिया ||\BC. \SC||
\ENM9.112a/ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद् वरम् |
\ENM9.112c/ ततोऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ||\BC. \SC||
\ENM9.113a/ ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् |
\ENM9.113c/ येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यमं धनम् ||\BC. \SC||
\ENM9.114a/ सर्वेषां धनजातानामाददीताग्र्यमग्रजः |
\ENM9.114c/ यच्च सातिशयं किं चिद् दशतश्चाप्नुयाद् वरम् ||\BC. \SC||
\ENM9.115a/ उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु |
\ENM9.115c/ यत् किं चिदेव देयं तु ज्यायसे मानवर्धनम् ||\BC. \SC||
\ENM9.116a/ एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् |
\ENM9.116c/ उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ||\BC. \SC||
\ENM9.117a/ एकाधिकं हरेज् ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः |
\ENM9.117c/ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ||\BC. \SC||
\ENM9.118a/ स्वेभ्योंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् | %[M.svAbhyaH svAbhyastu]
\ENM9.118c/ स्वात् स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ||\BC. \SC||
\ENM9.119a/ अजाविकं सेकशफं न जातु विषमं भजेत् | %[M.ajAvikaM chaikashaphaM]
\ENM9.119c/ अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ||\BC. \SC||
\ENM9.120a/ यवीयान्ज्येष्ठभार्यायां पुत्रमुत्पादयेद् यदि |
\ENM9.120c/ समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ||\BC. \SC||
\ENM9.121a/ उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते |
\ENM9.121c/ पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ||\BC. \SC||
\ENM9.122a/ पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः |
\ENM9.122c/ कथं तत्र विभागः स्यादिति चेत् संशयो भवेत् ||\BC. \SC||
\ENM9.123a/ एकं वृषभमुद्धारं संहरेत स पूर्वजः |
\ENM9.123c/ ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ||\BC. \SC||
\ENM9.124a/ ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः |
\ENM9.124c/ ततः स्वमातृतः शेषा भजेरन्निति धारणा ||\BC. \SC||
\ENM9.125a/ सदृशस्त्रीषु जातानां पुत्राणामविशेषतः |
\ENM9.125c/ न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते ||\BC. \SC||
\ENM9.126a/ जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् |
\ENM9.126c/ यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ||\BC. \SC||
\ENM9.127a/ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् |
\ENM9.127c/ यदपत्यं भवेदस्यां तन् मम स्यात् स्वधाकरम् ||\BC. \SC||
\ENM9.128a/ अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः |
\ENM9.128c/ विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ||\BC. \SC||
\ENM9.129a/ ददौ स दश धर्माय कश्यपाय त्रयोदश |
\ENM9.129c/ सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ||\BC. \SC||
\ENM9.130a/ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा |
\ENM9.130c/ तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ||\BC. \SC||
\ENM9.131a/ मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः |
\ENM9.131c/ दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ||\BC. \SC||
\ENM9.132a/ दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् |
\ENM9.132c/ स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ||\BC. \SC||
\ENM9.133a/ पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः |
\ENM9.133c/ तयोर्हि मातापितरौ संभूतौ तस्य देहतः ||\BC. \SC||
\ENM9.134a/ पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते |
\ENM9.134c/ समस्तत्र विभागः स्यात्ज्येष्ठता नास्ति हि स्त्रियाः ||\BC. \SC||
\ENM9.135a/ अपुत्रायां मृतायां तु पुत्रिकायां कथं चन |
\ENM9.135c/ धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ||\BC. \SC||
\ENM9.136a/ अकृता वा कृता वाऽपि यं विन्देत् सदृशात् सुतम् |
\ENM9.136c/ पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद् धनम् ||\BC. \SC||
\ENM9.137a/ पुत्रेण लोकान्जयति पौत्रेणानन्त्यमश्नुते |
\ENM9.137c/ अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ||\BC. \SC||
\ENM9.138a/ पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः |
\ENM9.138c/ तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ||\BC. \SC||
\ENM9.139a/ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते |
\ENM9.139c/ दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ||\BC. \SC||
\ENM9.140a/ मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः |
\ENM9.140c/ द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ||\BC. \SC||
\ENM9.141a/ उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः |
\ENM9.141c/ स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः ||\BC. \SC||
\ENM9.142a/ गोत्ररिक्थे जनयितुर्न हरेद् दत्त्रिमः क्व चित् |
\ENM9.142c/ गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ||\BC. \SC||
\ENM9.143a/ अनियुक्तासुतश्चैव पुत्रिण्याऽप्तश्च देवरात् |
\ENM9.143c/ उभौ तौ नार्हतो भागं जारजातककामजौ ||\BC. \SC||
\ENM9.144a/ नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः |
\ENM9.144c/ नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ||\BC. \SC||
\ENM9.145a/ हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः |
\ENM9.145c/ क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश्च सः ||\BC. \SC||
\ENM9.146a/ धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव च ? ? |
\ENM9.146c/ सोऽपत्यं भ्रातुरुत्पाद्य दद्यात् तस्यैव तद्धनम् ||\BC. \SC||
\ENM9.147a/ या नियुक्ताऽन्यतः पुत्रं देवराद् वाऽप्यवाप्नुयात् |
\ENM9.147c/ तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ||\BC. \SC||%[M.mithyautpannaM ]
\ENM9.148a/ एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु |
\ENM9.148c/ बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ||\BC. \SC||
\ENM9.149a/ ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः |
\ENM9.149c/ तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ||\BC. \SC||
\ENM9.150a/ कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च |
\ENM9.150c/ विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ||\BC. \SC||
\ENM9.151a/ त्र्यंशं दायाद् हरेद् विप्रो द्वावंशौ क्षत्रियासुतः |
\ENM9.151c/ वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ||\BC. \SC||
\ENM9.152a/ सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च |
\ENM9.152c/ धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ||\BC. \SC||
\ENM9.153a/ चतुरानंशान् हरेद् विप्रस्त्रीनंशान् क्षत्रियासुतः |
\ENM9.153c/ वैश्यापुत्रो हरेद् द्व्यंशमंशं शूद्रासुतो हरेत् ||\BC. \SC||
\ENM9.154a/ यद्यपि स्यात् तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् | %[M.yadyapi syAt.h tu satputro yadyaputro.api vA bhavet.h |]
\ENM9.154c/ नाधिकं दशमाद् दद्यात्शूद्रापुत्राय धर्मतः ||\BC. \SC||
\ENM9.155a/ ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् |
\ENM9.155c/ यदेवास्य पिता दद्यात् तदेवास्य धनं भवेत् ||\BC. \SC||
\ENM9.156a/ समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् |
\ENM9.156c/ उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ||\BC. \SC||
\ENM9.157a/ शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते |
\ENM9.157c/ तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ||\BC. \SC||
\ENM9.158a/ पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः |
\ENM9.158c/ तेषां षड् बन्धुदायादाः षडदायादबान्धवाः ||\BC. \SC||
\ENM9.159a/ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च |
\ENM9.159c/ गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ||\BC. \SC||
\ENM9.160a/ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा |
\ENM9.160c/ स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ||\BC. \SC||
\ENM9.161a/ यादृशं फलमाप्नोति कुप्लवैः संतरन्जलम् |
\ENM9.161c/ तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ||\BC. \SC||
\ENM9.162a/ यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ |
\ENM9.162c/ यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नैतरः ||\BC. \SC||
\ENM9.163a/ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः |
\ENM9.163c/ शेषाणामानृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ||\BC. \SC||
\ENM9.164a/ षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् |
\ENM9.164c/ औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ||\BC. \SC||
\ENM9.165a/ औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ |
\ENM9.165c/ दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ||\BC. \SC||
\ENM9.166a/ स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद् हि यम् |
\ENM9.166c/ तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ||\BC. \SC||
\ENM9.167a/ यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा |
\ENM9.167c/ स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ||\BC. \SC||
\ENM9.168a/ माता पिता वा दद्यातां यमद्भिः पुत्रमापदि |
\ENM9.168c/ सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ||\BC. \SC||
\ENM9.169a/ सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् |
\ENM9.169c/ पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ||\BC. \SC||
\ENM9.170a/ उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः |
\ENM9.170c/ स गृहे गूढ उत्पन्नस्तस्य स्याद् यस्य तल्पजः ||\BC. \SC||
\ENM9.171a/ मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा |
\ENM9.171c/ यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ||\BC. \SC||
\ENM9.172a/ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः |
\ENM9.172c/ तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ||\BC. \SC||
\ENM9.173a/ या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती |
\ENM9.173c/ वोढुः स गर्भो भवति सहोढ इति चोच्यते ||\BC. \SC||
\ENM9.174a/ क्रीणीयाद् यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् |
\ENM9.174c/ स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ||\BC. \SC||
\ENM9.175a/ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया |
\ENM9.175c/ उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ||\BC. \SC||
\ENM9.176a/ सा चेदक्षतयोनिः स्याद् गतप्रत्यागताऽपि वा |
\ENM9.176c/ पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ||\BC. \SC||
\ENM9.177a/ मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् |
\ENM9.177c/ आत्मानमर्पयेद् यस्मै स्वयंदत्तस्तु स स्मृतः ||\BC. \SC||
\ENM9.178a/ यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् |
\ENM9.178c/ स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ||\BC. \SC||
\ENM9.179a/ दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् |
\ENM9.179c/ सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ||\BC. \SC||
\ENM9.180a/ क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् |
\ENM9.180c/ पुत्रप्रतिनिधीनाहुः क्रियालोपान् मनीषिणः ||\BC. \SC||
\ENM9.181a/ य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः |
\ENM9.181c/ यस्य ते बीजतो जातास्तस्य ते नैतरस्य तु ||\BC. \SC||
\ENM9.182a/ भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेत् |
\ENM9.182c/ सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ||\BC. \SC||
\ENM9.183a/ सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत् |
\ENM9.183c/ सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ||\BC. \SC||
\ENM9.184a/ श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति |
\ENM9.184c/ बहवश्चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः ||\BC. \SC||
\ENM9.185a/ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः |
\ENM9.185c/ पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ||\BC. \SC||
\ENM9.186a/ त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते |
\ENM9.186c/ चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ||\BC. \SC||
\ENM9.187a/ अनन्तरः सपिण्डाद् यस्तस्य तस्य धनं भवेत् |
\ENM9.187c/ अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ||\BC. \SC||
\ENM9.188a/ सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः |
\ENM9.188c/ त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ||\BC. \SC||
\ENM9.189a/ अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः |
\ENM9.189c/ इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ||\BC. \SC||
\ENM9.190a/ संस्थितस्यानपत्यस्य सगोत्रात् पुत्रमाहरेत् ||\BC. \SC||
\ENM9.190c/ तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् |
\ENM9.191a/ द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने |
\ENM9.191c/ तयोर्यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नैतरः ||\BC. \SC||
\ENM9.192a/ जनन्यां संस्थितायां तु समं सर्वे सहोदराः |
\ENM9.192c/ भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ||\BC. \SC||
\ENM9.193a/ यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः | %[H.tasyAM]
\ENM9.193c/ मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ||\BC. \SC||
\ENM9.194a/ अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि |
\ENM9.194c/ भ्रातृमातृपितृप्राप्तं षड् विधं स्त्रीधनं स्मृतम् ||\BC. \SC||
\ENM9.195a/ अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् |
\ENM9.195c/ पत्यौ जीवति वृत्तायाः प्रजायास्तद् धनं भवेत् ||\BC. \SC||
\ENM9.196a/ ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् वसु |
\ENM9.196c/ अप्रजायामतीतायां भर्तुरेव तदिष्यते ||\BC. \SC||
\ENM9.197a/ यत् त्वस्याः स्याद् धनं दत्तं विवाहेष्वासुरादिषु |
\ENM9.197c/ अप्रजायामतीतायां मातापित्रोस्तदिष्यते ||\BC. \SC||
\ENM9.198a/ स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन |
\ENM9.198c/ ब्राह्मणी तद् हरेत् कन्या तदपत्यस्य वा भवेत् ||\BC. \SC||
\ENM9.199a/ न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् |
\ENM9.199c/ स्वकादपि च वित्ताद् हि स्वस्य भर्तुरनाज्ञया ||\BC. \SC||
\ENM9.200a/ पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् |
\ENM9.200c/ न तं भजेरन् दायादा भजमानाः पतन्ति ते ||\BC. \SC||
\ENM9.201a/ अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा |
\ENM9.201c/ उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः ||\BC. \SC||
\ENM9.202a/ सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा |
\ENM9.202c/ ग्रासाच्छादनमत्यन्तं पतितो ह्यददद् भवेत् ||\BC. \SC||
\ENM9.203a/ यद्यर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन |
\ENM9.203c/ तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ||\BC. \SC||
\ENM9.204a/ यत् किं चित् पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति |
\ENM9.204c/ भागो यवीयसां तत्र यदि विद्यानुपालिनः ||\BC. \SC||
\ENM9.205a/ अविद्यानां तु सर्वेषामीहातश्चेद् धनं भवेत् ? ? |
\ENM9.205c/ समस्तत्र विभागः स्यादपित्र्य इति धारणा ||\BC. \SC||
\ENM9.206a/ विद्याधनं तु यद्यस्य तत् तस्यैव धनं भवेत् |
\ENM9.206c/ मैत्र्यमोद्वाहिकं चैव माधुपर्किकमेव च ||\BC. \SC||
\ENM9.207a/ भ्रातॄणां यस्तु नैहेत धनं शक्तः स्वकर्मणा |
\ENM9.207c/ स निर्भाज्यः स्वकादंशात् किं चिद् दत्त्वोपजीवनम् ||\BC. \SC||
\ENM9.208a/ अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् |
\ENM9.208c/ स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ||\BC. \SC||
\ENM9.209a/ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् |
\ENM9.209c/ न तत् पुत्रैर्भजेत् सार्धमकामः स्वयमर्जितम् ||\BC. \SC||
