||ऋतुसंहार ( कालिदास) ||
||१ | अथ ग्रीष्मः ||
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसञ्चयः |
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतःनिदाघकालोऽयमुपागतः प्रिये ||१||
निशाः शशाङ्कक्षतनीलराजयः
क्व चिद् विचित्रं जलयन्त्रमन्दिरम् |
मणिप्रकाराः सरसं च चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यताम् ||२||
सुवासितं हर्म्यतलं मनोरमं var मनोहरं
प्रियामुखोच्छ्वासविकम्पितं मधु |
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ||३||
नितम्बबिम्बैः सुदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः |
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ||४||
नितान्तलाक्षारसरागलोहितैर्
नितम्बिनीनां चरणैः सुनूपुरैः |
पदे पदे हंसरुतानुकारिभिर्
जनस्य चित्तं क्रियते समन्मथम् ||५||
पयोधराश्चन्दनपङ्कचर्चितास्
तुषारगौरार्पितहारशेखराः |
नितम्बदेशाश्चलहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ||६||
समुद्गतस्वेदचिताङ्गसंधयो
विमुच्य वासांसि गुरूणि सांप्रतम् |
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ति प्रमदाः सयौवनाः ||७||
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पितैः |
सवल्लकीकाकलिगीतनिःस्वनैः
प्रबुध्यतेविबोध्यते सुप्त इवाद्य मन्मथः ||८||
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः
विलोक्य निर्यन्त्रणमुत्सुकश्चिरं
निशाक्षये याति ह्रियेव पाण्डुताम् ||९||
असह्यवातोद्धतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही |
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः ||१०||
मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः |
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ||११||
सविभ्रमैः सस्मितजिह्मवीक्षितैर्
विलासवत्यो मनसि प्रसङ्गिनाम्प्रवासिनां |
अनंगसंदीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषणाः ||१२||
रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभिः |
अवाङ्मुखो जिह्मगतिः श्वसन् मुहुः
फणी मयूरस्य तले निषीदति ||१३||
तृषा महत्या हतविक्रमोद्यमः
श्वसन् मुहुर्भूरिविदारिताननः |
न हन्त्यदुरेऽपि गजान् मृगाधिपो
विलोलजिह्वश्चलिताग्रकेसरः ||१४||
विशुष्ककन्ठाहतशीकराम्भसो
गभस्तिभिर्भानुमतोऽभितापिताः |
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केसरिणोऽपि बिभ्यति ||१५||
हुताग्निकल्पैः सवितुर्मरीचिभिः
कलापिनः क्लान्तशरीरचेतसः |
न भोगिनं घ्नन्ति समीपवर्तिनं
कलापचक्रेषु निवेशिताननम् ||१६||
सभद्रमुस्तं परिपाण्डुकर्दमं
सरः खनन्नायतपोत्रमण्डलैः
प्रदीप्तभासो रविणा वितापितोरवेर्मयूखैरभितापितो भृशं
वराहयूथो विशतीव भूतलम् ||१७||
विवस्वता तीक्ष्णतरांशुमालिना
सपङ्कतोयात् सरसोऽभितापितः |
उत्प्लुत्य भेकस्तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति ||१८||
समुद्धृताशेषमृणालजालकं
विपन्नमीनं द्रुतभीतसारसं
परस्परोत्पीडनसंहतैर्गजैः
कृतं सरः सान्द्रविमर्दकर्दमम् ||१९||
रविप्रभोद्भिन्नशिरोमणिप्रभो
विलोलजिह्वाद्वयलीढमारुतः |
विषाग्निसूर्यातपतापितः फणीहुताग्निसूर्यातपतापितः
न हन्ति मण्डूककुलं तृषाकुलः ||२०||
सफेनलालावृतवक्त्रसंपुटं
विनिर्गतालोहितजिह्वमुन्मुखम्विनिःसृता |
तृषाकुलं निःसृतमद्रिगह्वराद्
गवेषमाणं महिषीकुलं जलम् ||२१||
पटुतरदवदाहोत्प्लुष्टशष्पप्ररोहाः
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः |
दिनकरपरितापक्षीणतोयाः समन्ताद्
विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ||२२||
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् |
भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्
शरभकुलमजिह्मं प्रोद्धरत्यम्बुकूपात् ||२३||
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
प्रबलपवनवेगोद्धूतवेगेन तूर्णम् |
तरुविटपलताग्रालिंगनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ||२४||
