.. मुक्तिकोपनिषत् ..
ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् .
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ..
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे .
सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् .. १..
सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः .
अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् .. २..
धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् .
स्वरूपध्याननिरतं समाधिविरमे हरिम् .. ३..
भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः .
राम त्वं परमात्मसि सच्चिदानन्दविग्रहः .. ४..
इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः .
त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये .. ५..
अनायासेन येनाहं मुच्येयं भवबन्धनात् .
कृपया वद मे राम येन मुक्तो भवाम्यहम् .. ६..
साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः .
वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय .. ७..
वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद .
हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा .. ८..
निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः .
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः .. ९..
राम वेदाः कतिविधास्तेषां शाखाश्च राघव .
तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः .. १०..
श्रीराम उवाच .
ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः .
तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा .. ११..
ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः .
नवाधिकशतं शाखा यजुषो मारुतात्मज .. १२..
सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप .
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे .. १३..
एकैकस्यास्तु शाखाया एकैकोपनिषन्मता .
तासामेकामृचं यश्च पठते भक्तितो मयि .. १४..
स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् .
राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे .. १५..
केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः .
अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे .. १६..
अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः .
सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता .. १७..
सहोवाच श्रीरामः .
कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी .
दुराचाररतो वापि मन्नामभजनात्कपे .. १८..
सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् .
काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् .. १९..
पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः .
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः .. २०..
जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् .
निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् .. २१..
सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते .
सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः .. २२..
मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् .
सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते .. २३..
गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् .
मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् .. २४..
सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा .
चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् .. २५..
इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति .
माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये .. २६..
तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ .
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि .. २७..
तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत .
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय .. २८..
विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ .
तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः .. २९..
ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः .
ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा .. ३०..
ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः .
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा .. ३१..
मैत्रायणी कौषीतकी बृहज्जाबालतापनी .
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका .. ३२..
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् .
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् .. ३३..
परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् .
दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् .. ३४..
रहस्यं रामतपनं वासुदेवं च मुद्गलम् .
शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा .. ३५..
तुरीयातीतसंन्यासपरिव्राजाक्षमालिका .
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका .. ३६..
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् .
त्रिपुरातपनं देवीत्रिपुरा कठभावना .
हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् .. ३७..
तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् .
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् .. ३८..
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् .
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका .. ३९..
एवमष्टोत्तरशतं भावनात्रयनाशनम् .
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् .. ४०..
पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् .
वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् .. ४१..
गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः .
प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते .. ४२..
ततः कालवशादेव प्रारब्धे तु क्षयं गते .
वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः .. ४३..
सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् .
सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् .. ४४..
मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन .
इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् .. ४५..
ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् .
राज्यं देयं धनं देयं याचतः कामपूरणम् .. ४५..
इदमष्टोत्तरशतं न देयं यस्य कस्यचित् .
नास्तिकाय कृतघ्नाय दुराचाररताय वै .. ४७..
मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते .
गुरुभक्तिविहीनाय दातव्यं न कदाचन .. ४८..
सेवापराय शिष्याय हितपुत्राय मारुते .
मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे .. ४९..
सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् .
यः पठेच्छृणुयाद्वापि स मामेति न संशयः .
तदेतदृचाभ्युक्तम् .
विद्या ह वै ब्राह्मणमाजगाम
गोपाय मा शेवधिष्टेएऽहमस्मि .
असूयकायानृजवे शठाय
मा मा ब्रूया वीर्यवती तथा स्याम् .
यमेव विद्याश्रुतमप्रमत्तं
मेधाविनं ब्रह्मचर्योपपन्नम् .
तस्मा इमामुपसन्नाय सम्यक्
परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् .. १.. इति ..
अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ
ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति .
स होवाच श्रीरामः .
ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण-
मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा
नामृग्वेदगतानां दशसंख्याकानामुपनिषदां
वाङ्मे मनसीति शान्तिः .. १..
ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल-
मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक-
पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य-
शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति-
संख्याकानामुपनिषदां पूर्णमद इति शान्तिः .. २..
कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ-
नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका-
सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या-
योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर-
अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म-
प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां
कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां
सह नाववत्विति शान्तिः .. ३..
केनछान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि-
वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन-
जाबालीनां सामवेदगतानां षोडशसंख्याकाना-
मुपनिषदानामाप्यायन्त्विति शान्तिः .. ४..
प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल-
नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण-
रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक-
अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना-
ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव-
दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना-
मुपनिषदां भद्रं कर्णेभिरिति शान्तिः .. ५..
मुमुक्षवः पुरुषाः साधनचतुष्टयसंपन्नाः
श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य-
गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं
विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं
विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा
प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त-
घटाकाशवत्परिपूर्णता विदेहमुक्तिः . सैव कैवल्यमुक्तिरिति .
अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा
तेन सह कैवल्यं लभन्ते . अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता .
न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ..
इति प्रथमोऽध्यायः .. १..
तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ .
केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति .
सहोवाच श्रीरामः . पुरुषस्य कर्तृत्वभोक्तृत्व-
सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो
भवति . तन्निरोधनं जीवन्मुक्तिः . उपाधिविनिर्मुक्त-
घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः .
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् .
कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं
भवति . तत्पुरुषप्रयत्नसाध्यं भवति . यथा पुत्रकामेष्टिना
पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा
पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना
जीवन्मुक्त्यादिलाभो भवति . सर्ववासनाक्षयात्तल्लाभः .
अत्र श्लोका भवन्ति ..
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् .
अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् .. १..
लोकवासनया जन्तोः शास्त्रवासनयापि च .
देहवासनया ज्ञानं यथावन्नैव जायते .. २..
द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ .
वासनौघेन शुद्धेन तत्र चेदनुनीयसे .. ३..
तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि .
अथ चेदशुभो भावस्त्वां योजयति संकटे .. ४..
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे .
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् .. ५..
पौरुषेण प्रयत्नेन योजनीया शुभे पथि .
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् .. ६..
अशुभाच्चालितं याति शुभं तस्मादपीतरत् .
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ..७..
द्रागभ्यासवशाद्याति यदा ते वासनोदयम् .
तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन .. ८..
सन्दिग्धायामपि भृशं शुभामेव समाचर .
शुभायां वासनावृद्धौ न दोषाय मरुत्सुत .. ९..
वासनाक्षयविज्ञानमनोनाशा महामते .
समकालं चिराभ्यस्ता भवन्ति फलदा मताः .. १०..
त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः .
तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः .. ११..
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् .
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव .. १२..
त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः .
निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव .. १३..
जन्मान्तशताभ्यस्ता मिथ्या संसारवासना .
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् .. १४..
तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना .
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय .. १५..
तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः .
सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते .
मनोनिर्वासनीभावमाचराशु महाकपे .. १६..
सम्यगालोचनात्सत्याद्वासना प्रविलीयते .
वासनाविलये चेतः शममायाति दीपवत् .. १७..
वासनां संपरित्यज्य मयि चिन्मात्र विग्रहे .
यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः .. १८..
समाधिमथ कार्याणि मा करोतु करोतु वा .
हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः .. १९..
नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः .
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः .. २०..
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् .. २१..
वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः .
प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् .. २२..
अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः .
नीरागमेव पतति तद्वत्कार्येषु धीरधीः .. २३..
भावसंवित्प्रकटितामनुरूपा च मारुते .
चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः .. २४..
दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् .
चित्तं संजायते जन्मजरामरणकारणम् .. २५..
वासनावशतः प्राणस्पन्दस्तेन च वासना .
क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः .. २६..
द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने .
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः .. २७..
असङ्गव्यवहारत्वाद्भवभावनवर्जनात् .
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते .
वासनासंपरित्यागाच्चितं गच्छत्यचित्तताम् .. २८..
अवासनत्वात्सततं यदा न मनुते मनः .
अमनस्ता तदोदेति परमोपशमप्रदा .. २९..
अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः .
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर .. ३०..
ततः पक्वकषायेण नूनं विज्ञात वस्तुना .
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना .. ३१..
द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च .
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः .. ३२..
अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् .. ३३.
चित्तानाशाभिधानं हि यदा ते विद्यते पुनः .
मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः .
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः .. ३४..
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते .
अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् .. ३५..
सहस्राङ्कुरशाखात्मफलपल्लवशालिनः .. ३६..
अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् .
संकल्प एव तन्मन्ये संकल्पोपशमेन तत् .. ३७..
शोषयाशु यथा शोषमेति संसारपादपः .
उपाय एक एवास्ति मनसः स्वस्य निग्रहे .. ३८..
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः .
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला .. ३९..
तावन्निशीव वेताला वल्गन्ति हृदि वासनाः .
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः .. ४०..
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः .
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः .. ४१..
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च .
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः .. ४२..
उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः .
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् .. ४३..
अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः .
अध्यात्मविद्याधिगमः साधुसंगतिरेव च .. ४४..
वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् .
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल .. ४५..
सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये .
चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः .. ४६..
विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् .
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः .. ४७..
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः .
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना .. ४८..
सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते .
चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते .. ४९..
तत्साधनमथो ध्यानं यथावदुपदिश्यते .
विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् .
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय .. ५०..
अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि .
तावत्सा कुंभकावस्था योगिभिर्यानुभूयते .. ५१..
बहिरस्तंगते प्राणे यावन्नापान उद्गतः .
तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः .. ५२..
ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना .
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः .. ५३..
प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् .
असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः .. ५४..
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् .
अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः .. ५५..
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् .
साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः .. ५६..
दृढभावनया त्यक्तपूर्वापरविचारणम् .
यदादानं पदार्थस्य वासना सा प्रकीर्तिता .. ५७..
भावितं तीव्रसंवेगादात्मना यत्तदेव सः .
भवत्याशु कपिश्रेष्ठ विगतेतरवासनः .. ५८..
तादृग्रूपो हि पुरुषो वासनाविवशीकृतः .
संपश्यति यदैवैतत्सद्वस्त्विति विमुह्यति .. ५९..
वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् .
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव .. ६०..
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा .
मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी .. ६१..
अज्ञानसुघनाकारा घनाहंकारशालिनी .
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः .
पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् .. ६२..
बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् .
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् .. ६३..
दर्शनादर्शने हित्वा स्वयं केवलरूपतः .
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् .. ६४..
अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः .
ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा .. ६५..
स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् .
विरागकारणं तस्य किमन्यदुपदिश्यते .. ६६..
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः .
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते .. ६७..
बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः .
वासनां संपरित्यज्य मोक्षार्थित्वमपि त्यज .. ६८..
मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः .
मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः .. ६९..
ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि .
अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः .. ७०..
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् .
शेषस्थिरसमाधानो मयि त्वं भव मारुते .. ७१..
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् .
अनामगोत्रं मम रूपमीदृशं
भजस्व नित्यं पवनात्मजार्तिहन् .. ७२..
दृशिस्वरूपं गगनोपमं परं
सकृद्विभातं त्वजमेकमक्षरम् .
अलेपकं सर्वगतं यदद्वयं
तदेव चाहं सकलं विमुक्तॐ .. ७३..
दृशिस्तु शुद्धोऽहमविक्रियात्मको
न मेऽस्ति कश्चिद्विषयः स्वभावतः .
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः
सुपूर्णभूमाहमितीह भावय .. ७४..
अजोऽमरश्चैव तथाजरोऽमृतः
स्वयंप्रभः सर्वगतोऽहमव्ययः .
न कारणं कार्यमतीत्य निर्मलः
सदैव तृप्तोऽहमितीह भावय .. ७५..
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते .
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. ७६..
तदेतदृचाभ्युक्तम् ..
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् ..
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् ..
ॐ सत्यमित्युपनिषत् .
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति मुक्तिकोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com