\ENM9.210a/ विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि |
\ENM9.210c/ समस्तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ||\BC. \SC||
\ENM9.211a/ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः |
\ENM9.211c/ म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ||\BC. \SC||
\ENM9.212a/ सोदर्या विभजेरंस्तं समेत्य सहिताः समम् |
\ENM9.212c/ भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ||\BC. \SC||
\ENM9.213a/ यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः |
\ENM9.213c/ सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ||\BC. \SC||
\ENM9.214a/ सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् |
\ENM9.214c/ न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत योतकम् ||\BC. \SC||
\ENM9.215a/ भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह |
\ENM9.215c/ न पुत्रभागं विषमं पिता दद्यात् कथं चन ||\BC. \SC||
\ENM9.216a/ ऊर्ध्वं विभागात्जातस्तु पित्र्यमेव हरेद् धनम् |
\ENM9.216c/ संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ||\BC. \SC||
\ENM9.217a/ अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् |
\ENM9.217c/ मातर्यपि च वृत्तायां पितुर्माता हरेद् धनम् ||\BC. \SC||
\ENM9.218a/ ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि |
\ENM9.218c/ पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ||\BC. \SC||
\ENM9.219a/ वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ? ? |
\ENM9.219c/ योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ||\BC. \SC||
\ENM9.220a/ अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः |
\ENM9.220c/ क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ||\BC. \SC||
\ENM9.221a/ द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् |
\ENM9.221c/ राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ||\BC. \SC||
\ENM9.222a/ प्रकाशमेतत् तास्कर्यं यद् देवनसमाह्वयौ |
\ENM9.222c/ तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ||\BC. \SC||
\ENM9.223a/ अप्राणिभिर्यत् क्रियते तत्लोके द्यूतमुच्यते |
\ENM9.223c/ प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ||\BC. \SC||
\ENM9.224a/ द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा |
\ENM9.224c/ तान् सर्वान् घातयेद् राजा शूद्रांश्च द्विजलिङ्गिनः ||\BC. \SC||
\ENM9.225a/ कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् |
\ENM9.225c/ विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत् पुरात् ||\BC. \SC||
\ENM9.226a/ एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः |
\ENM9.226c/ विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ||\BC. \SC||
\ENM9.227a/ द्यूतमेतत् पुरा कल्पे दृष्टं वैरकरं महत् |
\ENM9.227c/ तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ||\BC. \SC||
\ENM9.228a/ प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः |
\ENM9.228c/ तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस्तथा ||\BC. \SC||
\ENM9.229a/ क्षत्रविद् शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् |
\ENM9.229c/ आनृण्यं कर्मणा गच्छेद् विप्रो दद्यात्शनैः शनैः ||\BC. \SC||
\ENM9.230a/ स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् |
\ENM9.230c/ शिफाविदलरज्ज्वाद्यैर्विदध्यात्नृपतिर्दमम् ||\BC. \SC||
\ENM9.231a/ ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् |
\ENM9.231c/ धनौष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः ||\BC. \SC||
\ENM9.232a/ कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् |
\ENM9.232c/ स्त्रीबालब्राह्मणघ्नांश्च हन्याद् द्विष् सेविनस्तथा ? ? ||\BC. \SC||
\ENM9.233a/ तीरितं चानुशिष्टं च यत्र क्व चन यद् भवेत् |
\ENM9.233c/ कृतं तद् धर्मतो विद्यान्न तद् भूयो निवर्तयेत् ||\BC. \SC||
\ENM9.234a/ अमात्यः प्राग्विवाको वा यत् कुर्युः कार्यमन्यथा ? ? |
\ENM9.234c/ तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ||\BC. \SC||%[M.taM ]
\ENM9.235a/ ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः | %[M.taskaro gurutalpagaH ]
\ENM9.235c/ एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ||\BC. \SC||
\ENM9.236a/ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् |
\ENM9.236c/ शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ||\BC. \SC||
\ENM9.237a/ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः |
\ENM9.237c/ स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ||\BC. \SC||%[M.taskare shvapadaM kAryaM ]
\ENM9.238a/ असंभोज्या ह्यसंयाज्या असंपाठ्याऽविवाहिनः |
\ENM9.238c/ चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ||\BC. \SC||
\ENM9.239a/ ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः |
\ENM9.239c/ निर्दया निर्नमस्कारास्तन् मनोरनुशासनम् ||\BC. \SC||
\ENM9.240a/ प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् | %[M.pUrve varNA yathoditam]
\ENM9.240c/ नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ||\BC. \SC||
\ENM9.241a/ आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः |
\ENM9.241c/ विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ||\BC. \SC||
\ENM9.242a/ इतरे कृतवन्तस्तु पापान्येतान्यकामतः |
\ENM9.242c/ सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ||\BC. \SC||
\ENM9.243a/ नाददीत नृपः साधुर्महापातकिनो धनम् |
\ENM9.243c/ आददानस्तु तत्लोभात् तेन दोषेण लिप्यते ||\BC. \SC||
\ENM9.244a/ अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् |
\ENM9.244c/ श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ||\BC. \SC||
\ENM9.245a/ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः |
\ENM9.245c/ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ||\BC. \SC||
\ENM9.246a/ यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् |
\ENM9.246c/ तत्र कालेन जायन्ते मानवा दीर्घजीविनः ||\BC. \SC||
\ENM9.247a/ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् |
\ENM9.247c/ बालाश्च न प्रमीयन्ते विकृतं च न जायते ||\BC. \SC||
\ENM9.248a/ ब्राह्मणान् बाधमानं तु कामादवरवर्णजम् |
\ENM9.248c/ हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ||\BC. \SC||
\ENM9.249a/ यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे |
\ENM9.249c/ अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ||\BC. \SC||
\ENM9.250a/ उदितोऽयं विस्तरशो मिथो विवदमानयोः |
\ENM9.250c/ अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ||\BC. \SC||
\ENM9.251a/ एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः |
\ENM9.251c/ देशानलब्धान्लिप्सेत लब्धांश्च परिपालयेत् ||\BC. \SC||
\ENM9.252a/ सम्यग्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः |
\ENM9.252c/ कण्टकोद्धरणे नित्यमातिष्ठेद् यत्नमुत्तमम् ||\BC. \SC||
\ENM9.253a/ रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् |
\ENM9.253c/ नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ||\BC. \SC||
\ENM9.254a/ अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः |
\ENM9.254c/ तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ||\BC. \SC||
\ENM9.255a/ निर्भयं तु भवेद् यस्य राष्ट्रं बाहुबलाश्रितम् |
\ENM9.255c/ तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ||\BC. \SC||
\ENM9.256a/ द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् |
\ENM9.256c/ प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ||\BC. \SC||
\ENM9.257a/ प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः |
\ENM9.257c/ प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ? ? ||\BC. \SC||
\ENM9.258a/ उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा |
\ENM9.258c/ मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह ||\BC. \SC||%[M.bhadraprekShaNikaiH saha ]
\ENM9.259a/ असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः |
\ENM9.259c/ शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ||\BC. \SC||
\ENM9.260a/ एवमादीन् विजानीयात् प्रकाशांल्लोककण्टकान् | %[MevamAdyAn.h ]
\ENM9.260c/ निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ||\BC. \SC||
\ENM9.261a/ तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः |
\ENM9.261c/ चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ||\BC. \SC||
\ENM9.262a/ तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः |
\ENM9.262c/ कुर्वीत शासनं राजा सम्यक् सारापराधतः ||\BC. \SC||
\ENM9.263a/ न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः |
\ENM9.263c/ स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ||\BC. \SC||
\ENM9.264a/ सभाप्रपाऽपूपशालावेशमद्यान्नविक्रयाः |
\ENM9.264c/ चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ||\BC. \SC||
\ENM9.265a/ जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च |
\ENM9.265c/ शून्यानि चाप्यगाराणि वनान्युपवनानि च ||\BC. \SC||
\ENM9.266a/ एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः |
\ENM9.266c/ तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ||\BC. \SC||
\ENM9.267a/ तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः |
\ENM9.267c/ विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ||\BC. \SC||
\ENM9.268a/ भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः |
\ENM9.268c/ शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ||\BC. \SC||
\ENM9.269a/ ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये |
\ENM9.269c/ तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ||\BC. \SC||
\ENM9.270a/ न होढेन विना चौरं घातयेद् धार्मिको नृपः |
\ENM9.270c/ सहोढं सोपकरणं घातयेदविचारयन् ||\BC. \SC||
\ENM9.271a/ ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः |
\ENM9.271c/ भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ||\BC. \SC||
\ENM9.272a/ राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् |
\ENM9.272c/ अभ्याघातेषु मध्यस्थाञ् शिष्याच्चौरानिव द्रुतम् ||\BC. \SC||
\ENM9.273a/ यश्चापि धर्मसमयात् प्रच्युतो धर्मजीवनः |
\ENM9.273c/ दण्डेनैव तमप्योषेत् स्वकाद् धर्माद् हि विच्युतम् ||\BC. \SC||
\ENM9.274a/ ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने |
\ENM9.274c/ शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ||\BC. \SC||
\ENM9.275a/ राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् | %[M.prAtikUlyeShvavasthitAn.h ]
\ENM9.275c/ घातयेद् विविधैर्दण्डैररीणां चोपजापकान् ||\BC. \SC||
\ENM9.276a/ संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः | %[M.sa.ndhiM bhittvA##) ##]
\ENM9.276c/ तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ||\BC. \SC||
\ENM9.277a/ अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे |
\ENM9.277c/ द्वितीये हस्तचरणौ तृतीये वधमर्हति ||\BC. \SC||
\ENM9.278a/ अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् |
\ENM9.278c/ संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ||\BC. \SC||
\ENM9.279a/ तडागभेदकं हन्यादप्सु शुद्धवधेन वा |
\ENM9.279c/ यद् वाऽपि प्रतिसंस्कुर्याद् दाप्यस्तूत्तमसाहसम् ||\BC. \SC||
\ENM9.280a/ कोष्ठागारायुधागारदेवतागारभेदकान् |
\ENM9.280c/ हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ||\BC. \SC||
\ENM9.281a/ यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् |
\ENM9.281c/ आगमं वाऽप्यपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ||\BC. \SC||
\ENM9.282a/ समुत्सृजेद् राजमार्गे यस्त्वमेध्यमनापदि |
\ENM9.282c/ स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ||\BC. \SC||
\ENM9.283a/ आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा |
\ENM9.283c/ परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ||\BC. \SC||
\ENM9.284a/ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः |
\ENM9.284c/ अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ||\BC. \SC||
\ENM9.285a/ सङ्क्रमध्वजयष्टीनां प्रतिमानां च भेदकः |
\ENM9.285c/ प्रतिकुर्याच्च तत् सर्वं पञ्च दद्यात्शतानि च ||\BC. \SC||
\ENM9.286a/ अदूषितानां द्रव्याणां दूषणे भेदने तथा |
\ENM9.286c/ मणीनामपवेधे च दण्डः प्रथमसाहसः ||\BC. \SC||
\ENM9.287a/ समैर्हि विषमं यस्तु चरेद् वै मूल्यतोऽपि वा |
\ENM9.287c/ समाप्नुयाद् दमं पूर्वं नरो मध्यममेव वा ||\BC. \SC||
\ENM9.288a/ बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् | %[M.rAjamArge ]
\ENM9.288c/ दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ||\BC. \SC||
\ENM9.289a/ प्राकारस्य च भेत्तारं परिखाणां च पूरकम् |
\ENM9.289c/ द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ||\BC. \SC||
\ENM9.290a/ अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः |
\ENM9.290c/ मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ||\BC. \SC||%[M.chAnAptaiH]
\ENM9.291a/ अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च |
\ENM9.291c/ मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद् वधम् ||\BC. \SC||
\ENM9.292a/ सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः |
\ENM9.292c/ प्रवर्तमानमन्याये छेदयेत्लवशः क्षुरैः ||\BC. \SC||%[M.Chedayet.h khaNDashaH kShuraiH ]
\ENM9.293a/ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च |
\ENM9.293c/ कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ||\BC. \SC||
\ENM9.294a/ स्वाम्य्ऽमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा |
\ENM9.294c/ सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ||\BC. \SC||
\ENM9.295a/ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् |
\ENM9.295c/ पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ||\BC. \SC||
\ENM9.296a/ सप्ताङ्गस्यैह राज्यस्य विष्टब्धस्य त्रिदण्डवत् |
\ENM9.296c/ अन्योन्यगुणवैशेष्यात्न किं चिदतिरिच्यते ||\BC. \SC||
\ENM9.297a/ तेषु तेषु तु कृत्येषु तत् तदङ्गं विशिष्यते |
\ENM9.297c/ येन यत् साध्यते कार्यं तत् तस्मिंश्रेष्ठमुच्यते ||\BC. \SC||
\ENM9.298a/ चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् |
\ENM9.298c/ स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ||\BC. \SC||%[M.vidyAt.h parAtmanoH]
\ENM9.299a/ पीडनानि च सर्वाणि व्यसनानि तथैव च |
\ENM9.299c/ आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ||\BC. \SC||
\ENM9.300a/ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः |
\ENM9.300c/ कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ||\BC. \SC||
\ENM9.301a/ कृतं त्रेतायुगं चैव द्वापरं कलिरेव च |
\ENM9.301c/ राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ||\BC. \SC||
\ENM9.302a/ कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् |
\ENM9.302c/ कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ||\BC. \SC||
\ENM9.303a/ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च |
\ENM9.303c/ चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ||\BC. \SC||
\ENM9.304a/ वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति |
\ENM9.304c/ तथाऽभिवर्षेत् स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन् ||\BC. \SC||
\ENM9.305a/ अष्टौ मासान् यथाऽदित्यस्तोयं हरति रश्मिभिः |
\ENM9.305c/ तथा हरेत् करं राष्ट्रात्नित्यमर्कव्रतं हि तत् ||\BC. \SC||
\ENM9.306a/ प्रविश्य सर्वभूतानि यथा चरति मारुतः |
\ENM9.306c/ तथा चारैः प्रवेष्टव्यं व्रतमेतद् हि मारुतम् ||\BC. \SC||
\ENM9.307a/ यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति |
\ENM9.307c/ तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ||\BC. \SC||
