.. .. पाराशरगीता.. ..
२७९
य्
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे .
न तृप्याम्यमृतस्येव वससस्ते पितामह .. १..
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम .
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद .. २..
भी
अत्र ते वर्तयिष्यामि यथापूर्वं महायशः .
पराशरं महात्मानं पप्रच्छ जनको नृपः .. ३..
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च .
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे .. ४..
ततः स तपसा युक्तः सर्वधर्माविधानवित् .
नृपायानुग्रह मना मुनिर्वाक्यमथाब्रवीत् .. ५..
धर्म एव कृतः श्रेयानिह लोके परत्र च .
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः .. ६..
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते .
धर्मात्मकः कर्म विधिर्देहिनां नृपसत्तम .
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते .. ७..
चतुर्विधा हि लोकस्य यात्रा तात विधीयते .
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते .. ८..
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः .
दशार्ध प्रविभक्तानां भूतानां बहुधा गतिः .. ९..
सौवर्णं राजतं वापि यथा भान्दं निषिच्यते .
तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः .. १०..
नाबीजाज्जायते किं चिन्नाकृत्वा सुखमेधते .
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः .. ११..
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् .
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः .. १२..
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः .
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् .. १३..
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः .
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् .. १४..
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् .
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते .. १५..
निरन्तरं च मिश्रं च फलते कर्म पार्थिव .
कल्यानं यदि वा पापं न तु नाशोऽस्य विद्यते .. १६..
कदा चित्सुकृतं तात कूतस्थमिव तिष्ठति .
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते .. १७..
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते .
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप .. १८..
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता .
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः .. १९..
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् .
नित्यं मनः समाधाने प्रयतेत विचक्षणः .. २०..
नायं परस्य सुकृतं दुष्कृतं वापि सेवते .
करोति यादृशं कर्म तादृशं प्रतिपद्यते .. २१..
सुखदुःखे समाधाय पुमानन्येन गच्छति .
अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव .. २२..
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः .
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति .. २३..
भीरू राजन्यो ब्राह्मणः सर्वभक्षो
वैश्योऽनीहावान्हीनवर्णोऽलसश् च .
विद्वांश्चाशीलो वृत्तहीनः कुलीनः
सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा .. २४..
रागी मुक्तः पचमानोऽऽत्महेतोर्
मूर्खो वक्ता नृप हीनं च रास्त्रम् .
एते सर्वे शोच्यतां यान्ति राजन्
यश्चायुक्तः स्नेहहीनः प्रजासु .. २५..
२८०
पराज़र
मनोरथरथं प्राप्य इन्द्रियार्थ हयं नरः .
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् .. १..
सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते .
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् .. २..
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते .
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा .. ३..
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति .
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते .. ४..
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा .
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा .. ५..
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्नुदेत् .
पापं हि कर्मफलति पापमेव स्वयं कृतम् .
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् .. ६..
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् .
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा .. ७..
किं कस्तमनुपश्यामि फलं पापस्य कर्मणः .
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते .. ८..
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते .
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते .. ९..
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् .
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे .. १०..
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति .
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् .. ११..
अजानात्तु कृतां हिंसामहिंसा व्यपकर्षति .
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः .. १२..
कथा कामकृतं चास्य विहिंसैवापकर्षति .
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः .. १३..
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् .
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् .. १४..
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् .
बुद्धियुक्तानि तानीह कृतानि मनसा सह .. १५..
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बनम् .
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा .. १६..
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा .
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् .. १७..
सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः .
करोति यः शुभं कर्म स वै भद्राणि पश्यति .. १८..
नवे कपाले सलिलं संन्यस्तं हीयते यथा .
नवेतरे तथा भावं प्राप्नोति सुखभावितम् .. १९..
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते .
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा .. २०..
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते .
नसमानीह हीनानि तानि पुण्यतमान्यपि .. २१..
राज्ञा जेतव्याः सायुधाश्चोन्नताश् च
सम्यक्कर्तव्यं पालनं च प्रजानाम् .
