||विवेकचूडामणि ( शंकराचार्य) ||
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् |
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ||१||
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् |
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ||२||
दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् |
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ||३||
लब्ध्वा कथचिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् |
यस्त्वात्ममुक्तौ न यतेत मूढधीः
स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ||४||
इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति |
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ||५||
वदन्तु शास्त्राणि यजन्तु देवान्
कुर्वन्तु कर्माणि भजन्तु देवताः |
आत्मैक्यबोधेन विनापि मुक्तिः
न सिध्यति ब्रह्मशतान्तरेऽपि ||६||
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः |
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ||७||
अतो विमुक्त्यै प्रयतेत् विद्वान्
संन्यस्तबाह्यार्थसुखस्पृहः सन् |
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा ||८||
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ |
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ||९||
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये |
यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ||१०||
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये |
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः ||११||
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा |
भ्रान्तोदितमहासर्पभयदुःखविनाशिनी ||१२||
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः |
न स्नानेन न दानेन प्राणायमशतेन वा ||१३||
अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः |
उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ||१४||
अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ||
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ||१५||
मेधावी पुरुषो विद्वानुहापोहविचक्षणः |
अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ||१६||
विवेकिनो विरक्तस्य शमादिगुणशालिनः |
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ||१७||
साधनान्यत्र चत्वारि कथितानि मनीषिभिः |
येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ||१८||
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते |
इहामुत्रफलभोगविरागस्तदनन्तरम् |
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ||१९||
ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः |
सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ||२०||
तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः |
देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि ||२१||
विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः |
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ||२२||
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके |
उभयेषामिन्द्रियाणां स दमः परिकीर्तितः |
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ||२३||
सहनं सर्वदुःखानामप्रतीकारपूर्वकम् |
चिन्ताविलापरहितं सा तितिक्षा निगद्यते ||२४||
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् |
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ||२५||
सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा |
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ||२६||
अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् |
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ||२७||
मन्दमध्यमरूपापि वैराग्येण शमादिना |
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ||२८||
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते |
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ||२९||
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः |
मरौ सलीलवत्तत्र शमादेर्भानमात्रता ||३०||
मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी |
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ||३१||
स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः |
उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः |
उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम् ||३२||
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः |
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः |
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ||३३||
तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः |
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ||३४||
स्वामिन्नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ |
मामुद्धरात्मीयकटाक्षदृष्ट्या
ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ||३५||
दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरदृष्टवातैः |
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यद्यदहं न जाने ||३६||
शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः |
तीर्णाः स्वयं भीमभवार्णवं जना-
नहेतुनान्यानपि तारयन्तः ||३७||
अयं स्वभावः स्वत एव यत्पर-
श्रमापनोदप्रवणं महात्मनाम् |
सुधांशुरेष स्वयमर्ककर्कश-
प्रभाभितप्तामवति क्षितिं किल ||३८||
ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर्युतैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय |
संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ||३९||
कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः |
जाने न किञ्चित्कृपयाऽव मां प्रभो
संसारदुःखक्षतिमातनुष्व ||४०||
तथा वदन्तं शरणागतं स्वं
संसारदावानलतापतप्तम् |
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या
दद्यादभीतिं सहसा महात्मा ||४१||
विद्वान् स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे |
प्रशान्तचित्ताय शमान्विताय
तत्त्वोपदेशं कृपयैव कुर्यात् ||४२||
मा भैष्ट विद्वंस्तव नास्त्यपायः
संसारसिन्धोस्तरणेऽस्त्युपायः |
येनैव याता यतयोऽस्य पारं
तमेव मार्गं तव निर्दिशामि ||४३||
अस्त्युपायो महान्कश्चित्संसारभयनाशनः |
तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ||४४||
वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् |
तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ||४५||
श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः
मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः |
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽविद्याकल्पिताद्देहबन्धात् ||४६||
अज्ञानयोगात्परमात्मनस्तव
ह्यनात्मबन्धस्तत एव संसृतिः |
तयोर्विवेकोदितबोधवह्निः
अज्ञानकार्यं प्रदहेत्समूलम् ||४७||
शिष्य उवाच |
कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया |
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ||४८||
को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः |
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम् ||४९||
श्रीगुरुवाच |
धन्योऽसि कृतकृत्योऽसि पावित ते कुलं त्वया |
यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ||५०||
ऋणमोचनकर्तारः पितुः सन्ति सुतादयः |
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ||५१||
मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते |
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ||५२||
पथ्यमौषधसेवा च क्रियते येन रोगिणा |
आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ||५३||
वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन |
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञातव्यमन्यैरवगम्यते किम् ||५४||
अविद्याकामकर्मादिपाशबन्धं विमोचितुम् |
कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ||५५||
न योगेन न सांख्येन कर्मणा नो न विद्यया |
ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ||५६||
वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् |
प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ||५७||
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् |
वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ||५८||
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला |
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ||५९||
शब्दजालं महारण्यं चित्तभ्रमणकारणम् |
अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः ||६०||
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना |
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ||६१||
न गच्छति विना पानं व्याधिरौषधशब्दतः |
विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ||६२||
अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः |
ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ||६३||
अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् |
राजाहमिति शब्दान्नो राजा भवितुमर्हति ||६४||
आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं
निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति |
तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ||६५||
तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये |
स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः ||६६||
यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः |
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ||६७||
शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते |
तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ||६८||
मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यन्तमनित्यवस्तुषु |
ततः शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम् ||६९||
ततः शृतिस्तन्मननं सतत्त्व-
ध्यानं चिरं नित्यनिरन्तरं मुनेः |
ततोऽविकल्पं परमेत्य विद्वान्
इहैव निर्वाणसुखं समृच्छति ||७०||
यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् |
तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ||७१||
मज्जास्थिमेदःपलरक्तचर्म-
त्वगाह्वयैर्धातुभिरेभिरन्वितम् |
पादोरुवक्षोभुजपृष्ठमस्तकैः
अङ्गैरुपाङ्गैरुपयुक्तमेतत् ||७२||
अहंममेतिप्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः |
नभोनभस्वद्दहनाम्बुभूमयः
सूक्ष्माणि भूतानि भवन्ति तानि ||७३||
परस्परांशैर्मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः |
मात्रास्तदीया विषया भवन्ति
शब्दादयः पञ्च सुखाय भोक्तुः ||७४||
य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन |
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः ||७५||
शब्दादिभिः पञ्चभिरेव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः |
कुरङ्गमातङ्गपतङ्गमीन-
भृङ्गा नरः पञ्चभिरञ्चितः किम् ||७६||
दोषेण तीव्रो विषयः कृष्णसर्पविषादपि |
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ||७७||
विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् |
स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ||७८||
आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रतियातुमुद्यतान् |
आशाग्रहो मज्जयतेऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात् ||७९||
विषयाख्यग्रहो येन सुविरक्त्यसिना हतः |
स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ||८०||
विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः
प्रतिपदमभियातो मृत्युरप्येष विद्धि |
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ||८१||
मोक्षस्य कांक्षा यदि वै तवास्ति
त्यजातिदूराद्विषयान्विषं यथा |
पीयूषवत्तोषदयाक्षमार्जव-
प्रशान्तिदान्तीर्भज नित्यमादरात् ||८२||
अनुक्षणं यत्परिहृत्य कृत्यं
अनाद्यविद्याकृतबन्धमोक्षणम् |
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति ||८३||
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति |
ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति ||८४||
मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु |
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ||८५||
मोहं जहि महामृत्युं देहदारसुतादिषु |
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ||८६||
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् |
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ||८७||
पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा |
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः |
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ||८८||
बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् |
करोति जीवः स्वयमेतदात्मना
तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ||८९||
सर्वाऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः |
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ||९०||
स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः |
वर्णाश्रमादिनियमा बहुधाऽमयाः स्युः
पूजावमानबहुमानमुखा विशेषाः ||९१||
बुद्धीन्द्रियाणि श्रवणं त्वगक्षि
घ्राणं च जिव्हा विषयावबोधनात् |
वाक्पाणिपादा गुदमप्युपस्थः
कर्मेन्द्रियाणि प्रवणेन कर्मसु ||९२||
निगद्यतेऽन्तःकरणं मनोधीः
अहंकृतिश्चित्तमिति स्ववृत्तिभिः |
मनस्तु संकल्पविकल्पनादिभिः
बुद्धिः पदार्थाध्यवसायधर्मतः ||९३||
अत्राभिमानादहमित्यहंकृतिः |
स्वार्थानुसन्धानगुणेन चित्तम् ||९४||
प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः |
स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् ||९५||
वागादि पञ्च श्रवणादि पञ्च
प्राणादि पञ्चाभ्रमुखानि पञ्च |
बुद्ध्याद्यविद्यापि च कामकर्मणी
पुर्यष्टकं सूक्ष्मशरीरमाहुः ||९६||
इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वपञ्चीकृतसम्भवम् |
सवासनं कर्मफलानुभावकं
स्वाज्ञानतोऽनादिरुपाधिरात्मनः ||९७||
स्वप्नो भवत्यस्य विभक्त्यवस्था
स्वमात्रशेषेण विभाति यत्र |
स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्
कालीननानाविधवासनाभिः ||९८||
कर्त्रादिभावं प्रतिपद्य राजते
यत्र स्वयं भाति ह्ययं परात्मा |
धीमात्रकोपाधिरशेषसाक्षी
न लिप्यते तत्कृतकर्मलेशैः |
यस्मादसङ्गस्तत एव कर्मभिः
न लिप्यते किञ्चिदुपाधिना कृतैः ||९९||
सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः |
वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् ||१००||
अन्धत्वमन्दत्वपटुत्वधर्माः
सौगुण्यवैगुण्यवशाद्धि चक्षुषः |
बाधिर्यमूकत्वमुखास्तथैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ||१०१||
उच्छ्वासनिःश्वासविजृम्भणक्षुत्
प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः |
प्राणादिकर्माणि वदन्ति तज्ञाः
प्राणस्य धर्मावशनापिपासे ||१०२||
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि |
अहमित्यभिमानेन तिष्ठत्याभासतेजसा ||१०३||
अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् |
सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ||१०४||
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये |
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ||१०५||
आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः |
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः
तत आत्मा सदानन्दो नास्य दुःखं कदाचन ||१०६||
यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते |
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ||१०७||
अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा |
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते ||१०८||
सन्नाप्यसन्नाप्युभयात्मिका नो
भिन्नाप्यभिन्नाप्युभयात्मिका नो |
साङ्गाप्यनङ्गा ह्युभयात्मिका नो
महाद्भुताऽनिर्वचनीयरूपा ||१०९||
शुद्धाद्वयब्रह्मविभोधनाश्या
सर्पभ्रमो रज्जुविवेकतो यथा |
रजस्तमःसत्त्वमिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः ||११०||
विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी |
रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ||१११||
कामः क्रोधो लोभदम्भाद्यसूया
अहंकारेर्ष्यामत्सराद्यास्तु घोराः |
धर्मा एते राजसाः पुम्प्रवृत्तिः
यस्मादेषा तद्रजो बन्धहेतुः ||११२||
एषाऽऽवृतिर्नाम तमोगुणस्य
शक्तिर्मया वस्त्ववभासतेऽन्यथा |
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रवणस्य हेतुः ||११३||
प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्-
व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् |
भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ||११४||
अभावना वा विपरीतभावना
असंभावना विप्रतिपत्तिरस्याः |
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम् ||११५||
अज्ञानमालस्यजडत्वनिद्रा-
प्रमादमूढत्वमुखास्तमोगुणाः |
एतैः प्रयुक्तो नहि वेत्ति किंचिन्
निद्रालुवत्स्तम्भवदेव तिष्ठति ||११६||
सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते |
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्यर्क इवाखिलं जडम् ||११७||
मिश्रस्य सत्त्वस्य भवन्ति धर्माः
त्वमानिताद्या नियमा यमाद्याः |
श्रद्धा च भक्तिश्च मुमुक्षता च
दैवी च सम्पत्तिरसन्निवृत्तिः ||११८||
विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः |
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति ||११९||
अव्यक्तमेतत्त्रिगुणैर्निरुक्तं
तत्कारणं नाम शरीरमात्मनः |
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ||१२०||
सर्वप्रकारप्रमितिप्रशान्तिः
बीजात्मनावस्थितिरेव बुद्धेः |
सुषुप्तिरेतस्य किल प्रतीतिः
किंचिन्न वेद्मीति जगत्प्रसिद्धेः ||१२१||
देहेन्द्रियप्राणमनोऽहमादयः
सर्वे विकारा विषयाः सुखादयः |
व्योमादिभूतान्यखिलं न विश्वं
अव्यक्तपर्यन्तमिदं ह्यनात्मा ||१२२||
माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् |
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ||१२३||
अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः |
यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ||१२४||
अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः |
अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः ||१२५||
यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु |
बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ||१२६||
यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन |
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ||१२७||
येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन |
अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम् ||१२८||
यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः |
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ||१२९||
अहङ्कारादिदेहान्ता विषयाश्च सुखादयः |
वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा ||१३०||
एषोऽन्तरात्मा पुरुषः पुराणो
निरन्तराखण्डसुखानुभूतिः |
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरन्ति ||१३१||
अत्रैव सत्त्वात्मनि धीगुहायां
अव्याकृताकाश उशत्प्रकाशः |
आकाश उच्चै रविवत्प्रकाशते
स्वतेजसा विश्वमिदं प्रकाशयन् ||१३२||
ज्ञाता मनोऽहंकृतिविक्रियाणां
देहेन्द्रियप्राणकृतक्रियाणाम् |
अयोऽग्निवत्ताननुवर्तमानो
न चेष्टते नो विकरोति किञ्चन ||१३३||
न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः |
विलीयमानेऽपि वपुष्यमुष्मि-
न्न लीयते कुम्भ इवाम्बरं स्वयम् ||१३४||
प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्निर्विशेषः |
विलसति परमात्मा जाग्रदादिष्ववस्था-
स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ||१३५||
नियमितमनसामुं त्वं स्वमात्मानमात्मन्
ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् |
जनिमरणतरंगापारसंसारसिन्धुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ||१३६||
अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः
प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः |
येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या
पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ||१३७||
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा |
ततोऽनर्थव्रातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ||१३८||
अखण्डनित्याद्वयबोधशक्त्या
स्फुरन्तमात्मानमनन्तवैभवम् |
समावृणोत्यावृतिशक्तिरेषा
तमोमयी राहुरिवार्कबिम्बम् ||१३९||
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति |
ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः
परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ||१४०||
महामोहग्राहग्रसनगलितात्मावगमनो
धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया |
अपारे संसरे विषयविषपूरे जलनिधौ
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ||१४१||
भानुप्रभासंजनिताभ्रपङ्क्तिः
भानुं तिरोधाय विजृम्भते यथा |
आत्मोदिताहंकृतिरात्मतत्त्वं
तथा तिरोधाय विजृम्भते स्वयम् ||१४२||
कवलितदिननार्थे दुर्दिने सान्द्रमेघैः
व्यथयति हिमझंझावायुरुग्रो यथैतान् |
अविरततमसात्मन्यावृते मूढबुद्धिं
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ||१४३||
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः |
याभ्यां विमोहितो देहं मत्वाऽत्मानं भ्रमत्ययम् ||१४४||
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओऽसवः शाखिकाः |
अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ||१४५||
अज्ञानमूलोऽयमनात्मबन्धो
नैसर्गिकोऽनादिरनन्त ईरितः |
जन्माप्ययव्याधिजरादिदुःख-
प्रवाहपातं जनयत्यमुष्य ||१४६||
नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः |
विवेकविज्ञानमहासिना विना
धातुः प्रसादेन शितेन मञ्जुना ||१४७||
श्रुतिप्रमाणैकमतेः स्वधर्म
निष्ठा तयैवात्मविशुद्धिरस्य |
विशुद्धबुद्धेः परमात्मवेदनं
तेनैव संसारसमूलनाशः ||१४८||
कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति |
निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् ||१४९||
तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् |
तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ||१५०||
पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः |
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ||१५१||
आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा |
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ||१५२||
मुञ्जादिषीकामिव दृश्यवर्गात्
प्रत्यञ्चमात्मानमसङ्गमक्रियम् |
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यः स मुक्तः ||१५३||
देहोऽयमन्नभवनोऽन्नमयस्तु कोशः
चान्नेन जीवति विनश्यति तद्विहीनः |
त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः ||१५४||
पूर्वं जनेरधिमृतेरपि नायमस्ति
जातक्षणः क्षणगुणोऽनियतस्वभावः |
नैको जडश्च घटवत्परिदृश्यमानः
स्वात्मा कथं भवति भावविकारवेत्ता ||१५५||
पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् |
तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ||१५६||
देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः |
सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः ||१५७||
शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः |
कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ||१५८||
त्वङ्मांसमेदोऽस्थिपुरीषराशा-
वहंमतिं मूढजनः करोति |
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थ भूतम् ||१५९||
देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदुषस्त्वहंधीः |
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ||१६०||
अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मांसमेदोऽस्थिपुरीषराशौ |
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्तिं परमां भजस्व ||१६१||
देहेन्द्रियादावसति भ्रमोदितां
विद्वानहंतां न जहाति यावत् |
तावन्न तस्यास्ति विमुक्तिवार्ता-
प्यस्त्वेष वेदान्तनयान्तदर्शी ||१६२||
छायाशरीरे प्रतिबिम्बगात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे |
यथात्मबुद्धिस्तव नास्ति काचि-
ज्जीवच्छरीरे च तथैव माऽस्तु ||१६३||
देहात्मधीरेव नृणामसद्धियां
जन्मादिदुःखप्रभवस्य बीजम् |
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा ||१६४||
कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं
प्राणो भवेत्प्राणमयस्तु कोशः ||
येनात्मवानन्नमयोऽनुपूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ||१६५||
नैवात्मापि प्राणमयो वायुविकारो
गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः |
यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ||१६६||
ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तुविकल्पहेतुः |
संज्ञादिभेदकलनाकलितो बलीयां-
स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः ||१६७||
पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया |
जाज्वल्यमानो बहुवासनेन्धनैः
मनोमयाग्निर्दहति प्रपञ्चम् ||१६८||
न ह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः |
तस्मिन्विनष्टे सकलं विनष्टं
विजृम्भितेऽस्मिन्सकलं विजृम्भते ||१६९||
स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या
भोक्त्रादिविश्वं मन एव सर्वम् |
तथैव जाग्रत्यपि नो विशेषः
तत्सर्वमेतन्मनसो विजृम्भणम् ||१७०||
सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किञ्चित्सकलप्रसिद्धेः |
अतो मनःकल्पित् एव पुंसः
संसार एतस्य न वस्तुतोऽस्ति ||१७१||
वायुनाऽऽनीयते मेधः पुनस्तेनैव नीयते |
मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ||१७२||
देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन |
वैरस्यमत्र विषवत् सुवुधाय पश्चाद्
एनं विमोचयति तन्मन एव बन्धात् ||१७३||
तस्मान्मनः कारणमस्य जन्तोः
बन्धस्य मोक्षस्य च वा विधाने |
बन्धस्य हेतुर्मलिनं रजोगुणैः
मोक्षस्य शुद्धं विरजस्तमस्कम् ||१७४||
विवेकवैराग्यगुणातिरेका-
च्छुद्धत्वमासाद्य मनो विमुक्त्यै |
भवत्यतो बुद्धिमतो मुमुक्षो-
स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ||१७५||
मनो नाम महाव्याघ्रो विषयारण्यभूमिषु |
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ||१७६||
मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः |
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम् ||१७७||
असंगचिद्रूपममुं विमोह्य
देहेन्द्रियप्राणगुणैर्निबद्ध्य |
अहंममेति भ्रमयत्यजस्रं
मनः स्वकृत्येषु फलोपभुक्तिषु ||१७८||
अध्यासदोषात्पुरुषस्य संसृतिः
अध्यासबन्धस्त्वमुनैव कल्पितः |
रजस्तमोदोषवतोऽविवेकिनो
जन्मादिदुःखस्य निदानमेतत् ||१७९||
अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः |
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ||१८०||
तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा |
विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ||१८१||
मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म |
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः ||१८२||
मनोमयो नापि भवेत्परात्मा
ह्याद्यन्तवत्त्वात्परिणामिभावात् |
दुःखात्मकत्वाद्विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः ||१८३||
बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः |
विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ||१८४||
अनुव्रजच्चित्प्रतिबिम्बशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः |
ज्ञानक्रियावानहमित्यजस्रं
देहेन्द्रियादिष्वभिमन्यते भृशम् ||१८५||
अनादिकालोऽयमहंस्वभावो
जीवः समस्तव्यवहारवोढा |
करोति कर्माण्यपि पूर्ववासनः
पुण्यान्यपुण्यानि च तत्फलानि ||१८६||
भुङ्क्ते विचित्रास्वपि योनिषु व्रज-
न्नायाति निर्यात्यध ऊर्ध्वमेषः |
अस्यैव विज्ञानमयस्य जाग्रत्-
स्वप्नाद्यवस्थाः सुखदुःखभोगः ||१८७||
देहादिनिष्ठाश्रमधर्मकर्म-
गुणाभिमानः सततं ममेति |
विज्ञानकोशोऽयमतिप्रकाशः
प्रकृष्टसान्निध्यवशात्परात्मनः |
अतो भवत्येष उपाधिरस्य
यदात्मधीः संसरति भ्रमेण ||१८८||
योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः |
कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ||१८९||
स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्म्यदोषेण परं मृषात्मनः |
सर्वात्मकः सन्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव ||१९०||
उपाधिसम्बन्धवशात्परात्मा
ह्युपाधिधर्माननुभाति तद्गुणः |
अयोविकारानविकारिवन्हिवत्
सदैकरूपोऽपि परः स्वभावात् ||१९१||
शिष्य उवाच |
भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः |
तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ||१९२||
अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः |
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ||१९३||
श्रीगुरुरुवाच |
सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु |
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ||१९४||
भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः |
न घटेतार्थसम्बन्धो नभसो नीलतादिवत् ||१९५||
स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य
प्रत्यग्बोधानन्दरूपस्य बुद्धेः |
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्यवस्तुस्वभावात् ||१९६||
यावद्भ्रान्तिस्तावदेवास्य सत्ता
मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् |
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् ||१९७||
अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते |
उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ||१९८||
प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति |
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ||१९९||
अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः |
यद्बुद्ध्युपाधिसम्बम्धात्परिकल्पितमात्मनि ||२००||
जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः |
सम्बन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ||२०१||
विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा |
ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ||२०२||
तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति |
ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ||२०३||
जलं पंकवदत्यन्तं पंकापाये जलं स्फुटम् |
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ||२०४||
असन्निवृत्तौ तु सदात्मना स्फुटं
प्रतीतिरेतस्य भवेत्प्रतीचः |
ततो निरासः करणीय एव
सदात्मनः साध्वहमादिवस्तुनः ||२०५||
अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् |
विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः |
दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ||२०६||
आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः |
पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं
सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ||२०७||
आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा |
स्वप्नजागरयोरीषदिष्टसंदर्शनाविना ||२०८||
नैवायमानन्दमयः परात्मा
सोपाधिकत्वात्प्रकृतेर्विकारात् |
कार्यत्वहेतोः सुकृतक्रियाया
विकारसंघातसमाहितत्वात् ||२०९||
पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः |
तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते ||२१०||
योऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः |
अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः |
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ||२११||
शिष्य उवाच |
मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु |
सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो |
विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ||२१२||
श्रीगुरुरुवाच |
सत्यमुक्तं त्वया विदन्निपुणोऽसि विचारणे |
अहमादिविकारास्ते तदभावोऽयमप्यनु ||२१३||
सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते |
तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया ||२१४||
तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते |
कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ||२१५||
असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते |
अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ||२१६||
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा |
नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्
नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ||२१७||
घटोदके बिम्बितमर्कबिम्ब-
मालोक्य मूढो रविमेव मन्यते |
तथा चिदाभासमुपाधिसंस्थं
भ्रान्त्याहमित्येव जडोऽभिमन्यते ||२१८||
घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं विनिरीक्ष्यतेऽर्कः |
तटस्थ एतत्त्रितयावभासकः
स्वयंप्रकाशो विदुषा यथा तथा ||२१९||
देहं धियं चित्प्रतिबिम्बमेवं
विसृज्य बुद्धौ निहितं गुहायाम् |
द्रष्टारमात्मानमखण्डबोधं
सर्वप्रकाशं सदसद्विलक्षणम् ||२२०||
नित्यं विभुं सर्वगतं सुसूक्ष्मं
अन्तर्बहिःशून्यमनन्यमात्मनः |
विज्ञाय सम्यङ्निजरूपमेतत्
पुमान् विपाप्मा विरजो विमृत्युः ||२२१||
विशोक आनन्दघनो विपश्चित्
स्वयं कुतश्चिन्न बिभेति कश्चित् |
नान्योऽस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः ||२२२||
ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् |
येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः ||२२३||
ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः |
विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ||२२४||
सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् |
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ||२२५||
सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् |
न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ||२२६||
यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् |
तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ||२२७||
मृत्कार्यभूतोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् |
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः ||२२८||
केनापि मृद्भिन्नतया स्वरूपं
घटस्य संदर्शयितुं न शक्यते |
अतो घटः कल्पित एव मोहा-
न्मृदेव सत्यं परमार्थभूतम् ||२२९||
सद्ब्रह्मकार्यं सकलं सदेवं
तन्मात्रमेतन्न ततोऽन्यदस्ति |
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत्प्रजल्पः ||२३०||
ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा |
तस्मादेतद्ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ||२३१||
सत्यं यदि स्याज्जगदेतदात्मनोऽ
न तत्त्वहानिर्निगमाप्रमाणता |
असत्यवादित्वमपीशितुः स्या-
न्नैतत्त्रयं साधु हितं महात्मनाम् ||२३२||
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः |
न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् ||२३३||
यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् |
यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा ||२३४||
अतः पृथङ्नास्ति जगत्परात्मनः
पृथक्प्रतीतिस्तु मृषा गुणादिवत् |
आरोपितस्यास्ति किमर्थवत्ताऽ-
धिष्ठानमाभाति तथा भ्रमेण ||२३५||
भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः |
इदंतया ब्रह्म सदैव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ||२३६||
अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनं निरञ्जनम् |
प्राशान्तमाद्यन्तविहीनमक्रियं
निरन्तरानन्दरसस्वरूपम् ||२३७||
निरस्तमायाकृतसर्वभेदं
नित्यं सुखं निष्कलमप्रमेयम् |
अरूपमव्यक्तमनाख्यमव्ययं
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ||२३८||
ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् |
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ||२३९||
अहेयमनुपादेयं मनोवाचामगोचरम् |
अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः ||२४०||
तत्त्वंपदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदीत्थम् |
श्रुत्या तयोस्तत्त्वमसीति सम्यग्
एकत्वमेव प्रतिपाद्यते मुहुः ||२४१-
एक्यं तयोर्लक्षितयोर्न वाच्ययोः
निगद्यतेऽन्योन्यविरुद्धधर्मिणोः |
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ||२४२||
तयोर्विरोधोऽयमुपाधिकल्पितो
न वास्तवः कश्चिदुपाधिरेषः |
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्चकोशम् ||२४३||
एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः |
राज्यं नरेन्द्रस्य भटस्य खेटकः
तयोरपोहे न भटो न राजा ||२४४||
अथात आदेश इति श्रुतिः स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् |
श्रुतिप्रमाणानुगृहीतबोधा-
त्तयोर्निरासः करणीय एव ||२४५||
नेदं नेदं कल्पितत्वान्न सत्यं
रज्जुदृष्टव्यालवत्स्वप्नवच्च |
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर्यः ||२४६||
ततस्तु तौ लक्षणया सुलक्ष्यौ
तयोरखण्डैकरसत्वसिद्धये |
नालं जहत्या न तथाऽजहत्या
किन्तूभयार्थात्मिकयैव भाव्यम् ||२४७||
स देवदत्तोऽयमितीह चैकता
विरुद्धधर्मांशमपास्य कथ्यते |
यथा तथा तत्त्वमसीतिवाक्ये
विरुद्धधर्मानुभयत्र हित्वा ||२४८||
संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः |
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोरैक्यमखण्डभावः ||२४९||
अस्थूलमित्येतदसन्निरस्य
सिद्धं स्वतो व्योमवदप्रतर्क्यम् |
अतो मृषामात्रमिदं प्रतीतं
जहीहि यत्स्वात्मतया गृहीतम् |
ब्रह्माहमित्येव विशुद्धबुद्ध्या
विद्धि स्वमात्मानमखण्डबोधम् ||२५०||
मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् |
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ||२५१||
निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः |
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ||२५२||
यत्र भ्रान्त्या कल्पित तद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् |
स्वप्ने नष्टं स्वप्नविश्वं विचित्रं
स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ||२५३||
जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोषवर्जितम् |
देशकालविषयातिवर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ||२५४||
यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः |
शुद्धचिद्घनमनादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि ||२५५||
षड्भिरूर्मिभिरयोगि योगिहृद्-
भावितं न करणैर्विभावितम् |
बुद्ध्यवेद्यमनवद्यमस्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ||२५६||
भ्रान्तिकल्पितजगत्कलाश्रयं
स्वाश्रयं च सदसद्विलक्षणम् |
निष्कलं निरुपमानवद्धि यद्
ब्रह्म तत्त्वमसि भावयात्मनि ||२५७||
जन्मवृद्धिपरिणत्यपक्षय-
व्याधिनाशनविहीनमव्ययम् |
विश्वसृष्ट्यवविघातकारणं
ब्रह्म तत्त्वमसि भावयात्मनि ||२५८||
अस्तभेदमनपास्तलक्षणं
निस्तरङ्गजलराशिनिश्चलम् |
नित्यमुक्तमविभक्तमूर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ||२५९||
एकमेव सदनेककारणं
कारणान्तरनिरास्यकारणम् |
कार्यकारणविलक्षणं स्वयं
ब्रह्म तत्त्वमसि भावयात्मनि ||२६०||
निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम् |
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि ||२६१||
यद्विभाति सदनेकधा भ्रमा-
न्नामरूपगुणविक्रियात्मना |
हेमवत्स्वयमविक्रियं सदा
ब्रह्म तत्त्वमसि भावयात्मनि ||२६२||
यच्चकास्त्यनपरं परात्परं
प्रत्यगेकरसमात्मलक्षणम् |
सत्यचित्सुखमनन्तमव्ययं
ब्रह्म तत्त्वमसि भावयात्मनि ||२६३||
उक्तमर्थमिममात्मनि स्वयं
भावयेत्प्रथितयुक्तिभिर्धिया |
संशयादिरहितं कराम्बुवत्
तेन तत्त्वनिगमो भविष्यति ||२६४||
सम्बोधमात्रं परिशुद्धतत्त्वं
विज्ञाय संघे नृपवच्च सैन्ये |
तदाश्रयः स्वात्मनि सर्वदा स्थितो
विलापय ब्रह्मणि विश्वजातम् ||२६५||
बुद्धौ गुहायां सदसद्विलक्षणं
ब्रह्मास्ति सत्यं परमद्वितीयम् |
तदात्मना योऽत्र वसेद्गुहायां
पुनर्न तस्याङ्गगुहाप्रवेशः ||२६६||
ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा
कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः |
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना-
न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ||२६७||
अहं ममेति यो भावो देहाक्षादावनात्मनि |
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ||२६८||
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् |
सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि ||२६९||
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् |
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ||२७०||
लोकवासनया जन्तोः शास्त्रवासनयापि च |
देहवासनया ज्ञानं यथावन्नैव जायते ||२७१
संसारकारागृहमोक्षमिच्छो-
रयोमयं पादनिबन्धशृंखलम् |
वदन्ति तज्ज्ञाः पटु वासनात्रयं
योऽस्माद्विमुक्तः समुपैति मुक्तिम् ||२७२||
जलादिसंसर्गवशात्प्रभूत-
दुर्गन्धधूताऽगरुदिव्यवासना |
संघर्षणेनैव विभाति सम्य-
ग्विधूयमाने सति बाह्यगन्धे ||२७३||
अन्तःश्रितानन्तदूरन्तवासना-
धूलीविलिप्ता परमात्मवासना |
प्रज्ञातिसंघर्षणतो विशुद्धा
प्रतीयते चन्दनगन्धवत् स्फुटम् ||२७४||
अनात्मवासनाजालैस्तिरोभूतात्मवासना |
नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ||२७५||
यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाम् |
निःशेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या ||२७६||
स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः |
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ||२७७||
तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति |
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ||२७८||
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः |
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ||२७९||
नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् |
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ||२८०||
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः |
क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ||२८१||
अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः |
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ||२८२||
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः |
ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ||२८३||
अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि |
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ||२८४||
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता |
तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु ||२८५||
निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः |
क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ||२८६||
मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः |
त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ||२८७||
घटाकाशं महाकाश इवात्मानं परात्मनि |
विलाप्याखण्डभावेन तूष्णी भव सदा मुने ||२८८||
स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना |
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ||२८९||
चिदात्मनि सदानन्दे देहारूढामहंधियम् |
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ||२९०||
यत्रैष जगदाभासो दर्पणान्तः पुरं यथा |
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ||२९१||
यत्सत्यभूतं निजरूपमाद्यं
चिदद्वयानन्दमरूपमक्रियम् |
तदेत्य मिथ्यावपुरुत्सृजेत
शैलूषवद्वेषमुपात्तमात्मनः ||२९२||
सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात् |
जानाम्यहं सर्वमिति प्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ||२९३||
अहंपदार्थस्त्वहमादिसाक्षी
नित्यं सुषुप्तावपि भावदर्शनात् |
ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ||२९४||
विकारिणां सर्वविकारवेत्ता
नित्याविकारो भवितुं समर्हति |
मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनर्दृष्टमसत्त्वमेतयोः ||२९५||
अतोऽभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्यपि बुद्धिकल्पिते |
कालत्रयाबाध्यमखण्डबोधं
ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ||२९६||
त्यजाभिमानं कुलगोत्रनाम-
रूपाश्रमेष्वार्द्रशवाश्रितेषु |
लिङ्गस्य धर्मानपि कर्तृतादिं-
स्त्यक्ता भवाखण्डसुखस्वरूपः ||२९७||
सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः |
तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः ||२९८||
यावत्स्यात्स्वस्य सम्बन्धोऽहंकारेण दुरात्मना |
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ||२९९||
अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते |
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ||३००||
यो वा पुरे सोऽहमिति प्रतीतो
बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया |
तस्यैव निःशेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ||३०१||
ब्रह्मानन्दनिधिर्महाबलवताऽहंकारघोराहिना
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः
विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं
निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः ||३०२||
यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे |
कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै ||३०३||
अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या |
प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् ||३०४||
अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा
विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि |
यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला
प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ||३०५||
सदैकरूपस्य चिदात्मनो विभो-
रानन्दमूर्तेरनवद्यकीर्तेः |
नैवान्यथा क्वाप्यविकारिणस्ते
विनाहमध्यासममुष्य संसृतिः ||३०६||
तस्मादहंकारमिमं स्वशत्रुं
भोक्तुर्गले कण्टकवत्प्रतीतम् |
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ||३०७||
ततोऽहमादेर्विनिवर्त्य वृत्तिं
संत्यक्तरागः परमार्थलाभात् |
तूष्णीं समास्स्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ||३०८||
