.. साधुसङ्कुलि तन्त्र ..
ग्रहपुरश्चरण प्रयोगः
ॐ रक्तपद्मासनं देवं चतुर्बाहुसमन्वितम् .
क्षत्रियं रक्तवर्नञच गोत्रं काश्यपसम्भवं ..
सप्ताश्वरथमारूढं प्रचण्डं सर्वसिद्धिदम् .
द्विभुजं रक्तपद्मैश्च संयुक्तं प्र्माद्भुतं ..
कलिञगदेशजं देवं मौलिमाणिक्यभूषणम् .
त्रिनेत्रं तेजसा पूर्णमुदयाचलसंस्थितं ..
द्वादशाञगुल-विस्तीर्णं प्रबरं घृतकौशिकम् .
शिवाधिदैवं पुर्वास्यं ब्रह्मप्रत्यधिदैवतं ..
क्लीं ऐं श्रीं ह्रीं सूर्याय नमः
ॐ शुक्लं शुक्लाम्बरधरं श्वेताब्जस्थं चतुर्भुजम् .
हारकेयूरनूपुरैर्मण्डितं तमसापहं ..
सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजातिजम् .
कलङ्काङ्कितसर्वाञ्गं केशपाशातिसुन्दरं ..
मुकुटेर्मणिमाणिक्यैः शोभनीयन्तु लोचनम् .
योषित्प्रियं महानन्दं यमुनाजलसम्भवं ..
उमाधिदैवतं देवमापप्रत्यधिदैवतं ..
ह्रीं ह्रीं हुं सोमाय स्वाहा
ॐ मेषाधिरूढं द्विभुजं शक्तिचापधरं मुदा .
रक्तवर्णं महातेजं तेजस्विनां समाकुलं ..
रक्तवस्त्रपरिधानाम् नानालङ्कारसंयुतम् .
रक्ताञ्गं धरणीपुत्रं रक्तमाल्यानुलेपनं ..
हस्ते वराहदशनं पृष्ठे तूणसमन्वितम् .
कटाक्षाद् भीतिजनकं महामोहप्रदं महत् ..
महाचापधरं देवं महोग्रमूग्रविग्रहम् .
स्कन्धादिदैवं सूर्यास्यं क्षितिप्रत्यधिदैवतं ..
ह्रीं ॐ ऐं कुजाय स्वाहा
ॐ सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् .
द्विभुजं स्वर्नदण्डेव शरच्चन्द्रनिभाननं ..
चरणे रत्नमञ्जीरं कुमारं शुभलक्षणम् .
स्वर्णयञ्ग्योपबीतञ्च पीतबस्त्रयुगाबृतं ..
अत्रिगोत्रसमुत्पन्नं वैश्यजातिं महाबलम् .
मागधं महिमापूर्णं द्विनेत्रं द्विभुजं शुभं ..
नारायणधिदैवञ्च विष्णुप्रत्यधिदैवतम् .
चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदं ..
ॐ क्लीं ॐ बुधाय स्वाहा
ॐ कनकरुचिरगोउरं चारुमूर्तिं प्रसन्नं
द्विभुजमपि सरजौ संदधानं सुरेज्यम् .
वसनयुगदधानं पीतवस्त्रं सुभद्रं
सुरवरनरपुज्यमञ्गिरोगोत्रयुक्तम् .
द्विजबरकुलजातं सिन्धुदेशप्रसिद्धं
त्रिजगति गणश्रेस्ठश्चाधिदैवं तदीयम् .
सकलगिरिनिहन्ता इन्द्रः प्रत्यधिदैवं
ग्रहगणगुरुनाथं तं भजेऽभिष्टसिद्धौ .
रं यं ह्रीं ऐं गुरवे नमः
ॐ शुक्लाम्बरं-शुक्लरुचिं सुदीप्तम् .
तुषारकुन्देन्दुद्युतिं चतुर्भुजं ..
इन्द्राधिदैवं शचीप्रत्यधिदैवम् .
वेदार्थविञ्गं च कविं कवीनां ..
भृगुगोत्रयुक्तं द्विजजातिमात्रम् .
दितीन्द्रपूज्यं खलु शुद्धिशान्तं ..
सर्वार्थसिद्धिप्रदमेव काव्यम् .
भजेऽप्यहं भोजकतोद्भवं भृगुं ..
हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा
ॐ सोउरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलम् .
संयुक्तं भुजपल्लवैरुपलजस्तम्भैश्चतुर्भिः समैः ..
भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतम् .
गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिं ..
वस्त्रैः कृष्णमईर्युतं तनुबरं तं सूर्यसूनुं भजे ..
ह्रीं क्लीम् शनैश्चराय नमः
ॐ महिषस्थं कृष्णं वदनमयविभुं कर्णनासाक्षिमात्रम् .
कारालास्यं भीमं गदविभबयुतं श्यामवर्णं महोग्रं ..
पैठीनं गोत्रयुक्तं रविशशीदमनं चाधिदैवं यमोऽपि .
सर्पप्रत्यधिदैवं मलयगिरिभवं तं तमसं नमामि ..
बं ऐं बं बं क्लीं बं तमसे स्वाहा
ॐ महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् .
हस्ते वाणं कृपाणं त्रिशिखशशिधृतं वेदहस्तं प्रसन्नं ..
ब्रह्मा तस्याधिदैवं सकलगदयुतं सर्पप्रत्यधिदैवं ध्यायेत् .
केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदञ्च ..
श्रीं श्रीं आं बं रं लं केतवे स्वाहा
Encoded and proofread by Sanjay Rath srath@vsnl.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com