अग्निश्चेयो बहुभिश्चापि यज्ञैर्
अन्ते मध्ये वा वनमाश्रित्य स्थेयम् .. २२..
दमान्वितः पुरुषो धर्मशीलो
भूतानि चात्मानमिवानुपश्येत् .
गरीयसः पूजयेदात्मशक्त्या
सत्येन शीलेन सुखं नरेन्द्र .. २३..
२८१
पराज़र
कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति .
प्रानी करोत्ययं कर्म सर्वमात्मार्थमात्मना .. १..
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् .
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् .. २..
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ .
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः .. ३..
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् .
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः .. ४..
न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् .
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् .. ५..
अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा .
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् .. ६..
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना .
फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ .. ७..
तैरेव फलपत्रैश्च स माथरमतोषयत् .
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः .. ८..
देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा .
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् .. ९..
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा .
पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च .. १०..
वाचः शेषावहार्येण पालनेनात्मनोऽपि च .
यथावद्धृत्य वर्गस्य चिकीर्षेद्धर्ममादितः .. ११..
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः .
सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः .. १२..
विश्वामित्रस्य पुत्रत्वमृचीक तनयोऽगमत् .
ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः .. १३..
गतः शुक्रत्वमुशना देवदेव प्रसादनात् .
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः .. १४..
असितो देवलश्चैव तथा नारद पर्तवौ .
कक्षीवाञ्जामदग्न्यश्च रामस्तान्द्यस्तथांशुमान् .. १५..
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च .
भरद्वाजो हरिश्मश्रुः कुन्दधारः श्रुतश्रवाः .. १६..
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः .
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः .. १७..
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह .
न तु वृद्धिमिहान्विच्छेत्कर्मकृत्वा जुगुप्सितम् .. १८..
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् .
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया .. १९..
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः .
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो .. २०..
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते .
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् .. २१..
अग्निरात्मा च माता च पिता जनयिता तथा .
गुरुश्च नरशार्दूल परिचर्या यथातथम् .. २२..
मानं त्यक्त्वा यो नरो वृद्धसेवी
विद्वान्क्लीबः पश्यति प्रीतियोगात् .
दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो
लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः .. २३..
२८२
पराज़र
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना .
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा .. १..
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा .
न वृत्तिं परतो मार्गेच्छुश्रूसां तु प्रयोजयेत् .. २..
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः .
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः .. ३..
यथोदय गिरौ द्रव्यं संनिकर्षेण दीप्यते .
तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते .. ४..
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् .
तादृशं कुरुते रूपमेतदेवमवैहि मे .. ५..
तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन .
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् .. ६..
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः .
यश्चिनोति शुभान्येव स भद्राणीह पश्यति .. ७..
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् .
न तत्सेवेत मेधावी न तद्धितमिहोच्यते .. ८..
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता .
स शब्दमात्रफलभाग्राजा भवति तस्करः .. ९..
स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् .
धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् .. १०..
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् .
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः .. ११..
अजिह्मैरशथ क्रोधैर्हव्यकव्य प्रयोक्तृभिः .
शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति .. १२..
अप्रनस्ते ततो धर्मे भवन्ति सुखिताः प्रजाः .
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः .. १३..
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते .
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः .. १४..
यश्च शुश्रूसते शूद्रः सततं नियतेन्द्रियः .
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते .. १५..
प्राण सन्तापनिर्दिष्टाः काकिन्योऽपि महाफलाः .
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः .. १६..
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप .
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् .. १७..
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् .
याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः .. १८..
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च .
तदाहुरधमं दानं मुनयः सत्यवादिनः .. १९..
अतिक्रमे मज्जमानो विविधेन नरः सदा .
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् .. २०..
दमेन शोभते विप्रः क्षत्रियो विजयेन तु .
धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते .. २१..
२८३
पराज़र
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः .
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूसयार्जिताः .
स्वलाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः .. १..
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूसुरुच्यते .
क्षत्रधर्मा वैश्य धर्मा नावृत्तिः पतति द्विजः .
शूद्र कर्मा यदा तु स्यात्तदा पतति वै द्विजः .. २..
वानिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् .
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते .. ३..
रङ्गावतरणं चैव तथारूपोपजीवनम् .
मद्य मांसोपजीव्यं च विक्रयो लोहचर्मणोः .. ४..
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् .
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः .. ५..
संसिद्धिः पुरुषो लोके यदाचरति पापकम् .
मदेनाभिप्लुत मनास्तच्च न ग्राह्यमुच्यते .. ६..
श्रूयन्ते हि पुराणे वै प्रजा धिग्दन्द शासनाः .
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः .. ७..
धर्म एव सदा नॄणामिह राजन्प्रशस्यते .
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि .. ८..
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप .
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः .. ९..
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः .
दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत .. १०..
ततः क्रोधाभिभूतानां वृत्तं लज्जा समन्वितम् .
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत .. ११..
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा .
परस्परावमर्देन वर्तयन्ति यथासुखम् .. १२..
तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत् .
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह .. १३..
एतस्मिन्नेव काले तु देवा देववरं शिवम् .
अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् .. १४..
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ .
तिस्रोऽप्येकेन बानेन देवाप्यायित तेजसा .. १५..
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः .
देवतानां भयकरः स हतः शूलपाणिना .. १६..
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः .
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा .. १७..
ततोऽभ्यसिञ्चन्राज्येन देवानां दिवि वासवम् .
सप्तर्षयश्चान्वयुञ्जन्नराणां दन्द धारणे .. १८..
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः .
राजानः क्षत्रियाश्चैव मन्दलेषु पृथक्पृथक् .. १९..
महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये .
तेषामथासुरो भावो हृदयान्नापसर्पति .. २०..
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः .
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः .. २१..
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च .
भजन्ते तानि चाद्यापि ये बालिशतमा नराः .. २२..
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः .
संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् .. २३..
न सङ्करेण द्रविणं विचिन्वीत विचक्षणः .
धर्मार्थं न्यायमुत्सृज्य न तत्कल्यानमुच्यते .. २४..
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः .
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय .. २५..
इष्टानिष्ट समायोगो वैरं सौहार्दमेव च .
अथ जातिसहस्राणि बहूनि परिवर्तते .. २६..
तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन .
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते .. २७..
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः .
न तथान्येषु भूतेषु मनुष्यरहितेष्विह .. २८..
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा .
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् .. २९..
यदा व्यपेतद्धृल्लेखं मनो भवति तस्य वै .
नानृतं चैव भवति तदा कल्यानमृच्छति .. ३०..
२८४
पराज़र
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः .
तपस्विधिं तु वक्ष्यामि तन्मे निगदतः शृणु .. १..
प्रायेन हि गृहस्थस्य ममत्वं नाम जायते .
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः .. २..
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च .
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै .. ३..
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः .
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः .. ४..
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् .
मोहजाता रतिर्नाम समुपैति नराधिप .. ५..
कृतार्थो भोगतो भूत्वा स वै रतिपरायनः .
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति .. ६..
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् .
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति .. ७..
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः .
बाल स्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते .. ८..
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् .
करोति येन भोगी स्यामिति तस्माद्विनश्यति .. ९..
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्म दर्शनम् .
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् .. १०..
स्नेहायतन नाशाच्च धननाशाच्च पार्थिव .
आधिव्याधि प्रतापाच्च निर्वेदमुपगच्छति .. ११..
निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्र दर्शनम् .
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति .. १२..
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् .
यो वै प्रिय सुखे क्षीणे तपः कर्तुं व्यवस्यति .. १३..
तपः सर्वगतं तात हीनस्यापि विधीयते .
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् .. १४..
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः .
क्व चित्क्व चिद्व्रतपरो व्रतान्यास्थाय पार्थिव .. १५..
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः .
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः .. १६..
यक्षराक्षस गन्धर्वाः सिद्धाश्चान्ये दिवौकसः .
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः .. १७..
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा .
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा .. १८..
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः .
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् .. १९..
कौशिकानि च वस्त्राणि शुभान्याभरणानि च .
वाहनासन यानानि सर्वं तत्तपसः फलम् .. २०..
मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः .
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् .. २१..
शयनानि च मुख्यानि भोज्यानि विविधानि च .
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् .. २२..
नाप्राप्यं तपसा किं चित्त्रैलोक्येऽस्मिन्परन्तप .
उपभोग परित्यागः फलान्यकृतकर्मणाम् .. २३..
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् .
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम .. २४..
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः .
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यास वर्जिता .. २५..
नष्ट प्रज्ञो यदा भवति तदा न्यायं न पश्यति .
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश् चरेत् .. २६..
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते .
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् .. २७..
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते .
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः .. २८..
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् .
फलार्थी तत्पथत्यक्तः प्राप्नोति विषयात्मकम् .. २९..
धर्मे तपसि दाने च विचिकित्सास्य जायते .
स कृत्वा पापकान्येव निरयं प्रतिपद्यते .. ३०..
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम .
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः .. ३१..
इषुप्रपात मात्रं हि स्पर्शयोगे रतिः स्मृता .
रसने दर्शने घ्राणे श्रवणे च विशां पते .. ३२..
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः .
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् .. ३३..
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः .
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते .. ३४..
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा .
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः .. ३५..
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् .
धर्मक्रिया वियुक्तानामशक्त्या संवृतात्मनाम् .. ३६..
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् .
तेषां नान्यदृते लोके तपसः कर्म विद्यते .. ३७..
सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम् .
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप .. ३८..
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम् .
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम् .. ३९..
२८५
जनक
वर्णो विशेषवर्णानां महर्षे केन जायते .
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर .. १..
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः .
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः .. २..
पराज़र
एवमेतन्महाराज येन जातः स एव सः .
तपसस्त्वपकर्षेण जातिग्रहणतां गतः .. ३..
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः .
अतोऽन्यतरतो हीनादवरो नाम जायते .. ४..
वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे .
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः .. ५..
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः .
ऊरुजा धनिनो राजन्पादजाः परिचारकाः .. ६..
चतुर्णामेव वर्णानामागमः पुरुषर्षभ .
अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः .. ७..
क्षत्रजातिरथाम्बस्था उग्रा वैदेहकास्तथा .
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः .. ८..
आयोगाः करणा व्रात्याश्चन्दालाश्च नराधिप .
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् .. ९..
जनक
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् .
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम .. १०..
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः .
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे .. ११..
पराज़र
राजन्नेतद्भवेद्ग्राह्यमपकृष्टेन जन्मना .
महात्मानं समुत्पत्तिस्तपसा भावितात्मनाम् .. १२..
उत्पाद्य पुत्रान्मुनयो नृपतौ यत्र तत्र ह .
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः .. १३..
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः .
वतस्तान्द्यः कृपश्चैव कक्षीवान्कमथादयः .. १४..
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः .
आयुर्मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च .. १५..
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् .
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि .. १६..
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव .
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च .. १७..
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव .
नामधेयानि तपसा तानि च ग्रहणं सताम् .. १८..
जनक
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम .
तथा सामान्य धर्मांश्च सर्वत्र कुशलो ह्यसि .. १९..
परा
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप .
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना .. २०..
कृषिश्च पाशुपाल्यं च वानिज्यं च विशाम् अपि .
द्विजानां परिचर्या च शूत्र कर्म नराधिप .. २१..
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः .
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे .. २२..
आनृशंस्यमहिंसा चाप्रमादः संविभागिता .
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च .. २३..
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता .
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप .. २४..
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः .
अत्र तेषामधीकारो धर्मेषु द्विपदां वर .. २५..
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः .
उन्नमन्ति यथा सन्तमाश्रित्येह स्वकर्मसु .. २६..
न चापि शूद्रः पततीति निश्चयो
न चापि संस्कारमिहार्हतीति वा .
श्रुतिप्रवृत्तं न च धर्ममाप्नुते
न चास्य धर्मे प्रतिषेधनं कृतम् .. २७..
वैदेहकं शूद्रमुदाहरन्ति
द्विजा महाराज श्रुतोपपन्नाः .
अहं हि पश्यामि नरेन्द्र देवं
विश्वस्य विष्णुं जगतः प्रधानम् .. २८..
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः .
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः .. २९..
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः .
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते .. ३०..
ज
किं कर्म दूसयत्येनमथ जातिर्महामुने .
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि .. ३१..
परा
असंशयं महाराज उभयं दोषकारकम् .
कर्म चैव हि जातिश्च विशेषं तु निशामय .. ३२..
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते .
जात्या दुष्टश्च यः पापं न करोति स पूरुषः .. ३३..
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् .
कर्म तद्दूसयत्येनं तस्मात्कर्म न शोभनम् .. ३४..
ज
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम .
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा .. ३५..
परा
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि .
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा .. ३६..
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः .
नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् .. ३७..
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः .
प्रयान्ति स्थानमजरं सर्वकर्म विवर्जिताः .. ३८..
सर्वे वर्णा धर्मकार्याणि सम्यक्
कृत्वा राजन्सत्यवाक्यानि चोक्त्वा .
त्यक्त्वाधर्मं दारुणं जीवलोके
यान्ति स्वर्गं नात्र कार्यो विचारः .. ३९..
२८६
पराज़र
पिता सुखायो गुरवः स्त्रियश् च
न निर्गुणा नाम भवन्ति लोके .
अनन्यभक्ताः प्रियवादिनश् च
हिताश्च वश्याश्च तथैव राजन् .. १..
पिता परं दैवतं मानवानां
मातुर्विशिष्टं पितरं वदन्ति .
ज्ञानस्य लाभं परमं वदन्ति
जितेन्द्रियार्थाः परमाप्नुवन्ति .. २..
रणाजिरे यत्र शराग्निसंस्तरे
नृपात्मजो घातमवाप्य दह्यते .
प्रयाति लोकानमरैः सुदुर्लभान्
निषेवते स्वर्गफलं यथासुखम् .. ३..
श्रान्तं भीतं भ्रष्ट शस्त्रं रुदन्तं
पराङ्मुखं परिबर्हैश्च हीनम् .
अनुद्यतं रोगिणं याचमानं
न वै हिंस्याद्बालवृद्धौ च राजन् .. ४..
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् .
अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् .. ५..
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः .
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः .. ६..
पापात्पापसमाचारान्निहीनाच्च नराधिप .
पाप एव वधः प्रोक्तो नरकायेति निश्चयः .. ७..
न कश्चित्त्राति वै राजन्दिष्टान्त वशमागतम् .
सावशेषायुषं चापि कश्चिदेवापकर्षति .. ८..
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् .
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा .. ९..
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षिताम् .
निधनं शोभनं तात पुलिनेषु क्रियावताम् .. १०..
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति .
नाकारणात्तद्भवति कारणैरुपपादितम् .. ११..
तथा शरीरं भवति देहाद्येनोपपादितम् .
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् .. १२..
द्वितीयं कारणं तत्र नान्यत्किं चन विद्यते .
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते .. १३..
सिरा स्नाय्वस्थि सङ्घातं बीभत्सा मेध्य सङ्कुलम् .
भूतानामिन्द्रियाणां च गुणानां च समागतम् .. १४..
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः .
पुनैरपि परिक्षीणं शरीरं मर्त्यतां गतम् .. १५..
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् .
भूतैः प्रकृतमापन्नैस्ततो भूमौ निमज्जति .. १६..
भावितं कर्मयोगेन जायते तत्र तत्र ह .
इदं शरीरं वैदेह म्रियते यत्र तत्र ह .
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा .. १७..
न जायते तु नृपते कं चित्कालमयं पुनः .
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् .. १८..
स पुनर्जायते राजन्प्राप्येहायतनं नृप .
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः .. १९..
द्विविधानां च भूतानां जङ्गमाः परमा नृप .
जङ्गमानामपि तथा द्विपदाः परमा मताः .
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः .. २०..
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः .
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः .. २१..
जातमन्वेति मरणं नृणामिति विनिश्चयः .
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः .. २२..
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् .
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् .. २३..
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् .
मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः .. २४..
विषमुद्बन्धनं दाहो दस्यु हस्तात्तथा वधः .
दंस्त्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते .. २५..
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः .
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि .. २६..
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्रानाः पुण्यकृतां नृप .
मध्यतो मध्यपुण्यानामधो दुष्कृत कर्मणाम् .. २७..
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर्
अज्ञानतुल्यः पुरुषस्य राजन् .
येनावृतः कुरुते सम्प्रयुक्तो
घोराणि कर्माणि सुदारुणानि .. २८..
प्रबोधनार्थं श्रुतिधर्मयुक्तं
वृद्द्धानुपास्यं च भवेत यस्य .
प्रयत्नसाध्यो हि स राजपुत्र
प्रज्ञाशरेणोन्मथितः परैति .. २९..
अधीत्य वेदांस्तपसा ब्रह्मचारी
यज्ञाञ्शक्त्या संनिसृज्येह पञ्च .
वनं गच्छेत्पुरुषो धर्मकामः
श्रेयश्चित्वा स्थापयित्वा स्ववंशम् .. ३०..
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् .
चन्दालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् .. ३१..
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते .
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः .. ३२..
कथं न विप्रनश्येम योनीतोऽस्या इति प्रभो .
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामान्य दर्शनात् .. ३३..
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः .
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते .. ३४..
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति .
दीपोपमानि भूतानि यावदर्चिर्न नश्यति .. ३५..
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत .
समदुःखसुखो भूत्वा स परत्र महीयते .. ३६..
दानं त्यागः शोभना मूर्तिरद्भ्यो
भूयः प्लाव्यं तपसा वै शरीरम् .
सरस्वती नैमिषपुष्करेषु
ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् .. ३७..
गृहेषु येषामसवः पतन्ति
तेषामथो निर्हरनं प्रशस्तम् .
यानेन वै प्रापनं च श्मशाने
शौचेन नूनं विधिना चैव दाहः .. ३८..
इष्टिः पुष्टिर्यजनं याजनं च
दानं पुण्यानां कर्मणां च प्रयोगः .
शक्त्या पित्र्यं यच्च किं चित्प्रशस्तं
सर्वाण्यात्मार्थे मानवो यः करोति .. ३९..
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप .
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्ट कर्मणः .. ४०..
भी
एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना .
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप .. ४१..
२८७
भी
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः .
पराशरं महात्मानं धर्मे परमनिश्चयम् .. १..
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति .
क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने .. २..
परा
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा .
चीर्णं तपो न प्रनश्येद्वापः क्षेत्रे न नश्यति .. ३..
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते .
दत्त्वाभय कृतं दानं तदा सिद्धिमवाप्नुयात् .. ४..
यो ददाति सहस्राणि गवामश्वशतानि च .
अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते .. ५..
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् .
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि .. ६..
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्कर पर्णवत् .
अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् .. ७..
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति .
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते .
न भिद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः .. ८..
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते .
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् .. ९..
वीतरागो जितक्रोधः सम्यग्भवति यः सदा .
विषये वर्तमानोऽपि न स पापेन युज्यते .. १०..
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति .
पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः .. ११..
यथा भानुगतं तेजो मनिः शुद्धः समाधिना .
आदत्ते राजशार्दूल तथा योगः प्रवर्तते .. १२..
यथा तिलानामिह पुष्पसंश्रयात्
पृथक्पृथग्यानि गुणोऽतिसौम्यताम् .
तथा नराणां भुवि भावितात्मनां
यथाश्रयं सत्त्वगुणः प्रवर्तते .. १३..
जहाति दारानिहते न सम्पदः
सदश्वयानं विविधाश्च याः क्रियाः .
त्रिविष्टपे जातमतिर्यदा नरस्
तदास्य बुद्धिर्विषयेषु भिद्यते .. १४..
प्रसक्तबुद्धिर्विषयेषु यो नरो
यो बुध्यते ह्यात्महितं कदा चन .
स सर्वभावानुगतेन चेतसा
नृपामिषेणेव झषो विकृष्यते .. १५..
सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः .
कदली गर्भनिःसारो नौरिवाप्सु निमज्जति .. १६..
न धर्मकालः पुरुषस्य निश्चितो
नापि मृत्युः पुरुषं प्रतीक्षते .
क्रिया हि धर्मस्य सदैव शोभना
यदा नरो मृत्युमुखेऽभिवर्तते .. १७..
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति .
तथायुक्तेन मनसा प्राज्ञो गच्छति तां गतिम् .. १८..
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् .
अविद्वान्मोक्षधर्मेषु बद्धोभ्रमति चक्रवत् .. १९..
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् .
तथात्मा पुरुषस्येह मनसा परिमुच्यते .
मनः प्रनयतेऽऽत्मानं स एनमभियुञ्जति .. २०..
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते .
इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते .. २१..
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् .
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च .. २२..
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः .
तथा शरीरं तपसा तप्तं विषयमश्नुते .. २३..
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् .
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति .. २४..
नीहारेण हि संवीतः शिश्नोदर परायनः .
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते .. २५..
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् .
तथा मर्त्यार्णवे जन्तोः कर्म विज्ञानतो गतिः .. २६..
अहोरात्र मये लोके जरा रूपेण सञ्चरन् .
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा .. २७..
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते .
नाकृतं लभते कश्चित्किं चिदत्र प्रियाप्रियम् .. २८..
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च .
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा .. २९..
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति .
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे .. ३०..
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना .
तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति .. ३१..
यथा समुद्रमभितः संस्यूताः सरितोऽपराः .
तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा .. ३२..
स्नेहपाशैर्बहुविभैरासक्तमनसो नराः .
प्रकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत् .. ३३..
शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः .
बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च .. ३४..
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः .
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः .. ३५..
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः .
भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते .. ३६..
न माता न पिता किं चित्कस्य चित्प्रतिपद्यते .
दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते .. ३७..
मातापुत्रः पिता भ्राता भार्या मित्र जनस्तथा .
अष्टापद पदस्थाने त्वक्षमुद्रेव न्यस्यते .. ३८..
सर्वाणि कर्माणि पुरा कृतानि
शुभाशुभान्यात्मनो यान्ति जन्तोर् .
उपस्थितं कर्मफलं विदित्वा
बुद्धिं तथा चोदयतेऽन्तरात्मा .. ३९..
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति .
न तस्य कश्चिदारम्भः कदा चिदवसीदति .. ४०..
अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम् .
न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः .. ४१..
आस्तिक्य व्यवसायाभ्यामुपायाद्विस्मयाद्धिया .
यमारभत्यनिन्द्यात्मा न सोऽर्थः परिषीदति .. ४२..
सर्वैः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं
गर्भात्सम्प्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् .
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् .. ४३..
स्वरूपतामात्मकृतं च विस्तरं
कुलान्वयं द्रव्यसमृद्धि सञ्चयम् .
नरो हि सर्वो लभते यथाकृतं
शुभशुभेनात्म कृतेन कर्मणा .. ४४..
भी
इत्युक्तो जनको राजन्यथातथ्यं मनीसिना .
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह .. ४५..
.. इति पाराशरगीता समाप्ता ..
Please send corrections to Sunder Hattangadi( sunderh@hotmail.com OR sanskrit@cheerful.com) ;
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com