|| Narayaniyam || || नारायणीयम् || 1 The Glory Of The Lord सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् | अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वम् तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् || १-१|| एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् | एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः || १-२|| सत्त्वं यत्तत्पुराभ्यामपरिकलनतो निर्मलं तेन तावद्- भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् | तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते || १-३|| निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ | कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् १-४ निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले | तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ट रूपम् || १-५ तत्ते प्रत्यग्रधाराधरललितकळायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् | लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ || १-६|| कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने | नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन् || १-७ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान- प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च | इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् || १-८ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् | त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्- त्वं चाऽऽत्माराम् एवेत्यतुलगुणगणाधार शौरे नमस्ते || १-९|| ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् | अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि १-१०
2 The Form Of The Lord सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् | गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे || २-१|| केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् | काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् || २-२|| यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि | सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ- प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो || २-३|| तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि | तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक- प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् || २-४|| लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे- त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते | ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना- स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा || २-५|| एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् | सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः || २-६|| एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते | सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ || ७|| निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः | तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी || २-८|| अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः बोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता | क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन- श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः || २-९ त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती | सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर || २-१०||
3 The Qualities Of The Perfect Devotee पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः | चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू- नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् || ३-१|| गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ- प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् | भवत्पादाम्भोजस्मरणरसिको नामनिवहा- नहं गायंगायं कुहचन विवत्स्यामि विजने || ३-२|| कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती | न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते || ३-३|| मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः | चरन्तीश स्वैरं सततपरिनिर्भातपरचित्- सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् || ३-४|| भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये- दशेषक्लेशौघं न खलु हृदि सन्देहकणिका | न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् || ३-५|| भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी | पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिळन् महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् || ३-६|| विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ | भवन्मूर्त्यालोके नयनमथ ते पादतुलसी- परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते || ३-७|| प्रभूताधिव्याधिप्रसभचलिते मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् | उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् || ३-८|| मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् | अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन् भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन || ३-९|| किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया दहं तावद्देव प्रहितविविधार्तप्रलपितः | पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान् यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् || ३-१०||
4 Yoga And Its Attainment कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया| स्पष्टमष्टविधयोगचर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् || ४-१ ब्रह्मचर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः| कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः || ४-२ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः| इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः || ४-३ अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः| तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः || ४-४ विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुचिरशीलनावशात्| अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः || ४-५|| ध्यायतां सकळमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम्| सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते || ४-६|| तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक| आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणाधिकम् || ४-७|| इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः| मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् || ४-८|| त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा| योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः || ४-९ लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः| ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते || ४-१०|| अग्निवासरवळर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः| प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते || ४-११|| आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते| ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा || ४-१२|| तत्र वा तव पदेऽथवा वसन् प्राकृतप्रळय एति मुक्ततां | स्वेच्छया खलु पुराऽपि मुच्यते संविभिद्य जगदण्डमोजसा || ४-१३ तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः | तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो || ४-१४ अर्चिरादिगतिमीद्रुशीं व्रजन् विच्युतिं न भजते जगत्पते | सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् || ४-१५||
5 Cosmic Evoluion व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये मायायाम् गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम्| नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति- स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना || ५-१|| कालः कर्मगुणाश्च जीवनिवहा विश्वं च कार्यं विभोः चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः| तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां नो चेत् किं गगनप्रसूनसदृउशां भूयो भवेत्संभवः || ५-२|| एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम्| मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम् || ५-३|| मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः| कालादिप्रतिबोधिताऽथ भवता संचोदिता च स्वयं माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुच्यते || ५-४|| तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्वप्रधानः स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः| चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् || ५-५|| सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना| देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् || ५-६|| भूमन्मानसभुद्ध्यहंकृतिमिळच्चित्ताख्यवृत्यन्वितं तच्चान्तःकरणं विभो तव बलात् सत्वांश एवासृजत्| जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन- स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् || ५-७|| शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम्| एवम् माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् || ५-८|| एते भूतगणास्तथेन्द्रियगणा देवाश्च जाता पृथङ्- नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा| त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं- श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः || ५-९|| अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम्| साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् || ५-१०||
6 The Cosmos As The Form Of The Lord एवं चतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदन्ति| पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन् || ६-१|| जङ्घे तलातलमथो सुतलं च जानू किञ्चोरुभागयुगळं वितलातले द्वे| क्षोणीतलं जघनमम्बरमङ्ग नाभि- र्वक्षश्च शक्रनिलयस्तव चक्रपाणे || ६-२|| ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम्| एवं जगन्मयतनो जगदाश्चितैर- प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते || ६-३|| त्वद्ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द छन्दांसि केशव घनास्तव केशपाशाः| उल्लासिचिल्लियुगळं दृहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे || ६-४|| निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगळं तव नासिके द्वे| लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणश्च दशनाः शमनश्च दंष्ट्रा || ६-५|| माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश शकुन्तपङ्क्तिः| सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि- र्देवा भुजाः स्तनयुगं तव धर्मदेवः || ६-६|| पृष्ठं त्वधर्म इह देव मनस्सुधांशु- रयक्तमेव हृदयांबुजमम्बुजाक्ष| कुक्षिस्समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृषणौ च मित्रः || ६-७|| श्रोणिस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः| विप्रादिवर्णभवनं वदनाब्जबाहु- चारूरुयुग्मचरणं करुणांबुधे ते || ६-८|| संसारचक्रमयि चक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः| नाड्यस्सरित्समुदयस्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश || ६-९|| ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः| तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुन्धि रोगान् || ६-१०||
7 Brahma's Origin And Penance एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन- स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम्| यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः || ७-१|| सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं बोधं खल्वनवाष्य विश्वविषयं चिन्ताकुलस्तस्थिवान्| तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् || ७-२|| कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता| दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित- स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् || ७-३|| माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि- श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः| सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो || ७-४|| यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः| भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना- स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् || ७-५|| नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा| त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे || ७-६|| तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति| श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे || ७-७|| काळांभोदकळायकोमळरुचीचक्रेण चक्रं दिशा- मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम्| राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् || ७-८|| दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन्| जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे || ७-९|| आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते| इत्याभाष्य गिरं प्रतोष्यनितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् || ७-१०||
8 Description Of Pralaya एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा | ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् || ८-१|| सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय | निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् नैमित्तिकप्रळयमाहुरतोऽस्य रात्रिम् || ८-२|| अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् | प्राग्ब्रह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः || ८-३|| पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम् एकं परार्धमतिवृत्य हि वर्ततेऽसौ | तत्रान्त्यरात्रिजनितान्कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् || ८-४|| दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये | जगन्ति च त्वज्जठरं समीयु- स्तदेदमेकार्णवमास विश्वम् || ८-५|| तवैव वेषे फणिराज शेषे जलैकशेषे भुवने स्म शेषे | आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा || ८-६|| कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ | त्वया प्रसुप्तं परिसुप्तशक्ति- व्रजेन तत्राखिलजीवधाम्ना || ८-७|| चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये | कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ || ८-८|| विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान्प्रलीनान् | तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् || ८-९|| ततस्त्वदीयादयि नाभिरन्ध्रा- दुदञ्चितं किञ्चन दिव्यपद्मम्| निलीननिश्शेषपदार्थमाला सङ्क्षेपरूपं मुकुलायमानम् || ८-१०|| तदेतदंभोरुहकुड्मळं ते कळेबरात्तोयपथे प्ररूढम् | बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् || ८-११|| संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे | स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः || ८-१२|| अस्मिन्परात्मन् ननु पद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः | अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास विष्णो || ८-१३||
9 Description Of Creation स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् | तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन- श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् || ९-१|| महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् | क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् || ९-२|| अमुष्य हि सरोरुहः किमपि कारणं सम्भवे- दितिस्म कृतनिश्चयः स खलु नाळरन्ध्राध्वना | स्वयोगबलविद्यया समवरूढवान्प्रौढधीः त्वदीयमतिमोहनं न तु कळेबरं दृष्टवान् || ९-३|| ततस्सकलनाळिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् | निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही || ९-४|| शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्- प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः | अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् || ९-५|| किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ् मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् | कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् || ९-६|| श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः | कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् || ९-७|| लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे | भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् || ९-८|| शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् | उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवद्बलविजृम्भितः पवनपाथसी पीतवान् || ९-९|| तवैव कृपया पुनः सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ | तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः || ९-१०||
10 The Variety Of Creation वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा- दम्भोजयोनिरसृजत्किल जीवदेहान् | स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातिं मनुष्यनिवहानपि देवभेदान् || १०-१|| मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा | उद्दामतामसपदार्थविधानदून स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै || १०-२|| तावत्ससर्ज मनसा सनकं सनन्दं भूयं सनातनमुनिं च सनत्कुमारम् | ते सृष्टिकर्मणि तु तेन नियुज्यमाना स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् || १०-३|| तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः | नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा || १०-४|| एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा | तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् || १०-५|| रुद्राभिसृष्टभयदाकृतिरुद्रसंघ- संपूर्यमाणाभुवनत्रयभीतचेताः | मा मा प्रजाः सृज तपश्चर मङ्गलाये त्याचष्ट तं कमलभूर्भवदीरितात्मा || १०-६|| तस्याथ सर्गरसिकस्य मरीचिरत्रि स्तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः | अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदासः || १०-७|| धर्मादिकानभ्सृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् | त्वद्बोधितैः सनकदक्षमुखैस्तनूजै रुद्बोधितश्च विरराम तमो विमुञ्चन् || १०-८|| वेदान्पुराणनिवहानपि सर्वविद्याः कुर्वन्निजाननगणाच्चतुराननोऽसौ | पुत्रेषु तेषु विनिधाय स सर्गवृद्धि मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् || १०-९|| जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् | ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द मारुतपुरेश निरुन्धि रोगान् || १०-१०||
11 Entry Of Sanaka And Others Into Vaikuntha क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते | भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश || ११-१|| मनोज्ञनौश्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च | अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः || ११-२ भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्थान् विजयोऽप्यरुन्धाम् | तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् || ११-३ वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् | इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् || ११-४ तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष | खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या || ११-५|| प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः || ११-६ त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ | सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ || १-७ हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः | उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ || ११-८ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी | भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् || ११-९ ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् | भक्तैकदृश्यः स कृपानिधे त्वं निरुन्धि रोगान् मरुदालयेश || ११-१०
12 The Boar Incarnation स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् | स्रष्टारमाप शरणं भवदङ्घ्रिसेवा- तुष्टाशयं मुनिजनैः सह सत्यलोके || १२-१|| कष्टं प्रजाः सृजति मय्यवन्र्निमग्ना स्थानं सरोजभव कल्पय तत्प्रजानाम् | इत्येवमेष कथितो मनुना स्वयम्भू- रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् || १२-२|| हा हा विभो जलमहं न्यपिबं पुरस्ताद् अद्यापि मज्जति मही किमहं करोमि | इत्थं त्वदङ्घ्रियुगळं शरणं यतोऽस्य नासापुटात्समभवः शिशुकोलरूपी || १२-३|| अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्तात् भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् | अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् विस्मेरतां विधिरगात्सह सूनुभिः स्वैः || १२-४|| कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे नासापुटात्किमु भवेदजितस्य माया | इत्थं विचिन्तयति धातरिशैलमात्रः सद्यो भवन्किल जगर्ज्जिथ घोरघोरम् || १२-५|| तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् | तत्स्तोत्रहर्षुलमनाः परिणद्य भूय- स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् || १२-६|| ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः | तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोतॄन्मुनीन् शिशिरयन्नवतेरिथ त्वम् || १२-७|| अन्तर्जलं तदनु सङ्कुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् | आविश्य भीषणरवेण रसातलस्था- नाकम्पयन्वसुमतीमगवेषयस्त्वम् || १२-८|| दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिटिर्विभो त्वम् | आपातुकानविगणय्य सुरारिखेटान् दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् || १२-९|| अभ्युद्धरन्नथ धरां दशनाग्रलग्न- मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा | उद्धातघोरसलिलाज्जलधेरुदञ्चन् क्तीडावराहवपुरीश्वर पाहि रोगात् || १२-१०||