ध्वनति पवनविद्धः var पवनवृद्धः पर्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु |
प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन
क्षपयतिग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ||२५||
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् |
परिणतदलशाखानुत्पतत्याशूत्पतन् प्रांशु वृक्षाद्
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ||२६||
गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः
सुहृद इव समेता द्वन्द्वभावं विहाय |
हुतवहपरिखेदादाशु निर्गत्य कक्षाद्
विपुलपुलिनदेशां निम्नगां संविशंति ||२७||
कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुजालःसेव्यचन्द्रांशुहारः |
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीतैर्हर्म्यपृष्ठे सुखेन ||२८||
||इति ग्रीष्मः ||
||२ | अथ वर्षा ||
सशीकराम्भोधरमत्तकुञ्जरस्
तडित्पताकोऽशनिशब्दमर्दलः |
समागतो राजवदुद्धतद्युतिर्
घनागमः कामिजनप्रियः प्रिये ||१||
नितान्तनीलोत्पलपत्रकान्तिभिः
क्वचित् प्रभिन्नाञ्जनरागसंनिभैःराशिसंनिभैः |
क्वचित् सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः ||२||
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः |
प्रयान्ति मन्दं बहुवारिवर्षिणोनववारिवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ||३||
बलाहकाश्चाशनिशब्दभीषणाः var मर्दलाः
सुरेन्द्रचापं दधतस्तडिद्गुणम् |
सुतीक्ष्णधारापतनोग्रसायकैस्
तुदन्ति चेतो नितरांप्रसभं प्रवासिनाम् ||४||
प्रभिन्नवैदूर्यनिभैस्तृणान्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः |
विभाति कण्ठे वररत्नभूषिताशुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ||५||
सदा मनोज्ञं सुरतोत्सवोत्सुकं var स्वनदुत्सवोत्सुकं
विकीर्णविस्तीर्णकलापशोभितम् |
सविभ्रमालिङ्गनचुम्बनाकुलम्ससम्भ्रमालिङ्गनचुम्बनाकुलम्
प्रवृद्धनृत्यंप्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ||६||
निपातयन्त्यः परितस्तटद्रुमान्
प्रवृद्धवेगैः सलिलैरनिर्मलैः |
स्त्रियः प्रदुष्टा इव जातविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ||७||
तृणोद्गमैरुद्धतकोमलाङ्कुरैश् var तृणोत्करैरुद्गतकोमलाङ्कुरैश्
चितानि नीलैर्हरिणीमुखक्षतैः |
वनानि रम्याणिवैन्ध्यानि हरंति मानसं
विभूषितान्युद्गतपल्लवैर्द्रुमैः ||८||
विलोलनेत्रोत्पलशोभिताननैर्
मृगैः समन्तादुपजातसाध्वसैः |
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ||९||
सुतीक्ष्णमुच्चैरसतां var अभीक्ष्णमुच्चैर्ध्वनतां पयोमुचां
घनान्धकारीकृतशर्वरीष्वपि |
तडित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ||१०||
पयोधरैर्भीमगभीरनिःस्वनैर् var नैस्
ध्वनद्भिरुद्वेजितचेतसोतडिद्भिरुद्वेजितचेतसो भृशम् |
कृतापराधानपि योषितः प्रियान्
परिष्वजन्ते शयने निरन्तरम् ||११||
विलोचनेन्दीवरवारिबिन्दुभिर्
निषिक्तबिम्बाधरचारुपल्लवाः |
निरस्तमाल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदाः प्रवासिनाम् ||१२||
विपाण्डवं var विपाण्डुरं कीटरजस्तृणान्वितं
भुजङ्गवद् वक्रगतिप्रसर्पितम् |
ससाध्वसैर्भेककुलैर्विलोकितंनिरीक्षितं
प्रयाति निम्नाभिमुखं नवोदकम् ||१३||
प्रफुल्लपत्त्रां var विपन्नपुष्पां नलिनीं समुत्सुकां
विहाय भृङ्गाः श्रुतिहारिनिःस्वनाः |
पतन्ति मूढाः शिखिनां प्रनृत्यतां
कलापचक्रेषु नवोत्पलाशया ||१४||
वनद्विपानां नवतोयदस्वनैर्
मदान्वितानां ध्वनतां मुहुर्मुहुः |
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिश्चितः ||१५||
आतोयनम्राम्बुदचुम्बितोपलाः var सतोयनम्राम्बुदचुम्बितोपलाः
समाचिताः प्रस्रवणैः समन्ततः |
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ||१६||
कदम्बसर्जार्जुनकेतकीवनम्
विकम्पयंस्तत्कुसुमाधिवासितः |
सशीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ||१७||
शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः |
स्तनैः सहारैर्वदनैः ससीधुभिः
स्त्रियो रतिं संजनयन्ति कामिनाम् ||१८||
वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्रयन्ति |
नद्यो घना मत्तगजा वनान्ताः
प्रियाविहीनाः शिखिनः प्लवङ्गमाः ||१९||प्रक्षिप्तः
तडिल्लताः शक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः |
स्त्रियः स्वकाञ्चीमणिकुन्डलोज्ज्वलास्त्रियश्चकाञ्चीमणिकुन्डलोज्ज्वला
हरन्ति चेतो युगपत् प्रवासिनाम् ||२०||
मालाः कदम्बनवकेसरकेतकीभिर्
आयोजितः शिरसि बिभ्रति योषितोऽद्य |
कर्णान्तरेषु ककुभद्रुममञ्जरीभिः
श्रोत्रानुकूलरचितानवतंसकांश्चैच्छानुकूलरचितानवतंसकांश्च ||२१||
कालागरुप्रचुरचन्दनचर्चिताङ्ग्यः
पुष्पावतंससुरभीकृतकेशपाशाः |
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः ||२२||
कुवलयदलनीलैरुन्नतैस्तोयनम्रैर्
मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः |
अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
पथिकजनवधूनां तद्वियोगक्षतानाम्तद्वियोगाकुलानाम् ||२३||
मुदित इव कदम्बैर्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्नृत्यतीव |
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकः शान्ततापोछिन्नतापो वनान्तः ||२४||
शिरसि बकुलमालां मालतीभिः समेतां
कुसुमितनवपुष्पैर्यूथिकाकुङ्मलैश्च |
विकचनवकदम्बैः कर्णपूरं वधूनां
रचयति जलदौघः कान्तवत् काल एषः ||२५||
दधति कुचयुगाग्रैरुन्नतैर्हारयष्टिं var पृथुकुचाग्रैरुन्नतैर्हारयष्टिं
प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः |
नवजलकणसेकादुन्नतांनवजलकणसेकादुद्गतां रोमराजिं
त्रिवलिवलितशोभांललितवलिविभङ्गैर् मध्यदेशैश्च नार्यः ||२६||
नवजलकणसङ्गाच्छीततामादधानः
कुसुमभरनतानां लासकः पादपानाम् |
जनितसुरभिगन्धःजनितरुचिरगन्धः केतकीनां रजोभिर्
अपहरति नभस्वान् प्रोषितानां मनांसि ||२७||
जलभरनमितानामश्रयोऽस्माकमुच्चैर्
अयमिति जलसेकैस्तोयदास्तोयनम्राः |
अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ||२८||
बहुगुणरमणीयो योषितां चित्तहारी var बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः |
जलदसमय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ||२९||
||इति वर्षा ||
||३ | अथ शरत् ||
काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरुतनूपुरनादरम्यारवनूपुरनादरम्या |
आपक्वशालिललितानतगात्रयष्टिःरुचिरानतगात्रयष्टिः
प्राप्ता शरन्नववधूरिव रम्यरूपा ||१||
काशैर्मही शिशिरदीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि |
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृतान्युपवनानि च मालतीभिः ||२||
चञ्चन्मनोज्ञशफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजपंक्तिहाराः |
नद्यो विशालपुलिनोरुनितम्बबिम्बाविशालपुलिनान्तनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ||३||
व्योम क्वचिद् रजतशङ्खमृणालगौरैस्
त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः |
उत्प्रेक्ष्यतेसंलक्ष्यते पवनवेगचलैः पयोदै
राजेव चामरशतैरभिवीज्यमानःचामरशतैरुपवीज्यमानः ||४||
भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
बन्धूकपुष्परजसाऽरुणिता च भूमिः |
वप्राश्च पक्वकलमावृतभूमिभागाचारुकलमावृतभूमिभागाः
उत्कण्ठयन्तिप्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ||५||
मन्दानिलाकुलितचारुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः |
मत्तद्विरेफपरिपीतमधुप्रसेकश्
चित्तं विदारयति कस्य न कोविदारः ||६||
तारागणप्रचुरभूषणमुद्वहन्ती var तारागणप्रवरभूषणमुद्वहन्ती
मेघोपरोधपरिमुक्तशशाङ्कवक्त्रामेघावरोधपरिमुक्तशशाङ्कवक्त्रा |
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ||७||
कारण्डवाहनविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीरदेशाः |
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं सरोरुहरजोरुणितास्तटिन्यः ||८||
नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरशीकरवारिवर्षी |
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहत्यनुदिनंदहत्यतितरां तनुमङ्गनानाम् ||९||
आकम्पयन् फलभरानतशालिजालान्
यानर्तयंस्तरुवरान् कुसुमावनम्रान् |
उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्
यूनां मनश्चलयति प्रसभं नभस्वान् ||१०||
सोन्मादहंसमिथुनैरुपशोभितानि
स्वच्छप्रफुल्लकमलोत्पलभूषितानि |
मन्दप्रभातपवनोद्गतवीचिमालान्
न्युत्कण्ठयन्ति हृदयं सहसा सरांसि ||११||
नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्पताका |
धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
पश्यन्ति नोन्नतमुखा गगनं मयूराः ||१२||
नृत्यप्रयोगरहिताञ्शिखिनो विहाय
हंसानुपैति मदनो मधुरप्रगीतान् |
मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोद्गमश्रीः ||१३||
शेफालिकाकुसुमगन्धमनोहराणि
शाखास्थिताण्डजकुलप्रतिनादितानिस्वस्थस्थिताण्डजकुलप्रतिनादितानि |
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम्यूनाम् ||१४||
कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस्
तत्सङ्गमादधिकशीतलतामुपेतः |
सोत्कां करोति वनितांउत्कण्ठयत्यतितरां पवनः प्रभाते
पत्रान्तलग्नतुलिनाम्बु विधूयमानःपत्रान्तलग्नतुहिनानि हरंस्तरूणां ||१५||
संपन्नशालिनिचयावृतभूतलानि
सुष्ठुस्थितप्रचुरगोकुलशोभितानिस्वस्थस्थितप्रचुरगोकुलशोभितानि |
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति जनप्रमोदम् ||१६||
हंसैर्जिता सुललिता गतिरङ्गनानां
अम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः |
नीलोत्पलैर्मदचलानिनीलोत्पलैर्मदकलानि विलोचनानि
भ्रूविभ्रमश्च सरितां तनुभिस्तरङ्गैःरुचिरास्तनुभिस्तरङ्गैः ||१७||
श्यामा लताः कुसुमभारनतप्रवालाः
स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् |
दन्तावभासविशदस्मितचन्द्रकान्तिं
कङ्केलिपुष्परुचिरा नवमालती च ||१८||
केशान्नितान्तघननीलविकुङ्चिताग्रान्
आपूरयन्ति वनिता नवमालतीभिः |
कर्णेषु च प्रचलकांचनकुण्डलेषुप्रवरकांचनकुण्डलेषु
नीलोत्पलानि विविधानिविकचानि निवेशयन्ति ||१९||
हारैः सचन्दनरसैः स्तनमण्दलानि
श्रोणीतटं सुविपुलं रशनाकलापैः |
पादाम्बुजानि कलनूपुरशेखरैश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ||२०||
स्फुटकुमुदचितानां राजहंसास्थितानां var राजहंसाश्रितानां
मरकतमणिभासा वारिणा भूषितानाम्आपूरितानाम् |
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेघं चन्द्रतारावकीर्णम् ||२१||
सरसि कुमुदसङ्गाद् var कुसुमसङ्गाद् वायवो वान्ति शीता
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः
विगतकलुषमम्भः श्यानपङ्का धरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम् ||२२||
करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिद् अन्यास्तरुण्यः |
चितकुसुमसुगन्धि प्राविशन्तीव वेश्म
प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ||२३||प्रक्षिप्तः
सुरतरसविलासात् सत्सखीभिः समेत्य
असमरसविनोदं सूचयन्ति प्रकामम् |
अनुपममुखरागा रात्रिमध्ये विनोदान्
शरदि तरुणकान्ताः सूचयन्ति प्रमोदात् ||२४||प्रक्षिप्तः
दिवसकरमयूखैर्बोध्यमानं प्रभाते
वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य |
कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे
हसितमिव वधूनां प्रोषितेषु प्रियेषु ||२५||
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु
क्वणितकनककाञ्चीं मत्तहंसस्वनेषु |
अधररुचिरशोभां बन्धुजीवे प्रियायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तःभ्रान्तचेताः ||२६||
स्त्रीणां निधाय वदनेषु शशाङ्कलक्ष्मीं
हास्ये विशुद्धवदने कुमुदाकरश्रीम् |काम्यं च हंसवचनं मणिनूपुरेषु
बन्धूककान्तिमधरेषु मनोहरेषु
क्वापि प्रयाति सुभगा शरदागमश्रीः ||२७||
विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा श्वेतवासोविकसितनवकाशश्वेतवासो वसाना |
कुमुदरुचिरहासाकुमुदरुचिरकांतिः कामिनीवोन्मदेयं
उपदिशतुप्रतिदिशतु शरद् वश्चेतसः प्रीतिमग्र्याम् ||२८||
||इति शरत् ||
||४ | अथ हेमन्तः ||
नवप्रवालोद्गमसस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः |
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम्समुपागतः प्रिये ||१||
मनोहरैः कुङ्कुमरागपिङ्गैस् var चन्दनरागगौरैस्
तुषारकुन्देन्दुनिभैश्च हारैः |
विलासिनीनां स्तनशालिनीनां
नालंक्रियन्ते स्तनमण्डलानि ||२||
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि |
नितम्बबिम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु ||३||
काञ्चीगुणैः काञ्चनरत्नचित्रैर्
नो भूषयन्ति प्रमदा नितम्बान् |
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाञ्जि ||४||
गात्राणि कालीयकचर्चितानि
सपत्रलेखानि मुखाम्बुजानि |
शिरांसि कालागरुभूषितानिकालागरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ||५||
रतिश्रमक्षामविपाण्डुवक्त्राः
प्राप्ताश्च हर्षाभ्युदयं तरुण्यःप्राप्तेऽपि हर्षाभ्युदये तरुण्यः |
हसन्ति नोच्चैर्दशनाग्रभिन्नान्
प्रपीड्यमानानधरानवेक्ष्य ||६||
पीनस्तनोरुस्थलभागशोभां
आसाद्य तत्पीडनजातखेदः |
तृणाग्रलग्नैस्तुहिनैः पतद्भिर्
आक्रन्दतीवोषसि शीतकालः ||७||
प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि |
मनोहरक्रौञ्चनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः ||८||
प्रफुल्लनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानिसोन्मादकादम्बविभूषितानि |
प्रसन्नतोयानि सशैवलानिसुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ||९||
पाकं व्रजन्ती हिमपातशीतैर्
आधूयमाना सततं मरुद्भिः |
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ||१०||
पुष्पासवामोदसुगन्धिवक्त्रो
निःश्वासवातैः सुरभीकृताङ्गः |
परस्पराङ्गव्यतिषाङ्गशायी
शेते जनः कामशरानुविद्धः ||११||
दन्तच्छदैर्दन्तविघातचिह्नैः var दन्तच्छदैः सव्रणदन्तचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः |
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयौवनानाम् ||१२||
काचिद् विभूषयति दर्पणयुक्तहस्ता var दर्पणसक्तहस्ता
बालातपेषु वनिता वदनारविन्दम् |
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमपकृष्यदन्ताग्रभिन्नमवकृष्य निरीक्षते च ||१३||
अन्या प्रकामसुरतश्रमखिन्नदेहा
रात्रिप्रजागरविपाटलनेत्रयुग्मारात्रिप्रजागरविपाटलनेत्रपद्मा |
शय्यान्तरेषुस्रस्तांसदेश लुलिताकुलकेशपाशा
निद्रां प्रयाति मृदुसूर्यकराभितप्ता ||१४||
निर्माल्यदाम परिभुक्तमनोज्ञगन्धम्
मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः |
पीनोन्नतस्तनभरानतगात्रयष्ट्यः
कुर्वन्ति केशरचनामपरास्तरुण्यः ||१५||
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रम्
हर्षान्विता विरचिताधररागशोभाविरचिताधरचारुशोभा |
कुर्पासकं परिदधाति नवं नताङ्गीनखक्षताङ्गी
व्यालम्बिनीललुलितालककुञ्चिताक्षी ||१६||
अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः |
संपीड्यमानविपुलोरुपयोधरार्त्तासंहृष्यमाणपुलकोरुपयोधरान्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभम्सुशोभाः ||१७||
बहुगुणरमणीयो योषितां चित्तहारी
परिणतबहुशालिव्याकुलग्रामसीमः |
विनिपतिततुषारः क्रौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः काल एषः प्रियान् वःहिमयुक्तस्त्वेष कालः सुखं वः ||१८||
||इति हेमन्तः ||
||५ | अथ शिशिरः ||
प्ररूढशालिप्रचयावृतक्षितिं var प्ररूढशालीक्षुचयावृतक्षितिं
निद्रोत्थितक्रौञ्चनिनादशोभितम्क्वचित्स्थितक्रौञ्चनिनादशोभितम् |
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराह्वयं शृणु ||१||
निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः |
गुरूणि वासांस्यबलाः सयौवनाः.