\ENM9.308a/ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते |
\ENM9.308c/ तथा पापान्निगृह्णीयाद् व्रतमेतद् हि वारुणम् ||\BC. \SC||
\ENM9.309a/ परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः |
\ENM9.309c/ तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ||\BC. \SC||
\ENM9.310a/ प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु |
\ENM9.310c/ दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ||\BC. \SC||
\ENM9.311a/ यथा सर्वाणि भूतानि धरा धारयते समम् |
\ENM9.311c/ तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ||\BC. \SC||
\ENM9.312a/ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः |
\ENM9.312c/ स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ||\BC. \SC||
\ENM9.313a/ परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् |
\ENM9.313c/ ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ||\BC. \SC||
\ENM9.314a/ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः | %[M.sarvabhakSho ]
\ENM9.314c/ क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ||\BC. \SC||
\ENM9.315a/ लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः |
\ENM9.315c/ देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ||\BC. \SC||
\ENM9.316a/ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा |
\ENM9.316c/ ब्रह्म चैव धनं येषां को हिंस्यात् ताञ्जिजीविषुः ||\BC. \SC||
\ENM9.317a/ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् |
\ENM9.317c/ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ||\BC. \SC||
\ENM9.318a/ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति |
\ENM9.318c/ हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ||\BC. \SC||
\ENM9.319a/ एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु |
\ENM9.319c/ सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ||\BC. \SC||
\ENM9.320a/ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः |
\ENM9.320c/ ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् ||\BC. \SC||
\ENM9.321a/ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |
\ENM9.321c/ तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||\BC. \SC||
\ENM9.322a/ नाब्रह्म क्षत्रं ऋध्नोति नाक्षत्रं ब्रह्म वर्धते |
\ENM9.322c/ ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ||\BC. \SC||
\ENM9.323a/ दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् |
\ENM9.323c/ पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ||\BC. \SC||%[M.samAsAdya ]
\ENM9.324a/ एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः |
\ENM9.324c/ हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ||\BC. \SC||%[M.hiteShu chaiva lokebhyaH ]
\ENM9.325a/ एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः |
\ENM9.325c/ इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ||\BC. \SC||
\ENM9.326a/ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् |
\ENM9.326c/ वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ||\BC. \SC||
\ENM9.327a/ प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् |
\ENM9.327c/ ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ||\BC. \SC||
\ENM9.328a/ न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति |
\ENM9.328c/ वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ||\BC. \SC||
\ENM9.329a/ मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च |
\ENM9.329c/ गन्धानां च रसानां च विद्यादर्घबलाबलम् ||\BC. \SC||
\ENM9.330a/ बीजानामुप्तिविद् च स्यात् क्षेत्रदोषगुणस्य च |
\ENM9.330c/ मानयोगं च जानीयात् तुलायोगांश्च सर्वशः ||\BC. \SC||
\ENM9.331a/ सारासारं च भाण्डानां देशानां च गुणागुणान् |
\ENM9.331c/ लाभालाभं च पण्यानां पशूनां परिवर्धनम् ||\BC. \SC||
\ENM9.332a/ भृत्यानां च भृतिं विद्याद् भाषाश्च विविधा नृणाम् |
\ENM9.332c/ द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ||\BC. \SC||
\ENM9.333a/ धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम् |
\ENM9.333c/ दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ||\BC. \SC||
\ENM9.334a/ विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् |
\ENM9.334c/ शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ||\BC. \SC||%[k: param]
\ENM9.335a/ शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहङ्कृतः |
\ENM9.335c/ ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ||\BC. \SC||%[M.brAhmaNApAshrayo]
\ENM9.336a/ एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः |
\ENM9.336c/ आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ||\BC. \SC||
\separate
अध्याय १०
\ENM10.01a/ अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः |
\ENM10.01c/ प्रब्रूयाद् ब्राह्मणस्त्वेषां नेतराविति निश्चयः ||\BC. \SC||
\ENM10.02a/ सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि |
\ENM10.02c/ प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ||\BC. \SC||
\ENM10.03a/ वैशेष्यात् प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् |
\ENM10.03c/ संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ||\BC. \SC||
\ENM10.04a/ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः |
\ENM10.04c/ चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ||\BC. \SC||
\ENM10.05a/ सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु |
\ENM10.05c/ आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ||\BC. \SC||
\ENM10.06a/ स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् |
\ENM10.06c/ सदृशानेव तानाहुर्मातृदोषविगर्हितान् ||\BC. \SC||
\ENM10.07a/ अनन्तरासु जातानां विधिरेष सनातनः |
\ENM10.07c/ द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ||\BC. \SC||
\ENM10.08a/ ब्राह्मणाद् वैश्यकन्यायामम्बष्ठो नाम जायते |
\ENM10.08c/ निषादः शूद्रकन्यायां यः पारशव उच्यते ||\BC. \SC||
\ENM10.09a/ क्षत्रियात्शूद्रकन्यायां क्रूराचारविहारवान् |
\ENM10.09c/ क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ||\BC. \SC||
\ENM10.10a/ विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः |
\ENM10.10c/ वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ||\BC. \SC||
\ENM10.11a/ क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः |
\ENM10.11c/ वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ||\BC. \SC||
\ENM10.12a/ शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् |
\ENM10.12c/ वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ||\BC. \SC||
\ENM10.13a/ एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ |
\ENM10.13c/ क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि ||\BC. \SC||
\ENM10.14a/ पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् |
\ENM10.14c/ ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते ||\BC. \SC||
\ENM10.15a/ ब्राह्मणादुग्रकन्यायामावृतो नाम जायते |
\ENM10.15c/ आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ||\BC. \SC||
\ENM10.16a/ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् |
\ENM10.16c/ प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ||\BC. \SC||
\ENM10.17a/ वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु |
\ENM10.17c/ प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ||\BC. \SC||
\ENM10.18a/ जातो निषादात्शूद्रायां जात्या भवति पुक्कसः |
\ENM10.18c/ शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ||\BC. \SC||
\ENM10.19a/ क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते |
\ENM10.19c/ वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ||\BC. \SC||
\ENM10.20a/ द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् |
\ENM10.20c/ तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ||\BC. \SC||
\ENM10.21a/ व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः | %[M.bhR^ijjakaNTakaH ]
\ENM10.21c/ आवन्त्यवाटधानौ च पुष्पधः शैख एव च ||\BC. \SC||
\ENM10.22a/ झल्लो मल्लश्च राजन्याद् व्रात्यात्निच्छिविरेव च | %[M.vrAtyAtlichChavireva cha]
\ENM10.22c/ नटश्च करणश्चैव खसो द्रविड एव च ||\BC. \SC||
\ENM10.23a/ वैश्यात् तु जायते व्रात्यात् सुधन्वाऽचार्य एव च |
\ENM10.23c/ कारुषश्च विजन्मा च मैत्रः सात्वत एव च ||\BC. \SC||
\ENM10.24a/ व्यभिचारेण वर्णानामवेद्यावेदनेन च |
\ENM10.24c/ स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ||\BC. \SC||
\ENM10.25a/ सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः |
\ENM10.25c/ अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ||\BC. \SC||
\ENM10.26a/ सूतो वैदेहकश्चैव चण्डालश्च नराधमः |
\ENM10.26c/ मागधः तथाऽयोगव एव च क्षत्रजातिश्च ? ? ||\BC. \SC||%[M.kShattR^ijAtishcha]
\ENM10.27a/ एते षट् सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु |
\ENM10.27c/ मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ||\BC. \SC||%[M.mAtR^ijAtyAH ]
\ENM10.28a/ यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते |
\ENM10.28c/ आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ||\BC. \SC||%[M.kramaH]
\ENM10.29a/ ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान् |
\ENM10.29c/ परस्परस्य दारेषु जनयन्ति विगर्हितान् ||\BC. \SC||
\ENM10.30a/ यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते |
\ENM10.30c/ तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ||\BC. \SC||
\ENM10.31a/ प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः |
\ENM10.31c/ हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ||\BC. \SC||
\ENM10.32a/ प्रसाधनोपचारज्ञमदासं दासजीवनम् | %[M.dAsyajIvinaM ]
\ENM10.32c/ सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ||\BC. \SC||%[M. sairandhraM ]
\ENM10.33a/ मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते |
\ENM10.33c/ नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ||\BC. \SC||
\ENM10.34a/ निषादो मार्गवं सूते दासं नौकर्मजीविनम् |
\ENM10.34c/ कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ||\BC. \SC||
\ENM10.35a/ मृतवस्त्रभृत्स्वनारीषु गर्हितान्नाशनासु च | %[M.anAryAShu]
\ENM10.35c/ भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः ||\BC. \SC||
\ENM10.36a/ कारावरो निषादात् तु चर्मकारः प्रसूयते | %[M.charmakAraM ]
\ENM10.36c/ वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ||\BC. \SC||
\ENM10.37a/ चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् |
\ENM10.37c/ आहिण्डिको निषादेन वैदेह्यामेव जायते ||\BC. \SC||
\ENM10.38a/ चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् |
\ENM10.38c/ पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ||\BC. \SC||%[M.pulkasyAM ]
\ENM10.39a/ निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसायिनम् |
\ENM10.39c/ श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ||\BC. \SC||
\ENM10.40a/ सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः |
\ENM10.40c/ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ||\BC. \SC||
\ENM10.41a/ स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः |
\ENM10.41c/ शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ||\BC. \SC||
\ENM10.42a/ तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे |
\ENM10.42c/ उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ||\BC. \SC||
\ENM10.43a/ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः |
\ENM10.43c/ वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ||\BC. \SC||%[M.brAhmaNAtikrameNa cha]
\ENM10.44a/ पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः | %[M.puNDrakAshchoDadraviDAH]
\ENM10.44c/ पारदापह्लवाश्चीनाः किराता दरदाः खशाः ||\BC. \SC||
\ENM10.45a/ मुखबाहूरुपद्जानां या लोके जातयो बहिः |
\ENM10.45c/ म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ||\BC. \SC||
\ENM10.46a/ ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः |
\ENM10.46c/ ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ||\BC. \SC||
\ENM10.47a/ सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् |
\ENM10.47c/ वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ||\BC. \SC||
\ENM10.48a/ मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च |
\ENM10.48c/ मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ||\BC. \SC||
\ENM10.49a/ क्षत्त्र्युग्रपुक्कसानां तु बिलौकोवधबन्धनम् |
\ENM10.49c/ धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ||\BC. \SC||
\ENM10.50a/ चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च |
\ENM10.50c/ वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ||\BC. \SC||
\ENM10.51a/ चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः |
\ENM10.51c/ अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ||\BC. \SC||
\ENM10.52a/ वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् |
\ENM10.52c/ कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ||\BC. \SC||
\ENM10.53a/ न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् |
\ENM10.53c/ व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ||\BC. \SC||
\ENM10.54a/ अन्नमेषां पराधीनं देयं स्याद् भिन्नभाजने |
\ENM10.54c/ रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ||\BC. \SC||
\ENM10.55a/ दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः |
\ENM10.55c/ अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ||\BC. \SC||
\ENM10.56a/ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया |
\ENM10.56c/ वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ||\BC. \SC||
\ENM10.57a/ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् |
\ENM10.57c/ आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ||\BC. \SC||
\ENM10.58a/ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता |
\ENM10.58c/ पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ||\BC. \SC||
\ENM10.59a/ पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा |
\ENM10.59c/ न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ||\BC. \SC||
\ENM10.60a/ कुले मुख्येऽपि जातस्य यस्य स्याद् योनिसङ्करः |
\ENM10.60c/ संश्रयत्येव तत्शीलं नरोऽल्पमपि वा बहु ||\BC. \SC||
\ENM10.61a/ यत्र त्वेते परिध्वंसाज् जायन्ते वर्णदूषकाः |
\ENM10.61c/ राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रमेव विनश्यति ||\BC. \SC||%[M.rAShTriyaiH ]
\ENM10.62a/ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः |
\ENM10.62c/ स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ||\BC. \SC||%[M.strIbAlAbhyavapattau cha ]
\ENM10.63a/ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः |
\ENM10.63c/ एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन् मनुः ||\BC. \SC||
\ENM10.64a/ शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते |
\ENM10.64c/ अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद् युगात् ||\BC. \SC||
\ENM10.65a/ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् |
\ENM10.65c/ क्षत्रियाज् जातमेवं तु विद्याद् वैश्यात् तथैव च ||\BC. \SC||
\ENM10.66a/ अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया |
\ENM10.66c/ ब्राह्मण्यामप्यनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत्||\BC. \SC||%[M.kasya chid.h bhavet.h ]
\ENM10.67a/ जातो नार्यामनार्यायामार्यादार्यो भवेद् गुणैः |
\ENM10.67c/ जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ||\BC. \SC||
