.. निरालम्बोपनिषत् ..
यत्रालम्बालम्बिभावो विद्यते न कदाचन .
ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये .
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ..
निरालम्बं समाश्रित्य सालम्बं विजहाति यः .
स संन्यासी च योगी च कैवल्यं पदमश्नुते .
एषमज्ञानजन्तूनां समस्तारिष्टशान्तये .
यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ..
किं ब्रह्म . क ईश्वरः . को जीवः . का प्रकृतिः .
कः परमात्मा . को ब्रह्मा . को विष्णुः . को रुद्रः .
क इन्द्रः . कः शमनः . कः सूर्यः . कश्चन्द्रः .
के सुराः . के असुराः . के पिशाचाः . के मनुष्याः .
काः स्त्रियः . के पश्वादयः . किं स्थावरम् .
के ब्राह्मणादयः . का जातिः . किं कर्म . किमकर्म .
किं ज्ञानम् . किमज्ञानम् . किं सुखम् . किं दुःखम् .
कः स्वर्गः . को नरकः . को बन्धः . को मोक्षः .
क उपास्यः . कः शिष्यः . को विद्वान् . को मूढः .
किमासुरम् . किं तपः . किं परमं पदम् .
किं ग्राह्यम् . किमग्राह्यम् . कः संन्यासीत्याहशङ्क्याह
ब्रह्मेति . स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन
बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया
भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं
तत्सकलशक्त्युपबृंहितमनाद्यनन्तं
शुद्धं शिवं शान्तं निर्गुणमित्यादि-
वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म .. ईश्वर इति च ..
ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य
लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां
बुद्धीन्द्रियनियन्तृत्वादीश्वरः .. जीव इति च
ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा
स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः .सोऽहमेकोऽपि
देहारम्भकभेदवशाद्बहुजीवः . प्रकृतिरिति च
ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माण-
सामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः .
परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा
स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः
स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः
स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः .
सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन . जातिरिति च .
न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः .
न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता . कर्मेति च
क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया
कृतं कर्मैव कर्म . अकर्मेति च कर्तृत्वभोक्तृत्वा-
द्यहङ्कारतया बन्धरूपं जन्मादिकारणं
नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं
यत्तदकर्म .
ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासन-
श्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं
सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ-
मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति
साक्षात्कारानुभवो ज्ञानम् . अज्ञानमिति च
रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये
ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम-
बन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् .
सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा
या स्थितिः सैव सुखम् . दुःखमिति अनात्मरूपः
विषयसङ्कल्प एव दुःखम् . स्वर्ग इति च सत्संसर्गः
स्वर्गः . नरक इति च असत्संसारविषयजनसंसर्ग एव
नरकः . बन्ध इति च अनाद्यविद्यावासनया जातोऽहमि-
त्यादिसङ्कल्पो बन्धः . पितृमातृसहोदरदारापत्य-
गृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः .
कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः . अणिमाद्यष्टैश्व-
र्याशासिद्धसङ्कल्पो बन्धः . देवमनुष्याद्युपासना-
कामसङ्कल्पो बन्धः . यमाद्यष्टाङ्गयोगसङ्कल्पो
बन्धः . वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः .
आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः . यागव्रत-
तपोदानविधिविधानज्ञानसम्भवो बन्धः . केवलमोक्षा-
पेक्षासङ्कल्पो बन्धः . सङ्कल्पमात्रसंभवो बन्धः .
मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुख-
दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः .
उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः .
शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं
ब्रह्मैव शिष्यः . विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपवि-
द्विद्वान् . मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः .
आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीना-
मैश्वर्यकामनया निरशनजपाग्निहोत्रादि-
ष्वन्तरात्मानं सन्तापयति चात्युग्रराग-
द्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् .
तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्ष-
ज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प-
बीजसन्तापं तपः . परमं पदमिति च
प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं
सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं
परमं पदम् . ग्राह्यमिति च देशकालवस्तु-
परिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् .
अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामय-
बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् .
संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो
निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य
तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म
नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्था-
नुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य
निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी
स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः
स ब्राह्मण इति . इदं निरालम्बोपनिषदं योऽधीते
गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति
न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते
पुनर्नाभिजायत इत्युपनिषत् ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति निरालम्बोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com