प्रयान्ति कालेऽद्यकालेऽत्र जनस्य सेव्यताम् ||२||
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् |
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति सांप्रतम् ||३||
तुषारसंघातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः |
विपाण्डुतारागणचारुभूषणा
जनस्य सेव्या न भवन्ति रात्रयः ||४||
गृहीतताम्बूलविलेपनस्रजः
पुष्पासवामोदितवक्त्रपङ्कजाः |
प्रकामकालागरुधूपवासितं
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ||५||
कृतापराधान् बहुशोऽभितर्जितान्
सवेपथून् साध्वसमन्दचेतसःसाध्वसलुप्तचेतसः |
निरीक्ष्य भर्तृन् सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसस्मरुः ||६||
प्रकामकामैः सुरतैश्च निर्दयं var युवभिः सुनिर्दयं
निशासु दीर्घास्वतिपीडिताश्चिरम्दीर्घास्वभिरामिताश्चिरम् |
भ्रमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः ||७||
मनोज्ञकूर्पासकपीडितस्तनाः
सरागकौशेयविभूषितोरवःसरागकौशेयकभूषितोरवः |
निवेशितान्तःकुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ||८||
पयोधरैः कुङ्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोन्नतैःसुखोपसेव्यैर्नवयौवनोष्मभिः |
विलासिनीनांविलासिनीभिः परिपीडितोरसः
क्षपन्तिस्वपन्ति शीतं परिभूय कामिनः ||९||
सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनम् |
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ||१०||
अपगतमदरागा योषिदेका प्रभाते
कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन |
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनगेहाद् वस्त्रमाकर्षयन्तीशयनवासाद्वासमन्यं हसन्ती ||११||
अगुरुसुरभिधूपामोदितं केशपाशं
गलितकुसुममालं धुन्वती कुञ्चिताग्रम्कुञ्चिताग्रम् वहन्ती |
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या
ऽप्युषसि शयनवासः कामिनी कामशोभाहुषसि शयनमन्या कामिनी चारुशोभा ||१२||
कनककमलकान्तैश्चारुताम्राधरोष्ठैः
श्रवणतटनियुक्तैःश्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः |
उषसि वदनबिम्बैरंससंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ||१३||
पृथुजघनभरार्ताः किंचिदानम्रमध्याः
स्तनभरपरिखेदान् मन्दमन्दं व्रजन्त्यः |
सुरतसमयवेषं नैशमन्त्यं विहायनैषमाशु प्रहाय
दधति दिवसयोग्यं वेषमेतास्तरुण्यःवेषमन्यास्तरुण्यः ||१४||
नखपदरचिताग्रान् var नखपदचितभागान् वीक्ष्यमाणाः स्तनान्तान्
अधरकिसलयाग्रान् दन्तभिन्नान्अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः |
अभिमततरमोदं वर्णयन्त्यस्तरुण्यःअभिमतरतवेषं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि ||१५||
प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
प्रबलसुरतकेलिर्जातकन्दर्पदर्पः |
प्रियतमरहितानांप्रियजनरहितानां चित्तसंतापहेतुः
शिशिरसमय एषः श्रेयसे वोऽस्तु नित्यम् ||१६||
||इति शिशिरः ||
||६ | अथ वसन्तः ||
प्रफुल्लचूताङ्कुरतीक्ष्णसायको
द्विरेफमालां विदधद् धनुर्गुणम्द्विरेफमालाविलसद्धनुर्गुणः |
मनांसि भेत्तुं सुरतप्रसङ्गिनां
वसन्तयोद्धा समुपागतः प्रिये ||१||
द्रुमाः सपुष्पाः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः |
सुखाः प्रदोषा दिवसाश्च रम्याः
सर्वं प्रिये चारुतरं वसन्ते ||२||
वापीजलानां मणिमेखलानां
शशाङ्कभासां प्रमदाजनानाम् |
चूतद्रुमाणां कुसुमानतानां
तनोतिददाति सौभाग्यमयं वसन्तः ||३||
स्तनेषु हाराः सितचन्दनार्द्राः