\ENM10.68a/ तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः |
\ENM10.68c/ वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ||\BC. \SC||%[M.janmataH ]
\ENM10.69a/ सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा |
\ENM10.69c/ तथाऽर्याज् जात आर्यायां सर्वं संस्कारमर्हति ||\BC. \SC||
\ENM10.70a/ बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः |
\ENM10.70c/ बीजक्षेत्रे तथैवान्ये तत्रैयं तु व्यवस्थितिः ||\BC. \SC||
\ENM10.71a/ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति |
\ENM10.71c/ अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ||\BC. \SC||
\ENM10.72a/ यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् |
\ENM10.72c/ पूजिताश्च प्रशस्ताश्च तस्माद् बीजं प्रशस्यते ||\BC. \SC||%[M.vishiShyate##) ##]
\ENM10.73a/ अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम् |
\ENM10.73c/ संप्रधार्याब्रवीद् धाता न समौ नासमाविति ||\BC. \SC||
\ENM10.74a/ ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः |
\ENM10.74c/ ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् ||\BC. \SC||
\ENM10.75a/ अध्यापनमध्ययनं यजनं याजनं तथा |
\ENM10.75c/ दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ||\BC. \SC||
\ENM10.76a/ षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका |
\ENM10.76c/ याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ||\BC. \SC||
\ENM10.77a/ त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति |
\ENM10.77c/ अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ||\BC. \SC||
\ENM10.78a/ वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः |
\ENM10.78c/ न तौ प्रति हि तान् धर्मान् मनुराह प्रजापतिः ||\BC. \SC||%[M. prati hitAn.h dharmAn.h ]
\ENM10.79a/ शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः |
\ENM10.79c/ आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ||\BC. \SC||
\ENM10.80a/ वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् |
\ENM10.80c/ वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ||\BC. \SC||
\ENM10.81a/ अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा |
\ENM10.81c/ जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ||\BC. \SC||
\ENM10.82a/ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद् भवेत् |
\ENM10.82c/ कृषिगोरक्षमास्थाय जीवेद् वैश्यस्य जीविकाम् ||\BC. \SC||
\ENM10.83a/ वैश्यवृत्त्याऽपि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा |
\ENM10.83c/ हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ||\BC. \SC||
\ENM10.84a/ कृषिं साधुइति मन्यन्ते सा वृत्तिः सद्विगर्हिताः |
\ENM10.84c/ भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ||\BC. \SC||
\ENM10.85a/ इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् |
\ENM10.85c/ विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ||\BC. \SC||
\ENM10.86a/ सर्वान् रसानपोहेत कृतान्नं च तिलैः सह |
\ENM10.86c/ अश्मनो लवणं चैव पशवो ये च मानुषाः ||\BC. \SC||
\ENM10.87a/ सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च |
\ENM10.87c/ अपि चेत् स्युररक्तानि फलमूले तथौषधीः ||\BC. \SC||
\ENM10.88a/ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः |
\ENM10.88c/ क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ||\BC. \SC||
\ENM10.89a/ आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च |
\ENM10.89c/ मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ||\BC. \SC||%[M.nIlIM ]
\ENM10.90a/ काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः |
\ENM10.90c/ विक्रीणीत तिलांशूद्रान् धर्मार्थमचिरस्थितान् ||\BC. \SC||%[M.tilA.nshuddhAn]
\ENM10.91a/ भोजनाभ्यञ्जनाद् दानाद् यदन्यत् कुरुते तिलैः |
\ENM10.91c/ कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ||\BC. \SC||
\ENM10.92a/ सद्यः पतति मांसेन लाक्षया लवणेन च |
\ENM10.92c/ त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ||\BC. \SC||
\ENM10.93a/ इतरेषां तु पण्यानां विक्रयादिह कामतः |
\ENM10.93c/ ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ||\BC. \SC||
\ENM10.94a/ रसा रसैर्निमातव्या न त्वेव लवणं रसैः |
\ENM10.94c/ कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ||\BC. \SC||
\ENM10.95a/ जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः |
\ENM10.95c/ न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ||\BC. \SC||
\ENM10.96a/ यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः |
\ENM10.96c/ तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ||\BC. \SC||
\ENM10.97a/ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः | %[M.viguNaH paradharmAt.h svadhiShThitAt.h ]
\ENM10.97c/ परधर्मेण जीवन् हि सद्यः पतति जातितः ||\BC. \SC||
\ENM10.98a/ वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् |
\ENM10.98c/ अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ||\BC. \SC||
\ENM10.99a/ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् |
\ENM10.99c/ पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ||\BC. \SC||
\ENM10.100a/ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः |
\ENM10.100c/ तानि कारुककर्माणि शिल्पानि विविधानि च ||\BC. \SC||
\ENM10.101a/ वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः |
\ENM10.101c/ अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ||\BC. \SC||
\ENM10.102a/ सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस्त्वनयं गतः |
\ENM10.102c/ पवित्रं दुष्यतीत्येतद् धर्मतो नोपपद्यते ||\BC. \SC||
\ENM10.103a/ नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् |
\ENM10.103c/ दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ||\BC. \SC||
\ENM10.104a/ जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः |
\ENM10.104c/ आकाशमिव पङ्केन न स पापेन लिप्यते ||\BC. \SC||
\ENM10.105a/ अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः |
\ENM10.105c/ न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ||\BC. \SC||
\ENM10.106a/ श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः |
\ENM10.106c/ प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ||\BC. \SC||
\ENM10.107a/ भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने |
\ENM10.107c/ बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ||\BC. \SC||
\ENM10.108a/ क्षुधार्तश्चात्तुमभ्यागाद् विश्वामित्रः श्वजाघनीम् |
\ENM10.108c/ चण्डालहस्तादादाय धर्माधर्मविचक्षणः ||\BC. \SC||
\ENM10.109a/ प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनादपि |
\ENM10.109c/ प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ||\BC. \SC||
\ENM10.110a/ याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् |
\ENM10.110c/ प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ||\BC. \SC||
\ENM10.111a/ जपहोमैरपेत्येनो याजनाध्यापनैः कृतम् |
\ENM10.111c/ प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ||\BC. \SC||
\ENM10.112a/ शिलौञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः |
\ENM10.112c/ प्रतिग्रहात् शिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ||\BC. \SC||
\ENM10.113a/ सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः | %[M.dhanaM vA ]
\ENM10.113c/ याच्यः स्यात् स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ||\BC. \SC||
\ENM10.114a/ अकृतं च कृतात् क्षेत्राद् गौरजाविकमेव च |
\ENM10.114c/ हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ||\BC. \SC||
\ENM10.115a/ सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः |
\ENM10.115c/ प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ||\BC. \SC||
\ENM10.116a/ विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः |
\ENM10.116c/ धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ||\BC. \SC||
\ENM10.117a/ ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् |
\ENM10.117c/ कामं तु खलु धर्मार्थं दद्यात् पापीयसेऽल्पिकाम् ||\BC. \SC||
\ENM10.118a/ चतुर्थमाददानोऽपि क्षत्रियो भागमापदि |
\ENM10.118c/ प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ||\BC. \SC||
\ENM10.119a/ स्वधर्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः |
\ENM10.119c/ शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद् बलिम् ||\BC. \SC||%[M.vaishyAd.h rakShitvA ]
\ENM10.120a/ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् |
\ENM10.120c/ कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ||\BC. \SC||
\ENM10.121a/ शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद् यदि | %[M.ArAdhayediti ]
\ENM10.121c/ धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ||\BC. \SC||
\ENM10.122a/ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत् तु सः |
\ENM10.122c/ जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ||\BC. \SC||
\ENM10.123a/ विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते |
\ENM10.123c/ यदतोऽन्यद् हि कुरुते तद् भवत्यस्य निष्फलम् ||\BC. \SC||
\ENM10.124a/ प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः |
\ENM10.124c/ शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ||\BC. \SC||
\ENM10.125a/ उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च |
\ENM10.125c/ पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ||\BC. \SC||
\ENM10.126a/ न शूद्रे पातकं किं चिन्न च संस्कारमर्हति |
\ENM10.126c/ नास्याधिकारो धर्मेऽस्ति न धर्मात् प्रतिषेधनम् ||\BC. \SC||
\ENM10.127a/ धर्मैप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः | %[M.satAM dharmaM ]
\ENM10.127c/ मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ||\BC. \SC||%[M.mantravarjaM ]
\ENM10.128a/ यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः |
\ENM10.128c/ तथा तथैमं चामुं च लोकं प्राप्नोत्यनिन्दितः ||\BC. \SC||
\ENM10.129a/ शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः |
\ENM10.129c/ शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ||\BC. \SC||
\ENM10.130a/ एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः |
\ENM10.130c/ यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ||\BC. \SC||
\ENM10.131a/ एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः |
\ENM10.131c/ अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ||\BC. \SC||
\separate
अध्याय ११
\ENM11.01a/ सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् |
\ENM11.01c/ गुर्वर्थं पितृमात्र्यर्थं स्वाध्यायार्थ्युपतापिनः ||\BC. \SC||
\ENM11.02a/ न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् |
\ENM11.02c/ निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ||\BC. \SC||
\ENM11.03a/ एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् |
\ENM11.03c/ इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ||\BC. \SC||
\ENM11.04a/ सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् |
\ENM11.04c/ ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ||\BC. \SC||
\ENM11.05a/ कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति |
\ENM11.05c/ रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः ||\BC. \SC||
\ENM11.06a/ धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् | %[notin.h M]
\ENM11.06c/ वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ||\BC. \SC||%[notin.h M]
\ENM11.07a[०६ंअ]/ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये |
\ENM11.07c[०६ंच्]/ अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ||\BC. \SC||
\ENM11.08a[०७ंअ]/ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः |
\ENM11.08c[०७ंच्]/ स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ||\BC. \SC||
\ENM11.09a[०८ंअ]/ शक्तः परजने दाता स्वजने दुःखजीविनि |
\ENM11.09c[०८ंच्]/ मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ||\BC. \SC||
\ENM11.10a[०९ंअ]/ भृत्यानामुपरोधेन यत् करोत्यौर्ध्वदेहिकम् |
\ENM11.10c[०९ंच्]/ तद् भवत्यसुखौदर्कं जीवतश्च मृतस्य च ||\BC. \SC||
\ENM11.11a[१०ंअ]/ यज्ञश्चेत् प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः |
\ENM11.11c[१०ंच्]/ ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ||\BC. \SC||
\ENM11.12a[११ंअ]/ यो वैश्यः स्याद् बहुपशुर्हीनक्रतुरसोमपः |
\ENM11.12c[११ंच्]/ कुटुम्बात् तस्य तद् द्रव्यमाहरेद् यज्ञसिद्धये ||\BC. \SC||
\ENM11.13a[१२ंअ]/ आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः |
\ENM11.13c[१२ंच्]/ न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ||\BC. \SC||
\ENM11.14a[१३ंअ]/ योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः | %[k:ayaGYash]
\ENM11.14c[१३ंच्]/ तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ||\BC. \SC||
\ENM11.15a[१४ंअ]/ आदाननित्याच्चादातुराहरेदप्रयच्छतः |
\ENM11.15c[१४ंच्]/ तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ||\BC. \SC||
\ENM11.16a[१५ंअ]/ तथैव सप्तमे भक्ते भक्तानि षडनश्नता |
\ENM11.16c[१५ंच्]/ अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ||\BC. \SC||
\ENM11.17a[१६ंअ]/ खलात् क्षेत्रादगाराद् वा यतो वाऽप्युपलभ्यते |
\ENM11.17c[१६ंच्]/ आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ||\BC. \SC||
\ENM11.18a[१७ंअ]/ ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन |
\ENM11.18c[१७ंच्]/ दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति ||\BC. \SC||
\ENM11.19a[१८ंअ]/ योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति |
\ENM11.19c[१८ंच्]/ स कृत्वा प्लवमात्मानं संतारयति तावुभौ ||\BC. \SC||
\ENM11.20a[१९ंअ]/ यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः |
\ENM11.20c[१९ंच्]/ अयज्वनां तु यद् वित्तमासुरस्वं तदुच्यते ||\BC. \SC||
\ENM11.21a[२०ंअ]/ न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः |
\ENM11.21c[२०ंच्]/ क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ||\BC. \SC||
\ENM11.22a[२१ंअ]/ तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः |
\ENM11.22c[२१ंच्]/ श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ||\BC. \SC||
\ENM11.23a[२२ंअ]/ कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समन्ततः |
\ENM11.23c[२२ंच्]/ राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ||\BC. \SC||
\ENM11.24a[२३ंअ]/ न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् |
\ENM11.24c[२३ंच्]/ यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ||\BC. \SC||
\ENM11.25a[२४ंअ]/ यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति |
\ENM11.25c[२४ंच्]/ स याति भासतां विप्रः काकतां वा शतं समाः ||\BC. \SC||
\ENM11.26a[२५ंअ]/ देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः |
\ENM11.26c[२५ंच्]/ स पापात्मा परे लोके गृध्रौच्छिष्टेन जीवति ||\BC. \SC||
\ENM11.27a[२६ंअ]/ इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये |
\ENM11.27c[२६ंच्]/ कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ||\BC. \SC||
\ENM11.28a[२७ंअ]/ आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः |
\ENM11.28c[२७ंच्]/ स नाप्नोति फलं तस्य परत्रेति विचारितम् ||\BC. \SC||
\ENM11.29a[२८ंअ]/ विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः |
\ENM11.29c[२८ंच्]/ आपत्सु मरणाद् भीतैर्विधेः प्रतिनिधिः कृतः ||\BC. \SC||
\ENM11.30a[२९ंअ]/ प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते |
\ENM11.30c[२९ंच्]/ न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ||\BC. \SC||
