.. मुद्गलोपनिषत् ..
श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् .
पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ..
ॐ वाङ् मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ..
वेदस्य म आणीस्थः . श्रुतं मे मा प्रहासीरनेनाधीते-
नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ..
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ..
ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः
पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते .
सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः .
अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा .. १..
तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता .
द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते .. २..
विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया .
एतावानिति मन्त्रेण वैभवं कथितं हरेः .. ३..
एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः .
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् .. ४..
तस्माद्विराडित्यनया पादनारायणाद्धरेः .
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता .. ५..
यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः .
सप्तास्यासन्परिधयः समिधश्च समीरिताः .. ६..
तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः .
अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः .. ७..
तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता .
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः .. ८..
यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः .
य एवमेतज्जानाति स हि मुक्तो भवेदिति .. ९.. १..
अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं
विस्तरेण प्रतिपादितम् . वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य
पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं
पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् .
द्वौ खण्डावुच्येते . योऽय मुक्तः स पुरुषो
नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं
विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया
सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं
वेषमाददे . तेन वेषेण भूम्यादिलोकं व्याप्यानन्त-
योजनमत्यतिष्ठत् . पुरुषो नारायणो भूतं भव्यं
भविष्यच्चासीत् . स च सर्वस्मान्महिम्नो ज्यायान् .
तस्मान्न कोऽपि ज्यायान् . महापुरुष आत्मानं
चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् . इतरेण
चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् . स च
पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् . स
समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् .
सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् .
ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं
दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं
ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं
ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्ग-
स्पर्शात्कलेवरो वज्रं हीष्यते . ततः स्वकार्यान्सर्व-
प्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति .
ततः स्थावरजङ्गमात्मकं जगद्भविष्यति . एतेन
जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् .
य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च
सर्वमायुरेति .. २..
एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते .
तमेतमग्निरित्यध्वर्यव उपासते . यजुरित्येष हीदं
सर्वं युनक्ति . सामेति छन्दोगाः . एतस्मिन्हीदं सर्वं
प्रतिष्ठितम् . विषमिति सर्पाः . सर्प इति सर्पविदः .
ऊर्गिति देवाः . रयिरिति मनुष्याः . मायेत्यसुराः .
स्वधेति पितरः . देवजन इति देवजनविदः . रूपमिति गन्धर्वाः .
गन्धर्व इति अप्सरसः . तं यथायथोपासते तथैव भवति .
तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति
भावयेत् . तद्रूपो भवति . य एवं वेद .. ३..
तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं
पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि-
सर्वविलक्षणं भवति . तापत्रयं त्वाध्यात्मिकाधिभौति-
काधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय-
भोक्तृभोगभोग्यमिति त्रिविधम् . त्वङ्मांसशोणितास्थि-
स्नायुमज्जाः षट्कोशाः . कामक्रोधलोभमोहमद-
मात्सर्यमित्यरिषड्वर्गः . अन्नमयप्राणमयमनोमय-
विज्ञानमयानन्दमया इति पञ्चकोशाः .
प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः .
अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः .
कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमाः .
एतद्योगेन परमपुरुषो जीवो भवति नान्यः .
य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति . स वायुपूतो
भवति . स आदित्यपूतो भवति . अरोगी भवति . श्रीमांश्च भवति .
पुत्रपौत्रादिभिः समृद्धो भवति . विद्वांश्च भवति .
महापातकात्पूतो भवति . सुरापानात्पूतो भवति .
अगम्यागमनात्पूतो भवति . मातृगमनात्पूतो भवति .
दुहितृस्नुषाभिगमनात्पूतो भवति . स्वर्णस्तेयात्पूतो भवति .
वेदिजन्महानात्पूतो भवति . गुरोरशुश्रूषणात्पूतो भवति .
अयाज्ययाजनात्पूतो भवति . अभक्ष्यभक्षणात्पूतो भवति .
उग्रप्रतिग्रहात्पूतो भवति . परदारगमनात्पूतो भवति .
कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति . सर्वेभ्यः
पापेभ्यो मुक्तो भवति . इह जन्मनि पुरुषो भवति तस्मादेत-
त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि
गुह्यतरं नादीक्षितायोपदिशेत् .
नानूचानाय . नायज्ञशीलाय . नावैष्णवाय .
नायोगिने . न बहुभाषिणे . नाप्रियवादिने .
नासंवत्सरवेदिने . नातुष्टाय . नानधीतवेदायोपदिशेत् .
गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे
प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय
शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् .
न बहुशो वदेत् . यातयामो भवति . असकृत्कर्णमुपदिशेत् .
एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो
भवतीत्युपनिषत् ..
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-
माविरावीर्म एधि .. वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि
सत्यं वदिष्यामि .. तन्मामवतु तद्वक्तारमवतु अवतु
मामवतु वक्तारमवतु वक्तारम् ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति मुद्गलोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com