मुखेषु ताम्बूलसुगन्धिवाताःभुजेषु सङ्गं वलयाङ्गदानि |
प्रयान्ति निःशङ्कमनङ्गसौख्यंप्रयान्त्यनङ्गातुरमानसानां
विलासिनीनां जघनेषु काञ्च्यः ||४||
कुसुम्भरागारुणितैर्दुकूलैर्
नितम्बबिम्बानि विलासिनीनाम् |
तन्वंशुकैः कुङ्कुमरागगौरैर्
अलङ्क्रियन्ते स्तनमन्डलानि ||५||
कर्णेषु योग्यं नवकर्णिकारं
चलेषु नीलेष्वलकेष्वशोकम् |
शिखासु फुल्ला नवमल्लिकाश्च
प्रयान्ति सङ्गं प्रमदाजनस्य ||६||
सपत्त्रलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु
रत्यन्तरे मौक्तिकतुल्यरूपःरत्नान्तरे मौक्तिकसङ्गरम्यः
स्वेदोद्गमो विस्तरतामुपैति ||७||
उल्लासयन्त्यः var उच्छ्वासयन्त्यः श्लथबन्धनानि
गात्राणि कन्दर्पसमाकुलानि |
समीपवर्तिष्वपि कामुकेषुसमीपवर्तिष्वधुना प्रियेषु
समुत्सुका एव भवन्ति नार्यः ||८||
तनूनि पाण्डूनि सुकम्पितानि var मदालसानि
मुहुर्मुहुर्जृम्भणतत्पराणि |
अङ्गान्यनङ्गः प्रमदाजनस्य
करोत्यसौ प्रोषितभर्तृकस्यकरोति लावण्यससंभ्रमाणि ||९||
नेत्रेषु लोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु |
मध्येषु नम्रोनिम्नो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ||१०||
अङ्गानि निद्रालसितानि नित्यं var निद्रालसविभ्रमाणि
वाक्यानि किंचिन्मदिरालसानि |
भ्रूक्षेपजिह्मानि विलोचनानिच वीक्षितानि
करोति कामः प्रमदाजनानाम् ||११||
प्रियङ्गुकालीयककुङ्कुमानि var प्रियङ्गुकालीयककुङ्कुमाक्तं
स्तनेषु गौरेषु विचर्चितानिविलासिनीभिः |
आरोप्यतेआलिप्यते चन्दनमङ्गनाभिर्
मदालसाभिर्मृगनाभियुक्तम् ||१२||
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि |
सुगन्धिकालागरुधूपितानि
धत्ते जनः कामशरानुविद्धःकाममदालसाङ्गः ||१३||
पुंस्कोकिलश्चूतरसेन मत्तः var पुंस्कोकिलश्चुतरसासवेन
प्रियामुखं चुम्बति सादरोऽयम्मत्तः प्रियां चुम्बति रागहृष्टः |
गुञ्जद्द्विरेफोऽप्ययमम्बुजस्थः
प्रियं प्रियायाः प्रकरोति चाटु ||१४||
प्रवालताम्रास्तबकावनम्राश् var ताम्रप्रवालास्तबकावनम्राश्
चूतद्रुमाः पुष्पितचारुशाखाः |
कुर्वन्ति कान्तंकामं पवनावधुताः
समुत्सुकत्वं मनसोऽङ्गनानाम्पर्युत्सुकं मानसमङ्गनानां ||१५||
आ मुलतो विद्रुमरागताम्रं
सपल्लवं पुष्पचयं दधानाः |
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ||१६||
मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितचारुमृदुप्रवालाःमन्दानिलाकुलितनम्रमृदुप्रवालाः |
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
बालातिमुक्तकलिकाःबालातिमुक्तलतिकाः समवेक्ष्यमाणाः ||१७||
कान्तामुखद्युतिजुषामचिरोद्गतानां
शोभां परां कुरबकद्रुममन्जरीणाम् |
हृष्टा प्रिये प्रियतमारहितस्य पुंसःसहृदयस्य भवेन्न कस्य
कन्दर्पबाणनिकरैर्व्यथितं हि चेतःकन्दर्पबाणपतनव्यथितं हि चेतः ||१८||
आदीप्तवह्निसदृशैरपि पारिजातैः var आदीप्तवह्निसदृशैरपयातपत्रैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः |
सद्यो वसन्तसमये समुपागते चवसन्तसमयेन समागतेयं
रक्तांशुका नववधूरिव भाति भूमिः ||१९||
किं किंशुकैः शुकमुखच्छविभिर्न दग्धं var भिन्नं
किं कर्णिकारकुसुमैर्न कृतं मनोज्ञम्हृतं मनोज्ञैः |
यत् कोकिलः पुनरमीपुनरयं मधुरैर्वचोभिर्
यूनो मनः सुवदने नियतं हरन्तिसुवदनानिहितं निहन्ति ||२०||
पुंस्कोकिलैः कलवचोभिरुपात्थर्षैः
गुञ्जद्भिरुन्मदकलानि वचांसि पुंसाम्भृङ्गैः |
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ||२१||
आकम्पयन् कुसुमितां सहकारशाखां var कुसुमिताः सहकारशाखाः
