||बृहत्पाराशरहोराशास्त्रम् ९१- ९७ ||
अथ ग्रहणजातशान्त्यध्यायः ||९१||
सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज |
व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् ||१||
अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया |
सूर्यस्येन्दोश्च ग्रहेणं यस्मिनृक्षे प्रजायते ||२||
तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् |
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ||३||
चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च |
राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ||४||
शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् |
तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ||५||
त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् |
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ||६||
रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् |
चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ||७||
श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् |
राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम् ||८||
दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा |
सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः ||९||
अथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः |
दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः ||१०||
सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् |
तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम ||११||
ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः |
अभिषेकं ततः कुर्यात् जातस्य कलहोदकैः ||१२||
आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः |
ब्राह्मणान् भोजयेत्वा तु यथाशक्ति विसर्जयेत् ||१३||
एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः |
सर्वविघ्नं विनिर्जित्वा सौभाग्यं लभते नरः ||१४||
अथ गण्डान्तजातशान्त्यध्यायः ||९२||
तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् |
जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् ||१||
पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् |
अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते ||२||
रेवतीदास्रयोः साप्रमघयोः शाक्रमूलयोः |
सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ||३||
मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः |
सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ||४||
एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् |
इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ||५||
अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे |
गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ||६||
शान्तिंशुभेऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिशुम् |
वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ||७||
काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये |
आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ||८||
द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् |
सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम |
तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ||९||
उपचारैर्यथाशक्ति कलहोपरि पूजयेत् |
पूजान्ते समिदन्नज्यैर्होम. कुर्याद्यथाविधि ||१०||
ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते |
आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ||११||
अथ अभुक्तमूलशान्त्यध्यायः ||९३||
ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ |
महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः ||१||
अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् |
अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ||२||
तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे |
तत्राऽदौ दोषबहुल्यान् मूलशान्तिर्निगद्यते ||३||
जन्मतो द्वादशाहे वा तदृक्षे वा शुभे दिने |
जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः ||४||
सुसमे च शुभे स्थाने गोमयेनोपलेपिते |
मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत् ||५||
चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् |
कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत् ||६||
सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः |
नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः ||७||
श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् |
खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम् ||८||
सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् |
सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम् ||९||
आचार्यं वरयेत् पश्चात् स्वस्तिवाचनुपूर्वकम् |
कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः ||१०||
पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च |
शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत् ||११||
वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् |
अर्चेयेन्निरृतिं देवं शुक्लवस्त्राक्षतादिभिः ||१२||
इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् |
स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत् ||१३||
देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि |
अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः ||१४||
मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् |
प्रार्थयेच्च ततो देवमभिषेकार्थमादरात् ||१५||
भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् |
आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम् ||१६||
वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् |
शुक्लाम्बरधरस्तद्वत् श्वेतगन्धानुलेपनः ||१७||
धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः |
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ||१८||
यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् |
तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय ||१९||
अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् |
मूलगण्डोद्भवस्तैवं सर्पपापं प्रणश्यति ||२०||
अथ ज्येष्ठादि गण्डशान्त्यध्यायः ||९४||
ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः |
तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नोपशान्तये ||१||
मूलशान्तिसमं सर्वमात्रापि मण्डपादिकम् |
इन्द्रोऽत्र देवता तद्वदधिदेवोऽनलस्तथा ||२||
विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदैवतम् |
यथाशक्ति सुवर्णेन कुर्यादिन्द्रस्वरूपकम् ||३||
वज्राङ्कुशधरं दिव्यं गजराजोपरिस्थितम् |
शालितण्डुलसंयुक्तकुम्भस्योपरि पूजयेत् ||४||
