.. शंपाकगीता ..
अध्यायः १७६
युधिष्ठिर उवाच .
धनिनश्चाधना ये च वर्तयन्ते स्वतन्त्रिणः .
सुखदुःखागमस्तेषां कः कथं वा पितामह .. १..
भीष्म उवाच .
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
शंपाकेनेह मुक्तेन गीतं शान्तिगतेन च .. २..
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः .
क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया .. ३..
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् .
विविधान्युपवर्तन्ते दुःखानि च सुखानि च .. ४..
तयोरेकतरे मार्गे यदेनमभिसन्नयेत् .
न सुखं प्राप्य संहृष्येन्नासुःखं प्राप्य सञ्ज्वरेत् .. ५..
न वै चरसि यच्छ्रेय आत्मनो वा यदीशिषे .
अकामात्मापि हि सदा धुरमुद्यम्य चैव ह .. ६..
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि .
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह .. ७..
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् .
अनमित्रपथो ह्येष दुर्लभः सुलभो मतः .. ८..
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः .
अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमिह लक्षये .. ९..
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् .
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् .. १०..
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् .
नित्योद्विग्नो हि धनवान्मृत्योरास्य गतो यथा .. ११..
नैवास्याग्निर्न चारिष्टो न मृत्युर्न च दस्यवः .
प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः .. १२..
तं वै सदा कामचरमनुपस्तीर्णशायिनम् .
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः .. १३..
धनवान्क्रोधलोभाभ्यामाविष्टो नष्ट चेतनः .
तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः .. १४..
निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता .
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् .. १५..
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् .
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः .. १६..
अथैनं रूपमानश्च धनमानश्च विन्दति .
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः .. १७
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति .
संप्रसक्तमना भोगान्विसृज्य पितृसञ्चितान् .
परिक्षीणः परस्वानामादानं साधु मन्यते .. १८..
तमतिक्रान्तमर्यादमाददानं ततस्ततः .
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः .. १९..
एवमेतानि दुःखानि तानि तानीह मानवम् .
विविधान्युपपान्ते गात्रसंस्पर्शजान्यपि .. २०..
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् .
लोकधर्ममवज्ञाय ध्रुवाणामध्रुवैः सह .. २१..
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् .
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव .. २२..
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् .
शंपाकेन पुरा मह्यं तस्मात्त्यागः परो मतः .. २३..
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
शंपाकगीतायां षट्सप्त्यत्यधिकशततमोऽध्यायः .. १७६..
.. इति..
Please send corrections to Sunder Hattangadi
These verses form Ch. 170 in Tokunaga/BORI ed., and Ch 176 in Kinjavadekar ed.
verse nos. are unchanged.
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com