विस्तारयन् परभृतस्य वचांसि दिक्षु |
वायुर्विवाति हृदयानि हरन् नराणां
नीहारपातविगमात् सुभगो वसन्ते ||२२||
कुन्दैः सविभ्रमवधूहसितावदातैः
संशोभितान्युपवनानिउद्योतितान्युपवनानि मनोहराणि |
चित्तं मुनेरपि हरन्ति निरस्तरागंनिवृत्तरागम्
प्रागेव रागमलिनानि मनांसि पुंसाम्यूनाम् ||२३||
आलम्बिहेमरशनाः स्तनसक्तहाराः
कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः |
मासे मधौ मधुरकोकिलभृङ्गनादैर्
नार्यो हरन्ति हृदयं प्रसभं नराणाम् ||२४||
नानामनोज्ञकुसुमद्रुमपुष्पिताग्रान् var नानामनोज्ञकुसुमद्रुमभूषितान्तान्
हृष्टान्यपुष्टकुलशोभितसानुदेशान्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् |
शैलेयजालपरिणद्धशिलातलान्तान्
दृष्ट्वा जनः क्षितिभृतो मदमेति सर्वः ||२५||
नेत्रे निमीलयति रोदिति याति मोहं var शोकं
घ्राणं करेण विरुणद्धि विरौति चोच्चैः |
कान्तावियोगपरिखेदितचित्तवृत्तिर्
दृष्ट्वा जनःदृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान् ||२६||
समदमधुकराणां कोकिलानां च नादैः
कुसूमितसहकारैः कर्णिकारैश्च रम्यैः |
इषुभिरिव सुतीक्ष्णैर्मानसं कामिनीनांमानिनीनां
तुदति कुसुमचापोकुसुममासो मन्मथोद्दीपनाय ||२७||
रुचिरकनककान्तं मुञ्चतः पुष्पवृन्दं
मृदुपवनविधूतान् पुष्पितांश्चूतवृक्षान् |
अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
मदनशरसुविद्धो मोहमेति प्रवासी ||२८||प्रक्षिप्तः
परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
स्मितदशनमयूखं कुन्दपुष्पप्रभाभिः |
सरकिसलयकान्तिं पल्लवैर्विद्रुमाभैर्
अभिभवति वसन्तः कामिनीनामिदानीम् ||२९||प्रक्षिप्तः
कनककमलकान्तैर्चन्दनैः पाण्डुगण्डैर्
उपनिहितसुहारैश्चन्दनार्द्रैः स्तनाग्रैः |
मदनजनितलासैः सालसैर्दृष्टिपातैर्
मुनिवरमपि नार्यः कामयन्ते वसन्ते ||३०||प्रक्षिप्तः
मधुसुरभिमुखाब्जं लोचने लोलतारे
नवकुरबकपूर्णः केशपाशो मनोज्ञः |
अतिगुरुकुचयुग्मं श्रोणिबिम्बं तथैव
न भवति किमिदानीं योषितां ब्रूहि चारु ||३१||प्रक्षिप्तः
आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासैः |
उत्कूजितैः परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतशब्दैः ||३२||प्रक्षिप्तः
रम्यप्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः |
मत्तालियूथविरुतं निशि सीधुपानं
सर्वं हि साधनमिदं कुसुमायुधस्य ||३३||प्रक्षिप्तः
आम्राशोकविकल्पिताधरमधुर्मत्तद्विरेफस्वनः
कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः |
चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः
कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ||३४||प्रक्षिप्तः
आम्री मङ्गलमञ्जरी वरशरः सत्किंशुकं यद्धनुर्
ज्या यस्यालिकुलम् कलङ्करहितं छ्त्रं सितांशुः सितम् |
मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्
सोऽयं वो वितरीतरीतु विनतुर्भद्रं वसन्तान्वितः ||३५||
||इति वसन्तः ||
Encoded by Jost Gippert gippert at em.uni-frankfurt.de
Proofread by Avinash Sathaye sohum at ms.uky.edu
%@@1
% File name : ritu.itx
%--------------------------------------------
% Text title : R^itusa.nhAra (kAlidAsa)
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Jost Gippert gippert at em.uni-frankfurt.de
% Proofread by : Avinash Sathaye sohum at ms.uky.edu
% Latest update : 1995, November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .