.. श्रीराधाकवचम् ..
महेश्वर उवाच |
श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः || १||
ऋषिश्चन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम् |
श्रीकृष्णभक्तिसम्प्राप्तौ विनियोगः प्रकीर्तितः || २||
शिष्याय कृष्णभक्ताय ब्रह्मणाय प्रकाश्येत् |
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् || ३||
राज्यं देयं शिरो देयं न देयं कवचं प्रिये |
कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना || ४||
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा |
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च || ५||
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु |
ॐ ह्रीं श्रीं राधिकाङेन्तं वह्निजायान्तमेव च || ६||
कपालं नेत्रयुग्मं च श्रोत्रयुग्मं सदावतु |
ॐ रां ह्रीं श्रीं राधिकेति ङेन्तं वह्नि जायान्तमेव च || ७||
मस्तकं केशसंघांश्च मन्त्रराजः सदावतु |
ॐ रां राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च || ८||
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् |
क्लीं श्रीं कृष्णप्रियाङेन्तं कण्ठं पातु नमोऽन्तकम् || ९||
ॐ रां रासेश्वरीङेन्तं स्कन्धं पातु नमोऽन्तकम् |
ॐ रां रासविलासिन्यै स्वाहा पृष्ठं सदावतु || १०||
वृन्दावनविलासिन्यै स्वाहा वक्षः सदावतु |
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् || ११||
कृष्णप्राणाधिकाङेन्तं स्वाहान्तं प्रणवादिकम् |
पादयुग्मं च सर्वाङ्गं संततं पातु सर्वतः || १२||
राधा रक्षतु प्राच्यां च वह्नौ कृष्णप्रियावतु |
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् || १३||
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता |
उत्तरे संततं पातु मूलप्रकृतिरीश्वरी || १४||
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता |
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा || १५||
महाविष्णोश्च जननी सर्वतः पातु संततं |
कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम् || १६||
यस्मै कस्मै न दातव्य गुढाद् गुढतरं परम् |
तव स्नेहान्मयाख्यातं प्रवक्तं न कस्यचित् || १७||
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः |
कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णोसमो भवेत् || १८||
शतलक्षजपेनैव सिद्धं च कवचं भवेत् |
यदि स्यात् सिद्धकवचो न दग्धो वह्निना भवेत् || १९||
एतस्मात् कवचाद् दुर्गे राजा दुर्योधनः पुरा |
विशारदो जलस्तम्भे वह्निस्तम्भे च निश्चितम् || २०||
मया सनत्कुमाराय पुरा दत्तं च पुष्करे |
सूर्यपर्वणि मेरौ च स सान्दीपनये ददौ || २१||
बलाय तेन दत्तं च ददौ दुर्योधनाय सः |
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः || २२||
नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः |
विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत् || २३||
स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम् |
सर्वव्रतोपवासे च पृथिव्याश्च प्रदक्षिणे || २४||
सर्वयज्ञेषु दीक्षायां नित्यं च सत्यरक्षणे |
नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे || २५||
पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः |
यत्फलं लभते नूनं पठनात् कवचस्य च || २६||
राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने |
दावाग्नौ संकटे चैव दस्युचौरान्विते भये || २७||
कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने |
व्याधियुक्तो भवेन्मुक्तो धारणात् कवचस्य च || २८||
इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि |
त्वमेव सर्वरूपा मां माया पृच्छसि मायया || २९||
श्रीनारायण उवाच |
इत्युक्त्वा राधिकाख्यानं स्मारं च माधवम् |
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभुव सः || ३०||
न कृष्णसदृशो देवो न गङ्गासदृशी सरित् |
न पुष्करसमं तीर्थं नाश्रामो ब्राह्मणात् पर || ३१||
परमाणुपरं सूक्ष्मं महाविष्णोः परो महान् |
नभ परं च विस्तीर्णं यथा नास्त्येव नारद || ३२||
तथा न वैष्णवाद् ज्ञानी यिगीन्द्रः शंकरात् परः |
कामक्रोधलोभमोहा जितास्तेनैव नारद || ३३||
स्वप्ने जागरणे शश्वत् कृष्णध्यानरतः शिवः |
यथा कृष्णस्तथा शम्भुर्न भेदो माधवेशयोः || ३४||
यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः |
तथेदं कवचं वत्स कवचेषु प्रशस्तकम् || ३५||
इति श्रीब्रह्मवैवर्ते श्रीराधिकाकवचं सम्पूर्नम् |
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com