13 The Slaying Of Hiranyaksha हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते | भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् || १३-१|| स मायावी विष्णुर्हरति भवदीयं वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः | नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् || १३-२|| अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् | महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्था मृधविधौ || १३-३|| गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता | रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुं निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे || १३-४|| गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह !भोः !| मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे || १३-५|| ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् | समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गळन्माये मायास्त्वयि किल जगन्मोहनकरीः || १३-६|| भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषान्धमनसम् | गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः || १३-७|| महाकायःस्सोऽयं तव करसरोजप्रमथितो गळद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः | तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् || १३-८|| त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा | ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गळदेशेऽप्युपसदः || १३-९|| मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् | स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते || १३-१०||
14 The Kapila Incarnation समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा | निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय || १४-१ समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा | धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे || १४-२ गरुडोपरि काळमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् | हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय || १४-३ स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः | कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः || १४-४ स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या | भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् || १४-५|| मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ | भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् || १४-६ सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने | वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या || १४-७|| शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः | वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् || १४-८ निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् | कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् || १४-९ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै | कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् || १४-१०
15 The Teachings Of Kapila मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् | महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-१|| प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः | इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-२|| प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणास्तं भजेरन् | मदनुभजनतत्त्वालोचनैः साप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-३|| विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् | रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-४|| मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैः मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः | भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-५|| अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाळी | विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-६|| युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् | पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-७|| पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी | मयि निहितमकामं कर्म तूदक्पथार्थे कपिलतनुरिति त्वं देवहूत्यै न्यगादीः || १५-८|| इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः | विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् || १५-९|| परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् | वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् || १५-१०||
16 Nara Narayana And Dakshayaga दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः | धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे || १६-१|| मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् | यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः || १६-२|| दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः | पर्यायनीर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सललिम् || १६-३|| अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः | शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् || १६-४|| कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासैः | विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीतस्त्वायाथ जगदे मृदुहासभाजा || १६-५|| भीत्यालमङ्गजवसन्तसुराङ्गना वो मन्मानसन्त्विह जुषुध्वमिति ब्रुवाणः | त्वं विस्मयेन परितः स्तुवतामथैषां प्रादर्शयः स्वपरिचारककातराक्षीः || १६-६|| सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमळैः किल मोहमापुः | दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् || १६-७|| दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः पर्याकुलोऽजनि भवन्महिमावमर्शात् | एवं प्रशान्तरमणीयतरोऽवतारस् त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव || १६-८|| दक्षस्तु धातुरतिलाळनया रजोन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् | येन व्यरुन्ध स भवत्तनुमेव शर्वं यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् || १६-९|| कृद्धेशमर्दितमखः स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीवः | त्वत्पूरितक्रतुवरः पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश || १६-१०||
17 The Story Of Dhruva उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा | अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताऽभूत् || १७-१|| अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् | आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया || १७-२|| त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् | साऽपि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस || १७-३|| आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा मानी निरेत्य नगरात्किल पञ्चवर्षः | सन्दृष्टनारदनिवेदितमन्त्रमार्गस् त्वामारराध तपसा मधुकाननान्ते || १७-४|| ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ | बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्च मासान् || १७-५|| तावत्तपोबलनिरुच्छ्वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः | त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढः || १७-६|| त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते | तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण || १७-७|| तावद्विबोधविमलं प्रणुवन्तमेन- माभाषथास्त्वमवगम्य तदीयभावम् | राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् || १७-८|| इत्यूचिषि त्वयि गते नृपनन्दनोऽसौ- आनन्दिताखिलजनो नगरीमुपेतः | रेमे चिरं भवदनुग्रहपूर्णकामस् ताते गते च वनमादृतराज्यभारः || १७-९|| यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनूक्त्या | शान्त्या प्रसन्नहृदयाद्धनदादुपेतात् त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा || १७-१०|| अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते | एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि ममामयौघान् || १७-११||
18 The Story Of Prithu जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुतः स वेननामा | तद्दोषव्यथितमतिः स राजवर्य- स्त्वत्पादे विहितमना वनं गतोऽभूत् || १८-१|| पापोऽपि क्षितितलपालनाय वेनः पौराद्यैरुपनिहितः कठोरवीर्यः | सर्वेभ्यो निजबलमेव संप्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् || १८-२|| सम्प्राप्ते हितकथनाय तापसौधे मत्तोऽन्यो भवनपतिर्न कश्चनेति | त्वन्निन्दावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः || १८-३|| तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे | त्यक्ताघे परिमथितादथोरुदण्डात् दोर्दण्डे परिमथिते त्वमाविरासीः || १८-४|| विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्यः | वेनार्त्या कबलितसम्पदं धरित्रीं- आक्रान्तां निजधनुषा समामकार्षीः || १८-५|| भूयस्तां निजकुलमुख्यवत्सयुक्तैर् देवाद्यैः समुचितचारुभाजनेषु | अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् || १८-६|| आत्मानं यहति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे | स्पर्धालुः शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् || १८-७|| देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनवरमण्डले जुहूषौ | रुन्धाने कमलभवे क्रतोः समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् || १८-८|| तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपदः कदापि देव | सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् || १८-९|| विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनान्तसेवी | तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् || १८-१०||
19 The Story Of Pracetas पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतदॄतौ | प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव || १९-१ पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्याभिरता दशापि ते | पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् || १९-२ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः | प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् || १९-३ स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः | भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता || १९-४ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः | पिताऽपि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ || १९-५ कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः | विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युतिः || १९-६ प्रचेतसां तावदयाचतामपिः त्वमेव कारुण्यभराद्वारानदाः | भवद्विचिन्ताऽपि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा || १९-७ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् | सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् || १९-८ ततश्च ते भूतलरोधिनस्तरून्कृधा दहन्तो द्रुहिणेन वारिताः | द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे || १९-९ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धयाधिया | अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहिमाम् || १९-१०
20 The Story Of Rishabhayogisvara प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः | त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा || २०-१ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः | स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते || २०-२ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः | अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः || २०-३|| त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या | तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते || २०-४ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे | यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् || २०-५ जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि | अजीजनत्तत्र शतं तनूजान्येषां क्षितीशो भरतोऽग्रजन्मा || २०-६ नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् | सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः || २०-७ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् | स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् || २०-८ परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः | विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः || २०-९|| शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् | दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ || २०-१०
21 Mode Of Worship In Jambudvipa Etc मध्योद्भवओ भुव इळावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि | शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् || २१-१|| भद्राश्वनामक इळावृतपूर्ववर्षे भद्रश्रवोभिरृषिभिः परिणूयमानम् | कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् || २१-२|| ध्यायामि दक्षिणगते हरिवर्षवर्षे प्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् | उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् || २१-३|| वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् | लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे त्वाम् || २१-४|| रम्येह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् | भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् || २१-५|| वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् | संसेवते पितृगणप्रवरोऽर्यमायं तं त्वां भजामि भगवन् परचिन्मयात्मन् || २१-६|| किं चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदैः | दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते || २१-७|| याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा | सीताभिरामपरमाद्भुतरूपशाली रामात्मकः परिलसन्परिपाहि विष्णो || २१-८|| श्रीनारदेन सह भारतखण्डमुख्यैस् त्वं सांख्ययोगनुतिभिः समुपास्यमानः | आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् || २१-९|| प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीये भजन्ति कुशनामनि वह्निरूपम् | क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः || २१-१०|| सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः | त्वं शिंशुमारवपुषा महतामुपास्यः सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन् || २१-११|| पाताळमूलभुवि शेषतनुं भवन्तं लोकैककुण्डलविराजिसहस्रशीर्षम् | नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्- जुष्टं भजे हर गदान्गुरुगेहनाथ || २१-१२||
22 The Story Of Ajamila अजामिळो नाम महीसुरः पुरा चरन्विभो धर्म पथान् गृहाश्रमी | गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् || २२-१ स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज्य तया समारमन् | अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् || २२-२ स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन्भिया | पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् || २२-३ दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् | पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोरमाः || २२-४ अमुं च संपाश्य विकर्षतो भतान् विमुञ्चतेत्यारुरुधुर्बलादमी | निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् || २२-५ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्दिताः | न निष्कृतिः किईं विदिता भवादृशामिति प्रभो त्वत्पुरुषा बभाषिरे || २२-६ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् | अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो त्वत्पुरुषा बभाषिरे || २२-७ अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता | तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो त्वत्पुरुषा बभाषिरे || २२-८ नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः | यथाग्निरेधांसि यथौषधं गदानिति प्रभो त्वत्पुरुषा बभाषिरे || २२-९ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते | भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ || २२-१० स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति | स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालय पाहि माम् || २२-११
23 The Stories Of Daksha, Chitraketu, Etc प्राचेतस्तु भगवन्नपरोऽपि दक्षस्- त्वत्सेवनं व्यधित सर्गविवृद्धिकामः | आविर्बभूविथ तदा लसदष्टबाहुस्- तस्मै वरं ददिथ तां च वधूमसिक्नीम् || २३-१|| तस्यात्मजास्त्वयुतमीश पुनः सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः | नैकत्रवासमृषये स मुमोच शापं भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने || २३-२|| षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूपः | त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्रः || २३-३|| प्राक्शूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् | लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- संघैरमुह्यदवशस्तव माययासौ || २३-४|| तं नारदस्तु सममङ्गिरसा दयालुः सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् | कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त || २३-५|| स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् | विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुण्टःअमतिरन्वभजद्भवन्तम् || २३-६|| तस्मै मृणाळधवळेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेन | प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्त्वात्मतत्वमनुगृह्य तिरोदधाथ || २३-७|| त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् | संगापयन्गुणगणं तव सुन्दरीभिः सङ्गातिरेकरहितो ललितं चचार || २३-८|| अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे | निश्शङ्कमङ्ककृतवल्लभमङ्गजारिम् तं शङ्करं परिहसन्नुमयाभिशेपे || २३-९|| निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी | भक्त्यात्मतत्त्वकथनैस्समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते || २३-१०|| त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपि तान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे | दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश || २३-११||
24 The Story Of Prahlada हिरण्याक्षे पोत्रीप्रवरवपुषा देव भवता हते शोकक्रोधग्लपितघृतिरेतस्य सहजः | हिरण्यप्रारम्भः कशिपुरमररातिसदसि प्रतिज्ञामातेने तव किल वधार्थं मुररिपो || २४-१|| विधातारं घोरं स खलु तपसित्वा नचिरतः पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् | वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् || २४-२|| निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्- बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा | नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते || २४-३|| ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा | स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् || २४-४|| सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् | गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे || २४-५|| अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः | गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन् वधिपायानस्मिन् व्यतत्नुत भवत्पादशरणे || २४-६|| स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्- महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः | गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत || २४-७|| ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् | गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान् भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् || २४-८|| पिता षृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्धः प्राहैनं कुलहतक कस्ते बलमिति | बलं मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् || २४-९|| अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तम्भं चलितकरवाळो दितिसुतः | अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् || २४-१०||
