.. संविच्छतकम् ..
.. अथ त्यागराजविरचितम् संविच्छतकम् ..
यस्या नित्यं चरणकमलद्वन्द्वमैश्चर्यबीजं
प्रध्यायन्तो हृदयकमले पुण्यभाजो मुनीन्द्राः .
निर्द्वन्द्वं तत् समरसमहो प्राप्य तिष्ठन्ति तस्मिन्
तस्यै देव्यै तपनरुचये तत्त्वतोऽस्तु प्रणामः .. १..
या कल्याणगुणप्रसूः परशिवानन्दामृतस्यन्दिनी
भूमानन्दमयी परापरमयी तेजोमयी वाङ्ग्मयी .
आद्यान्तार्णतनूः शिवादिवसुधान्तान्तःप्रकाशात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २..
यस्यां प्रोतमिदं चतुर्दशजगत् सूत्रे मणिस्तोमवद्
यस्यां भाति जडं जडेतरमिदं स्तम्भादिवद् दारुणि .
यस्यां पश्यति विश्वमज्ञहृदयाः स्थाणौ पुमांसं यथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३..
मूलौड्याणगलोपरोधनमहामुद्राप्रसन्ना परा
तेजःपुञ्जमयी सदा गतियुता हंसी सहस्रारकम् .
अम्भोजं परहंसकेलिसदनं या प्राप्य लेभे मुदं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४..
प्राणापानरवीन्दुयोगपरमानन्दप्रबुद्धा सती
संसुप्ता श्रुतिपत्रपद्मशयने सौषुम्नवीथ्याद्युतम् .
वर्षत्यसभानटं समरसानन्दामृतं प्राप्य या
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५..
या मित्रावरुणालयात् समुदिता तेजोमयी वल्लरी
वीणादण्डतरुश्रिता शिववियद्यान्ती स्वभावात् सदा .
नानावर्णपदादिपुष्पनिचयान् स्वस्मिन् किरन्तीच्छया
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६..
या चैकोत्तरखादिपञ्चकगुणाकारार्णमन्त्रात्मिका
या पीतारुणशुभ्रविग्रहमयी संध्यात्रये राजते .
याप्येकाक्षरनादसंततिसुखोद्बोधैकमूर्तिः परा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७..
याव्यक्ता नववारनाथकरुणापाङ्गा प्रकाशात्मिका
नीलेन्दीवरपद्महर्षकरदृक्तत्त्वार्णमुक्तावलिः .
कामेश्यादिसुधांशुषोडशकलापूर्णात्मवक्त्राम्बुजा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८..
या सीमा नवखण्डचक्रवसुधालंकारमेरोः परा
नानादेशिकयोगिनीमणिलसच्छुभ्रादिवर्णावनेः .
कामेशाङ्कनिरभ्रनिर्मलमहाकाशस्थविद्युल्लता
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९..
यस्याः प्रीतिरहर्निशं कुलगिरिस्रोतःसुधायां परा
निष्कामप्रणतान्तरङ्गकुसुमे ह्रींकारघण्टाध्वनौ .
गन्धेऽहं शिव एव नान्य इति यो दीपे विमर्शात्मके
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १०..
या चित्रं त्रिपुरा पुरान्तकसमाश्लिष्टा परा ज्योतिषाम्
अद्वैतापि शिवार्धर्मूर्तिरमला पाशापहा पाशिनी .
पद्माराध्यपदारविन्दयुगला भिक्षाटनेशप्रिया
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ११..
या दूरा ललितापि दुष्कृतजुषां या कोमलाङ्ग्यद्रिजा
या नीलाम्बुदमेचकापि भुवनं विद्योतयत्यद्भुतम् .
या कल्याणगुणप्रवाहसुमहावारांनिधिर्निर्गुणा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १२..