\ENM11.31a[३०ंअ]/ न ब्राह्मणो वेदयेत किंचिद् राजनि धर्मवित् |
\ENM11.31c[३०ंच्]/ स्ववीर्येणैव तांशिष्यान् मानवानपकारिणः ||\BC. \SC||
\ENM11.32a[३१ंअ]/ स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम् |
\ENM11.32c[३१ंच्]/ तस्मात् स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः ||\BC. \SC||
\ENM11.33a[३२ंअ]/ श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् |
\ENM11.33c[३२ंच्]/ वाक्षस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः ||\BC. \SC||
\ENM11.34a[३३ंअ]/ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः |
\ENM11.34c[३३ंच्]/ धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ||\BC. \SC||
\ENM11.35a[३४ंअ]/ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते |
\ENM11.35c[३४ंच्]/ तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ||\BC. \SC||
\ENM11.36a[३५ंअ]/ न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः |
\ENM11.36c[३५ंच्]/ होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ||\BC. \SC||
\ENM11.37a[३६ंअ]/ नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् | %[M.juhvataH ]
\ENM11.37c[३६ंच्]/ तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ||\BC. \SC||
\ENM11.38a[३७ंअ]/ प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दक्षिणाम् |
\ENM11.38c[३७ंच्]/ अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ||\BC. \SC||
\ENM11.39a[३८ंअ]/ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः |
\ENM11.39c[३८ंच्]/ न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन ||\BC. \SC||
\ENM11.40a[३९ंअ]/ इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् |
\ENM11.40c[३९ंच्]/ हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ||\BC. \SC||
\ENM11.41a[४०ंअ]/ अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः |
\ENM11.41c[४०ंच्]/ चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ||\BC. \SC||
\ENM11.42a[४१ंअ]/ ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते |
\ENM11.42c[४१ंच्]/ ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ||\BC. \SC||
\ENM11.43a[४२ंअ]/ तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् |
\ENM11.43c[४२ंच्]/ पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ||\BC. \SC||
\ENM11.44a[४३ंअ]/ अकुर्वन् विहितं कर्म निन्दितं च समाचरन् |
\ENM11.44c[४३ंच्]/ प्रसक्तश्चैन्द्रियार्थेषु प्रायश्चित्तीयते नरः ||\BC. \SC||%[M.prasajjanindriyArtheShu]
\ENM11.45a[४४ंअ]/ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः |
\ENM11.45c[४४ंच्]/ कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ||\BC. \SC||
\ENM11.46a[४५ंअ]/ अकामतः कृतं पापं वेदाभ्यासेन शुध्यति |
\ENM11.46c[४५ंच्]/ कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ||\BC. \SC||
\ENM11.47a[४६ंअ]/ प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा |
\ENM11.47c[४६ंच्]/ न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते द्विजः ||\BC. \SC||
\ENM11.48a[४७ंअ]/ इह दुश्चरितैः के चित् के चित् पूर्वकृतैस्तथा |
\ENM11.48c[४७ंच्]/ प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ||\BC. \SC||
\ENM11.49a[४८ंअ]/ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् |
\ENM11.49c[४८ंच्]/ ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ||\BC. \SC||
\ENM11.50a[४९ंअ]/ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् |
\ENM11.50c[४९ंच्]/ धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ||\BC. \SC||
\ENM11.51a[५०ंअ]/ अन्नहर्ताऽमयावित्वं मौक्यं वागपहारकः |
\ENM11.51c[५०ंच्]/ वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ||\BC. \SC||
\ENM11.52a[५१ंअ]/ एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः |
\ENM11.52c[५१ंच्]/ जडमूकान्धबधिरा विकृताकृतयस्तथा ||\BC. \SC||
\ENM11.53a[५२ंअ]/ चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये |
\ENM11.53c[५२ंच्]/ निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतेनसः ||\BC. \SC||
\ENM11.54a[५३ंअ]/ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः |
\ENM11.54c[५३ंच्]/ महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ||\BC. \SC||
\ENM11.55a[५४ंअ]/ अनृतं च समुत्कर्षे राजगामि च पैशुनम् |
\ENM11.55c[५४ंच्]/ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ||\BC. \SC||
\ENM11.56a[५५ंअ]/ ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः |
\ENM11.56c[५५ंच्]/ गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ||\BC. \SC||
\ENM11.57a[५६ंअ]/ निक्षेपस्यापहरणं नराश्वरजतस्य च |
\ENM11.57c[५६ंच्]/ भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ||\BC. \SC||
\ENM11.58a[५७ंअ]/ रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च |
\ENM11.58c[५७ंच्]/ सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ||\BC. \SC||
\ENM11.59a[५८ंअ]/ गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः |
\ENM11.59c[५८ंच्]/ गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ||\BC. \SC||
\ENM11.60a[५९ंअ]/ परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च |
\ENM11.60c[५९ंच्]/ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ||\BC. \SC||
\ENM11.61a[६०ंअ]/ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् |
\ENM11.61c[६०ंच्]/ तडागारामदाराणामपत्यस्य च विक्रयः ||\BC. \SC||
\ENM11.62a[६१ंअ]/ व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च |
\ENM11.62c[६१ंच्]/ भृत्या चाध्ययनादानमपण्यानां च विक्रयः ||\BC. \SC||%[M.bhR^itAchchAdhyayanAdAnam]
\ENM11.63a[६२ंअ]/ सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् |
\ENM11.63c[६२ंच्]/ हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ||\BC. \SC||
\ENM11.64a[६३ंअ]/ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् |
\ENM11.64c[६३ंच्]/ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ||\BC. \SC||
\ENM11.65a[६४ंअ]/ अनाहिताग्निता स्तेयं ऋणानामनपक्रिया |
\ENM11.65c[६४ंच्]/ असत्शास्त्राधिगमनं कौशीलव्यस्य च क्रिया ||\BC. \SC||
\ENM11.66a[६५ंअ]/ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् |
\ENM11.66c[६५ंच्]/ स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ||\BC. \SC||
\ENM11.67a[६६ंअ]/ ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः | %[M.rujaHkR^ityaM]
\ENM11.67c[६६ंच्]/ जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ||\BC. \SC||
\ENM11.68a[६७ंअ]/ खराश्वोष्ट्रमृगैभानामजाविकवधस्तथा |
\ENM11.68c[६७ंच्]/ सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ||\BC. \SC||
\ENM11.69a[६८ंअ]/ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् |
\ENM11.69c[६८ंच्]/ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ||\BC. \SC||
\ENM11.70a[६९ंअ]/ कृमिकीटवयोहत्या मद्यानुगतभोजनम् |
\ENM11.70c[६९ंच्]/ फलेधः.कुसुमस्तेयमधैर्यं च मलावहम् ||\BC. \SC||
\ENM11.71a[७०ंअ]/ एतान्येनांसि सर्वाणि यथोक्तानि पृथक् पृथक् |
\ENM11.71c[७०ंच्]/ यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यग् निबोधत ||\BC. \SC||
\ENM11.72a[७१ंअ]/ ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् |
\ENM11.72c[७१ंच्]/ भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ||\BC. \SC||
\ENM11.73a[७२ंअ]/ लक्ष्यं शस्त्रभृतां वा स्याद् विदुषामिच्छयाऽत्मनः |
\ENM11.73c[७२ंच्]/ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्षिराः ||\BC. \SC||
\ENM11.74a[७३ंअ]/ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा |
\ENM11.74c[७३ंच्]/ अभिजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ||\BC. \SC||
\ENM11.75a[७४ंअ]/ जपन् वाऽन्यतमं वेदं योजनानां शतं व्रजेत् |
\ENM11.75c[७४ंच्]/ ब्रह्महत्यापनोदाय मितभुज्ञियतेन्द्रियः ||\BC. \SC||
\ENM11.76a[७५ंअ]/ सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् |
\ENM11.76c[७५ंच्]/ धनं हि जीवनायालं गृहं वा सपरिच्छदम् ||\BC. \SC||
\ENM11.77a[७६ंअ]/ हविष्यभुग् वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् |
\ENM11.77c[७६ंच्]/ जपेद् वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ||\BC. \SC||
\ENM11.78a[७७ंअ]/ कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा |
\ENM11.78c[७७ंच्]/ आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ||\BC. \SC||
\ENM11.79a[७८ंअ]/ ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् | %[M.sa.nyak.h prANAn]
\ENM11.79c[७८ंच्]/ मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ||\BC. \SC||
\ENM11.80a[७९ंअ]/ त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा | %[M.tryavaraM]
\ENM11.80c[७९ंच्]/ विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ||\BC. \SC||%[M.prANAlAbhe.api muchyate ]
\ENM11.81a[८०ंअ]/ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः |
\ENM11.81c[८०ंच्]/ समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ||\BC. \SC||
\ENM11.82a[८१ंअ]/ शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे |
\ENM11.82c[८१ंच्]/ स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ||\BC. \SC||
\ENM11.83a[८२ंअ]/ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते |
\ENM11.83c[८२ंच्]/ तस्मात् समागमे तेषामेनो विख्याप्य शुध्यति ||\BC. \SC||
\ENM11.84a[८३ंअ]/ ब्रह्मणः संभवेनैव देवानामपि दैवतम् |
\ENM11.84c[८३ंच्]/ प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ||\BC. \SC||
\ENM11.85a[८४ंअ]/ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् |
\ENM11.85c[८४ंच्]/ सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ||\BC. \SC||%[M.pavitraM ]
\ENM11.86a[८५ंअ]/ अतोऽन्यतममास्थाय विधिं विप्रः समाहितः |
\ENM11.86c[८५ंच्]/ ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ||\BC. \SC||
\ENM11.87a[८६ंअ]/ हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् |
\ENM11.87c[८६ंच्]/ राजन्यवैश्यौ चैजानावात्रेयीमेव च स्त्रियम् ||\BC. \SC||
\ENM11.88a[८७ंअ]/ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा | %[M.pratirabhya ]
\ENM11.88c[८७ंच्]/ अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृत्वधम् ||\BC. \SC||%[M.nikShepaM ]
\ENM11.89a[८८ंअ]/ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् |
\ENM11.89c[८८ंच्]/ कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ||\BC. \SC||
\ENM11.90a[८९ंअ]/ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् |
\ENM11.90c[८९ंच्]/ तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ||\BC. \SC||
\ENM11.91a[९०ंअ]/ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा |
\ENM11.91c[९०ंच्]/ पयो घृतं वाऽ मरणाद् गोशकृद्रसमेव वा ||\BC. \SC||
\ENM11.92a[९१ंअ]/ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत्निशि |
\ENM11.92c[९१ंच्]/ सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ||\BC. \SC||
\ENM11.93a[९२ंअ]/ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते |
\ENM11.93c[९२ंच्]/ तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ||\BC. \SC||
\ENM11.94a[९३ंअ]/ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा |
\ENM11.94c[९३ंच्]/ यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ||\BC. \SC||
\ENM11.95a[९४ंअ]/ यक्षरक्षः.पिशाचान्नं मद्यं मांसं सुरासवम् |
\ENM11.95c[९४ंच्]/ तद् ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ||\BC. \SC||
\ENM11.96a[९५ंअ]/ अमेध्ये वा पतेन् मत्तो वैदिकं वाऽप्युदाहरेत् |
\ENM11.96c[९५ंच्]/ अकार्यमन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ||\BC. \SC||
\ENM11.97a[९६ंअ]/ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् |
\ENM11.97c[९६ंच्]/ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ||\BC. \SC||
\ENM11.98a[९७ंअ]/ एषा विचित्राभिहिता सुरापानस्य निष्कृतिः |
\ENM11.98c[९७ंच्]/ अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ||\BC. \SC||
\ENM11.99a[९८ंअ]/ सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु |
\ENM11.99c[९८ंच्]/ स्वकर्म ख्यापयन् ब्रूयात्मां भवाननुशास्त्विति ||\BC. \SC||
\ENM11.100a[९९ंअ]/ गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् |
\ENM11.100c[९९ंच्]/ वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ||\BC. \SC||
\ENM11.101a[१००ंअ]/ तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् |
\ENM11.101c[१००ंच्]/ चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महनो व्रतम् ||\BC. \SC||
\ENM11.102a[१०१ंअ]/ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः |
\ENM11.102c[१०१ंच्]/ गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ||\BC. \SC||
\ENM11.103a[१०२ंअ]/ गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये | %[M.talpe svapyAd.h ]
\ENM11.103c[१०२ंच्]/ सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ||\BC. \SC||%[M.vA.ashliShyen.h ]
\ENM11.104a[१०३ंअ]/ स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ |
\ENM11.104c[१०३ंच्]/ नैरृतीं दिशमातिष्ठेदा निपातादजिह्मगः ||\BC. \SC||
\ENM11.105a[१०४ंअ]/ खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने |
\ENM11.105c[१०४ंच्]/ प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ||\BC. \SC||
\ENM11.106a[१०५ंअ]/ चान्द्रायणं वा त्रीन् मासानभ्यस्येन्नियतैन्द्रियः |
\ENM11.106c[१०५ंच्]/ हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ||\BC. \SC||
\ENM11.107a[१०६ंअ]/ एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् |
\ENM11.107c[१०६ंच्]/ उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः ||\BC. \SC||
\ENM11.108a[१०७ंअ]/ उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् |
\ENM11.108c[१०७ंच्]/ कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ||\BC. \SC||
\ENM11.109a[१०८ंअ]/ चतुर्थकालमश्नीयादक्षारलवणं मितम् |
\ENM11.109c[१०८ंच्]/ गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ||\BC. \SC||
\ENM11.110a[१०९ंअ]/ दिवाऽनुगच्छेद् गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् |
\ENM11.110c[१०९ंच्]/ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ||\BC. \SC||%[M.vIrAsano]
\ENM11.111a[११०ंअ]/ तिष्ठन्तीष्वनुतिष्ठेत् तु व्रजन्तीष्वप्यनुव्रजेत् |
\ENM11.111c[११०ंच्]/ आसीनासु तथाऽसीनो नियतो वीतमत्सरः ||\BC. \SC||
\ENM11.112a[१११ंअ]/ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः |
\ENM11.112c[१११ंच्]/ पतितां पङ्कलग्नां वा सर्वौपायैर् विमोचयेत् ||\BC. \SC||%[k:sarvaprANair]
\ENM11.113a[११२ंअ]/ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् |
\ENM11.113c[११२ंच्]/ न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ||\BC. \SC||
\ENM11.114a[११३ंअ]/ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले |
\ENM11.114c[११३ंच्]/ भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ||\BC. \SC||
\ENM11.115a[११४ंअ]/ अनेन विधिना यस्तु गोघ्नो गामनुगच्छति |
\ENM11.115c[११४ंच्]/ स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ||\BC. \SC||
\ENM11.116a[११५ंअ]/ वृषभैकादशा गाश्च दद्यात् सुचरितव्रतः |
\ENM11.116c[११५ंच्]/ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ||\BC. \SC||
\ENM11.117a[११६ंअ]/ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः |
\ENM11.117c[११६ंच्]/ अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा ||\BC. \SC||%[M.avakIrNivarjaM ]
\ENM11.118a[११७ंअ]/ अवकीर्णी तु काणेन गर्दभेन चतुष्पथे |
\ENM11.118c[११७ंच्]/ पाकयज्ञविधानेन यजेत निरृतिं निशि ||\BC. \SC||
\ENM11.119a[११८ंअ]/ हुत्वाऽग्नौ विधिवद् होमानन्ततश्च समित्यृचा |
\ENM11.119c[११८ंच्]/ वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाऽहुतीः ||\BC. \SC||