25 The Incarnation As Narasimha स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय- न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः | श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् || २५-१|| दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो | किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः || २५-२|| तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर- प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः | व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महा- जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् || २५-३|| उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् | व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावित- स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः || २५-४|| नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् | वीरो निर्गळितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान् व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो || २५-५|| भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद् द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि | निर्भिन्दन्नधिगर्भनिर्भरगळद्रक्ताम्बु बद्धोत्सवं पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् || २५-६|| त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि | भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ || २५-७ तावन्मांसवपाकराळवपुषं घोरान्त्रमालाधरं त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् | अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत || २५-८|| भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः | शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत- स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् || २५-९|| एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध- श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते | तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् || २५-१०||
26 The Liberation Of Gajendra 26 इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् | त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् || २६-१ कुम्भोद्भूतिस्संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति | शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् || २६-२ दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः | सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः || २६-३ स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् | शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे || २६-४ हूहूस्तावद्देवलस्यापि शापत् ग्राहीभूतस्तज्जले वर्तमानः | जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् || २६-५ त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् | प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् || २६-६ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् | पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन् || २६-७ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते | सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् || २६-८ हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः | गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म || २६-९ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् | इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश || २६-१०
27 The Churning Of The Milk Ocean दुर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः | नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् || २७-१ शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु | शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापुः || २७-२ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं प्रादुष्षन्वरद पुरः परेण धाम्ना | हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् || २७-३ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् | भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ || २७-४ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले | प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् || २७-५ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने | देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् || २७-६ वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन | अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ || २७-७ उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे | आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् || २७-८ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् | अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः || २७-९ दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते | कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसंघान् || २७-१० उद्भ्राम्यद्बहुतिमिनक्रचक्रवाळे तत्राब्धौ चिरमथितेऽपि निर्विकारे | एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश पाहि रोगात् || २७-११
28 The Churning Of The Ocean (contd) गरळं तरळानलं पुरस्ताज्जलधेरुद्विजगाळ काळकूटम् | अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् || २८-१ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् | हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि || २८-२ जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी | अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः || २८-३ त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् | सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् || २८-४ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् | मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् || २८-५ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना | पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रीळविलासमाससाद || २८-६|| गिरिश द्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् | अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला || २८-७ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् | त्वदुरोविलसत्तदीक्षणश्री परिवृष्ट्या परिपुष्टमास विश्वम् || २८-८ अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् | तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः || २८-९|| तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः | अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश || २८-१०
29 The Mohini Incarnation, Etc उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् | सधस्तिरोदधिथ देव भवत्प्रभावाद् उद्यत्सयूथ्यकलहा दितिजा बभूवुः || २९-१|| श्यामां रुचापि वयसापि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलंभङ्गुरां त्वम् | पीयुषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे || २९-२|| का त्वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽमून् | विश्वस्यते मयि कथं कुलटास्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानीः || २९-३|| मोदात्सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा | पङ्क्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् || २९-४|| अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु | त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावीः || २९-५|| त्वत्तः सुधाहरणयोग्यफलं परेषु दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् | घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे त्वमिहाविरासीः || २९-६|| त्वं कालनेमिमथ मालिसुखाञ्जघन्थ शक्रो जघान बलिजम्भवलान् सपाकान् | शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वम् || २९-७|| योषावपुर्दनुजमोहनमाहितं ते श्रुत्वं विलोकनकुतूहलवान्महेशः | भूतैस्समं गिरिजया च गतः पदं ते स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः || २९-८|| आरामसीमनि च कन्दुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् | त्वामेष वीक्ष्य विगळद्वसनां मनोभू- वेगादनङ्गरिपुरङ्ग समालिलिङ्ग || २९-९|| भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोधः | त्वन्मानितस्तव महत्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ || २९-१०||
30 The Vamana Incarnation शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा | विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीतः || ३०-१|| पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना | त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा || ३०-२|| तस्यावधौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः | नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासीः || ३०-३|| त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा | प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवन्तम् || ३०-४|| पुण्याश्रमं तमभिवर्षति पुष्पवर्षै- र्हर्षाकुले सुरकुले कृततूर्यघोषे | बध्वाञ्जलिं जय जयेति तनुः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः || ३०-५|| तावत्प्रजापतिमुखैरुपनीय मौञ्जी- दण्डाजिनाक्षवलयादिभिरर्च्यमानः | देदीप्यमानवपुरीश कृताग्निकार्य स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् || ३०-६|| गात्रेण भाविमहिमोचितगौरवं प्राग् व्यावृण्वतेव धरणीं चलयन्नयासीः | छत्रं परोष्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विवं सन्निधातुम् || ३०-७|| तां नर्मदित्तरतटे हयमेधशाला- मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः | भास्वान्किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैः शशङ्के || ३०-८|| आनीतमाशु भृगुभिर्महसाभिभूतै स्त्वां रम्यरूपमसुरः पुळकावृताङ्गः | भक्त्या समेत्य सुकृती परिषिच्य पादौ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् || ३०-९|| प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे | यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथाः || ३०-१०||
31 The Humbling Of Bali प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद | मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये || ३१-१|| तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ- प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् | भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् || ३१-२|| विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् | यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै || ३१-३|| पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- दित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् | दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे || ३१-४|| याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः | विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् || ३१-५|| निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् | दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा- मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् || ३१-६|| त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् | हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन्-भुवनमचरज्जाम्बवान् भक्तिशाली || ३१-७|| तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् | कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः || ३१-८|| पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि | पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् || ३१-९|| दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै- र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् | मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैस्सन्तानितमखवरः पाहि वातालयेश || ३१-१०||
32 Matsya Avatar पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे | निद्रोन्मुखब्रह्ममुखात् दृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् || ३२-१ सत्यव्रतस्य द्रमिडाधिभर्तुर्नदीजले तर्पयतस्तदानीम् | कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः || ३२-२ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रेण मुनिः स्वगेहम् | स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् || ३२-३ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् | पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः || ३२-४ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः | सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् || ३२-५ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते | तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् || ३२-६ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् | निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गषृङ्गे तरणिं बबन्धुः || ३२-७ आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् | संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः || ३२-८ कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् | वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः || ३२-९ स्वतुङ्गषृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा | विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः || ३२-१०
33 The Story Of Ambarisha वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीषुः | सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव || ३३-१|| त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथाः प्रसादम् | येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान्प्रविततार सहस्रधारम् || ३३-२|| स द्वादशीव्रतमथो भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकण्ठे | पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् || ३३-३|| तत्राथ पारणदिने भवदर्चनान्ते दुर्वाससाऽस्य मुनिना भवनं प्रपेदे | भोक्तुं वृतश्च स नृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमान्विधास्यन् || ३३-४|| राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदा- द्वारैव पारणमकारि भवत्परेण | प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन् कृधोद्धृतजटो विततान कृत्याम् || ३३-५|| कृत्यां च तामसिधरां भुवनं दहन्ती- मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे | त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन्मुनिमन्वधावीत् || ३३-६|| धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् | कः कालचक्रमतिलङ्घयतीत्यपास्तः शर्वं ययौ स च भवन्तमवन्दतैव || ३३-७|| भूयो भवन्निलयमेत्य मुनिं नमन्तं प्रोचे भवानहमृषे ननु भक्तदासः | ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेति भूमन् || ३३-८|| तावत्समेत्य मुनिना स गृहीतपादो राजाऽपसृत्य भवदस्त्रमसावनौषीत् | चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् || ३३-९|| राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् | भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् सायुज्यमाप च स मां पवनेश पायाः || ३३-१०||
34 Sri Rama Avatar गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेऽष्वृश्यषृङ्गे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् | तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना || ३४-१ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः | नॄणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् || ३४-२ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् | भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः || ३४-३ आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते | शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या || ३४-४|| तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारः पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी | नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा- न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे || ३४-५|| श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च | अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् || ३४-६ नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे | ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या || ३४-७|| प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् | दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा || ३४-८|| सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया- सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् | तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् || ३४-९ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने- त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् | गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश || ३४-१०||
35 Sri Rama Avatar (contd) नीतस्सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् | हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरळितस्त्वं मतङ्गाश्रमान्ते || ३५-१|| सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता- मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् | सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासैः || ३५-२ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य- प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाऽङ्गुलीयम् | प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते || ३५-३ त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमी- चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः | तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष- प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान्मध्यमार्गम् || ३५-४ कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः | व्याकुर्वन्सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः || ३५-५|| सौमित्रिस्त्वत्र शक्तिप्रहृतिगळदसुर्वातजानीतशैल- घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् | मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् || ३४-६ गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गळततिमबलामग्निशुद्धां प्रगृह्णन् | देव श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्- लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण || ३५-७ प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसी- र्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः | शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते || ३५-८|| वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः | हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् || ३५-९|| सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या | नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् || ३५-१०
36 Parasurama Avatar अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया | दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा- नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् || ३६-१ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् | सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् || ३६-२|| लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना- गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया | ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितु- स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरन् || ३६-३|| पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् | लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् || ३६-४ आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै- स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः | गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि- प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः || ३६-५|| शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् | आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् || ३६-६ पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा- सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः | सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः || ३६-७|| लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह- श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् | चक्रे त्वय्यथ वैष्णवेऽपि विकले बुध्वा हरिं त्वां मुदा ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् || ३६-८|| भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् | ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् दिक्चक्रेषु कुठारयन्विशिखयन् निःक्षात्रियां मेदिनीम् || ३६-९ तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन् सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पितॄन् | यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् || ३६-१० न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः | ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं सृवक्षेपणा- दुत्सार्योद्धृतकेरळो भृगुपते वातेश संरक्ष माम् || ३६-११||
37 The Prelude To The Incarnation As Krishna सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् | तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः || ३७-१|| हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्- एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् | इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे || ३७-२|| ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः | सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं नत्वा तं स्तुमहे जवादिति युयः साकं तवा,अकेतनम् || ३७-३|| ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः | त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा- नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् || ३७-४|| जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै- स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना | देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् || ३७-५|| श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित- स्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु | विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनन्दिनीमुदवहद्राजा स शूरात्मजः || ३७-६|| उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय- न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा | अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः सत्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् || ३७-७|| गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै- र्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् | आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा || ३७-८|| तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो | मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना- दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् || ३७-९|| प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः | देवक्या जठरं विवेशिथ विभो संस्तूयमानस्सुरैः स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे || ३७-१०
38 The Birth Of Sri Krishna आनन्दरूप भगवन्नयि तेऽवतारे प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः | कान्तिव्रजैरिव घनाघनमण्डलैर्द्या- मावृण्वती विरुरुचे किल वर्षवेला || ३८-१|| आशासु शीतलतरासु पयोदतोयै- राशासिताप्तिविवशेषु च सज्जनेषु | नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाऽविरासीः || ३८-२|| बाल्यसृशापि वपुषा दधुषा विभूती- रुद्यत्किरीटकटकाङ्गदहारभासा | शङ्खारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे || ३८-३|| वक्षःस्थलीसुखनिलानविलासिलक्ष्मी- मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः | तन्मन्दिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयन्निव विरेजिथ वासुदेव || ३८-४|| शौरिस्तु धीरमुनिमण्डलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् | आनन्दबष्पपुळकोद्गमगद्गदार्द्र- स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् || ३८-५|| देव प्रसीद परपूरुष तापवल्ली- निर्लूनदात्र समनेत्र कलाविलासिन् | खेदानपाकुरु कृपागुरुभिः कटाक्षैर्- इत्यादि तेन मुदितेन चिरं नुतोऽभूः || ३८-६|| मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् | प्राचीनजन्मयुगळं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् || ३८-७|| त्वत्प्रेरिस्ततदनु नन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः | त्वां हस्तयोरधृत चित्ताविधार्यमार्यै- रम्भोरुहस्थकळहंसकिशोररम्यम् || ३८-८|| जाता तदा पुशुपसद्मनि योगनिद्रा निद्राविमुद्रितमथाकृत पौरलोकम् | त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद् द्वारैः स्वयं व्यघटि सङ्गटितैस्सुगाढम् || ३८-९|| शेषेण भूरिफणवारितवारिणाऽथ स्वैरं प्रदर्शितपथो मणिदीपितेन | त्वां धारयन् स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् || ३८-१०||
39 Bringing Yogamaya From Gokulam Etc भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् | अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ || ३९-१|| प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- मपावृतकवाटिकां पशुपवाटिकामाविशन् | भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा- द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः || ३९-२|| ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव- द्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् | विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् || ३९-३|| ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् | द्विपो नळिनिकान्तरादिव मृणाळिकामाक्षिप- न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् || ३९-४|| ततो भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा | अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्- महायुधमहो गता किल विहायसा दिद्युते || ३९-५|| नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् | इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी || ३९-६|| प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बबकपूतनाप्रमुखदानवा मानिनः | भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः || ३९-७|| ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया- प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे | विबुध्य वनिताजनैस्तनयसंभवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् || ३९-८|| अहो खलु यशोदया नवकळायचेतोहरं भवन्तमलमन्तिके प्रथममपिबन्त्या दृशा | पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः || ३९-९|| भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसङ्कुले द्विजकुलाय किं नाददात् | तथैव पशुपालकाः किमु न मङ्गलं तेनिरे जगत्रितयमङ्गल त्वमिह पाहि मामामयात् || ३९-१०||
40 The Salvation Of Putana तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् | समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः || ४०-१|| अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् | इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् || ४०-२ इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् | इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ || ४०-३ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना | तरळषट्पदलालितकुन्तला कपटपोतक ते निकटं गता || ४०-४|| सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना | व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे || ४०-५ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता | स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने || ४०-६ समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः | महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् || ४०-७ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना | निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ || ४०-८ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे | व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः || ४०-९ भुवनमङ्कलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः | त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् || ४०-१०||
41 The Cremation Of Putana व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः | निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् || ४१-१ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः | त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् || ४१-२ त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः | शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति || ४१-३ मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् | इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् || ४१-४ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् | इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् || ४१-५ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् | भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे || ४१-६|| गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः | वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् || ४१-७ अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन | एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः || ४१-८ भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन | नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः || ४१-९|| निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती | दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् || ४१-१०
42 The Slaying Of Shakatasura कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा | महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी || ४२-१ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः | विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः || ४२-२ ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः | भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् || ४२-३ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः | भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः || ४२-४ कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् | न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः || ४२-५ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् | मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः || ४२-६ भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः | भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः || ४२-७ प्रवाळताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ | इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः || ४२-८ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे | इति स्म सङ्गृह्य पिता त्वदङ्गुकं मुहुर्मुहुः श्लिष्यति जीतकण्टकः || ४२-९ अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः | रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्धृवम् || ४२-१० प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः | व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे || ४२-११
43 The Slaying Of Trinavarta त्वमेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढगरिमाणमपारयन्ती | माता नोधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का || ४३-१|| तावद्विदूरमुपकर्णितघोरघोष- व्याजृम्भिपांसुपटलीपरिपूरिताशः | वात्यावपुः स किल दैत्यवरस्तृणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् || ४३-२|| उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके | हा बालक्स्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद || ४३-३|| तावत्स दानववरोऽपि च दीनमूर्ति- र्भावत्कभारपरिधारणलूनवेगः | सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः || ४३-४|| रोदोपकर्णनवशादुपगम्य गेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः | त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् || ४३-५|| रोदाकुलास्तदनु गोपगणा बहिष्ठ- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् | प्रैक्षन्त हन्त निपन्तममुष्य वक्ष- स्यक्षीणमेव च भवन्तमलं हसन्तम् || ४३-६|| ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् | आघ्नानमम्बुजकरेण भवन्तमेत्य गोपा दधुर्गिरिवरादिव नीलरत्नम् || ४३-७|| एकैकमाशु परिगृह्य निकामनन्द- न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् | आदातुकामपरिशङ्कितगोपनारी- हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् || ४३-८|| भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविन्द एव परिपालयतात्सुतं नः | इत्यादि मातरपितृप्रमुखैस्तदानीं सम्प्रार्थितस्त्वदवनाय विभो त्वमेव || ४३-९|| वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान्मम गदान्किमु नो धुनोषि | किं वा करोमि पुरनप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् || ४३-१०||
44 The Naming Ceremony Etc गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् | हृद्गतहोरातत्वो गर्गमुनिस्त्वद्गृह्ं विभो गतवान् || ४४-१|| नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् | मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः || ४४-२|| यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् | गर्गो निर्गतपुळकश्चक्रे तव साग्रजस्य नामानि || ४४-३|| कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा | इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो || ४४-४|| कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् | जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् || ४४-५ अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् | अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे || ४४-६|| स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः | दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः || ४४-७ जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् | श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे || ४४-८|| अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् | हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः || ४४-९|| गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् | मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश || ४४-१०||
45 Krishna's Childhood Pranks अयि सबल मुरारे पाणिजानुप्रचारैः किमपि भवनभागान् भूषयन्तौ भवन्तौ | चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् || ४५-१|| मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ | भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् || ४५-२|| अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ | बलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव || ४५-३|| दृतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ | द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च || ४५-४|| स्नुतकुचभरमङ्के धारयन्ती भवन्तं तरळमति यशोदा स्तन्यदा धन्यधन्या | कपटपशुप मध्ये मुग्धहासाङ्कुरं ते दशनमुकुळहृद्यं वीक्ष्यं वक्त्रं जहर्ष || ४५-५|| तदनु चरणचारी दारकैः साकमारा- न्निलयततिषु खेलन् बालचापल्यशाली | भवनशुकबिडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभूः || ४५-६|| हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्यः | विगळितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यन्ताकुला नित्यमासन् || ४५-७|| प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् | सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् || ४५-८|| मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे | इति विहितमतिः किं देव सन्त्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन || ४५-९|| तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोकः | हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान्वातगेहाधिनाथ || ४५-१०||
46 Revelation Of The Cosmic Form अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये | परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी || ४६-१ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते | फलसञ्चयवञ्चनकृधा तव मृद्भोजनमूचुरर्भकाः || ४६-२ अयि ते प्रळयावधौ विभो क्षितितोयादिसमस्तभक्षिणः | मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा || ४६-३|| अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता | इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् || ४६-४ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् | इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः || ४६-५ अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव | पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः || ४६-६ कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् | मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने || ४६-७ कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् | स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे || ४६-८ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः | अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् || ४६-९|| धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् | स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् || ४६-१०||
47 Tying Krishna To The Mortar एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् | स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ || ४७-१|| अर्धपीतकुचकुड्मळे त्वयि स्निग्धहासमधुराननाम्बुजे | दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते || ४७-२ सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा | मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया || ४७-३ उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता | त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ || ४६-४ वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ | सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे || ४६-५|| त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा | रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे || ४७-६|| बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति | सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत || ४७-७ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् | नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः || ४७-८ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा | प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः || ४७-९|| यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया | एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् || ४७-१०||
48 The Redemption Of Nalakubara And Manigriva मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः | मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः || ४८-१ कुबेरसूनुर्नळकूबराभिधः परो मणिग्रीव इति प्रथां गतः | महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् || ४८-२ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ | विवाससौ केळिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत || ४८-३ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ | इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतस्सुखम् || ४८-४ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् | इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः || ४८-५ अतन्द्रमिन्द्रदृयुगं तथाविधं समेयुषा मन्थरगामिना त्वया | तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू || ४८-६ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा | महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः || ४८-७ इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ | मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् || ४८-८ ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले | विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः || ४८-९ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना | इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर पाहि मां गदात् || ४८-१०
49 Journey To Vrindavana भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे | अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः || ४९-१|| तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् | इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति || ४९-२ बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन | त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः || ४९-३|| अनोमनोज्ञध्वनिधेनुपाळीखुरप्रणादान्तरतो वधूभिः | भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् || ४९-४ निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् | अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् || ४९-५ नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु | वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् || ४९-६ अराळमार्गागतनिर्मलापां मराळकुजाकृतनर्मलापाम् | निरन्तरस्मेरसरोजवक्त्रां कळिन्दकन्यां समलोकयस्त्वम् || ४९-७|| मयूरकेकाशतलोभनीयं म्यूखमीलशबळं मणीनाम् | विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् || ४९-८ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः | ततस्ततस्तां कृटिलामपश्यः कळिन्दजां रागवतीमिवैकाम् || ४९-९ तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे | चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् || ४९-१०
50 Slaying Of Vaatsasura And Bakaasura तरलमधुकृद्वृन्दे बृन्दावनेऽथ मनोहरे पशुपशिशुभिस्साकं वत्सानुपालनलोलुपः | हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरळीवेत्रं नेत्राभिरामतनुद्युतिः || ५०-१|| विहितजगतीरक्षं लक्ष्मीकराम्बुजलाळितं ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने | किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते || ४९-२|| विलसदुलपे कान्तारान्ते समीरणशीतळे विपुलयमुनातीरे गोवर्धनाचलमूर्धसु | लळितमुरळीनादस्सञ्चारयन्खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः || ५०-३|| रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् | तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् || ५०-४|| निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने | दिवि परमिळद्वृन्दा बृन्दारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे || ५०-५|| सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः | झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकरस्सोऽयं नूनं समेति शनैरिति || ५०-६|| क्वचन दिवसे भूयो भूयस्तरेपरुषातपे तपनतनयापाथः पातुं गता भवदादयः | चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् || ५०-७|| पिबति सलिलं गोपव्राते भवनतमभिद्रुतः स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् | दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् || ५०-८|| सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना- मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा | शमननिलयं याते तस्मिन्बके सुमनोगणे किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः || ५०-९|| लळितमुरळीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः | जनितजननीनन्दानन्दस्समीरणमन्दिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् || ५०-१०||
