.. नारायण कवचं ..
राजोवाच .
यया गुप्तः सहस्राक्ष्हः सवाहान्रिपुसैनिकान् .
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् .. १..
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् .
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे .. २..
श्रीशुक उवाच .
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते .
नारायणाख्यं वर्माह तदिहैकमनाः शृणु .. ३..
विश्वरूप उवाच .
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः .
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः .. ४..
नारायणमयं वर्म सन्नह्येद्भय आगते .
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि .. ५..
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् .
ॐ नमो नारायणायेति विपर्ययमथापि वा .. ६..
करन्यासं ततः कुर्याद्द्वादशाक्ष्हरविद्यया .
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु .. ७..
न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि .
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् .. ८..
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु .
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः .. ९..
सविसर्गं फडन्तं तत् सर्वदिक्ष्हु विनिर्दिशेत् .
ॐ विष्णवे नम इति .. १०..
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् .
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् .. ११..
ॐ हरिर्विदध्यान्मम सर्वरक्ष्हां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे .
दरारिचर्मासिगदेषुचाप-
पाशान्दधानोऽष्टगुणोऽष्टबाहुः .. १२..
जलेषु मां रक्ष्हतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् .
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः .. १३..
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः .
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः .. १४..
रक्ष्हत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः .
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्ह्मणोऽव्याद्भरताग्रजोऽस्मान् .. १५..
मामुग्रधर्मादखिलात्प्रमादा-
न्नारायणः पातु नरश्च हासात् .
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् .. १६..
सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात् .
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् .. १७..
धन्वन्तरिर्भगवान्पात्वपथ्या-
द्द्वन्द्वाद्भयादृषभो निर्जितात्मा .
यज्ञश्च लोकादवताञ्जनान्ता-
द्बलो गणात्क्रोधवशादहीन्द्रः .. १८..
द्वैपायनो भगवानप्रबोधा-
द्बुद्धस्तु पाखण्डगणप्रमादात् .
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः .. १९..
मां केशवो गदया प्रातरव्या-
द्गोविन्द आसङ्गवमात्तवेणुः .
नारायणः प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणिः .. २०..
देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् .
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः .. २१..
श्रीवत्सधामापररात्र ईशः
प्रत्युष ईशोऽसिधरो जनार्दनः .
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः .. २२..
चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम् .
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्ष्हं यथा वातसखो हुताशः .. २३..
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि .
कूष्माण्डवैनायकयक्ष्हरक्ष्हो-
भूतग्रहांश्चूर्णय चूर्णयारीन् .. २४..
त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् .
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेहृर्दयानि कम्पयन् .. २५..
त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि .
चक्ष्हूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्ष्हुषाम् .. २६..
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च .
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा .. २७ ..
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् .
प्रयान्तु संक्ष्हयं सद्यो ये नः श्रेयःप्रतीपकाः .. २८..
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः .
रक्ष्हत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः .. २९ ..
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः .
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः .. ३०..
यथा हि भगवानेव वस्तुतः सदसच्च यत् .
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः .. ३१..
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् .
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया .. ३२..
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः .
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः .. ३३..
विदिक्ष्हु दिक्ष्हूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान्नारसिंहः .
प्रहापयंॅलोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः .. ३४..
मघवन्निदमाख्यातं वर्म नारायणात्मकम् .
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् .. ३५..
एतद्धारयमाणस्तु यं यं पश्यति चक्ष्हुषा .
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते .. ३६..
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् .
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् .. ३७..
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः .
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि .. ३८..
तस्योपरि विमानेन गन्धर्वपतिरेकदा .
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्ष्हयः || ३९ ||
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः .
स वालखिल्यवचनादस्थीन्यादाय विस्मितः .
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् .. ४०..
श्रीशुक उवाच .
य इदं शृणुयात्काले यो धारयति चादृतः .
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् .. ४१..
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः .
त्रैलोक्यलक्ष्ह्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् .. ४२..
.. इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com