\ENM11.120a[११९ंअ]/ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः |
\ENM11.120c[११९ंच्]/ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ||\BC. \SC||
\ENM11.121a[१२०ंअ]/ मारुतं पुरुहूतं च गुरुं पावकमेव च |
\ENM11.121c[१२०ंच्]/ चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ||\BC. \SC||
\ENM11.122a[१२१ंअ]/ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् |
\ENM11.122c[१२१ंच्]/ सप्तागारांश्चरेद् भैक्षं स्वकर्म परिकीर्तयन् ||\BC. \SC||
\ENM11.123a[१२२ंअ]/ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् |
\ENM11.123c[१२२ंच्]/ उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति ||\BC. \SC||%[M.triShavaNaM abdena ]
\ENM11.124a[१२३ंअ]/ जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया |
\ENM11.124c[१२३ंच्]/ चरेत् सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ||\BC. \SC||
\ENM11.125a[१२४ंअ]/ सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् | %[M.aindavaH]
\ENM11.125c[१२४ंच्]/ मलिनीकरणीयेषु तप्तः स्याद् यावकैस्त्र्यहम् ||\BC. \SC||
\ENM11.126a[१२५ंअ]/ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः |
\ENM11.126c[१२५ंच्]/ वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ||\BC. \SC||
\ENM11.127a[१२६ंअ]/ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः |
\ENM11.127c[१२६ंच्]/ वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ||\BC. \SC||
\ENM11.128a[१२७ंअ]/ त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महनो व्रतम् |
\ENM11.128c[१२७ंच्]/ वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ||\BC. \SC||
\ENM11.129a[१२८ंअ]/ एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः |
\ENM11.129c[१२८ंच्]/ प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ||\BC. \SC||%[M.dadyAd.h vaikashataM gavAm]
\ENM11.130a[१२९ंअ]/ एतदेव व्रतं कृत्स्नं षण्मासांशूद्रहा चरेत् ) |
\ENM11.130c[१२९ंच्]/ वृषभेकादशा वाऽपि दद्याद् विप्राय गाः सिताः ||\BC. \SC||
\ENM11.131a[१३०ंअ]/ मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च |
\ENM11.131c[१३०ंच्]/ श्वगोधौलूककाकांश्च शूद्रहत्याव्रतं चरेत् ||\BC. \SC||
\ENM11.132a[१३१ंअ]/ पयः पिबेत् त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् |
\ENM11.132c[१३१ंच्]/ उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाऽब्.दैवतं जपेत् ||\BC. \SC||
\ENM11.133a[१३२ंअ]/ अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः |
\ENM11.133c[१३२ंच्]/ पलालभारकं षण्ढे सैसकं चैकमाषकम् ||\BC. \SC||
\ENM11.134a[१३३ंअ]/ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ |
\ENM11.134c[१३३ंच्]/ शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ||\BC. \SC||
\ENM11.135a[१३४ंअ]/ हत्वा हंसं बलाकां च बकं बर्हिणमेव च |
\ENM11.135c[१३४ंच्]/ वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ||\BC. \SC||
\ENM11.136a[१३५ंअ]/ वासो दद्याद् हयं हत्वा पञ्च नीलान् वृषान् गजम् |
\ENM11.136c[१३५ंच्]/ अजमेषावनड्वाहं खरं हत्वैकहायनम् ||\BC. \SC||
\ENM11.137a[१३६ंअ]/ क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् |
\ENM11.137c[१३६ंच्]/ अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ||\BC. \SC||
\ENM11.138a[१३७ंअ]/ जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये |
\ENM11.138c[१३७ंच्]/ चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ||\BC. \SC||
\ENM11.139a[१३८ंअ]/ दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् |
\ENM11.139c[१३८ंच्]/ एकैकशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये ||\BC. \SC||
\ENM11.140a[१३९ंअ]/ अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे |
\ENM11.140c[१३९ंच्]/ पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ||\BC. \SC||
\ENM11.141a[१४०ंअ]/ किं चिदेव तु विप्राय दद्यादस्थिमतां वधे |
\ENM11.141c[१४०ंच्]/ अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ||\BC. \SC||
\ENM11.142a[१४१ंअ]/ फलदानां तु वृक्षाणां छेदने जप्यमृच्शतम् |
\ENM11.142c[१४१ंच्]/ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ||\BC. \SC||
\ENM11.143a[१४२ंअ]/ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः |
\ENM11.143c[१४२ंच्]/ फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ||\BC. \SC||
\ENM11.144a[१४३ंअ]/ कृष्तजानामोषधीनां जातानां च स्वयं वने |
\ENM11.144c[१४३ंच्]/ वृथालम्भेऽनुगच्छेद् गां दिनमेकं पयोव्रतः ||\BC. \SC||
\ENM11.145a[१४४ंअ]/ एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् |
\ENM11.145c[१४४ंच्]/ ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ||\BC. \SC||
\ENM11.146a[१४५ंअ]/ अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति |
\ENM11.146c[१४५ंच्]/ मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ||\BC. \SC||
\ENM11.147a[१४६ंअ]/ अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा |
\ENM11.147c[१४६ंच्]/ पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ||\BC. \SC||
\ENM11.148a[१४७ंअ]/ स्पृष्ट्वा दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च |
\ENM11.148c[१४७ंच्]/ शूद्रोच्छिष्टाश्च पीत्वाऽपः कुशवारि पिबेत् त्र्यहम् ||\BC. \SC||
\ENM11.149a[१४८ंअ]/ ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः |
\ENM11.149c[१४८ंच्]/ प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ||\BC. \SC||
\ENM11.150a[१४९ंअ]/ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च |
\ENM11.150c[१४९ंच्]/ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ||\BC. \SC||
\ENM11.151a[१५०ंअ]/ वपनं मेखला दण्डो भैक्षचर्या व्रतानि च | %[M.bhaikShyacharyA ]
\ENM11.151c[१५०ंच्]/ निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ||\BC. \SC||
\ENM11.152a[१५१ंअ]/ अभोज्यानां तु भुक्त्वाऽन्नं स्त्रीशूद्रोच्छिष्टमेव च |
\ENM11.152[१५१ंच्]/ जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ||\BC. \SC||
\ENM11.153a[१५२ंअ]/ शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः |
\ENM11.153c[१५२ंच्]/ तावद् भवत्यप्रयतो यावत् तन्न व्रजत्यधः ||\BC. \SC||
\ENM11.154a[१५३ंअ]/ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः |
\ENM11.154c[१५३ंच्]/ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ||\BC. \SC||
\ENM11.155a[१५४ंअ]/ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च |
\ENM11.155c[१५४ंच्]/ अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ||\BC. \SC||
\ENM11.156a[१५५ंअ]/ क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे |
\ENM11.156c[१५५ंच्]/ नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ||\BC. \SC||
\ENM11.157a[१५६ंअ]/ मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः |
\ENM11.157c[१५६ंच्]/ स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ||\BC. \SC||
\ENM11.158a[१५७ंअ]/ ब्रह्मचारी तु योऽश्नीयान् मधु मांसं कथं चन | %[M.vratachArI tu ]
\ENM11.158c[१५७ंच्]/ स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ||\BC. \SC||
\ENM11.159a[१५८ंअ]/ बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च |
\ENM11.159c[१५८ंच्]/ केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ||\BC. \SC||
\ENM11.160a[१५९ंअ]/ अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता |
\ENM11.160c[१५९ंच्]/ अज्ञानभुक्तं तूत्तार्यं शोध्यं वाऽप्याशु शोधनैः ||\BC. \SC||
\ENM11.161a[१६०ंअ]/ एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः |
\ENM11.161c[१६०ंच्]/ स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ||\BC. \SC||
\ENM11.162a[१६१ंअ]/ धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः |
\ENM11.162c[१६१ंच्]/ स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ||\BC. \SC||
\ENM11.163a[१६२ंअ]/ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च |
\ENM11.163c[१६२ंच्]/ कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ||\BC. \SC||
\ENM11.164a[१६३ंअ]/ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः | %[M.kR^itvA.anyaveshmani]
\ENM11.164c[१६३ंच्]/ चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ||\BC. \SC||
\ENM11.165a[१६४ंअ]/ भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च |
\ENM11.165c[१६४ंच्]/ पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ||\BC. \SC||
\ENM11.166a[१६५ंअ]/ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च |
\ENM11.166c[१६५ंच्]/ चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ||\BC. \SC||%[M.chailacharmAmikShANAM ]
\ENM11.167a[१६६ंअ]/ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च |
\ENM11.167c[१६६ंच्]/ अयः.कांस्यौपलानां च द्वादशाहं कणान्नता ||\BC. \SC||
\ENM11.168a[१६७ंअ]/ कार्पासकीटजोर्णानां द्विशफेकशफस्य च | %[M.dveshaphekakhurasya cha]
\ENM11.168c[१६७ंच्]/ पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ||\BC. \SC||
\ENM11.169a[१६८ंअ]/ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः |
\ENM11.169c[१६८ंच्]/ अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ||\BC. \SC||
\ENM11.170a[१६९ंअ]/ गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु |
\ENM11.170c[१६९ंच्]/ सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ||\BC. \SC||
\ENM11.171a[१७०ंअ]/ पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च |
\ENM11.171c[१७०ंच्]/ मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ||\BC. \SC||%[bhrAturAptasya gatvA##) ##]
\ENM11.172a[१७१ंअ]/ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् |
\ENM11.172c[१७१ंच्]/ ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ||\BC. \SC||
\ENM11.173a[१७२ंअ]/ अमानुषीषू पुरुष उदक्यायामयोनिषु |
\ENM11.173c[१७२ंच्]/ रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ||\BC. \SC||
\ENM11.174a[१७३ंअ]/ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः |
\ENM11.174c[१७३ंच्]/ गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ||\BC. \SC||
\ENM11.175a[१७४ंअ]/ चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च |
\ENM11.175c[१७४ंच्]/ पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ||\BC. \SC||
\ENM11.176a[१७५ंअ]/ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि |
\ENM11.176c[१७५ंच्]/ यत् पुंसः परदारेषु तच्चैनां चारयेद् व्रतम् ||\BC. \SC||
\ENM11.177a[१७६ंअ]/ सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता | %[k:sadR^ishenopayantritA##? ##]
\ENM11.177c[१७६ंच्]/ कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ||\BC. \SC||
\ENM11.178a[१७७ंअ]/ यत् करोत्येकरात्रेण वृषलीसेवनाद् द्विजः |
\ENM11.178c[१७७ंच्]/ तद् भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ||\BC. \SC||
\ENM11.179a[१७८ंअ]/ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः |
\ENM11.179c[१७८ंच्]/ पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ||\BC. \SC||
\ENM11.180a[१७९ंअ]/ संवत्सरेण पतति पतितेन सहाचरन् |
\ENM11.180c[१७९ंच्]/ याजनाध्यापनाद् यौनान्न तु यानासनाशनात् ||\BC. \SC||
\ENM11.181a[१८०ंअ]/ यो येन पतितेनैषां संसर्गं याति मानवः |
\ENM11.181c[१८०ंच्]/ स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ||\BC. \SC||
\ENM11.182a[१८१ंअ]/ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः |
\ENM11.182c[१८१ंच्]/ निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ||\BC. \SC||
\ENM11.183a[१८२ंअ]/ दासी घटमपां पूर्णं पर्यस्येत् प्रेतवत् पदा |
\ENM11.183c[१८२ंच्]/ अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ||\BC. \SC||
\ENM11.184a[१८३ंअ]/ निवर्तेरंश्च तस्मात् तु संभाषणसहासने |
\ENM11.184c[१८३ंच्]/ दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ||\BC. \SC||
\ENM11.185a[१८४ंअ]/ ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् | %[M.yad.h vasu ]
\ENM11.185c[१८४ंच्]/ ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ||\BC. \SC||
\ENM11.186a[१८५ंअ]/ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् |
\ENM11.186c[१८५ंच्]/ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ||\BC. \SC||
\ENM11.187a[१८६ंअ]/ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् |
\ENM11.187c[१८६ंच्]/ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ||\BC. \SC||
\ENM11.188a[१८७ंअ]/ एतदेव विधिं कुर्याद् योषित्सु पतितास्वपि | %[Metameva vidhiM]
\ENM11.188c[१८७ंच्]/ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ||\BC. \SC||
\ENM11.189a[१८८ंअ]/ एनस्विभिरनिर्णिक्तैर्नार्थं किं चित् सहाचरेत् |
\ENM11.189c[१८८ंच्]/ कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ||\BC. \SC||%[M.kR^itanirNejanA.nshchaitAn.h ]
\ENM11.190a[१८९ंअ]/ बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः |
\ENM11.190c[१८९ंच्]/ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ||\BC. \SC||
\ENM11.191a[१९०ंअ]/ येषां द्विजानां सावित्री नानूच्येत यथाविधि |
\ENM11.191c[१९०ंच्]/ तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्योपनाययेत् ||\BC. \SC||
\ENM11.192a[१९१ंअ]/ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः |
\ENM11.192c[१९१ंच्]/ ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ||\BC. \SC||
\ENM11.193a[१९२ंअ]/ यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् |
\ENM11.193c[१९२ंच्]/ तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ||\BC. \SC||
\ENM11.194a[१९३ंअ]/ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः |
\ENM11.194c[१९३ंच्]/ मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ||\BC. \SC||
\ENM11.195a[१९४ंअ]/ उपवासकृशं तं तु गोव्रजात् पुनरागतम् |
\ENM11.195c[१९४ंच्]/ प्रणतं प्रति पृच्छेयुः साम्यं सौम्यैच्छसीति किम् ||\BC. \SC||
\ENM11.196a[१९५ंअ]/ सत्यमुक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् |
\ENM11.196c[१९५ंच्]/ गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ||\BC. \SC||
\ENM11.197a[१९६ंअ]/ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च |
\ENM11.197c[१९६ंच्]/ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ||\BC. \SC||
\ENM11.198a[१९७ंअ]/ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः |
\ENM11.198c[१९७ंच्]/ संवत्सरं यवाहारस्तत् पापमपसेधति ||\BC. \SC||
\ENM11.199a[१९८ंअ]/ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च |
\ENM11.199c[१९८ंच्]/ नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ||\BC. \SC||
\ENM11.200a[१९९ंअ]/ षष्ठान्नकालता मासं संहिताजप एव वा |
\ENM11.200c[१९९ंच्]/ होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ||\BC. \SC||%[M.homAshcha shAkalA ]
\ENM11.201a[२००ंअ]/ उष्ट्रयानं समारुह्य खरयानं तु कामतः |
\ENM11.201c[२००ंच्]/ स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ||\BC. \SC||
\ENM11.202a[२०१ंअ]/ विनाऽद्भिरप्सु वाऽप्यार्तः शारीरं संनिषेव्य च |
\ENM11.202c[२०१ंच्]/ सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ||\BC. \SC||
\ENM11.203a[२०२ंअ]/ वेदोदितानां नित्यानां कर्मणां समतिक्रमे |
\ENM11.203c[२०२ंच्]/ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ||\BC. \SC||
\ENM11.204a[२०३ंअ]/ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः |
\ENM11.204c[२०३ंच्]/ स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत् ||\BC. \SC||
\ENM11.205a[२०४ंअ]/ ताडयित्वा तृणेनापि कण्ठे वाऽबध्य वाससा |
\ENM11.205c[२०४ंच्]/ विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ||\BC. \SC||
\ENM11.206a[२०५ंअ]/ अवगूर्य त्वब्दशतं सहस्रमभिहत्य च |
\ENM11.206c[२०५ंच्]/ जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ||\BC. \SC||
\ENM11.207a[२०६ंअ]/ शोणितं यावतः पांसून् सङ्गृह्णाति महीतले |
