.. शिवषडक्षर स्तोत्रम् ..
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः |
कामदं मोक्षदं चैव ॐकाराय नमो नमः || १||
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः |
नरा नमंति देवेशं नकाराय नमो नमः || २||
महादेवं महात्मानं महाध्यानं परायणम् |
महापापहरं देवं मकाराय नमो नमः || ३||
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् |
शिवमेकपदं नित्यं शिकाराय नमो नमः || ४||
वाहनं वृषभो यस्य वासुकिः कंठभूषणम् |
वामे शक्तिधरं वेदं वकाराय नमो नमः || ५||
यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः |
यो गुरुः सर्वदेवानां यकाराय नमो नमः || ६||
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते || ७||
|| इति श्री रुद्रयामले उमामहेश्वरसंवादे
षडक्षरस्तोत्रं संपूर्णम् ||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com