निष्क्रोधा नतलोकमृत्युमथने या बद्धकच्छा सदा
निर्वैरा निजपूजनादिकृतिनां दैन्ये द्विषन्त्यद्भुतम् .
भक्तानां भयमोचिनी भवरता श्रीकामराजात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १३..
विद्यारण्यपुलिन्दिका श्रुतिगिरा तत्त्वोपदेष्ट्री सतां
वाराही नकुली विलासकुतुका याप्युत्तमब्राह्मणी .
या चित्रं सुखशान्त्यतीतवसुधा श्रीचण्डिका शूलिनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १४..
या शाला निगमागमस्मृतिकलालीलाततेस्त्र्यक्षरी
या फालाक्षमहासती स्मरकलाहेला पराप्यद्भुतम् .
या कालानलकान्तिमत्यपि सदा नीलालका शीतला
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १५..
कल्याणाचलकार्मुकस्य महिषी पुण्ड्रेक्षुचापाद्भुतं
लक्ष्मीवल्लभसायकस्य रमणी पुष्पेषुहस्ताम्बुजा .
या रामा परमेश्वरस्य ललिता लोकत्रयेऽत्यद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १६..
या वाचामधिदेवताप्यविषया वाचां श्रुतेर्वर्णितुं
श्रोत्रादीन्द्रियदेवतापि न जडैः श्रोत्रादिभिर्ज्ञायते .
अन्तःस्थामपि यां प्रचोदकतया नो जानते जन्तवः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १७..
या वीणा परमेश्वराङ्कनिलया ह्रींकारमन्त्री सदा
श्यामा कालसुमूर्च्छनादिकलनाहीनापि रागिण्यहो .
नाथेनाहतनादविभ्रमवती स्थाणुं शिवं चाकरोत्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १८..
या मोहान्धतमोऽपनोदनविधौ बोधात्मिका कौमुदी
संसारार्णवतारणे दृढतरा नौकेन्द्रचापप्रभा .
दारिद्र्याद्रिविदारणे कनकरुग् दम्भोलिरिच्छात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. १९..
या तापत्रयजाड्यशोकशमने काचिन्नृणां स्वर्धुनी
या शान्त्यादिगुणप्रवालमनिसंवृद्धौ सुधाम्बोनिधिः .
प्रत्यग्दृष्ट्यसिताब्जपोषणविधौ जाड्यापहा दीर्घिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २०..
शोकारण्यकुठारिका शुभफलोद्यानस्य या वापिका
पापक्ष्वेलसुपर्णकल्पघुटिका प्राज्ञाज्ञयोरम्बिका .
आशोच्चाटनमूलिका विपणिका वागर्थवृद्धेः कवेः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २१..
या वाञ्छापरिपूरणे सुरलता मोक्षेन्दिरा देवता
स्रष्ट्रादेः कुलदेवता सुचरिता विद्यासु सर्वोन्नता .
नित्यानन्दरता सुकर्ममुदिता लोकत्रयाराधिता
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २२..
सारासारपयोविवेचनविधौ हंसी परं तु त्विषा
श्यामा मोहतमोपनोदनविधौ हंसः सदा भासकः .
प्रज्ञासौधविहारिनिस्तुलमहाज्योत्स्ना दिवापि ध्रुवा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २३..
या चिन्तामणिरेव दोषशमने दाने परं त्वद्रिजा
वासन्ती पिकसुन्दरी श्रुतिसुखालापे स्वयं पञ्चमी .
याने यौवनसिन्धुतीरकरिणी पद्माटवीरक्षिणी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २४..
या शंभोर्नयनोत्पलेन्दुवदना कंदर्पदूतीक्षणा
चेतश्चातकनीलनीरदकचाजीवातुसीमन्तिनी .
शृङ्गाराद्वयशान्तिपाठसुकृतश्रेयःफलाग्रयस्तनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २५..
या त्र्यक्षस्य मनोरथः किमु तपःपाकः सुखं नैजकं
दक्षस्येव तपःफलं कुलधनं दैवं हिमाद्रेरपि .
