.. शुकरहस्योपनिषत् ..
प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् .
विकलेवरकैवल्यं त्रिपाद्राममहं भजे ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो
ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रच्छुर्भगवन्नस्माकं
रहस्योपनिषदं ब्रूहीति . सोऽब्रवीत् .
पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः .
प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह .. १..
श्रीवेदव्यास उवाच .
देवदेव महाप्राज्ञ पाशच्छेददृढव्रत .
शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि .. २..
ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः .
ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो .. ३..
ईश्वर उवाच .
मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते .
विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् .. ४..
श्रीवेदव्यास उवाच .
यथा तथा वा भवतु ह्युपनायनकर्मणि .
उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः .. ५..
सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर .
तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् .. ६..
तच्छृत्वा व्यासवचनं सर्वदेवर्षिसंसदि .
उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा .. ७..
कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् .
तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्छिवम् .. ८..
श्रीशुक उवाच .
देवादिदेव सर्वज्ञ सच्चिदानन्द लक्षण .
उमारमण भूतेश प्रसीद करुणानिधे .. ९..
उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् .
तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः .. १०..
श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् .
वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव .. ११..
श्रीसदाशिव उवाच .
साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने .
प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् .. १२..
रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते .
यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः .. १३..
अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः .
सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः .. १४..
चतुर्णामपि वेदानां यथोपनिषदः शिरः .
इयं रहस्योपनिषत्तथोपनिषदां शिरः .. १५..
रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता .
तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः .. १६..
वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् .
एकवारजपेनैव ऋष्यादिध्यानतश्च यत् .. १७..
ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः .
अव्यक्तगायत्री छन्दः . परमहंसो देवता .
हं बीजम् . सः शक्तिः . सोऽहं कीलकम् .
मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः .
सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः .
नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा .
नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् .
यो वै भूमा अनामिकाभ्यां हुम् .
यो वै भूमादिपतिः कनिष्ठिकाभ्यां वौषट् .
एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ..
सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः .
नित्यानन्दो ब्रह्म शिरसे स्वाहा .
नित्यानन्दमयं ब्रह्म शिखायै वषट् .
यो वै भूमा कवचाय हुम् .
यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् .
एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् .
भूर्भुवःसुवरोमिति दिग्बन्धः .
ध्यानम् .
नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ..
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि .. १..
अथ महावाक्यानि चत्वारि . यथा .
ॐ प्रज्ञानं ब्रह्म .. १..
ॐ अहं ब्रह्मास्मि .. २..
ॐ तत्त्वमसि .. ३..
ॐ अयमात्मा ब्रह्म .. ४..
तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति
ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ..
तत्पदमहाम्न्त्रस्य . परमहंसः ऋषिः .
अव्यक्तगायत्री छन्दः . परमहंसो देवता .
हं बीजम् . सः शक्तिः . सोऽहं कीलकम् .
मम सायुज्यमुक्त्यर्थे जपे विनियोगः .
तत्पुरुषाय अङ्गुष्ठाभ्यां नमः .
ईशानाय तर्जनीभ्यां स्वाहा .
अघोराय मध्यमाभ्यां वषट्
सद्योजाताय अनामिकाभ्यां हुम् .
वामदेवाय कनिष्ठिकाभ्यां वौषट् .
तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो
नमः करतलकरपृष्ठाभ्यां फट् .
एवं हृदयादिन्यासः .
भूर्भुवःसुवरोमिति दिग्बन्धः ..
ध्यानम् .
ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं
शुद्धं बुद्धं मुक्तमप्यव्ययं च .
सत्यं ज्ञानं सच्चिदानन्दरूपं
ध्यायेदेवं तन्महोभ्राजमानम् ..
त्वंपद महामन्त्रस्य विष्णुरृषिः .
गायत्री छन्दः . परमात्मा देवता .
ऐं बीजम् . क्लीं शक्तिः . सौः कीलकम् .
मम मुक्त्यर्थे जपे विनियोगः .
वासुदेवाय अङ्गुष्ठाभ्यां नमः .
सङ्कर्षणाय तर्जनीभ्यां स्वाहा .
प्रद्युम्नाय मध्यमाभ्यां वषट् .
अनिरुद्धाय अनामिकाभ्यां हुम् .
वासुदेवाय कनिष्ठिकाभ्यां वौषट् .
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः
करतलकरपृष्ठाभ्यां फट् .
एवं हृदयादिन्यासः .
भूर्भुवःसुवरोमिति दिग्बन्धः ..
ध्यानम् ..
जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् .
चित्ताहङ्कारयन्तारं जीवाख्यं त्वंपदं भजे .
असिपदमहामन्त्रस्य मन ऋषिः .
गायत्री छन्दः . अर्धनारीश्वरो देवता .
अव्यक्तादिर्बीजम् . नृसिंहः शक्तिः .
परमात्मा कीलकम् . जीवब्रह्मैक्यार्थे जपे विनियोगः .
पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः .
अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा .
तेजोद्व्यणुकाय मध्यमाभ्यां वषट् .
वायुद्व्यणुकाय अनामिकाभ्यं हुम् .
आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् .
पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः
करतलकरपृष्ठाभ्यां फट् .
भूर्भुवःसुवरोमिति दिग्बन्धः ..
ध्यानम् ..
जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः .
ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ..
एवं महावाक्यषडङ्गान्युक्तानि ..
अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ..
येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च .
स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् .. १..
चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु .
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि .. २..
परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि .
बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते .. ३..
स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः .
अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् .. ४..
एकमेवाद्वितीयं सन्नामरूपविवर्जितम् .
सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते .. ५..
श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् .
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् .. ६..
स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् .
अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते .. ७..
दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते .
ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् .. ८..
अनात्मदृष्टेरविवेकनिद्रा-
महं मम स्वप्नगतिं गतोऽहम् .
स्वरूपसूर्येऽभ्युदिते स्फुटोक्ते-
र्गुरोर्महावाक्यपदैः प्रबुद्धः .. ९..
वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे
वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः .
वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखा-
नन्दब्रह्मतदर्थ एष च तयोरैक्यं त्वसीदं पदम् .. १०..
त्वमिति तदिति कार्ये कारणे सत्युपाधौ
द्वितयमितरथैकं सच्चिदानन्दरूपम् .
उभयवचनहेतु देशकालौ च हित्वा
जगति भवति सोयं देवदत्तो यथैकः .. ११..
कार्योपादिरयं जीवः कारणोपादिरीश्वरः .
कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते .. १२..
श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् .
निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् .. १३..
अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् .
ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् .. १४..
महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः .
केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा , , १५..
ईश्वर उवाच .
एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक .
मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना .. १६..
ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् .
जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि .. १७..
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः .
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः .. १८..
उपदिष्टः शिवेनेति जगत्तन्मयतां गतः .
उत्थाय प्रणिपत्येशं त्यक्ताशेषरिग्रहः .. १९..
परब्रह्मपयोराशौ प्लवन्निव ययौ तदा .
प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः .. २०..
अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः .
प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः .. २१..
तच्छृत्वा सकलाकारं व्यासः सत्यवतीसुतः .
पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् .. २२..
यो रहस्योपनिषदमधीते गुर्वनुग्रहात् .
सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते
साक्षात्कैवल्यमश्नुत इत्युपनिषत् ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनाधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
.. इति शुकरहस्योपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com