51 The Slaying Of Aghaasura कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् | समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः || ५१-१ विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः | महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः || ५१-२ प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः | अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः || ५१-३ महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने | मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि || ५१-४ प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके | विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् || ५१-५ गळोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते | द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ || ५१-६ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् | विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः || ५१-७ सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः | दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् || ५१-८ विषाणिकामपि मुरळीं नितम्बके निवेशयन्कबळधरः कराम्बुजे | प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः || ५१-९ सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले | इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् || ५१-१०
52 The Stealing Of The Calves By Brahma अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे | ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान्प्रवितत्य मायाम् || ५२-१|| वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती | त्वं सामिभुक्तकबळो गतवांस्तदानीं भुक्तांस्तिरोधित सरोजभवः कुमारान् || ५२-२|| वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभाण्डमुरळीगवलादिरूपः | प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाथ बहुधा व्रजमाययाथ || ५२-३|| त्वामेव शिक्यागवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः | गोरूपिणीभिरपि गोपवधूमयीभि- रासादितोऽसि जननीभिरतिप्रहर्षात् || ५२-४|| जीवं हि किञ्चिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहन्त्यः | आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः || ५२-५|| एवं प्रतिक्षणविजृम्भितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् | त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान्युवयोर्विशेषः || ५२-६|| वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे | प्रादीदृशः प्रतिनवान्मकुटान्गदादि- भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् || ५२-७|| प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान्नयनाभिरामान् | लीलानिमीलितदृशः सनकादियोगि- व्यासेवितान्कमलभूर्भवतो ददर्श || ५२-८|| नारायणाकृतिमसंख्यतमान्निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता | मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबळार्धपाणिः || ५२-९|| नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते | पोतैः समं प्रमुदितैः प्रविशन्निकेतं वातालयाधिप विभो परिपाहि रोगात् || ५२-१०||
53 The Slaying Of Dhenukasura अतीत्य बाल्यं जगतां पते त्वम् उपेत्य पौगण्डवयो मनोज्ञम् | उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् || ५३-१|| उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः | गोत्रापरित्राणकृतेऽवतीणस्तदेव देवाऽऽरभथास्तदा यत् || ५३-२ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन | श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् || ५३-३ उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् | मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि || ५३-४ समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे | इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् || ५३-५ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् | जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन् निरास्थः || ५३-६ विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् | भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये || ५३-७ तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् | सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः || ५३-८ मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा | तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् || ५३-९ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः | जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् || ५३-१०
54 The Reason For Kaliya Coming To The Yamuna त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् | मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् || ५४-१ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः | तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता || ५४-२ तस्मिन्काले काइयः क्ष्वेळदर्पात्सर्पारातेः कल्पितं भागमश्नन् | तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् || ५४-३ घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेळवेगात् | पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् || ५४-४ काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् | त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेळतोयम् || ५४-५ नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः | प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः || ५४-६ किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः | दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः || ५४-७ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् | द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः || ५४-८ रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा | आश्चर्योऽयं क्ष्वेळवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः || ५४-९ एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि | तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ || ५४-१०
55 Krishna's Dance On Kaliya अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् | द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् || ५५-१ अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा | हृदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे || ५५-२ भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला | परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती || ५५-३ अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः | उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः || ५५-४|| फणशृङ्गसहस्रविनिस्सृमरज्वलदग्निकणोग्रविषाम्बुधरम् | पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव || ५५-५ ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महाभुजगः | परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो || ५५-६ अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे | व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः || ५५-७ अखिलेषु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् | फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता || ५५-८ अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा | कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् || ५५-९ जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः | त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् || ५५-१०
56 The Lord Blesses Kaliya रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे | अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते || ५६-१|| नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् | परिमथन्पदपङ्करुहा चिरं व्यहरथाः करताळमनोहरम् || ५६-२ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि | फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः || ५६-३|| अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः | मुनिभिरप्यनवाष्यपथैः स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् || ५६-४ फणिवधूजनभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा | फणिपतिर्भवताच्युत जीवितस्त्वजि समर्पितमूर्तिरवानमत् || ५६-५ रमणकं व्रजे वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् | इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् || ५६-६ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः | तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ || ५६-७ निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे | स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः || ५६-८ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् | अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् || ५६-९ शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाऽप्यसौ | इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैः सह मे गदान् || ५६-१०
57 The Slaying Of Pralambasura रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् | सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः || ५७-१|| सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् | काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् || ५७-२|| तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः | दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे || ५७-३|| जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः | वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः || ५७-४|| गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि | त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् || ५७-५|| कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् | श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् || ५७-६|| एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु | रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या || ५७-७|| त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे | दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् || ५७-८|| उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः | विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् || ५७-९ हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा | तावन्मिळतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः || ५७-१० आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् | कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् || ५७-११||
58 Rescue From Forest Fire त्वयि विहरणलोले बालजालैः प्रलम्ब- प्रमथनसविळम्बे धेनवः स्वैरचाराः | तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः || ५८-१|| अनधिगतनिदाघक्रौर्यबृन्दावनान्तात् बहिरिदमुपयाताः काननं धेनवस्ताः | तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः || ५८-२|| तदनु सह सहायैर्दूरमन्विष्य शौरे गळितसरणिमुञ्जारण्यसञ्जातखेदम् | पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे || ५८-३|| सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः | अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् || ५८-४|| अलमलमतिभीत्य सर्वतो मीलयध्वं भृशमिति तव वाचा मीलिताक्षेषु तेषु | क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भण्डीरदेशे || ५८-५|| जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्वनानाविलासः | पुनरपि विपिनान्ते प्राचरः पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे || ५८-६|| त्वयि विमुखविमोच्चैस्तापभारं वहन्तं तव भजनवदन्तः पङ्कमुच्छोषयन्तम् | तव भुजवदुदञ्चत् भूरितेजःप्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु || ५८-७|| तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि- र्विकसदमलविद्यूत्पीतवासोविलासैः | सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः || ५८-८|| कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी | स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ || ५८-९|| अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन्काननेषु | तृणाममलवनान्ते चारु सञ्चारयन् गाः पवनपुरपते त्वं देहि मे देहसौख्यम् || ५८-१०||
59 Krishna Playing The Flute त्वद्वपुर्नवकलायकोमळं प्रेमदोहनमशेषमोहनम् | ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः || ५९-१ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः | गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे | | ५९-२ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः | वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे || ५९-३|| काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे | व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनाळिकाम् || ५९-४|| मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् | द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् || ५९-५ वेणुरन्ध्रतरलाङ्गुलीदलं ताळसञ्चलितपादपल्लवम् | तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः || ५९-६ निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि | त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् || ५९-७ आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा | दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् || ५९-८|| प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् | बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् || ५९-९ रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् | तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश || ५९-१०
60 Stealing The Clothes Of The Gopikas मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया | यमुनातटसीम्नि सैकतीं तरळाक्ष्यो गिरिजां समार्चिचन् || ६०-१|| तव नामकथारताः समं सुदृशः प्रातरुपागताः नदीम् | उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति || ६०-२|| इति मासमुपाहितव्रतास्तरळाक्षीरभिवीक्ष्य ता भवान् | करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया || ६०-३|| नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा | यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः || ६०-४|| त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके | निहितं परिगृह्य भूरुहो विटपं त्वं तरसाधिरूढवान् || ६०-५ इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् | इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः || ६०-६|| अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् | प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् || ६०-७|| अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः | वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा || ६०-८|| विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् | यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् || ६०-९|| उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः | प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः || ६०-१० इति नन्वनुगृह्य बल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् | करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् || ६०-११||
61 Blessing The Wives Of The Performers Of Vedic Sacrifices ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः | हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् || ६१-१ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् | अदूरतो यज्ञपरान् द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् || ६१-२ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो | श्रुतिस्थिरा अप्यभिनिन्द्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः || ६१-३ अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु | चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते || ६१-४ निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः | इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे || ६१-५ गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः | चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः || ६१-६ विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते | निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः || ६१-७ तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना | तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ || ६१-८ आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् | विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् || ६१-९ निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः | प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् || ६१-१०
62 The Blocking Of The Sacrifice To Indra कदाचिद्गोपालान् विहितमखसम्भारविभवान् निरीक्ष्य त्वं शौरे मघवमदमुध्वंसितुमनाः | विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा- नपृच्छः को वायं जनक भवतामुद्यम इति || ६२-१|| बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् | नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशवः || ६२-२|| इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् | अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते || ६२-३|| इदं तावत्सत्यं यदिह पशवो नः कुलधनं तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः | सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् || ६२-४|| भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते | व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः || ६२-५|| अवोचश्चैवं तान्किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा | अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः || ६२-६|| परिप्रीताः याताः खलु भवदुपेता व्रजजुषो व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् | भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि || ६२-७|| मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा | ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः || ६२-८|| त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः | प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो भवन्माया नैव त्रिभुवनपते मोहयति कम् || ६२-९|| सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपया- प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् | अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् || ६२-१०||
63 Holding Up The Govardhana Mountain ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः | सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया || ६३-१ विपुलकरकमिश्रैस्तोयधारानिपातै- र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने | कुपितहरिकृतान्नः पाहि पाहीति तेषां वचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः || ६३-२|| कुल इह खलु गोत्रो दैवतं गोत्रशत्रो- र्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् | इति सहसितवादी देव गोवर्धनाद्रिं त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् || ६३-३|| तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे | परिकरपरिमिश्रान्धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपद्मेन शैलम् || ६३-४|| भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितविलासं केळिलापादिलोले | सविधमिलितधेनूरेकहस्तेन कण्दू- यति सति पशुपालास्तोषमैषन्त सर्वे || ६३-५|| अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् | किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः || ६३-६ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् | इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् || ६३-७ अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे | अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् || ६३-८ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते | भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे || ६३-९ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः | इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् || ६३-१०
64 Crowning As Govinda आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः | विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् || ६४-१ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः | पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः || ६४-२|| ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या | उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते || ६४-३ स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् | ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः || ६४-४ जगत्त्रयेशे त्वयि गोकुलेश तथाऽभिषिक्ते सति गोपवाटः | नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् || ६४-५ कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण | नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः || ६४-६ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् | उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः || ६४-७ हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् | निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् || ६४-८ स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ | चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते || ६४-९ करबदरवदेवं देव कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् | तदिह पशुपरूपी त्वं हि साक्षात्परात्मा पवनपुरनिवासिन् पाहि मामामयेभ्यः || ६४-१०||