स्वस्वगृह्योक्तमन्त्रेण गन्धपुष्पाक्षतादिभिः |
अभिषेकं च होमं च कुर्याद् ब्राह्मणभोजनम् ||५||
इन्द्रसूक्तं जपेद् भक्त्या मन्त्रं मृत्युञ्जयं तथा |
प्रार्थयेदिन्द्रदेवं च ततः शान्तिमवाप्नुयात् ||६||
अथ वा शक्त्यभावे तु कुर्याद् गोदानमेव हि |
यतः समस्तभूदानाद् गोदानमतिरिच्यते ||७||
मूलेन्द्राहिमघागण्डजाते दद्याद् गवां त्रयम् |
गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ||८||
अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् |
गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ||९||
ज्येष्ठनक्षत्रजा कन्या विनिहन्ति धवाग्रजम् |
विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी ||१०||
तस्याः प्रदानकालेऽतो गोदानमपि कारयेत् |
आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ||११||
कन्यासुतौ हतः श्वश्रूं श्वशुरञ्च यथाक्रमम् |
तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः ||१२||
तत्तदोषविनाशाय यथावित्तानुसारतः |
धवाग्रजद्यभावे तु न दोषाय प्रजायते ||१३||
अथ त्रीतरजन्मशान्त्यध्यायः ||९५||
अथाऽन्यत् संप्रवक्ष्यामि जन्मदोषप्रदं द्विज |
सुतत्र्ये सुताजन्म तत्त्रये सुतजन्म चेत् ||१||
तदाऽरिष्टभयं ज्ञेयं पितृमातृकुलद्वये |
तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः ||२||
सूतकान्तेऽथ वा शुद्धे समये च शुभे दिने |
आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् ||३||
ब्रह्मविष्णु महेशेन्द्रप्रतिमाः स्वर्णजाः शुभाः |
पूजयेद् धान्यराशिस्थकलशोपरि भक्तितः ||४||
चत्वारि रुद्रसूक्तानि शान्तिसूक्तानि सर्वशः |
विप्र एको जपेद् होमकाले च सुचिसंयतः ||५||
आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् |
अष्टोत्तरं सहस्रं वा शतं वाऽष्टौ च विंशतिम् ||६||
ब्रह्मादिसर्वदेवेभ्यः स्वस्वगृह्योक्तमन्त्रतः |
ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ||७||
अभिषेकं च जातस्य सकुटुम्बस्य कारयेत् |
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ||८||
कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत् |
एवं शान्त्या च मैत्रेय सर्वारिष्टं विलीयते ||९||
अथ प्रसवविकारशान्त्यध्यायः ||९६||
अथाऽहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् |
येनाऽरिष्टं समस्तस्य ग्रामस्य च कुलस्य च ||१||
अत्यल्पे वाऽधिके काले प्रसवो यदि जायते |
हीनाङ्गोवाऽधिकाङ्गो वा विशिरा द्विशिरास्तथा ||२||
नार्या पश्वाकृतिर्वापि पशुष्वपि नराकृतिः |
प्रसवस्य विकारोऽयं विनाशायोपजायते ||३||
यस्य स्त्रियाः पशुनां वा विकाराः प्रसवोद्भवः |
अनिष्टं भवने तस्य कुलेऽपि च महद् भवेत् ||४||
तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः |
स्त्री वा गौवंडवा वापि परित्याज्या हितार्थिना ||५||
नार्याः पञ्चदशे वर्षे जन्मतः षोडशोऽपि वा |
गर्भो वा प्रसवो वाऽपि न शुभाय प्रजायते ||६||
सिंहराशिस्थितेऽर्क गौनक्रस्थे महिषी तथा |
प्रसूता स्वामिनं हन्ति स्वयं चापि विनश्यति ||७||
ब्राह्मणाय प्रदद्यात् तां शान्तिं वापि समाचरेत् |
ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ||८||
सर्वं होमादिकं कर्म कुर्यात् त्रितरशान्तिवत् |
ततो गृहो सुखी भूत्वा सर्वपापैः प्रमुच्यते ||९||
एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः |
सर्वान् कामानवाप्नोति चिरजीवी सुखी च सः ||१०||
अथोपसंहाराध्यायः ||९७||
यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने |
तदेव शौनकादिभ्यो नारदः प्राह सादरम् ||१||
ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज |
नासूयकाय दातव्यं परनिन्दारताय वा ||२||
जडाय दुर्विनीताय नाज्ञाताय कदाचन |
देयमेतत्सुरिलाय भक्ताय सत्यवादिने ||३||
मेधाविने विनीताय सम्यग् ज्ञातकुलाय च |
पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमुत्तमम् ||४||
जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् |
होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ||५||
होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः |
शुभाऽशुभं फलं वक्ति सत्यं तद्वचनं भवेत् ||६||
ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः |
तेषांमायुर्बलं वित्तं वृद्धिमेति यशः सदा ||७||
इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् |
नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ||८||
श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने |
ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ||९||
ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः |
सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य भस्य च ||१०||
विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् |
अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ||११||
भावानां च फलाध्यायो भावेशोत्थफलं तथा |
अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् ||१२||
ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् |
पदं चोपपदं तद्वदर्गला त्वथ कारकाः ||१३||
कारकांशफलं योगकारकाध्याय एव च |
नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः ||१४||
राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः |
विशेषधनयोगाश्च योगा दारिद्र्यकारकाः ||१५||
आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः |
नानाविधदशाध्यायास्तत्फलाध्यायः संयुताः ||१६||
अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः |
सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् ||१७||
एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् |
ततश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च ||१८||
ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् |
समुदायाष्टवर्गोत्थफलाध्यायः परिस्फुटः ||१९||
ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा |
महापुरुषचिह्नानि महाभूतफलानि च ||२०||
गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् |
जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च ||२१||
स्त्रीणां च फलवैष्ट्यमङ्गलक्ष्मफलानि च |
पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः ||२२||
सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः |
जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रतिपादनम् ||२३||
तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः |
प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः ||२४||
एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् |
विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु यशः श्रियम् ||२५||
Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)
%@@1
% File name : par9197.itx
%--------------------------------------------
% Text title : bR^ihatpArAsharahorAshAstram.h 91-97
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .