.. मुक्तिका उपनिषद् ..
Excerpts from MUKTIKAA UPANISHHAD
.. मुक्तिका उपनिषत् ..
ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः .
नवाधिकशतं शाखा यजुशो मारुतात्मज ..
सहस्रसंख्यया जाताः शाखाः साम्नः परंतप .
अथर्वणस्य शाखाः स्युः पंचाशद्भेदतो हरे ..
एकैकस्यास्तु शाखाया एकैकोपनिषन्मता .
तासामेकामृचं यश्च पठते भक्तितो मयि ..
स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् .
इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति .
मांडूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ..
तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ .
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ..
तथापि दृढता नो चेद्विज्ञानस्याञ्जनासुत .
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ..
विदेहमुक्ताविच्छा चेदोष्टरशतं पठ .
तासं क्रमं सशांतिं च श्रुणु वक्ष्यामि तत्त्वतः ..
ईशकेनकठप्रश्नमुंडमांडूक्यतित्तिरिः .
ऐतरेयं च छांदोग्यं बृहदारण्यकं तथा ..
ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः .
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ..
मैत्रायणी कौषीतकी बृहज्जाबालतापनी .
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ..
सर्वसारं निरालंबं रहस्यं वज्रसूचिकम् .
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ..
परिव्राट् त्रिशिखि सीता चूडा निर्वाणमंडलम् .
दक्षिणा शरभं स्कंदं महानारायणाव्हयम् ..
रहस्यं रामतपनं वासुदेवं च मुद्गलम् .
शांडिल्यं पैंगलं भिक्षुमहच्छारीरकं शिखा ..
तुरीयातीतसंन्यासपरिव्रजाक्षमालिका .
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुंडिका ..
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् .
त्रिपुरातपनं देवीत्रिपुरा कठभावना ..
हृदयं कुंडली भस्म रुद्राक्षगणदर्शनम् ..
तारसारमहावाक्यपंचब्रह्माग्निहोत्रकम् .
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ..
शाट्यायनि हयग्रीवं दत्तात्रेयं च गारुडम् .
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ..
एवमष्टोत्तरशतं भावनात्रयनाशनम् .
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ..
गृहीत्वाष्टोत्तरशतं ये पठंति द्विजोत्तमाः .
प्रारब्धक्षयपर्यंतं जीवन्मुक्ता भवंति ते ..
ऐतरेयकौषितकीनादबिंद्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य-
बह्वृचानामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शांतिः ..
ईशावास्यबृहदारण्यजबालहंसपरमहंससुबालमन्त्रिकानिरालंबत्रिशिखीब्राह्मणमंडलब्राह्म-
णाद्वयतारकपैंगलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशाट्यायनीमुक्तिकानां
शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शांतिः ..
कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृतबिंद्वमृतनादकालाग्निरुद्रक्षुरिका-
सर्वसारशुकरहस्यतेजोबिंदुध्यानबिंदुब्रह्मविद्यायोगतत्त्वदक्षिणामूर्तिस्कंदशारीरक-
योगशिखैकाक्षराक्ष्यवधूतकठरुद्रहृदययोगकुंडलिनीपंचब्रह्मप्राणाग्निहोत्रवराहकलिसंतरण-
सरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां सह नाववत्विति शांतिः ..
केनच्छांदोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणिवासुदेवमहत्संन्यासाव्यक्तकुंडिका-
सावित्रीरुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनिषदामाप्यायंत्विति शांतिः ..
प्रश्नमुंडकमांडुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबालनृसिंहतापनीनारदपरिव्राजकसीताशरभ-
महानारायणरामरहस्यरामतापनीशांडिल्यपरमहंसपरिव्राजकान्नपूर्णासूर्यात्मपाशुपत-
परब्रह्मत्रिपुरातपनदेवीभावनाब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव-
दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शांतिः ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com); Last updated \today
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com