65 The Gopikas' Coming To Krishna गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः | सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते || ६५-१|| सम्मूर्छनाभिरुदितस्वरमण्डलाभिः सम्मूर्छयन्तमखिलं भुवनान्तरालम् | त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापुः || ६५-२|| ता गेहकृत्यनिरतास्तनयप्रसक्ताः कान्तोपसेवनपराश्च सरोरुहाक्ष्यः | सर्वं विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो समेताः || ६५-३|| काश्चिन्निजाङ्गपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः | त्वामागता ननु तथैव विभूषिताभ्य- स्ता एव संरुरुचिरे तव लोचनाय || ६५-४|| हारं नितम्बभूवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव समागता त्वाम् | हारित्वमात्मजघनस्य मुकुन्द तुभ्यं व्यक्तं बभाष इव मुग्धसुखी विशेषात् || ६५-५|| काचित्कुचे पुनरसज्जितकञ्चुलीका व्यामोहतः परवधूभिरलक्ष्यमाणा | त्वामाययौ निरुपमप्रणयातिभार- राज्याभिषेकविधये कलशीधरेव || ६५-६|| काश्चित् गृहात् किल निरेतुमपारयन्त्य- स्त्वामेव देव हृदये सुदृढं विभाव्य | देहं विधूय परचित्सुखरूपमेकं त्वामाविशन्परमिमा ननु धन्यधन्याः || ६५-७|| जारात्मना न परमात्मतया स्मरन्त्यो नार्यो गताः परमहंसगतिं क्षणेन | तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि- च्चित्ते वहन्नमृतमश्रममश्नुवीय || ६५-८|| अभ्यागताभिरभितो व्रजसुन्दरीभि- र्मुग्धस्मितार्द्रवदनः करुणावलोकी | निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे परमेश रोगान् || ६५-९||
66 Delighting The Gopikas उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् | अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव || ६६-१ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् | धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् || ६६-२ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः | मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः || ६६-३|| तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् | ताभिः समं प्रवृत्तो यमुनापुळिनेषु काममभिरन्तुम् || ६६-४|| चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु | गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् || ६६-५|| सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः | गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे || ६६-६|| वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् | तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः || ६६-७|| कन्दळितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् | नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः || ६६-८|| विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् | नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् || ६६-९|| राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् | आराधये भवन्तं पवनपुराधीश शमय सकलगदान् || ६६-१०||
67 Disappearance Of The Lord Etc स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः | असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः || ६७-१|| निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः | इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः || ६७-२ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे | भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी || ६७-३|| तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः | वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् || ६७-४ हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः | किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः || ६७-५ निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती | त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार || ६७-६ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि | विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् || ६७-७ ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः | पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते || ६७-८ तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो | जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी || ६७-९|| सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यस्सहसा तदानीम् | किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश || ६७-१०
68 The Gopikas In The Lord's Company तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण | अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः || ६८-१ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् | घनपयोधरे संविधाय सा पुळकसंवृता तस्थुषी चिरम् || ६८-२ तव विभो पुरा कोमळं भुजं निजगळान्तरे पर्यवेष्टयत् | गळसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला || ६८-३|| अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् | प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् || ६८-४ विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् | इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् || ६८-५|| इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे | मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः || ६८-६ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते | कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः || ६८-७ अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे | मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् || ६८-८ अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम | तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो || ६८-९|| इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् | कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् || ६८-१०||
69 Raasakreeda केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं हारजालवनमालिकाललितमङ्गरागघनसौरभम् | पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे || ६९-१|| तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले | अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन् मञ्जुळां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः || ६९-२|| वासुदेव तव भासमानमिह रासकेळिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः | वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली || ६९-३|| वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् | पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजं श्रोणिबिम्बचलदम्बरं भजत रासकेळिरसडम्बरम् || ६९-४|| श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललिताङ्गहारलुळिताङ्गहारमणिभूषणे | सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् || ६९-५|| स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा | काचिदाचलितकुन्तळा नवपटीरसारनवसौरभं वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुळकाङ्कुरम् || ६९-६ कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् | इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् || ६९-७|| गानमीश विरतं क्रमेण किल वाद्यमेळनमुपारतं ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः | नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे || ६९-८|| मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् | मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित- स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् || ६९-९|| केळिभेदपरिलोलिताभिरतिलालिताभिरबलाळिभिः स्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः | काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् || ६९-१०|| कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान् पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् | ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् || ६९-११||
70 The Salvation Of Sudarsana इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुनरम्बिकाकमितुरम्बिकाकानने | समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुवुरग्रसीद्व्रजपमुग्रनागस्तदा || ७०-१|| समुन्मुखमथोन्मुकैरभिहतेऽपि तस्मिन्बला- दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः | तदा खलु पदा भवान्समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् || ७०-२|| सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् | भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा || ७०-३|| कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- र्जहार्धनदानुगः स किल शङ्खचूडोऽबलाः | अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददाः || ७०-४|| दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् | भवन्तममरीदृशाममृतपारणादायिनं विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः || ७०-५|| भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः | निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी || ७०-६ शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः | पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् || ७०-७ तुङ्गशृङ्गमुखमाश्वभियन्तं ससंगृहय्य रभसादभियं तम् | भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् || ७०-८ चित्रमद्य भगवन् वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् | वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् || ७०-९ औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी | इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश || ७०-१०||
71 The Slaying Of Kesi And Vyomasura यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः | त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः || ७१-१ गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः | भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् || ७१-२ तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् | भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् || ७१-३ प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् | संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् || ७१-४ त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् | तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् || ७१-५ आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे | कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुवुः केशवनामधेयम् || ७१-६ कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा | प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः || ७१-७ कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् | मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी || ७१-८ स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च | गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् || ७१-९ एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य | पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेशपायाः || ७१-१०||
72 Akrura's Journey To Gokula कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् | आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् || ७२-१ अक्रूर एष भवदङ्घ्रिपरश्चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या | तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्- आनन्दभारमतिभूरितरं बभार || ७२-२|| सोऽयं रथेन सुकृती भवतो निवासं गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् | आस्वादयन्मुहुरपायभयेन दैवं संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् || ७२-३|| द्रक्ष्यामि देवशतगीतगतिं पुमांसं स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् | किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या- दित्थं निनाय स भवन्मयमेव मार्गम् || ७२-४|| भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् | आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पङ्कजाक्ष || ७२-५|| पश्यन्नवन्दत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणाङ्कितेषु | किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरळाः परात्मन् || ७२-६|| सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्णरसायनानि | पश्यन्प्रमोदसरिदेव किलोह्यमानो गच्छन्भवद्भवन सन्निधिमन्वयासीत् || ७२-७|| तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् | भूमन् भवन्तमयमग्रजवन्तमन्त- र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् || ७२-८|| सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ | नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श || ७२-९ दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् | हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ || ७२-१० नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् | गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः || ७२-११ चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे | धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै- राशङ्कितो निशि मरुत्पुरनाथ पायाः || ७२-१२||
73 The Lord Leaving For Mathura निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः | किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् || ७३-१ करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः | बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः || ७३-२|| चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च | परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् || ७३-३ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः | अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः || ७३-४ सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः | मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः || ७३-५ अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् | वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः || ७३-६ नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः | विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् || ७३-७ पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे | अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके || ७३-८ स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः | अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् || ७३-९ किमु शीतलिमा महान्जले यत्पुळकोऽसाविति चोदितेन तेन | अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् || ७३-१०
74 The Entry Of The Lord Into Mathura सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस- न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् | प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल- स्त्रीपुंसोद्यदगण्यपुण्यनिगळैराकृष्यमाणो नु किम् || ७४-१|| त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् | हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव- न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः || ७४-२|| तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत- व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् | कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् || ७४-३ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् | मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते || ७४-४ कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि | चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् || ७४-५|| तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् | गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलि- र्नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो || ७४-६|| एष्यामिति विमुक्तयापि भगवन्नालेपदात्र्या तया दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् | आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता || ७४-७|| आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः | स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात्पुरः प्रागृह्णाः समरोपयः किल समाक्राङ्क्षीरभाङ्क्षीरपि || ७४-८|| श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम- श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् | कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी- चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया || ७४-९|| शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् | श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप- न्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् || ७४-१०||
75 The Slaying Of Kamsa प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् | कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् || ७५-१|| पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे- रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः | केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी || ७५-२|| हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् | मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति || ७५-३|| गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः | हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः || ७५-४ पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः | दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि || ७५-५|| चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् | उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् || ७५-६ हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् | चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे || ७५-७ कंसस्संवार्यं तूर्यं खलमतिरविदन्कार्यमार्यान् पितॄंस्ता- नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय | रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत् खङ्गव्यावद्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् || ७५-८ सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः | किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः || ७५-९|| तद्भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः | भक्तानामुत्तमम्ञ्चोद्धवममरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् || ७५-१०
76 Uddhava Sent As A Messenger To The Gopikas गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा | पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् || ७६-१|| स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् | किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् || ७६-२|| त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् | प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः || ७६-३|| दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि | रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः || ७६-४|| श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः | आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना- मुन्मादानां कुहकवचसां विस्मरेत्कान्त का वा || ७६-५|| रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् | कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः || ७६-६|| एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्- त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः | भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्- तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि || ७६-७|| त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः | चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् || ७६-८|| राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव | इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा- मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् || ७६-९|| एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः | ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्- तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः || ७६-१०|| एवं भक्तिः सकलभुवने नेशिता न श्रुता वा किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु | इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् || ७६-११||
77 The Fight Against Jarasandha And Others सैरन्ध्र्यास्तदनु चिरं स्मरातुराया यातोऽभूः सललितमुद्धवेन सार्धम् | आवासं त्वदुपगमोत्सवं सदैव ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः || ७७-१|| उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्प्रपयोधराम् | विविधमाननमादधतीं मुदा रहसि तां रमयञ्चकृषे सुखम् || ७७-२|| पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशान्तरेषु | सायुज्यमस्त्विति वदेत् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत्किम् || ७७-३|| ततो भवान्देव निशासु कासुचिन्- मृगीदृशं तां निभृतं विनोदयन् | अदादुपश्लोक इति श्रुतं सुतं स नारदात्सात्त्वततन्त्रविद्बभौ || ७७-४|| अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन | एनं विसृज्य विपिनागतपाण्डवेय- वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् || ७७-५|| विघाताज्जामातुः परमसुहृदो भोजनृपते- र्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् | रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः || ७७-६|| बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् | निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् || ७७-७|| भग्नस्स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् | अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो सम्भूय सैकनवतित्रिशतं तदानीम् || ७७-८|| अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या | त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राथ योगबलतः स्वजनाननैषीः || ७७-९|| पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः | सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे || ७७-१० एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् | मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रास्थ लोकप्रतीत्यै || ७७-११ तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः | चरमविजयं दर्पायास्मै प्रदाय पलायितो जलधिनगरीं यातो वातालयेश्वर पाहि माम् || ७७-१२||
78 Rukmini Swayamvaram त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् | जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा || ७८-१ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् | महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः || ७८-२ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः | स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् || ७८-३ चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला | तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् || ७८-४ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् | मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् || ७८-५ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी | त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् || ७८-६ तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना | अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया || ७८-७|| अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् | इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् || ७८-८ अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना | नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् || ७८-९ प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् | गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् || ७८-१०
79 Rukmini Kalyanami बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः | द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा || ७९-१ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् | विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा || ७९-२ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा | निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता || ७९-३ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् | मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् || ७९-४ समवलोक कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते | नृपसुता निरगात् ग्रिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा || ७९-५ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया | त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् || ७९-६ क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् | समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् || ७९-७ क्वनु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः | न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी || ७९-८ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् | हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया || ७९-९ नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् | अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् || ७९-१० विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा | ऋजुमतेः किल वक्रागिरा भवान् वरतनोरतनोदतिलोलताम् || ७९-११ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् | अयि मुकुन्द भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु || ७९-१२
80 The Story Of The Syamantaka Jewel सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमन्तकमणिं भगवन्नयाचीः | तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् || ८०-१|| अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्()भ्राता गलभुवि वहन्प्राप मृगयाम् | अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् || ८०-२|| शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका | ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् || ८०-३|| भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् | विभो रघुपते हरे जय जयेत्यलं मुष्टिभि- श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः || ८०-४|| बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् | अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः || ८०-५|| तदनु स खलु व्रीडालोलो विलोलविलोचनां दुहितरमहो धीमान्भामां गिरैव परार्पिताम् | अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः || ८०-६|| व्रीलाकुलां रमयति त्वयि सत्यभामां कौन्तेयदाहकथयाथ कुरून्प्रयाते | ही गान्दिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार || ८०-७|| शोकात्कुरूनुपगतामवलोक्य कान्तां हत्वा द्रुतं शतधुनं समहर्षयस्ताम् | रत्ने सशङ्क इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् || ८०-८|| अक्रूर एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् | अक्रूरतो मणिमनाहृतवान्पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति || ८०-९|| भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय- स्तस्यैव कापथमतिः कथमीश जाता | विज्ञानवान्प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव || ८०-१०|| यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च मणिं प्रकाश्य | तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचान्तरशयः पवनेश पायाः || ८०-११||
81 The Slaying Of Narakasura स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयः सह खलु तया याज्ञसेनीविवाहम् | पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः || ८१-१|| भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः | तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः || ८१-२|| तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः | भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जहृइषे मित्रविन्दामवन्तीम् || ८१-३|| सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् | भद्रां नाम प्रददुरथ ते देव सन्तर्द्दनाद्या- स्तत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी || ८१-४|| पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् | अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि || ८१-५|| स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नङ्के भामामुपवनमिवारातिभवनम् | विभिन्दन् दुर्गाणि त्रुटितपृतनाशोनितरसैः पुरं तावत् प्राग्ज्योतिषमकुरुथाश्शोणितपुरम् || ८१-६|| मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता | चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं रथाङ्केनच्छित्वा नरकमकरोस्तीर्णरकम् || ८१-७|| स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजञ्चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् | खलेनाबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् || ८१-८|| भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया | हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम- स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः || ८१-९|| कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः | आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश || ८१-१०
82 The Fight With Baana Etc प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् | तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् || ८२-१ बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा | त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् || ८२-२ योगिन्यतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् | तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगबलतो भवतो निकेतात् || ८२-३|| कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ | श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः || ८२-४ पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे | महाप्राणो बाणो जटिति युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे || ८२-५|| निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः | परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे || ८२-६|| चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण | ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोऽगात् प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः || ८२-७ बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः | तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः || ८२-८|| मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् | विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते || ८२-९|| द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् | निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् || ८२-१०
83 The Slaying Of Paundraka रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे | स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः || ८३-१ नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि | उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् || ८३-२|| दूतेऽथ यातवति यादवसैनिकस्त्वं यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् | तापेन वक्षसि कृताङ्कमनल्पमूल्य- श्रीकौस्तुभं मकरकुण्डलपीतचेलम् || ८३-३|| कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन | शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् || ८३-४|| जाड्येन बालकगिराऽपि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं सः | सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् || ८३-५|| काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः | कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् || ८३-६ तालप्रमाणचरणामखिलं दहन्तीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः | द्यूतोत्सवे कमपि नो चलितो विभो त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् || ८३-७|| अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या | रोषात्सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरामधाक्षीत् || ८३-८ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः | नरकसचिवो देशक्लेशं सृजन् नगरान्तिके झटिति हलिना युध्यन्नद्धा पपात तलाहतः || ८३-९|| साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः | ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे || ८३-१०
84 Pilgrimage To Samantapanchaka क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू | यदुकुलमहिळावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् || ८४-१ बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयं | द्विजगणपरिमुक्तवित्तराशिः सममिळथाः कुरुपाण्डवादिमित्रैः || ८४-२ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा | तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः || ८४-३ तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा | चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः || ८४-४ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् | अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः || ८४-५ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बन्ऽआभूत् | इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये || ८४-६ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् | परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति || ८४-७ सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः | समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता || ८४-८ मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः | त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ || ८४-९ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः | यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः || ८४-१० व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् | प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः || ८४-११
85 The Slaying Of Jarasandha ततो मगधभूमृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश भूमीभृताम् | अनाथशरणाय ते कमपि पूरुषं प्राहिणो- दयाचत स मागधक्षपणमेव किं भूयसा || ८५-१|| यियासुरभिमागधं तदनु नारदोदीरिता- द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः | विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् || ८५-२|| अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः | श्रियं निरुपमां वहन्नहह भक्तदासायितं भवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् || ८५-३|| गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषेण तं मागधम् | अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः || ८५-४|| अशान्तसमरोद्धतं विटपपाटनासंज्ञया निपात्य जरसस्सुतं पवनजेन निष्पाटितम् | विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः || ८५-५|| प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् | त्वमप्ययि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः || ८५-६|| ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिं विचार्य सहदेववागनुगतस्स धर्मात्मजः | व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिः दधौ || ८५-७|| ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् | इति त्वयि स दुर्वचोविततिमुद्वमन्नासना- दुदापतदुदायुधः समपतन्नमुं पाण्डवाः || ८५-८|| निवार्य निजपक्षगानभिमुखस्य विद्वेषिण- स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा | जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी- स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् || ८५-९|| ततस्सुमहितो त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् | खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् || ८५-१०|| तदा हसितमुत्थितं द्रुपदन्दनाभीमयो- रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् | धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन मरुत्पुरीनिलय पाहि मामामयात् || ८५-११||
86 Slaying Of Salva साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् | प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमन्तं व्यजनि च समरस्सप्तविंशत्यहान्तः || ८६-१ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते | मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् || ८६-२|| क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे- णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते | कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः || ८६-३ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् | अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदी चिन्तितोऽथ प्राप्तश् शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते || ८६-४ युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् | भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः || ८६-५ जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बन्धुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा | को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् || ८६-६ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे | निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशाली- वाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः || ८६-७ युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् | नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं तत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् || ८६-८ युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ- न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा | यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीन्ते || ८६-९ संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे | उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् || ८६-१० धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्म- स्त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् | संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं सम्प्राप्तो द्वारकां त्वं पवनपुरपते पाहि मां सर्वरोगात् || ८६-११
87 The Kuchela Episode कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः | त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी || ८७-१ समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी | कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते || ८७-२ इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे | तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् || ८७-३ गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् | प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः || ८७-४ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुरा कृतम् | यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने || ८७-५ त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया | कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते || ८७-६ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् | बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः || ८७-७ यदि ह्ययचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ | त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् || ८७-८ किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् | सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् || ८७-९ स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ | त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् || ८७-१०
88 The Episode Of Santana Gopalam प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां कांक्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् | धातुश्शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान् कंसभग्ना- नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः || ८८-१ श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् | युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः || ८८-२ गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेतम् एकेन भूरिविभवैर्विहितोपचारः | अन्येन तद्दिनभृतैश्च फलौदनाद्यै- स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् || ८८-३|| भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाऽप्यसोढाः | जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये || ८८-४|| नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः | मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतस्सन्निवेक्ष्ये कृशानुम् || ८८-५ मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे | याम्यामैन्द्रीं तथायास्सुरवरनगरीर्विद्ययाऽसाद्य सद्यो मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् || ८८-६ सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् | चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते || ८८-७ तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै- रावीतं पीतचेलं प्रतिनवजलदश्यामळं श्रीमदङ्गम् | मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् || ८८-८ युवां मामेवद्वावधिकविवृतान्तर्हिततया विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् | नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून् द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा || ८८-९|| एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण- न्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः | भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः || ८८-१० प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्र- स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् | भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽस्ते वदर्याम् || ८८-११ सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः | आर्तिं तीर्वा समस्ताममृतपदमगुस्सर्वतः सर्वलोकाः स त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः || ८८-१२
89 The Slaying Of Vrikasura रमाजाने जाने यदिह तव भक्तेषु विभवो न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् | प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा || ८९-१|| सद्यःप्रसादरुषितान्विधिशङ्करादीन् कचिद्विभो निजगुणानुगुणं भजन्तः | भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासर उदाहरणं किलास्मिन् || ८९-२|| शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् | स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु || ८९-३ तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः | अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः || ८९-४|| मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः | तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय || ८९-५|| भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ | इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव || ८९-६ भृगुं किल सरस्वतीनिकटवासिनस्तापसा- स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् | अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् || ८९-७|| सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् | सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे त्वत्पादचिह्नमिह भूषणमित्यवादीः || ८९-८|| निश्चित्य ते च सुदृढं त्वयि बद्धभावाः सारस्वता मुनिवरा दधिरे विमोक्षम् | त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजामः || ८९-९|| जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् | परात्मानं भूमन् पशुपविनताभाग्यनिवहं परीतपश्रान्त्यै पवनपुरवासिन् परिभजे || ८९-१०||
