.. प्राणाग्निहोत्रोपनिषत् ..
शरीरयज्ञसंशुद्धचित्तसंजातबोधतः .
मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं
करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. अथातः सर्वोपनिषत्सारं संसारज्ञानातीत-
मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः . यस्मिन्नेव
पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन
संसारविमुक्तिर्भवतीति . स्वेन विधिनान्नं भूमौ निक्षिप्य
या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्या-
मनुमन्त्रयते . या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः .
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः .. १..
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः .
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः .. २..
जीवला नघारिषां माते बध्नामोषधिम् .
यातयायु रुपाहरादप रक्षांसि चातयात् .. ३..
अन्नपतेऽन्नस्य नो वेह्यनमीवस्य शुष्मिणः .
प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे .. ४..
यदन्नमग्निर्बहुधा विराद्धि
रुद्रैः प्रजग्धं यदि वा पिशाचैः .
सर्वं तदीशानो अभयं कृणोतु
शिवमीशानाय स्वाहा .. ५..
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः .
त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्तवं विष्णुस्त्वं वषट्कार
आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः .
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् .
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् .
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम .
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा .
अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि .
प्राणाय स्वाहा . अपानाय स्वाहा . व्यानाय स्वाहा . उदानाय स्वाहा .
समानाय स्वाहा . इति कनिष्ठिकाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोति .
अनामिकयापाने . मध्यमया व्याने . सर्वाभिरुदाने . प्रदेशिन्या समाने .
तूष्णीमेकामेकऋषौ जुहोति . द्वे आहवनीये .
एकां दक्षिणाग्नौ . एकां गार्हपत्ये . एकां सर्वप्रायश्चित्तीये ..
अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् .
स ते प्राणा वाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् .
प्राणो अग्निः परमात्मा पञ्चवायुभिरावृतः .
अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन .. १..
इति प्रथमः खण्डः .. १..
विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते
जायमानम् . विश्वं त्वाहुतथः सर्वा यत्र
ब्रह्माऽमृतोऽसि . महानवोऽयं पुरुषो
योऽङ्गुष्ठाग्रे प्रतिष्ठितः . तमद्भिः परिषिञ्चामि
सोऽस्यान्ते अमृताय च . अनावित्येष बाह्यात्मा
ध्यायेताग्निहोत्रं जोहोमीति . सर्वेषामेव सूनुर्भवति .
अस्य यज्ञपरिवृता आहुतीर्होमयति . स्वशरीरे यज्ञं
परिवर्तयामीति . चत्वारोऽग्नयस्ते किंभागधेयाः .
तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मि-
परिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति . यस्मादुक्तो
दर्शनाग्निर्नाम चतुराकृतिराहवनीयो भूत्वा मुखे तिष्ठति .
शारीरोग्निर्नाम जराप्रणुदा हविरवस्कन्दति . अर्धचन्द्राकृति-
र्दक्षिणाग्निर्भूत्वा हृदये तिष्ठति तत्र कोष्ठाग्निरिति .
कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग्व्यष्ट्यां
श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति .
प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्रो हिमांशुप्रभाभिः
प्रजननकर्मा ..
इति द्वितीयः खण्डः .. २..
अस्य शरीरयज्ञस्य यूपरशनाशोभितस्य
को यजमानः . का पत्नी . के ऋत्विजः . के सदस्याः .
कानि यज्ञपात्राणि . कानि हवींषि . का वेदिः .
कोत्तरवेदिः . को द्रोणकलशः . को रथः . कः पशुः .
कोऽध्वर्युः . को होता . को ब्राह्मणाच्छंसी .
कः प्रतिप्रस्थाता . कः प्रस्तोता . को मैत्रावरुणः .
क उद्गाता . का धारापोता . के दर्भाः . कः स्रुवः .
काज्यस्थाली . कावाघारौ . कावाज्यभागौ . केऽत्र
याजाः . के अनुयाजाः . केडा . कः सूक्तवाकः .
कः शंयोर्वाकः . का हिंसा . के पत्नीसंयाजाः .
को यूपः . का रशना . का इष्टयः . का दक्षिणा .
किमवभृतमिति ..
इति तृतीयः खण्डः .. ३..
अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः .
बुद्धिः पत्नी . वेदा महर्त्विजः . अहङ्कारोऽध्वर्युः . चित्तं
होता . प्राणो ब्राह्मणच्छंसी . अपानः प्रतिप्रस्थाता .
व्यानः प्रस्तोता . उदान उद्गाता . समानो मैत्रवरुणः .
शरीरं वेदिः . नासिकोत्तरवेदिः . मूर्धा द्रोणकलशः .
पादो रथः . दक्षिणहस्तः स्रुवः . सव्यहस्त आज्यस्थाली .
श्रोत्रे आघारौ . चक्षुषी आज्यभागौ . ग्रीवा धारापोता .
तन्मात्राणि सदस्याः . महाभूतानि प्रयाजाः . भूतानि
गुणा अनुयाजाः . जिह्वेडा . दन्तोष्ठौ सूक्तवाकः . तालुः
शंयोर्वाकः . स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः .
ओङ्कारो यूपः . आशा रशना . मनो रथः . कामः पशुः .
केशा दर्भाः . बुद्धीन्द्रियाणि यज्ञपात्राणि . कर्मेन्द्रियाणि
हवींषि . अहिंसा इष्टयः . त्यागो दक्षिणा . अवभृतं
मरणात् . सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः .
वाराणस्यां मृतो वापि इदं वा ब्रह्म यः पठेत् . एकेन
जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं च
प्राप्नुयादित्युपनिषत् .. ३..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ तत्सत् ..
इति प्राणाग्निहोत्रोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com