\ENM11.207c[२०६ंच्]/ तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ||\BC. \SC||%[M.narake vrajet.h ]
\ENM11.208a[२०७ंअ]/ अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने |
\ENM11.208c[२०७ंच्]/ कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ||\BC. \SC||
\ENM11.209a[२०८ंअ]/ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये |
\ENM11.209c[२०८ंच्]/ शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ||\BC. \SC||
\ENM11.210a[२०९ंअ]/ यैरभ्युपायैरेनांसि मानवो व्यपकर्षति |
\ENM11.210c[२०९ंच्]/ तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ||\BC. \SC||
\ENM11.211a[२१०ंअ]/ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् |
\ENM11.211c[२१०ंच्]/ त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ||\BC. \SC||
\ENM11.212a[२११ंअ]/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् |
\ENM11.212c[२११ंच्]/ एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ||\BC. \SC||
\ENM11.213a[२१२ंअ]/ एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् |
\ENM11.213c[२१२ंच्]/ त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ||\BC. \SC||
\ENM11.214a[२१३ंअ]/ तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् |
\ENM11.214c[२१३ंच्]/ प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ||\BC. \SC||
\ENM11.215a[२१४ंअ]/ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् |
\ENM11.215c[२१४ंच्]/ पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ||\BC. \SC||
\ENM11.216a[२१५ंअ]/ एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् |
\ENM11.216c[२१५ंच्]/ उपस्पृशंस्त्रिषवणमेतत्चाण्ड्रायणं स्मृतम् ||\BC. \SC||
\ENM11.217a[२१६ंअ]/ एतमेव विधिं कृत्स्नमाचरेद् यवमध्यमे |
\ENM11.217c[२१६ंच्]/ शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ||\BC. \SC||
\ENM11.218a[२१७ंअ]/ अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते |
\ENM11.218c[२१७ंच्]/ नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ||\BC. \SC||
\ENM11.219a[२१८ंअ]/ चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः |
\ENM11.219c[२१८ंच्]/ चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ||\BC. \SC||
\ENM11.220a[२१९ंअ]/ यथा कथं चित् पिण्डानां तिस्रोऽशीतीः समाहितः |
\ENM11.220c[२१९ंच्]/ मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ||\BC. \SC||
\ENM11.221a[२२०ंअ]/ एतद् रुद्रास्तथाऽदित्या वसवश्चाचरन् व्रतम् |
\ENM11.221c[२२०ंच्]/ सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ||\BC. \SC||
\ENM11.222a[२२१ंअ]/ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् |
\ENM11.222c[२२१ंच्]/ अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ||\BC. \SC||
\ENM11.223a[२२२ंअ]/ त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् |
\ENM11.223c[२२२ंच्]/ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ||\BC. \SC||
\ENM11.224a[२२३ंअ]/ स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा |
\ENM11.224c[२२३ंच्]/ ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ||\BC. \SC||
\ENM11.225a[२२४ंअ]/ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः |
\ENM11.225c[२२४ंच्]/ सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ||\BC. \SC||
\ENM11.226a[२२५ंअ]/ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतेनसः |
\ENM11.226c[२२५ंच्]/ अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ||\BC. \SC||
\ENM11.227a[२२६ंअ]/ ख्यापनेनानुतापेन तपसाऽध्ययनेन च |
\ENM11.227c[२२६ंच्]/ पापकृत्मुच्यते पापात् तथा दानेन चापदि ||\BC. \SC||
\ENM11.228a[२२७ंअ]/ यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते |
\ENM11.228c[२२७ंच्]/ तथा तथा त्वचैवाहिस्तेनाधर्मेण मुच्यते ||\BC. \SC||
\ENM11.229a[२२८ंअ]/ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति |
\ENM11.229c[२२८ंच्]/ तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ||\BC. \SC||
\ENM11.230a[२२९ंअ]/ कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते |
\ENM11.230c[२२९ंच्]/ नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ||\BC. \SC||
\ENM11.231a[२३०ंअ]/ एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् |
\ENM11.231c[२३०ंच्]/ मनोवाङ्मूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ||\BC. \SC||
\ENM11.232a[२३१ंअ]/ अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् |
\ENM11.232c[२३१ंच्]/ तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ||\BC. \SC||
\ENM11.233a[२३२ंअ]/ यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम् |
\ENM11.233c[२३२ंच्]/ तस्मिंस्तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ||\BC. \SC||
\ENM11.234a[२३३ंअ]/ तपोमूलमिदं सर्वं दैवमानुषकं सुखम् |
\ENM11.234c[२३३ंच्]/ तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ||\BC. \SC||
\ENM11.235a[२३४ंअ]/ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् |
\ENM11.235c[२३४ंच्]/ वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ||\BC. \SC||
\ENM11.236a[२३५ंअ]/ ऋषयः संयतात्मानः फलमूलानिलाशनाः |
\ENM11.236c[२३५ंच्]/ तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ||\BC. \SC||
\ENM11.237a[२३६ंअ]/ औषधान्यगदो विद्या दैवी च विविधा स्थितिः |
\ENM11.237c[२३६ंच्]/ तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ||\BC. \SC||
\ENM11.238a[२३७ंअ]/ यद् दुस्तरं यद् दुरापं यद् दुर्गं यच्च दुष्करम् |
\ENM11.238c[२३७ंच्]/ सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ||\BC. \SC||%[M.sarvaM tat.h tapasA ]
\ENM11.239a[२३८ंअ]/ महापातकिनश्चैव शेषाश्चाकार्यकारिणः |
\ENM11.239c[२३८ंच्]/ तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ||\BC. \SC||
\ENM11.240a[२३९ंअ]/ कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च |
\ENM11.240c[२३९ंच्]/ स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ||\BC. \SC||
\ENM11.241a[२४०ंअ]/ यत् किं चिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिर्जनाः | %[M.manovAch.karmabhir]
\ENM11.241c[२४०ंच्]/ तत् सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ||\BC. \SC||
\ENM11.242a[२४१ंअ]/ तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः |
\ENM11.242c[२४१ंच्]/ इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ||\BC. \SC||
\ENM11.243a[२४२ंअ]/ प्रजापतिरिदं शास्त्रं तपसैवासृजत् प्रभुः |
\ENM11.243c[२४२ंच्]/ तथैव वेदान् ऋषयस्तपसा प्रतिपेदिरे ||\BC. \SC||
\ENM11.244a[२४३ंअ]/ इत्येतत् तपसो देवा महाभाग्यं प्रचक्षते | %[M.yadetat.h tapaso]
\ENM11.244c[२४३ंच्]/ सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ||\BC. \SC||%[M.puNyamudbhavaM ]
\ENM11.245a[२४४ंअ]/ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा |
\ENM11.245c[२४४ंच्]/ नाशयन्त्याशु पापानि महापातकजान्यपि ||\BC. \SC||
\ENM11.246a[२४५ंअ]/ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् |
\ENM11.246c[२४५ंच्]/ तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ||\BC. \SC||
\ENM11.247a[२४६ंअ]/ इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि |
\ENM11.247c[२४६ंच्]/ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ||\BC. \SC||
\ENM11.248a[२४७ंअ]/ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश |
\ENM11.248c[२४७ंच्]/ अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ||\BC. \SC||
\ENM11.249a[२४८ंअ]/ कौत्सं जप्त्वाऽप इत्येतद् वसिष्ठं च प्रतीत्य् ऋचम् |
\ENM11.249c[२४८ंच्]/ माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ||\BC. \SC||
\ENM11.250a[२४९ंअ]/ सकृत्जप्त्वाऽस्यवामीयं शिवसङ्कल्पमेव च |
\ENM11.250c[२४९ंच्]/ अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ||\BC. \SC||
\ENM11.251a[२५०ंअ]/ हविष्पान्तीयमभ्यस्य न तमं ह इतीति च |
\ENM11.251c[२५०ंच्]/ जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः |
\ENM11.252a[२५१ंअ]/ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् |
\ENM11.252c[२५१ंच्]/ अवेत्यर्चं जपेदब्दं यत् किं चेदमितीति वा ? ? ||\BC. \SC||
\ENM11.253a[२५२ंअ]/ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् |
\ENM11.253c[२५२ंच्]/ जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ||\BC. \SC||
\ENM11.254a[२५३ंअ]/ सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति | %[M.samAmabhyasya##) ##]
\ENM11.254c[२५३ंच्]/ स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम् ||\BC. \SC||
\ENM11.255a[२५४ंअ]/ अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् |
\ENM11.255c[२५४ंच्]/ अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ||\BC. \SC||
\ENM11.256a[२५५ंअ]/ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः |
\ENM11.256c[२५५ंच्]/ सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ||\BC. \SC||
\ENM11.257a[२५६ंअ]/ महापातकसंयुक्तोऽनुगच्छेद् गाः समाहितः |
\ENM11.257c[२५६ंच्]/ अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति ||\BC. \SC||
\ENM11.258a[२५७ंअ]/ अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् |
\ENM11.258c[२५७ंच्]/ मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ||\BC. \SC||
\ENM11.259a[२५८ंअ]/ त्र्यहं तूपवसेद् युक्तस्त्रिरह्नोऽभ्युपयन्नपः |
\ENM11.259c[२५८ंच्]/ मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ||\BC. \SC||
\ENM11.260a[२५९ंअ]/ यथाऽश्वमेधः क्रतुराड् सर्वपापापनोदनः |
\ENM11.260c[२५९ंच्]/ तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ||\BC. \SC||
\ENM11.261a[२६०ंअ]/ हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः |
\ENM11.261c[२६०ंच्]/ ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ||\BC. \SC||
\ENM11.262a[२६१ंअ]/ ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः |
\ENM11.262c[२६१ंच्]/ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ||\BC. \SC||
\ENM11.263a[२६२ंअ]/ यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति |
\ENM11.263c[२६२ंच्]/ तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ||\BC. \SC||
\ENM11.264a[२६३ंअ]/ ऋचो यजूंषि चान्यानि सामानि विविधानि च |
\ENM11.264c[२६३ंच्]/ एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ||\BC. \SC||
\ENM11.265a[२६४ंअ]/ आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता |
\ENM11.265c[२६४ंच्]/ स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ||\BC. \SC||
\separate
अध्याय १२
\ENM12.01a/ चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघः |
\ENM12.01c/ कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ||\BC. \SC||
\ENM12.02a/ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः |
\ENM12.02c/ अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ||\BC. \SC||
\ENM12.03a/ शुभाशुभफलं कर्म मनोवाग्देहसंभवम् |
\ENM12.03c/ कर्मजा गतयो नॄणामुत्तमाधममध्यमः ||\BC. \SC||
\ENM12.04a/ तस्यैह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः |
\ENM12.04c/ दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ||\BC. \SC||
\ENM12.05a/ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् |
\ENM12.05c/ वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ||\BC. \SC||
\ENM12.06a/ पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः |
\ENM12.06c/ असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ||\BC. \SC||
\ENM12.07a/ अदत्तानामुपादानं हिंसा चैवाविधानतः |
\ENM12.07c/ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ||\BC. \SC||
\ENM12.08a/ मानसं मनसेवायमुपभुङ्क्ते शुभाशुभम् |
\ENM12.08c/ वाचा वाचा कृतं कर्म कायेनेव च कायिकम् ||\BC. \SC||
\ENM12.09a/ शरीरजैः कर्मदोषैर्याति स्थावरतां नरः |
\ENM12.09c/ वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ||\BC. \SC||
\ENM12.10a/ वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च |
\ENM12.10c/ यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ||\BC. \SC||
\ENM12.11a/ त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः |
\ENM12.11c/ कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ||\BC. \SC||%[M.kAmakrodhau susa.nyamya tataH siddhiM nigachChati]
\ENM12.12a/ योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते |
\ENM12.12c/ यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ||\BC. \SC||
\ENM12.13a/ जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम् |
\ENM12.13c/ येन वेदयते सर्वं सुखं दुःखं च जन्मसु ||\BC. \SC||
\ENM12.14a/ तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च |
\ENM12.14c/ उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ||\BC. \SC||
\ENM12.15a/ असङ्ख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः |
\ENM12.15c/ उच्चावचानि भूतानि सततं चेष्टयन्ति याः ||\BC. \SC||
\ENM12.16a/ पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् | %[M.pa~nchabhya eva bhUtebhyaH ]
\ENM12.16c/ शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ||\BC. \SC||
\ENM12.17a/ तेनानुभूय ता यामीः शरीरेणैह यातनाः |
\ENM12.17c/ तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ||\BC. \SC||
\ENM12.18a/ सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् |
\ENM12.18c/ व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ||\BC. \SC||
\ENM12.19a/ तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह |
\ENM12.19c/ याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ||\BC. \SC||
\ENM12.20a/ यद्याचरति धर्मं स प्रायशोऽधर्ममल्पशः | %[M.yathAcharati##) ##]
\ENM12.20c/ तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ||\BC. \SC||
\ENM12.21a/ यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः |
\ENM12.21c/ तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ||\BC. \SC||
\ENM12.22a/ यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः |
\ENM12.22c/ तान्येव पञ्च भूतानि पुनरप्येति भागशः ||\BC. \SC||
\ENM12.23a/ एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा |
\ENM12.23c/ धर्मतोऽधर्मतश्चैव धर्मे दध्यात् सदा मनः ||\BC. \SC||
\ENM12.24a/ सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् |
\ENM12.24c/ यैर्व्याप्यैमान् स्थितो भावान् महान् सर्वानशेषतः ||\BC. \SC||
\ENM12.25a/ यो यदेषां गुणो देहे साकल्येनातिरिच्यते |
\ENM12.25c/ स तदा तद्गुणप्रायं तं करोति शरीरिणम् ||\BC. \SC||
\ENM12.26a/ सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् |
\ENM12.26c/ एतद् व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ||\BC. \SC||
\ENM12.27a/ तत्र यत् प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् |
\ENM12.27c/ प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ||\BC. \SC||
\ENM12.28a/ यत् तु दुःखसमायुक्तमप्रीतिकरमात्मनः |
\ENM12.28c/ तद् रजो प्रतीपं विद्यात् सततं हारि देहिनाम् ||\BC. \SC||%[M.hartR^i ]
\ENM12.29a/ यत् तु स्यान् मोहसंयुक्तमव्यक्तं विषयात्मकम् |
\ENM12.29c/ अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ||\BC. \SC||
\ENM12.30a/ त्रयाणामपि चैतेषां गुणानां यः फलोदयः |
\ENM12.30c/ अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ||\BC. \SC||
\ENM12.31a/ वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः |
\ENM12.31c/ धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम् ||\BC. \SC||
\ENM12.32a/ आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः |
\ENM12.32c/ विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ||\BC. \SC||
\ENM12.33a/ लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता |
\ENM12.33c/ याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ||\BC. \SC||
\ENM12.34a/ त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् |
\ENM12.34c/ इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ||\BC. \SC||
\ENM12.35a/ यत् कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति |
\ENM12.35c/ तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ||\BC. \SC||
\ENM12.36a/ येनास्मिन् कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् |
\ENM12.36c/ न च शोचत्यसंपत्तौ तद् विज्ञेयं तु राजसम् ||\BC. \SC||
\ENM12.37a/ यत् सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् |
\ENM12.37c/ येन तुष्यति चात्माऽस्य तत् सत्त्वगुणलक्षणम् ||\BC. \SC||
\ENM12.38a/ तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते |
\ENM12.38c/ सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ||\BC. \SC||
\ENM12.39a/ येन यस्तु गुणेनैषां संसरान् प्रतिपद्यते | %[M.yena yA.nstu ]
\ENM12.39c/ तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ||\BC. \SC||
\ENM12.40a/ देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः |
\ENM12.40c/ तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ||\BC. \SC||
\ENM12.41a/ त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः |
\ENM12.41c/ अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ||\BC. \SC||
\ENM12.42a/ स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः |
\ENM12.42c/ पशवश्च मृगाश्चैव जघन्या तामसी गतिः ||\BC. \SC||
\ENM12.43a/ हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः |
\ENM12.43c/ सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ||\BC. \SC||
\ENM12.44a/ चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः |
\ENM12.44c/ रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ||\BC. \SC||
\ENM12.45a/ झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः |
\ENM12.45c/ द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ||\BC. \SC||
\ENM12.46a/ राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः |
\ENM12.46c/ वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ||\BC. \SC||
\ENM12.47a/ गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये |
\ENM12.47c/ तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ||\BC. \SC||
\ENM12.48a/ तापसा यतयो विप्रा ये च वैमानिका गणाः |
\ENM12.48c/ नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ||\BC. \SC||
\ENM12.49a/ यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः |
\ENM12.49c/ पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ||\BC. \SC||
\ENM12.50a/ ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च |
\ENM12.50c/ उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ||\BC. \SC||
\ENM12.51a/ एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः | %[M.triH.prakArasya]
\ENM12.51c/ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ||\BC. \SC||
\ENM12.52a/ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च |
\ENM12.52c/ पापान् संयान्ति संसारानविद्वांसो नराधमाः ||\BC. \SC||
\ENM12.53a/ यां यां योनिं तु जीवोऽयं येन येनैह कर्मणा |
\ENM12.53c/ क्रमशो याति लोकेऽस्मिंस्तत् तत् सर्वं निबोधत ||\BC. \SC||
\ENM12.54a/ बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् |
\ENM12.54c/ संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ||\BC. \SC||
\ENM12.55a/ श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् |
\ENM12.55c/ चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ||\BC. \SC||
\ENM12.56a/ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् |
\ENM12.56c/ हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ||\BC. \SC||
\ENM12.57a/ लूताऽहिसरटानां च तिरश्चां चाम्बुचारिणाम् |
\ENM12.57c/ हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ||\BC. \SC||
\ENM12.58a/ तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि |
\ENM12.58c/ क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ||\BC. \SC||
\ENM12.59a/ हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः |
\ENM12.59c/ परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ||\BC. \SC||
\ENM12.60a/ संयोगं पतितैर्गत्वा परस्यैव च योषितम् |
\ENM12.60c/ अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ||\BC. \SC||
\ENM12.61a/ मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः |
\ENM12.61c/ विविधाणि च रत्नानि जायते हेमकर्तृषु ||\BC. \SC||
\ENM12.62a/ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः |
\ENM12.62c/ मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ||\BC. \SC||
\ENM12.63a/ मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः |
\ENM12.63c/ चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ||\BC. \SC||
\ENM12.64a/ कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः |
\ENM12.64c/ कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ||\BC. \SC||
\ENM12.65a/ छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः | %[M.ChuchChundarIH ]
\ENM12.65c/ श्वावित् कृतान्नं विविधमकृतान्नं तु शल्यकः ||\BC. \SC||
\ENM12.66a/ बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम् |
\ENM12.66c/ रक्तानि हृत्वा वासांसि जायते जीवजीवकः ||\BC. \SC||
\ENM12.67a/ वृको मृगैभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः |
\ENM12.67c/ स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ||\BC. \SC||
\ENM12.68a/ यद् वा तद् वा परद्रव्यमपहृत्य बलान्नरः |
\ENM12.68c/ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ||\BC. \SC||
\ENM12.69a/ स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः |
\ENM12.69c/ एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ||\BC. \SC||
\ENM12.70a/ स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि |
\ENM12.70c/ पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु ||\BC. \SC||%[M.yAnti dasyuShu ]
\ENM12.71a/ वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच्च्युतः |
\ENM12.71c/ अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ||\BC. \SC||%[M.kUTapUtanaH ]
\ENM12.72a/ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् | %[M.maitrAkShijyotikaH ]
\ENM12.72c/ चैलाशकश्च भवति शूद्रो धर्मात् स्वकाच्च्युतः ||\BC. \SC||
\ENM12.73a/ यथा यथा निषेवन्ते विषयान् विषयात्मकाः |
\ENM12.73c/ तथा तथा कुशलता तेषां तेषूपजायते ||\BC. \SC||
\ENM12.74a/ तेऽभ्यासात् कर्मणां तेषां पापानामल्पबुद्धयः |
\ENM12.74c/ संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ||\BC. \SC||
\ENM12.75a/ तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् |
\ENM12.75c/ असिपत्रवनादीनि बन्धनछेदनानि च ||\BC. \SC||
\ENM12.76a/ विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् |
\ENM12.76c/ करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् ||\BC. \SC||
\ENM12.77a/ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः |
\ENM12.77c/ शीतातपाभिघातांश्च विविधानि भयानि च ||\BC. \SC||
\ENM12.78a/ असकृद् गर्भवासेषु वासं जन्म च दारुणम् |
\ENM12.78c/ बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च ||\BC. \SC||%[M.kaShTAni]
\ENM12.79a/ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः |
\ENM12.79c/ द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ||\BC. \SC||
\ENM12.80a/ जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् |
\ENM12.80c/ क्लेशांश्च विविधांस्तांस्तान् मृत्युमेव च दुर्जयम् ||\BC. \SC||
\ENM12.81a/ यादृशेन तु भावेन यद् यत् कर्म निषेवते |
\ENM12.81c/ तादृशेन शरीरेण तत् तत् फलमुपाश्नुते ||\BC. \SC||
\ENM12.82a/ एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः |
\ENM12.82c/ नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ||\BC. \SC||
\ENM12.83a/ वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः |
\ENM12.83c/ अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ||\BC. \SC||
\ENM12.84a/ सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् |
\ENM12.84c/ किं चित्श्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ||\BC. \SC||
\ENM12.85a/ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् |
\ENM12.85c/ तद् ह्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ||\BC. \SC||
\ENM12.86a/ षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चैह च |
\ENM12.86c/ श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ||\BC. \SC||
\ENM12.87a/ वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः |
\ENM12.87c/ अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ ||\BC. \SC||
\ENM12.88a/ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च |
\ENM12.88c/ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ||\BC. \SC||
\ENM12.89a/ इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते |
\ENM12.89c/ निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ||\BC. \SC||
\ENM12.90a/ प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् |
\ENM12.90c/ निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ||\BC. \SC||
\ENM12.91a/ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि |
\ENM12.91c/ समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ||\BC. \SC||
\ENM12.92a/ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः |
\ENM12.92c/ आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ||\BC. \SC||
\ENM12.93a/ एतद् हि जन्मसाफल्यं ब्राह्मणस्य विशेषतः |
\ENM12.93c/ प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ||\BC. \SC||
\ENM12.94a/ पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् |
\ENM12.94c/ अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ||\BC. \SC||
\ENM12.95a/ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः | %[M.shrutayo ]
\ENM12.95c/ सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ||\BC. \SC||
\ENM12.96a/ उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् | %[Mutpadyante vinashyanti ]
\ENM12.96c/ तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च ||\BC. \SC||
\ENM12.97a/ चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् |
\ENM12.97c/ भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ||\BC. \SC||%[M.bhUtaM bhavad.h bhaviShyaM cha ]
\ENM12.98a/ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
\ENM12.98c/ वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ||\BC. \SC||
\ENM12.99a/ बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् |
\ENM12.99c/ तस्मादेतत् परं मन्ये यत्जन्तोरस्य साधनम् ||\BC. \SC||
\ENM12.100a/ सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च | %[M.sainApatyaM ]
\ENM12.100c/ सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ||\BC. \SC||
\ENM12.101a/ यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् |
\ENM12.101c/ तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ||\BC. \SC||
\ENM12.102a/ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् |
\ENM12.102c/ इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ||\BC. \SC||
\ENM12.103a/ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः |
\ENM12.103c/ धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ||\BC. \SC||
\ENM12.104a/ तपो विद्या च विप्रस्य निःश्रेयसकरं परम् |
\ENM12.104c/ तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ||\BC. \SC||
\ENM12.105a/ प्रत्यक्षं चानुमानं च शास्त्रं च विविधाऽऽगमम् |
\ENM12.105c/ त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ||\BC. \SC||
\ENM12.106a/ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना |
\ENM12.106c/ यस्तर्केणानुसंधत्ते स धर्मं वेद नैतरः ||\BC. \SC||
\ENM12.107a/ नैःश्रेयसमिदं कर्म यथोदितमशेषतः |
\ENM12.107c/ मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते ||\BC. \SC||%[MupadekShyate ]
\ENM12.108a/ अनाम्नातेषु धर्मेषु कथं स्यादिति चेद् भवेत् |
\ENM12.108c/ यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ||\BC. \SC||
\ENM12.109a/ धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः |
\ENM12.109c/ ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ||\BC. \SC||
\ENM12.110a/ दशावरा वा परिषद्यं धर्मं परिकल्पयेत् |
\ENM12.110c/ त्र्य्ऽवरा वाऽपि वृत्तस्था तं धर्मं न विचालयेत् ||\BC. \SC||
\ENM12.111a/ त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः |
\ENM12.111c/ त्रयश्चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ||\BC. \SC||
\ENM12.112a/ ऋग्वेदविद् यजुर्विद्च सामवेदविदेव च |
\ENM12.112c/ त्र्य्ऽवरा परिषद्ज्ञेया धर्मसंशयनिर्णये ||\BC. \SC||
\ENM12.113a/ एकोऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः |
\ENM12.113c/ स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ||\BC. \SC||
\ENM12.114a/ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् |
\ENM12.114c/ सहस्रशः समेतानां परिषत्त्वं न विद्यते ||\BC. \SC||
\ENM12.115a/ यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः |
\ENM12.115c/ तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति ||\BC. \SC||
\ENM12.116a/ एतद् वोऽभिहितं सर्वं निःश्रेयसकरं परम् |
\ENM12.116c/ अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ||\BC. \SC||
\ENM12.117a/ एवं स भगवान् देवो लोकानां हितकाम्यया |
\ENM12.117c/ धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ||\BC. \SC||
\ENM12.118a/ सर्वमात्मनि संपश्येत् सत्चासत्च समाहितः |
\ENM12.118c/ सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः ||\BC. \SC||%[M.matiM ]
\ENM12.119a/ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् |
\ENM12.119c/ आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ||\BC. \SC||
\ENM12.120a/ खं संनिवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् |
\ENM12.120c/ पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ||\BC. \SC||
\ENM12.121a/ मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् |
\ENM12.121c/ वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ||\BC. \SC||
\ENM12.122a/ प्रशासितारं सर्वेषामणीयांसमणोरपि |
\ENM12.122c/ रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ||\BC. \SC||
\ENM12.123a/ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् |
\ENM12.123c/ इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ||\BC. \SC||
\ENM12.124a/ एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः |
\ENM12.124c/ जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ||\BC. \SC||
\ENM12.125a/ एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना |
\ENM12.125c/ स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् |
\ENM12.126a/ इत्येतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः |
\ENM12.126c/ भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद् गतिम् ||\BC. \SC||
समाप्तं मानवं धर्मशास्त्रम्
The original file (manu.dhz) was Encoded and partly
proofread by Prof. Michio YANO and Y.IKARI.
Prof. Avinash Sathaye: sohum at ms.uky.edu
%@@1
% File name : manu.itx
%--------------------------------------------
% Text title : manusmR^iti
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Michio Yano, Y.Ikari, Avinash Sathaye sohum at ms.uky.edu
% Proofread by : Michio Yano, Y.Ikari, Avinash Sathaye sohum at ms.uky.edu
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .