\Large Nirvanamanjari
.. निर्वाणमञ्जरी ..
अहं नामरो नैव मर्त्यो न दैत्यो
न गन्धर्वयक्षः पिशाचप्रभेदः .
पुमान्नैव न स्त्री तथा नैव षण्डः
प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् .. १..
अहं नैव बालो युवा नैव वृद्धो
न वर्णी न च ब्रह्मचारी गृहस्थः .
वनस्थोऽपि नाहं न संन्यस्तधर्मा
जगज्जन्मनाशैकहेतुः शिवोऽहम् .. ३..
अहं नैव मेयस्तिरोभूतमाया
तथैवेक्षितुं मां पृथङ्नास्त्युपायः .
समाश्लिष्टकायत्रयोऽप्यद्वितीयः
सदातीन्द्रियः सर्वरूपः शिवोऽहम् .. ३..
अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः .
यथाहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् .. ४..
न मे लोकयात्राप्रवाहप्रवृत्ति-
र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः .
प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-
र्यतस्तन्वहं तत्स्वरूपः शिवोऽहम् .. ५..
निदानं यदज्ञानकार्यस्य कार्यं
विना यस्य सत्त्वं स्वतो नैव भाति .
यदाद्यन्तमध्यान्तरालान्तराल-
प्रकाशात्मकं स्यात्तदेवाहमस्मि .. ६..
यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-
र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् .
हृदाकाशवर्ती गताङ्गत्रयार्तिः
सदा सच्चिदानन्दमूर्तिः शिवोऽहम् .. ७..
यदासीद्विलासाद्विकारं जगद्य-
द्विकराश्रयं नाद्वितीयत्वतः स्यात् .
मनोबुद्धिचित्ताहमाकारवृत्ति-
प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि .. ८..
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
यदेकं सदा सच्चिदानन्दकन्दम् .
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
यतस्तत्प्रसूतिस्तदेवाहमस्मि .. ९..
यदर्केन्दुविद्युत्प्रभाजालमाला-
विलासास्पदं यत्स्वभेदादिशून्यम् .
समस्तं जगद्यस्य पादात्मकं स्या-
द्यतः शक्तिभानं तदेवाहमस्मि .. १०..
यतः कालमृत्युर्बिभेति प्रकामं
यतश्चित्तबुद्धीन्द्रियाणां विलासः .
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम-
प्रकाशो यतः स्यात्तदेवाहमस्मि .. ११..
यदाकाशवत्सर्वगं शान्तरूपं
परं ज्योतिराकारशून्यं वरेण्यम् .
यदाद्यन्तशून्यं परं शङ्कराख्यं
यदन्तर्विभाव्यं तदेवाहमस्मि .. १२..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
निर्वाणमञ्जरी संपूर्णा ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com