.. निर्वाणोपनिषत् ..
.. निर्वाणोपनिषत् ..
( ऋग्वेदीय संन्यासोपनिषत्)
निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् .
त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ..
ॐ वाङ्मे मनसि प्रतिष्ठिता . मनो मे वाचि प्रतिष्ठितम् .
आविरावीर्म एधि . वेदस्य मा आणीस्थः .
श्रुतं मे मा प्रहासीः . अनेनाधीतेनाहोरात्रान्सन्दधामि .
ऋतं वदिष्यामि . सत्यं वदिष्यामि .
तन्मामवतु . तद्वक्तारमवतु .
अवतु मामवतु वक्तारम् .
ॐ शान्तिः शान्तिः शान्तिः ..
अथ निर्वाणोपनिषदं व्याख्यास्यामः .
परमहंसः सोऽहम् . परिव्राजकाः पश्चिमलिङ्गाः .
मन्मथ क्षेत्रपालाः . गगनसिद्धान्तः अमृतकल्लोलनदी .
अक्षयं निरञ्जनम् . निःसंशय ऋषिः .
निर्वाणोदेवता . निष्कुलप्रवृत्तिः . निष्केवलज्ञानम् .
ऊर्ध्वाम्नायः . निरालम्ब पीठः . संयोगदीक्षा .
वियोगोपदेशः . दीक्षासन्तोषपानं च .
द्वादशावदित्यावलोकनम् . विवेकरक्षा .
करुणैव केलिः . आनन्दमाला .
एकान्तगुहायां मुक्तासनसुखगोष्टी . अकल्पितभिक्षाशी .
हंसाचारः .सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् .
धैर्यकन्था . उदासीन कौपीनम् . विचारदण्डः .
ब्रह्मावलोकयोगपट्टः .श्रियां पादुका . परेच्छाचरणम् .
कुण्डलिनीबन्धः . परापवादमुक्तो जीवन्मुक्तः .
शिवयोगनिद्रा च . खेचरीमुद्रा च . परमानन्दी .
निर्गतगुणत्रयम् . विवेकलभ्यं मनोवागगोचरम् .
अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् .
तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् . विष्णुविध्यादिशताभिधानलक्ष्यम् .
अङ्कुशो मार्गः . शून्यं न सङ्केतः .
परमेश्वरसत्ता . सत्यसिद्धयोगो मठः .
अमरपदं तत्स्वरूपम् .
आदिब्रह्मस्वसंवित् . अजपा गायत्री . विकारदण्डो ध्येयः .
मनोनिरोधिनी कन्था . योगेन सदानन्दस्वरूपदर्शनम् .
आनन्द भिक्षाशी . महाश्मशानेऽप्यानन्दवने वासः .
एकान्तस्थानम् . आनन्दमठम् . उन्मन्यवस्था .
शारदा चेष्टा . उन्मनी गतिः . निर्मलगात्रम् .
निरालम्बपीठम् . अमृतकल्लोलानन्दक्रिया .
पाण्डरगगनम् . महासिद्धान्तः .
शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता .
परावरसंयोगः . तारकोपदेशाः . अद्वैतसदानन्दो देवता .
नियमः स्वातरिन्द्रियनिग्रहः .
भयमोहशोकक्रोधत्यागस्त्यागः . अनियामकत्वनिर्मलशक्तिः .
स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् .
तथा पत्राक्षाक्षिकमण्डलुः .
भवाभावदहनम् . बिभ्रत्याकाशाधारम् .
शिवं तुरीयं यज्ञोपवीतम् . तन्मया शिखा .
चिन्मयं चोत्सृष्टिदण्डम् . सन्तताक्षिकमण्डलुम् .
कर्मनिर्मूलनं कन्था . मायाममताहङ्कारदहनम् .
स्प्रशाने अनाहताङ्गी . निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् .
भ्रान्तिहरणम् . कामादिवृत्तिदहनम् . काठिन्यदृढकौपीनम् . चीराजिनवासः . अनाहतमन्त्रः . अक्रिययैव जुष्टम् .
स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म .
प्लववदाचरणम् . ब्रह्मचर्यशान्तिसंग्रहणम् .
ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् .
अन्ते ब्रह्माखण्डाकारम् . नित्यं सर्वसन्देहनाशनम् .
एतन्निर्वाणदर्शनम् .
शिष्यं पुत्रं विना न देयमित्युपनिषत् .
ॐ वाङ्मे मनसीति शान्तिः ..
इति निर्वाणोपनिषत्समाप्ता .
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com