.. रुद्राक्षजाबालोपनिषत् ..
रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् .
प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं
रुद्राक्षोत्पत्तिः . तद्धारणात्किं फलमिति . तं होवाच
भगवान्कालाग्निरुद्रः . त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् .
तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः .
सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण
दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं
फलमत ऊर्ध्वं वक्तुं न शक्नोमि . तत्रैते श्लोका भवन्ति .
कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः .
कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् .. १..
दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया .
भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः .. २..
तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः .
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् .. ३..
भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् .
लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् .. ४..
तस्य कोटिशतं पुण्यं लभते धारणान्नरः .
लक्षकोटिसहस्राणि लक्षकोटिशतानि च .. ५..
तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् .
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् .. ६..
बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः .
अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते .. ७..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया .
वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः .. ८..
श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः .
पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः .. ९..
ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् .
पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् .. १०..
समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः .
कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च .. ११..
व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् .
स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् .. १२..
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् .
समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् .. १३..
सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः .
निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते .. १४..
तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः .
शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् .. १५..
षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश .
मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् .. १६..
अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् .
द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा .. १७..
सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः .
मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा .. १८..
केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः .
सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः .. १९..
त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते .
सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् .. २०..
शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु .
अघोरेण गले धार्यं तेनैव हृदयेऽपि च .. २१..
अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः .
पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे .. २२..
पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च .
ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् .. २३..
अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ
रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति .
तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं
ब्रूहीति होवाच . तत्रैते श्लोका भवन्ति ..
एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् .
तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः .. १..
द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् .
धारणादर्धनारीशः प्रीयते तस्य नित्यशः .. २..
त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् .
तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा .. ३..
चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् .
तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा .. ४..
पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् .
पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति .. ५..
षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् .
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् .. ६..
मतिविज्ञानसंपत्तिशुद्धये धारयेत्सुधीः .
विनायकाधिदैवं च प्रवदन्ति मनीषिणः .. ७..
सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् .
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् .. ८..
महती ज्ञानसंपत्तिः शुचिर्धारणतः सदा .
अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् .. ९..
वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा .
तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः .. १०..
नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् .
तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः .. ११..
दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् .
दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः .. १२..
एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् .
तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् .. १३..
रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् .
द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् .. १४..
त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् .
तस्य धारणमात्रेण कामदेवः प्रसीदति .. १५..
चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् .
सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् .. १६..
मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च .
श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः .. १७..
ग्रहणे विषुवे चैवमयने संक्रमेऽपि च .
दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च .
रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते .. १८..
रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च .
तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः .. १९.. इति ..
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि
भगवन्रुद्राक्षधारणविधिम् . तस्मिन्समये निदाघ-
जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ-
पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः . अथ
कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच .
रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति . अथ
कालाग्निरुद्रः प्रोवाच . रुद्रस्य नयनादुत्पन्ना रुद्राक्षा
इति लोके ख्यायन्ते . अथ सदाशिवः संहारकाले संहारं
कृत्वा संहाराक्षं मुकुलीकरोति . तन्नयनाज्जाता रुद्राक्षा
इति होवाच . तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच .
तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति
तत्फलमश्नुते . स एष भस्मज्योती रुद्राक्ष इति . तद्रुद्राक्षं
करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं
भवति . तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं
भवति . एकादशरुद्रत्वं च गच्छति . तद्रुद्राक्षे शिरसि
धार्यमाणे कोटिगोप्रदानफलं भवति . एतेषां स्थानानां
कर्णयोः फलं वक्तुं न शक्यमिति होवाच . य इमां रुद्राक्षजाबालोपनिषदं
नित्यमधीते बालो वा युवा वा वेद स महान्भवति . स गुरुः सर्वेषां
मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् . एतैरेवार्चनम् .
तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
शिखायां वा बध्नीत . सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते .
तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति .
य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं पापं
नाशयति . मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति .
सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति .
षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति . ब्रह्महत्यासुरापान-
स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति .
सर्वतीर्थफलमश्नुते . पतितसंभाषणात्पूतो भवति .
पङ्क्तिशतसहस्रपावनो भवति . शिवसायुज्यमवाप्नोति . न च
पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः ..
इति रुद्राक्षजाबालोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com