भाग्यं भक्तजनस्य देशिकदृशोः श्लाध्यं कवीनां गिरां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २६..
सेतुर्दुःखमहोदधेर्मणिमयच्छाया विभोस्तत्तरोः
पान्थानां परमार्थिनां प्रतिपदं कारुण्यपाथःप्रपा .
सत्यानन्दचिदन्नदानविलसच्छाला च कल्याणधीः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २७..
या लोकत्रितयैकरत्नमजडं भान्विन्दुभाशीतलं
निर्दोषं गुणवर्जितं च निखिलैश्चर्यप्रदं देहिनाम् .
चित्रं भिक्षुकसार्वभौमनिलयं लोकत्रये भासते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २८..
यापर्णाप्यनपायकल्पलतिका स्थाणुः पतिः कल्पको
यस्या भक्तफलप्रपूरणविधौ पुत्रो विशाखोऽद्भुतम् .
इत्थं नित्यकुटुम्बिनी त्रिजगतां रक्षाकरी राजते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. २९..
या पुण्याश्रम एव शांकरतपःसिद्ध्यै महायोगिनां
निर्वैरो गजपञ्चवक्त्रगतिमध्यः शान्तिरङ्गस्थलम् .
निर्द्वन्द्वस्तनचक्रवाकलसितः कोकारिचूडामणिः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३०..
या केदारममूल्यमानमभयं निष्पङ्कमाशास्पदं
श्रीकण्ठेतरभोगबन्धरहितं कल्पे कदाप्यद्भुतम् .
प्रज्ञाशालिन एव दित्सति बत ज्ञानाङ्कुरं कस्यचित्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३१..
या चित्रं करिणी हिमाचलभवा ताम्रारविन्देक्षणा
कान्त्या भर्त्सयती वरं मरतकं पाशाङ्कुशोक्ष्वन्विता .
पञ्चास्यप्रभुमञ्चकोपरि वसत्यानन्दपुर्यां मुदा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३२..
एणाङ्कार्भकमात्मकुन्तलतमोरात्र्यामपि द्योतय-
त्याश्चर्यं यमिनां कटाक्षयमुनाकल्लोलमालां च या .
नित्यं वक्त्रशशाङ्कमन्दहसितज्योत्स्नां कृपायां गुरोः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३३..
या दृष्टिः श्रुतिमूलशीलनपरा नीलाञ्जनाद्रिश्रियं
स्वात्मस्मेरपयोदधौ सहभवं श्रीवल्लभं तन्वती .
वात्सल्यान्नतलोकमोहितिमिरं चित्रं धुनीते च या
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३४..
या कारुण्यकटाक्षनीलवनजद्वेष्यात्मजाम्भःस्वहो
मुग्धस्निग्धमृदुस्मितामरधुनीवीचीविलासाश्रिते .
सुस्नातं निजपादपङ्कजरजःसिक्तं बत व्यातनोत्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३५..
श्रीकण्ठार्धशरीरिणी ध्रुवमपि श्रीकान्तसोदर्यहो
नारायण्यपि सर्वदा कुलनगोत्तंसात्मजात्यद्भुतम् .
प्रालेयाचलकन्यकापि सकलाहंरूपिणी याद्भुतम्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३६..
आनङ्गस्मृतिसंप्रदायमखिलं स्वापाङ्गशिष्येण या
कामद्रोहिणमेव शिक्षयति हा लोकोत्तरात्यद्भुतम् .
तेनैवात्मपदारविन्दरसपानोथं त्रिलोकेऽन्यथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३७..
बन्धूकस्तबकं रुचा परिहसत्यम्भोजमप्यद्भुतं
कर्णास्येक्षणपाणिना वनचरं मध्येन वक्षोरुहा .
गत्या स्वादुगिरा सुधाकरकलोत्तंसैश्च नीलालकैः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३८..
निःस्पन्दं निगमागमाद्यविषयं श्रोत्रादिहीनं परं
निःशब्दं तदहो पुमांसमकरोत् कामेश इत्याख्यया .
या चित्रं निजदासमच्छहृदयं शक्त्या तनोत्यन्यथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ३९..
वागर्थेन यथा युतापि परमानन्दात्मना शूलिना
नित्यं या विहरत्यहो जनमनोगेहेषु मुग्धेषु हा .
निर्भीता कुलटेव कर्म कुरुते सर्वेन्द्रियाणां सदा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४०..
नासामौक्तिकदैत्यदेशिकमहो मन्दस्मितैः पुष्णती
ताटङ्कद्युतिभिर्दिनेशशशिनौ देवौ तिरस्कुर्वती .
मारारेर्गुहमेधिनी मनसिजं रक्षत्यपाङ्गोटजे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४१..
बन्धच्छेदविचक्षणा पशुजनस्तोमातिदूराद्भुतं
या रक्षत्यगराजशेखरसुताप्याम्नायसूत्रैर्दृढम् .
बद्ध्वा देवपशून् सदा पशुपतेः संसर्गदोषेण हा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४२..
धारा देशिकदिव्यदृष्टिमधुनो मारारिनेत्रामृतं
धारा दुर्मतदारुदारिपरशोस्तारावलिर्योगिनाम् .
तीरं मन्त्रमहोदधेः कविगिरां पूरः सुखाम्भोनिधेः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४३..
कामाक्षीति वदन्ति केचन बुधाः कामेश्वरीत्यद्भुतं
रामास्तोमशिरोमणीति मदनारातेर्दृशोः पारणा .
सीमा भूमसुखस्य चिन्मयकला शृङ्गारमूर्तिश्च या
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४४..
मुग्धस्निग्धकटाक्षमित्रतनया यस्याः सदानन्दिनी
मन्दस्मेरपयोनिधिं निजपतिं संगम्य वाणीश्रियः .
संसूय प्रददात्ययाचिततत्या भक्तेभ्य एवादरात्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४५..
औन्नत्यं मुहुरेति चित्रममरश्रेणीषु यद्योगतो
दक्षद्वेष्यपि भिक्षुकोऽपि विषमाक्षोऽप्युक्षयानोऽपि वा .
अज्ञातान्वयसंभवोऽपि निगमातीतोऽपि लुब्धस्तथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४६..
या लोकैकसुमङ्गला स्मरकला नीलाम्बुदश्यामला
डोला शंकरलोचनद्वयशिशोर्मालाष्टसिद्धिश्रियाम् .
कालातीतकला कलानिधिकलोत्तंसातुला निर्मला
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४७..
अस्तं या नलिनेक्षणेन नयति क्षोभातपं योगिनां
स्वानन्दामृतचन्द्रिकां करुणया नित्यं तनोत्यद्भुतम् .
वर्षत्याननपङ्कजे सुकवितापीयूषधाराः कवेः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४८..
या विद्युत्कमलेषु तिष्ठति परा तापिञ्छगुच्छच्छवि-
श्चितं प्राणभृतां दृशोः सुखकरी भीमप्रकाशिन्यलम् .
ज्योतिः शीतलभूभृतस्त्रिभुवनक्षेमप्रवाहप्रदा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ४९..
या काचिद्धरिणी मरालगमना चिद्व्योमसंचारिणी
ह्रींकारस्वनसंततेः परवशा हृद्यानवद्या दृशाम् .
अस्त्रैव्यार्धवरं पिनाकिनमहो संमोहयन्त्यन्वहं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५०..
धेनुर्या परमात्मनः पशुपतेः सर्वज्ञतादोहिनी
चित्रं षण्मुखवक्रतुण्डजननी प्रालेयशैलात्मजा .
निर्निद्रामलपुण्डरीकनयना शुभ्रांशुचूडामणिः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५१..
यां दण्डं वरविद्रुमात्मकमतिश्लक्षणं सुसूक्ष्मं ध्रुवं
गाढं निर्विषयाः पुराणपुरुषा आलम्ब्य गच्छन्त्यहो .
तीर्त्वा दुस्तरजन्मपङ्कनिबिडं मायामहीमण्डलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५२..
या कुम्भोद्भव एव मन्मथरिपोर्धैर्याम्बुधेः प्राशने
प्रारब्धात्मकविन्ध्यभूधरगतिध्वंसे तथा धीमताम् .
आचार्यः शिवबोधने निजपतेरानङ्गदीक्षाक्रमे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५३..
या क्षीराब्धिसहोदरस्मितरुचा कम्बुं तिरस्कुर्वती
कामारेर्हृदयं विशुद्धमपि संमुग्धं करोत्यन्वहम् .
आश्चर्यां नमतां धुनोति तिमिरं स्वाज्ञानरूपं परं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५४..
यस्या हासमरालिकामृदुगतिः श्रीकामजेत्रे मुदा
विद्यां बोधयितुं परां वितनुतेऽपाङ्गार्कजातोर्मिषु .
स्थित्वा श्रौतपथस्थकुण्डलयुगेनालोचनासंततं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५५..
यस्या वीक्षणशक्रमेचकमणीसाम्राज्यसिंहासनं
श्रित्वा पुष्पशरप्रभुर्विजयते त्र्यक्षस्य पार्श्वेऽद्भुतम् .
पीयूषार्णवफेनजेतृसहितश्रीचामरासेवितः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५६..
नीहाराद्रियशोऽभिवर्धनपरे कुञ्जे कटाक्षात्मके
यस्याः क्रीडति नीलकण्ठविमलप्रज्ञामयूरार्भकः .
पश्यन् नित्यसुगन्धिकुन्तलमयीं कादम्बिनीं संततं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५७..
या हासार्जुनभूभृता सुखयति द्राग् भीमचित्तं परं
धर्मं पालयति प्रवेशयति वैवर्णेऽनुकूलां गतिम् .
मालिन्यं नयतेतरां ध्रुवमहो तद्धार्तराष्ट्रं कुलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५८..
या मुक्ताफलमद्भुतं गिरिभवं श्यामं प्रकाशास्पदं
सत्सूत्रं सकलार्थदं शशिकलाचूडं त्रिणेत्रं चरम् .
निर्दोषंभवकौतुकप्रदमनाद्यन्तं परं निस्तुलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ५९..
या वापी भुवनप्रदा रसमयी तृष्णार्दितानां परं
निष्पाशाभिगताभिमानममतापाशाभिलाषान्विता .
सत्पात्रे फलदायिनी स्मृतिमतां तापत्रयध्वंसिनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६०..
शृङ्गाराम्बुधवीचिविभ्रमवती शृङ्गारबीजानिल-
व्यालोला कुमुदप्रियध्वजपटी प्रत्यक्चरी पार्वती .
द्रोणी या विषमेक्षणानुसरणी चित्रं सदा राजते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६१..
यस्या नीरदभाः कटाक्षयदुपः कर्णानुवृत्तोऽद्भुतं
दीव्यत्कुण्डलहासचक्रजलजश्लिष्टः कृपानीरदः .
स्थानोर्गोकुलमन्वहं नयति तद्वक्षोजशैलान्तरं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६२..
या चित्रं महतीं महागुणवतीमप्यश्रितं संततं
काठिन्यं न विमुञ्चति स्तनयुगं मान्द्यं गतिः कुन्तलाः .
कौटिल्यं नयनाम्बुजं चपलतां बिम्बाधरो रागितां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६३..
या मन्दस्मितकौमुदीं वितनुते नित्योदिते सर्वत-
स्ताटङ्कात्मनि भास्करे स्वयमहो कालाम्बुदश्यामला .
बिम्बोष्ठद्युतिसंध्यया द्विजगणे श्रीशांभवे रागितां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६४..
जारे मारकिरातजीवनकरे चित्रं कटाक्षात्मके
यस्याः कुण्डलरश्मिवेणुकलिते लग्ना सुखं राजते .
कामारेर्मतिशारिका श्रुतिशिरोद्यानान्तरोल्लासिनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६५..
नित्यं सोमकलाधरोऽध्वरपतिर्व्याघ्राजिनालंकृत-
स्ताटङ्कद्युतिवह्निवीक्षणशिखाधूमातिलोलेक्षणः .
यस्या हासपयोनिधाववभृथव्याजेन मज्जत्यहो
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६६..
यस्याः कापि दयात्मिका प्रतिदिनं शैलूषबालाद्भुतं
नीरागालयकालवर्जितवती निर्मूर्च्छना कामना .
निर्लज्जैव दिगम्बरा नटति हा संमोहशान्त्यै नृणां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६७..
माङ्गल्यं हरिनीलकान्तिसुगुणं श्लाध्यं सुरस्त्रीजनै-
र्यस्या मञ्जुलवीक्षणं स्मरहाराजस्य देव्या रतेः .
ओष्ठशीर्वरकुङ्कुमं स्मितमहो स्रङ्माधवी शाश्वती
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६८..
चित्रं कापि सुधा शिवेतरसुरालभ्या हिमाद्र्युद्भवा
द्रुह्यन्ती कुरुविन्दमात्मरुचिभिर्दोषाकरोत्तंसिनी .
आस्ते या मदनज्वरं शशिभृतः संधुक्षयन्त्यन्वहं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ६९..
अर्धं राज्यमनन्यसाध्यमखिलैश्चर्यप्रदं शूलिनः
शुद्धं मूर्तिमयं ययातिविनयैः प्राप्तं तदन्यत् पुनः .
व्याप्तुं वाञ्छति गारुडोपलवपुः कान्त्या महत्या परं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७०..
अर्धं सोमकलाधरी शशिकलाचूडस्य या त्र्यम्बक-
स्त्र्यक्षाया अथवा सनातनतनू जायापती शाश्वतौ .
एकं वेत्यवधारितुं मुनिवरा अद्याप्यलं नाद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७१..
दारिद्र्यास्तधराधरोऽपि परमं भद्रोदयोऽत्यद्भुतं
पापारण्यदवानलोऽपि नमतां कारुण्यधाराधरः .
या दुह्खाम्बुदमालिकापवनराण्नैश्चल्यरूपास्ति वै
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७२..
श्रौतं मार्गमतीत्य गच्छति मुदा कापालिकं दृक् परं
मध्यः शून्यमतं गतोऽतिविमले द्वन्द्वे कुचौ द्वैतिनौ .
सौरे कुण्डलयुग्ममात्मरुचिभिर्यस्याः कृपा शांभवे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७३..
वल्ली कापि शिवाङ्कणे लसति या मन्दस्मितैः पुष्पिता
ताम्बूलेन सुगन्धिता सुफलिता वक्षोरुहाभ्यां परम् .
कान्त्या पल्लविता कचैर्भ्रमरिता दृग्भ्यां परं पत्रिता
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७४..
यस्या वीक्षणदेशिकः श्रुतिगतिस्तेजोमयः सर्ववित्
संतुष्टो जितकामशत्रुरणिमाद्यष्टाभिराराधिता .
सच्चित्सौख्यरतः शिवं नटमपि क्षिप्रं करोत्यद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७५..
यस्याश्चारुकपोलदर्पणतले दृष्ट्वा कपर्दी रुषा
भीतो जह्नुसुतां मृदुस्मितमयीं संकेतमित्थं व्यधात् .
मुग्धे गच्छ निजस्थलं द्रुततर्ं जागर्ति दृष्टिर्यतः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७६..
शृङ्गारैकरसं वसन्तसुहृदं कंदर्पदर्पप्रदं
चित्रं कोकनदप्रबोधनकरं चन्द्रोदयं श्रीकरम् .
यस्या हासमयं चिरमप्यास्ते पुराणः शिवः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७७..
या काचित् पिककामिनी श्रुतिगतिः सप्तस्वरालापिनी
नित्यं माधवबोधिनी त्रिभुवने निष्पक्षपाता सुखम् .
चित्रं चूतनवप्रसूनविशिखद्वेष्याश्रये राजते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७८..
यस्या वीक्षणमान्त्रिकः सुकृतिनामग्रेसरः शंकरी-
मन्त्राम्भोनिधिपारगः स्मितविभूत्योच्चालयन् सर्वदा .
द्वेषं शंकरकर्तृकं सुमशरे विभ्राजते शाश्वतः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ७९..
यस्या दृग्रमणीमणिर्विवदते कामारिसल्लापने
स्वाधीनप्रियया मृदुस्मितशरीरिण्या परं गङ्गया .
आद्याहंश्रुतिमूलगाधरभवा त्वं स्वीकृतेति ध्रुवं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८०..
या काचिद् भुजगी सदा सरलगा पीयूषदायिन्यहो
पद्मारण्यविहारिणी श्रुतिमती तेजस्तनूर्निर्भया .
जन्माब्धिप्लववर्धिनी वशयति श्रीनीलकण्ठं दृशा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८१..
आस्याम्भोजभवा पतिं निजमनाद्यन्तं कटाक्षात्मकं
पृच्छन्तीति पयोनिधेः स्मितमयान्मज्जन्म किं वाम्बुजात् .
यस्या निःस्मरसंपदं सुधनिकं कर्तुं शिवं काङ्क्षते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८२..
यस्याः पाणिपरिग्रहे मृदुतनोर्हेमाद्रिधन्वा शिवः
पादान्यासविधौ दृषद्यपि सुरस्त्रीणां पुरो लज्जितः .
मन्दाक्षं गतवाननङ्गकलिकां यां वीक्षितुं नाद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८३..
यस्याः पादकेशशयश्रियमहो श्रुत्वानिलादन्वहं
गाङ्गान्यम्बुरुहाणि हन्त कतिचित् प्राप्तुं परां तां द्रुतम् .
पीत्वा क्षीरलवं तपन्ति तपनं पश्यन्ति मज्जन्त्यलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८४..
नित्यं संधिमपेक्षते सुचरिता दूती कटाक्षात्मिका
राजस्याधररामयापि न तया गर्भे वहन्त्यामृतम् .
कामारे रतिसात्त्विकद्विजमणेर्मोदाय सुश्रेयसे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८५..
पक्षे शैवमनोमहीभृति मनोजाग्निं ध्रुवं साधयन्
यस्या मञ्जुकटाक्षधूमशिशुना श्रौतेन सद्धेतुना .
ओष्ठद्वन्द्वसभान्तरे स्मितमयो नैयायिको भासते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८६..
या पद्मं हिमशैलजं मरतकं भासा भृशं भर्त्सयत्
कंदर्पस्य ज्येन्दिराजनिगृहं निर्हेतुकोत्फुल्लनम् .
स्थाणोर्लोचनभृङ्गसंभ्रमकरं शीतांशुलेखाङ्कितं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८७..
यस्या मन्दगतिः परं शुभगतिः कामस्य कामद्रुहः
कामोद्रेकगतिश्चिरं भजनकृद्धंसाङ्गनासंततेः .
कामं दत्तगतिः सदा विजयते हंसात्मिका योगिनां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८८..
निःस्नेहापि शिवातिरागकलिता या दीपिका काप्यहो
झञ्झामारुतभीतिदापि चपला निष्कल्मषा साञ्जना .
त्रैलोक्येऽपि विराजते श्रितवती श्रीशंकराङ्कं ध्रुवं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ८९..
निर्यत्नैव महासती सुचरिता या शैलराजात्मजा
नाथं लोकविलक्षणं प्रहृतवत्यद्यापि सेवाजने .
गाण्डीवेन वराश्मभिश्च मुसलेनोपानहा वर्तते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९०..
यस्याः पादकिसालयप्रभुवरं याचन्त्यजस्रं परं
कस्तूर्यः सुरयोषितां तिलकिताः सद्वासनां रागिताम् .
बिम्बोष्ठं मृदुतां श्रियं च युगपद्धस्ताः प्रवालप्रियाः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९१..
यस्याः पादसहस्ररश्मिचरलं कामारिचित्तात्मकं
हैमं भ्रामयति प्रणाशयति संतापं सतामङ्कुरम् .
प्रज्ञानात्मकमद्भुतं शिशिरयत्यक्षीण्यलं पश्यतां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९२..
चित्रं या कुरुते मनोऽपि यमिनां बद्धं महायत्नतो
मुक्तं शोणपदारविन्दयुगले नीरागिणं रागिणम् .
मञ्जीरस्वनमन्मथस्मितरवैः संमोहनं शूलिनः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९३..
पादाम्भोजरजो रजांसि हरति प्रौढानि यस्या नृणां
सत्त्वं वर्धयति प्रदर्शयति सन्मार्गं सुराणामपि .
जन्मव्याधिमृतिप्रवाहमतुलं संरोधयत्यद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९४..
नाहं विश्वमिदं चराचरमयं मायाविलासास्पदं
दृश्यत्वादिति शोधयन्ति सुधियः सर्वं यया प्रज्ञया .
आत्मैवायमिदं वदन्ति पुनस्तूष्णींभवन्तः स्थिताः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९५..
राहुं निन्दति चन्द्रचूडचिकुरैस्ताटङ्ककान्त्या रविं
वक्त्राब्जेन विधुं गुरुं नतगिरा सौग्यं दृशा भद्रया .
गत्या मन्दमहो कुजं तनुरुचा नासाग्रमण्या कविं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९६..
निःश्रेणी कृतिनां परामृतफलप्राप्तौ प्रवालद्युति-
र्या नीलाञ्जनमक्षरात्मकनिधेः संदर्शने श्रीमताम् .
नित्यानन्दरसा परोक्षकरणे श्रीदेशिकश्रीकृपा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९७..
या कुण्ठीकुरुते निजस्तुतिविधौ गर्वात् प्रवृत्तां गिरं
वेदानामपि गीष्पतेरपि महाभाष्यार्थविज्ञानिनः .
दत्ते वाग्भववैभवामृतझरीं मूकाज्ञयोर्वाग्मितां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९८..
आद्यामम्बुरुहेक्षणामनुपमामापीनतुङ्गस्तनी-
मार्यामागमसारमूर्तिमरुणामानन्दचन्द्राननाम् .
साध्वीं सत्कविवाग्झरीं समरसानन्दामृतस्यन्दिनीं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा .. ९९..
गुरुचरणसरोजं गुप्तगङ्गातरङ्ग-
स्तिमितममितशुक्लज्योतिषां ज्योतिरेकम् .
निरुपममकरन्दस्पन्दमानन्दकन्दं
निधनजननहीनो निर्मलोऽहं निषेवे .. १००..
शार्दूलवृत्तमपि साधु भवत्यहो तत्
सारस्वतं समरसामृतलोचनानाम् .
सद्यो जयत्यघरिपुं श्रुतिमार्गयोगात्
त्यागेशसान्द्रकरुणाद्भुतमेव भद्रम् .. १०१..
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितं संविच्छतकं संपूर्णम्
Encoded and proofread by Sridhar Seshagiri seshagir@egr.msu.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com