90 The Aim Of All Scriptures वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते- ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् | स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव || ९०-१|| मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् | तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे || ९०-२ तत्रापि सात्त्विकतनुं तव विष्णुमाहु- र्धाता तु सत्त्वविरळो रजसैव पूर्णः | सत्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ || ९०-३|| तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतोः | शंसन्त्युपासनाविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् || ९०-४|| श्रीशङ्करोऽपि भगवान्सकलेषु तावत् त्वामेव मानयति यो न हि पक्षपाती | त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते || ९०-५|| मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् | ध्यानं च निष्कळमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् || ९०-६|| समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते | त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः || ९०-७ यद्ब्राह्मकल्प इह भागवतद्वितीय- स्कन्धोदितं वपुरनावृतमीश धात्रे | तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवः शिवपरोऽपि पुराणसारे || ९०-८|| ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या | व्यासो हि तेन कृतवानधिकारिहेतोः स्कान्दादिकेषु तव हानिवचोऽर्थवादैः || ९०-९|| भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः | स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः || ९०-१०|| यत्किञ्चिदप्यविदुषापि विभो मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव | व्यासोक्तिसारमयभागवतोपगीत क्लेशान्विधूय कुरु भक्तिभरं परात्मन् || ९०-११||
91 The Path Of Devotion श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव | यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् || ९१-१ भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि | जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः || ९१-२ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् | मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं तं त्वां भक्त्या महत्या सततमनुभजन्नीश भीतिं विजह्याम् || ९१-३ भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन | तत्सङ्गो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा || ९१-४ श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा | उद्यद्धासः कदचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय- न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् || ९१-५ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन् मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि | त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विराग- स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते यत्नभेदं विनैव || ९१-६ नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः | इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् || ९१-७ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा | अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् || ९१-८|| आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती जीवान्भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती | त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशान्त्यै त्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः || ९१-९ दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या- ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवत्भक्तिभूमा | मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरङ्गः पवनपुरपते नाशयाशेषरोगान् || ९१-१०||
92 Bhakti Combined With Karma वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश | मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्ति- र्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे || ९२-१ यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा | पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै- र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् || ९२-२ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा- स्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् | वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् || ९२-३ पपोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चारित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि | भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् || ९२-४ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि- स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते | सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते || ९२-५ सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यै- र्निर्यत्नैरेव मार्गैरखिलद नचिरात्त्वत्प्रसादं भजन्ते | जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो वञ्चयास्मान् || ९२-६ भक्तास्तावत्कलौ स्युर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैः कावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् | हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्व- य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् || ९२-७ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि- द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् | त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु- र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् || ९२-८|| गङ्गा गीता च गायत्र्यपि च तुळसिका गोपिकाचन्दनं तत् साळग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः | एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः || ९२-९ देवर्षीणां पितॄणामपि न पुनरृणी किङ्गरो वा स भूमन् योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा | तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान्पवनपुरपते रुन्दि भक्तिं प्रणीयाः || ९२-१०
93 The Lessons From 25 Gurus बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् | नानात्वाद्भ्रान्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः || ९३-१ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवस्सन्त्यनन्ता- स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव | तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता- स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः || ९३-२ त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन् सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् | गृह्णीयामीश तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीरा- द्व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च || ९३-३ स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् | पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् || ९३-४|| स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं प्राप्त प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः | मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश प्रणेशम् || ९३-५ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः | नात्यासज्जेय भोज्ये झष इव बिळिशे पिङ्गलावन्निराशः सुप्यां भर्तव्ययोगात्कुरर इव विभो सामिषोऽन्यैर्न हन्यै || ९३-६ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः | त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु || ९३-७|| त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् | विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् || ९३-८ ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो- र्गेहे चित्ते कळत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति | सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षिकर्ण- त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे || ९३-९ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष | नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश || ९३-१०
94 The Means Of Enlightenment शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते शुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते| नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि || ९४-१|| आचार्याख्याधरस्थारणिसमनुमिळच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने | कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था || ९४-२ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषड्कर्मयोगाः | दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् || ९४-३ त्वल्लोकादन्यलोकः क्वनु भयरहितो यत्परार्धद्वयान्ते त्वद्भीतस्सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ | एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूरसिन्धो || ९४-४ याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ | बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा || ९४-५ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् | तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिळत्त्वत्प्रबोधस्त्वदात्मा || ९४-६ शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रस् सकलमलाहरा दिव्यलीलावताराः सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् || ९४-७ यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम- न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् | त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादि- र्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि || ९४-८|| यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव | सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः || ९४-९ ऐक्यं ते दानोहोमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् | भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव दृढय हर गदान्कृष्ण वातालयेश || ९४-१०
95 The Means Of Liberation आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने | तत्रोद्वृद्धेन सत्त्वेन तु गणयुगळं भक्तिभावं गतेन- छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव || ९५-१|| सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन् भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा | चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसरूपी न्यगादीत् || ९५-२ सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण तेभ्यो भवेयुः | त्वञ्चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् || ९५-३ त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः सर्वास्स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः | सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः || ९५-४ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो- र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः | सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् || ९५-५ चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्पञ्च हित्वा चित्तं शुद्ध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः | त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या || ९५-६ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मन्त्ववाञ्चम् | ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनस्संविचिन्त्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमळाङ्गम् || ९५-७ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् | श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् || ९५-८|| सर्वाङ्गेष्वङ्गरङ्गत्कुतुकमतिमुहुर्धारयन्नीश चित्तं तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे | तत्रालीनन्तु चेतः परमसुखचिदद्वैतरूपे वितन्व- न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् || ९५-९|| इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे | त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वतापात् || ९५-१०||
96 The Glories Of The Lord त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि | प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते || ९६-१|| ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् | नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे || ९६-२ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकैस्सन्त्यजन्तो लभन्ते | सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् || ९६-३ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः | सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् || ९६-४ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा | आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः || ९६-५|| अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति | दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे || ९६-६ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श्रुण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे | त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् || ९६-७|| निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् | तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः || ९६-८ कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा | चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् || ९६-९ ऐळः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् | त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूत सङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धिरोगान् || ९६-१०
97 Prayer For Supreme Devotion त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्- ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः | त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् || ९७-१ त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं त्वद्भक्तैस्सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् | दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धासूयादिदोषः सततमखिलभूतेषु संपूजये त्वाम् || ९७-२|| त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् | त्वद्धर्मस्यास्य तावत्किमपि न भगवन् प्रस्तुतस्य प्रणाश- स्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोझम् || ९७-३ तञ्चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु- र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् | मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् || ९७-४
The Episode Of Markandeya मार्कण्डेयश्चिरायुस्स खलु पुनरपि त्वत्परः पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि | देवेन्द्रस्सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः || ९७-५ प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने | द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः || ९७-६|| याते त्वय्याशु वाताकुलजलदगळत्तोयपूर्णातिघूर्ण- त्सप्तार्णोराशि मग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः | दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं त्वामेव श्यामळाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् || ९७-७|| दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् | भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै- र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् || ९७-८ गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् | एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् || ९७-९|| त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः | तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् || ९७-१०
98 Meditation On Nirguna Brahman यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा | यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते || ९८-१ जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी | बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते || ९८-२|| नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः | शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते || ९८-३ मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै- र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् | भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते || ९८-४|| शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् | वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते || ९८-५ सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् | विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते || ९८-६|| भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते | स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते || ९८-७ यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् | येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् || ९८-८ त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् | तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् || ९८-९ सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् | निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त- र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् || ९८-१०|| दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं संभ्राम्यत्क्रूरवेगं क्षणमनु जगदाछिद्य सन्धावमानम् | चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् || ९८-११||
99 Praise Of The Glory Of The Lord विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् | योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः || ९९-१ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ | कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं ते || ९९-२ हे स्तोतारः कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः | जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् || ९९-३ विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्ना/- द्यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी | वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते || ९९-४ नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देव श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो | तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके || ९९-५ आपः सृष्ट्यादिजन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयन हरे सङ्गता ऐक्यमापन् | तस्याजस्य प्रभो ते विनिहितमभवत्पद्ममेकं हि नाभौ दिक्पत्रं यत्किलाहुः कनकधरणिभृत् कर्णिकं लोकरूपम् || ९९-६ हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् | नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे || ९९-७ मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि | भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादि- ष्वाविष्टोप्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव || ९९-८ यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् | स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते || ९९-९ अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तञ्चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् | सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् || ९९-१०
100 Description Of The Vision Of The Lord अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् | तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै- रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च || १००-१|| नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः | मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् || १००-२ हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै- रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते | सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे || १००-३|| उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली- व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् | उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः- प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे || १००-४ बाहुद्वन्द्वेन रत्नोज्वलवलयभृता शोणपाणिप्रवाळे- नोपात्तां वेणुनाळीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् | कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैस्सिञ्च मे कर्णवीथीम् || १००-५ उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमळं कण्ठदेशं वक्षः श्रीवत्सरम्यं तरळतरसमुद्दीप्रहारप्रतानम् | नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् || १००-६|| अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् | शक्राश्मन्यस्ततप्तोज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् || १००-७ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ | आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपाळीसमुद्ग- च्छायां जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे || १००-८ मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् | उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् || १००-९|| योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् | नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् || १००-१० अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् | द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् || १००-११||
Reference system: Original availability from http://www.cuni.cz/ffiu/pandanus/search.html Converted to REE format at http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm Converted to Itrans for Devanagari display Proofread by M.K. Krishnaswamy surfings at attbi.com and M.G.Vasudevan mgv at lntecc.com