समूलकृत्तोऽपि महानहं पुनः
व्युल्लेखितः स्याद्यदि चेतसा क्षणम् |
संजीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ||३०९||
निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया |
स एव संजीवनहेतुरस्य
प्रक्षीणजम्बीरतरोरिवाम्बु ||३१०||
देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् |
अतोऽर्थसन्धानपरत्वमेव
भेदप्रसक्त्या भवबन्धहेतुः ||३११||
कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते |
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ||३१२||
वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना |
वर्धते सर्वथा पुंसः संसारो न निवर्तते ||३१३||
संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः |
वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ||३१४||
ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः |
त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ||३१५||
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः |
सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ||३१६||
क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः |
वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ||३१७||
सद्वासनास्फूर्तिविजृम्भणे सति
ह्यसौ विलीनाप्यहमादिवासना |
अतिप्रकृष्टाप्यरुणप्रभायां
विलीयते साधु यथा तमिस्रा ||३१८||
तमस्तमःकार्यमनर्थजालं
न दृश्यते सत्युदिते दिनेशे |
तथाऽद्वयानन्दरसानुभूतौ
नैवास्ति बन्धो न च दुःखगन्धः ||३१९||
दृश्यं प्रतीतं प्रविलापयन्सन्
सन्मात्रमानन्दघनं विभावयन् |
समाहितः सन्बहिरन्तरं वा
कालं नयेथाः सति कर्मबन्धे ||३२०||
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन |
प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ||३२१||
न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः |
ततो मोहस्ततोऽहंधीस्ततो बन्धस्ततो व्यथा ||३२२||
विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः |
विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ||३२३||
यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति |
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ||३२४||
लक्ष्यच्युतं चेद्यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत्ततस्ततः |
प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा ||३२५||
विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् |
सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ||३२६||
अतः प्रमादान्न परोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ |
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः ||३२७||
ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः |
पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ||३२८||
संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् |
जीवतो यस्य कैवल्यं विदेहे स च केवलः |
यत्किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ||३२९||
यदा कदा वापि विपश्चिदेष
ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् |
पश्यत्यथामुष्य भयं तदैव
यद्वीक्षितं भिन्नतया प्रमादात् ||३३०||
श्रुतिस्मृतिन्यायशतैर्निषिद्धे
दृश्येऽत्र यः स्वात्ममतिं करोति |
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ||३३१||
सत्याभिसंधानरतो विमुक्तो
महत्त्वमात्मीयमुपैति नित्यम् |
मिथ्याभिसन्धानरतस्तु नश्येद्
दृष्टं तदेतद्यदचौरचौरयोः ||३३२||
यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत्
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति परमविद्याकार्यदुःखं प्रतीतम् ||३३३||
बाह्यानुसन्धिः परिवर्धयेत्फलं
दुर्वासनामेव ततस्ततोऽधिकाम् |
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मानुसन्धिं विदधीत नित्यम् ||३३४||
बाह्ये निरुद्धे मनसः प्रसन्नता
मनःप्रसादे परमात्मदर्शनम् |
तस्मिन्सुदृष्टे भवबन्धनाशो
बहिर्निरोधः पदवी विमुक्तेः ||३३५||
कः पण्डितः सन्सदसद्विवेकी
श्रुतिप्रमाणः परमार्थदर्शी |
जानन्हि कुर्यादसतोऽवलम्बं
स्वपातहेतोः शिशुवन्मुमुक्षुः ||३३६||
देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्यभावः |
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ||३३७||
अन्तर्बहिः स्वं स्थिरजङ्गमेषु
ज्ञात्वाऽऽत्मनाधारतया विलोक्य |
त्यक्ताखिलोपाधिरखण्डरूपः
पूर्णात्मना यः स्थित एष मुक्तः ||३३८||
सर्वात्मना बन्धविमुक्तिहेतुः
सर्वात्मभावान्न परोऽस्ति कश्चित् |
दृश्याग्रहे सत्युपपद्यतेऽसौ
सर्वात्मभावोऽस्य सदात्मनिष्ठया ||३३९||
दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः |
संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः
तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ||३४०||
सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः |
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ||३४१||
आरूढशक्तेरहमो विनाशः
कर्तुन्न शक्य सहसापि पण्डितैः |
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तानन्तराऽनन्तभवा हि वासनाः ||३४२||
अहंबुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् |
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ||३४३||
विक्षेपशक्तिविजयो विषमो विधातुं
निःशेषमावरणशक्तिनिवृत्त्यभावे |
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
नश्येत्तदावरणमात्मनि च स्वभावात् |
निःसंशयेन भवति प्रतिबन्धशून्यो
विक्षेपणं न हि तदा यदि चेन्मृषार्थे ||३४४||
सम्यग्विवेकः स्फुटबोधजन्यो
विभज्य दृग्दृश्यपदार्थतत्त्वम् |
छिनत्ति मायाकृतमोहबन्धं
यस्माद्विमुक्तस्तु पुनर्न संसृतिः ||३४५||
परावरैकत्वविवेकवन्हिः
दहत्यविद्यागहनं ह्यशेषम् |
किं स्यात्पुनः संसरणस्य बीजं
अद्वैतभावं समुपेयुषोऽस्य ||३४६||
आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः |
मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ||३४७||
एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् |
तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ||३४८||
अयोऽग्नियोगादिव सत्समन्वयान्
मात्रादिरूपेण विजृम्भते धीः |
तत्कार्यमेतद्द्वितयं यतो मृषा
दृष्टं भ्रमस्वप्नमनोरथेषु ||३४९||
ततो विकाराः प्रकृतेरहंमुखा
देहावसाना विषयाश्च सर्वे |
क्षणेऽन्यथाभावितया ह्यमीषा-
मसत्त्वमात्मा तु कदापि नान्यथा ||३५०||
नित्याद्वयाखण्डचिदेकरूपो
बुद्ध्यादिसाक्षी सदसद्विलक्षणः |
अहंपदप्रत्ययलक्षितार्थः
प्रत्यक् सदानन्दघनः परात्मा ||३५१||
इत्थं विपश्चित्सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या |
ज्ञात्वा स्वमात्मानमखण्डबोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति ||३५२||
अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा |
समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ||३५३||
त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे |
प्रविलसति समाधावस्य सर्वो विकल्पो
विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ||३५४||
शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् |
तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ||३५५||
समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतः स्वमहं चिदात्मनि |
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारोक्ष्यकथाभिधायिनः ||३५६||
उपाधिभेदात्स्वयमेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः |
तस्मादुपाधेर्विलयाय विद्वान्
वसेत्सदाऽकल्पसमाधिनिष्ठया ||३५७||
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया |
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ||३५८||
क्रियान्तरासक्तिमपास्य कीटको
ध्यायन्नलित्वं ह्यलिभावमृच्छति |
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ||३५९||
अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति |
समाधिनात्यन्तसुसूक्ष्मवृत्या
ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ||३६०||
यथा सुवर्णं पुटपाकशोधितं
त्यक्त्वा मलं स्वात्मगुणं समृच्छति |
तथा मनः सत्त्वरजस्तमोमलं
ध्यानेन सन्त्यज्य समेति तत्त्वम् ||३६१||
निरन्तराभ्यासवशात्तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा |
तदा समाधिः सविकल्पवर्जितः
स्वतोऽद्वयानन्दरसानुभावकः ||३६२||
समाधिनाऽनेन समस्तवासना-
ग्रन्थेर्विनाशोऽखिलकर्मनाशः |
अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात् ||३६३||
श्रुतेः शतगुणं विद्यान्मननं मननादपि |
निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ||३६४||
निर्विकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वमवगम्यते ध्रुवम् |
नान्यथा चलतया मनोगतेः
प्रत्ययान्तरविमिश्रितं भवेत् ||३६५||
अतः समाधत्स्व यतेन्द्रियः सन्
निरन्तरं शान्तमनाः प्रतीचि |
विध्वंसय ध्वान्तमनाद्यविद्यया
कृतं सदेकत्वविलोकनेन ||३६६||
योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः |
निराशा च निरीहा च नित्यमेकान्तशीलता ||३६७||
एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना |
तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ||३६८||
वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि |
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व ||३६९||
देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः |
यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः ||३७०||
तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् |
संदृश्यते सदानन्दरसानुभवविप्लवः ||३७१||
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते |
त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया ||३७२||
बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः |
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ||३७३||
वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् |
विमुक्तिसौधाग्रलताधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति ||३७४||
अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः |
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः ||३७५||
वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् |
एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ||३७६||
आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति-
स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः |
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ||३७७||
लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् |
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् ||३७८||
अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् |
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ||३७९||
एष स्वयंज्योतिरशेषसाक्षी
विज्ञानकोशो विलसत्यजस्रम् |
लक्ष्यं विधायैनमसद्विलक्षण-
मखण्डवृत्त्याऽऽत्मतयाऽनुभावय ||३८०||
एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया |
उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ||३८१||
अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् |
उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ||३८२||
विशुद्धमन्तःकरणं स्वरूपे
निवेश्य साक्षिण्यवबोधमात्रे |
शनैः शनैर्निश्चलतामुपानयन्
पूर्णं स्वमेवानुविलोकयेत्ततः ||३८३||
देहेन्द्रियप्राणमनोऽहमादिभिः
स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः |
विमुक्तमात्मानमखण्डरूपं
पूर्णं महाकाशमिवावलोकयेत् ||३८४||
घटकलशकुसूलसूचिमुख्यैः
गगनमुपाधिशतैर्विमुक्तमेकम् |
भवति न विविधं तथैव शुद्धं
परमहमादिविमुक्तमेकमेव ||३८५||
ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः |
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ||३८६||
यत्र भ्रान्त्या कल्पितं तद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् |
भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं
रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ||३८७||
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः |
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ||३८८||
अन्तः स्वयं चापि बहिः स्वयं च
स्वयं पुरस्तात् स्वयमेव पश्चात् |
स्वयं ह्यावाच्यां स्वयमप्युदीच्यां
तथोपरिष्टात्स्वयमप्यधस्तात् ||३८९||
तरङ्गफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा |
चिदेव देहाद्यहमन्तमेतत्
सर्वं चिदेवैकरसं विशुद्धम् ||३९०||
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः |
पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं
वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ||३९१||
क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः |
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ||३९२||
आकाशवन्निर्मलनिर्विकल्पं
निःसीमनिःस्पन्दननिर्विकारम् |
अन्तर्बहिःशून्यमनन्यमद्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम् ||३९३||
वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं
ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः |
ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् ||३९४||
जहि मलमयकोशेऽहंधियोत्थापिताशां
प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् |
निगमगदितकीर्तिं नित्यमानन्दमूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ||३९५||
शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः |
यदात्मानं शुद्धं कलयति शिवाकारमचलम्
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ||३९६||
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः |
स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ||३९७||
समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे |
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते यतः ||३९८||
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि |
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ||३९९||
द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि |
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ||४००||
कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि |
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ||४०१||
तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् |
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ||४०२||
एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् |
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ||४०३||
न ह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे |
कालत्रये नाप्यहिरीक्षितो गुणे
न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ||४०४||
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः |
इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ||४०५||
अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् |
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ||४०६||
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन |
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ||४०७||
किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् |
निरवधिगगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ||४०८||
प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसम्बन्धदूरम् |
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ||४०९||
अजरममरमस्ताभाववस्तुस्वरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् |
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ||४१०||
समाहितान्तःकरणः स्वरूपे
विलोकयात्मानमखण्डवैभवम् |
विच्छिन्द्धि बन्धं भवगन्धगन्धितं
यत्नेन पुंस्त्वं सफलीकुरुष्व ||४११-
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् |
भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ||४१२||
छायेव पुंसः परिदृश्यमान्-
माभासरूपेण फलानुभूत्या |
शरीरमाराच्छववन्निरस्तं
पुनर्न संधत्त इदं महात्मा ||४१३||
सततविमलबोधानन्दरूपं समेत्य
त्यज जडमलरूपोपाधिमेतं सुदूरे |
अथ पुनरपि नैष स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं कल्पते कुत्सनाय ||४१४||
समूलमेतत्परिदाह्य वह्नौ
सदात्मनि ब्रह्मणि निर्विकल्पे |
ततः स्वयं नित्यविशुद्धबोधा-
नन्दात्मना तिष्ठति विद्वरिष्ठः ||४१५||
प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक् |
न तत्पुनः पश्यति तत्त्ववेत्ता-
| अऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः ||४१६||
अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः |
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ||४१७||
संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः |
बहिरन्तः सदानन्दरसास्वादनमात्मनि ||४१८||
वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् |
स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ||४१९||
यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् |
निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ||४२०||
दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् |
यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् |
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ||४२१||
विद्याफलं स्यादसतो निवृत्तिः
प्रवृत्तिरज्ञानफलं तदीक्षितम् |
तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ
नोचेद्विदां दृष्टफलं किमस्मात् ||४२२||
अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः |
अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ||४२३||
वासनानुदयो भोग्ये वैरागस्य तदावधिः |
अहंभावोदयाभावो बोधस्य परमावधिः |
लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा ||४२४||
ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी-
रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् |
स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी-
रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ||४२५||
स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते |
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ||४२६||
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी |
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते |
सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ||४२७||
यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः |
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ||४२८||
लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः |
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ||४२९||
शान्तसंसारकलनः कलावानपि निष्कलः |
यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते ||४३०||
वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि |
अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ||४३१||
अतीताननुसन्धानं भविष्यदविचारणम् |
औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ||४३२||
गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे |
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ||४३३||
इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि |
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ||४३४||
ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः |
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ||४३५||
देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः |
औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ||४३६||
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् |
भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः ||४३७||
देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके |
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ||४३८||
न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः |
प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ||४३९||
साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः |
समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ||४४०||
यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ |
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः ||४४१||
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः |
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ||४४२||
प्राचीनवासनावेगादसौ संसरतीति चेत् |
न सदेकत्वविज्ञानान्मन्दी भवति वासना ||४४३||
अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि |
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ||४४४||
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते |
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ||४४५||
सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते |
फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ||४४६||
अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् |
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ||४४७||
यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् |
सुप्तोत्थितस्य किन्तत्स्यात्स्वर्गाय नरकाय वा ||४४८||
स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा |
न श्लिष्यति च यक्किञ्चित्कदाचिद्भाविकर्मभिः ||४४९||
न नभो घटयोगेन सुरागन्धेन लिप्यते |
तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ||४५०||
ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति |
अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ||४५१||
व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ |
न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् ||४५२||
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्यग्ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् |
ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ||४५३||
उपाधितादात्म्यविहीनकेवल-
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः |
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसंबन्धकथेव जाग्रतः ||४५४||
न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे |
करोत्यहन्तां ममतानिदन्तां
किन्तु स्वयं तिष्ठति जागरेण ||४५५||
न तस्य मिथ्यार्थसमर्थनेच्छा
न संग्रहस्तज्जगतोऽपि दृष्टः |
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ||४५६||
तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते |
स्मृतिर्यथा स्वप्नविलोकितार्थे
तथा विदः प्राशनमोचनादौ ||४५७||
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् |
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ||४५८||
अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् |
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ||४५९||
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः |
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ||४६०||
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि |
अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः |
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ||४६१||
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि |
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ||४६२||
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः |
न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ||४६३||
परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६४||
सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६५||
प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६६||
अहेयमनुपादेयमनादेयमनाश्रयम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६७||
निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६८||
अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६९||
सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४७०||
निरस्तरागा विनिरस्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः |
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृतिमात्मयोगात् ||४७१||
भवानपीदं परतत्त्वमात्मनः
स्वरूपमानन्दघनं विचार्य |
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः ||४७२||
समाधिना साधुविनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा |
निःसंशयं सम्यगवेक्षितश्चे-
च्छ्रुतः पदार्थो न पुनर्विकल्प्यते ||४७३||
स्वस्याविद्याबन्धसम्बन्धमोक्षा-
त्सत्यज्ञानानन्दरूपात्मलब्धौ |
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ||४७४||
बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः |
स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ||४७५||
तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा |
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ||४७६||
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् |
संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि ||४७७||
वेदान्तसिद्धान्तनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च |
अखण्डरूपस्थितिरेव मोक्षो
ब्रह्माद्वितीये श्रुतयः प्रमाणम् ||४७८||
इति गुरुवचनाच्छ्रुतिप्रमाणात्
परमवगम्य सतत्त्वमात्मयुक्त्या |
प्रशमितकरणः समाहितात्मा
क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् ||४७९||
किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् |
उत्थाय परमानन्दादिदं वचनमब्रवीत् ||४८०||
बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोरेकतयाऽधिगत्या |
इदं न जानेऽप्यनिदं न जाने
किं वा कियद्वा सुखमस्त्यपारम् ||४८१||
वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते
स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् |
अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो
यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ||४८२||
क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् |
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ||४८३||
किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् |
अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ||४८४||
न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् |
स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ||४८५||
नमो नमस्ते गुरवे महात्मने
विमुक्तसङ्गाय सदुत्तमाय |
नित्याद्वयानन्दरसस्वरूपिणे
भूम्ने सदाऽपारदयाम्बुधाम्ने ||४८६||
यत्कटाक्षशशिसान्द्रचन्द्रिका-
पातधूतभवतापजश्रमः |
प्राप्तवानहमखण्डवैभवा-
नन्दमात्मपदमक्षयं क्षणात् ||४८७||
धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् |
नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ||४८८||
असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः |
प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः ||४८९||
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः |
शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ||४९०||
द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् |
नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ||४९१||
नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् |
बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ||४९२||
निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् |
नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ||४९३||
नारायणोऽहं नरकान्तकोऽहं
पुरान्तकोऽहं पुरुषोऽहमीशः |
अखण्डबोधोऽहमशेषसाक्षी
निरीश्वरोऽहं निरहं च निर्ममः ||४९४||
सर्वेषु भूतेष्वहमेव संस्थितो
ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् |
भोक्ता च भोग्यं स्वयमेव सर्वं
यद्यत्पृथग्दृष्टमिदन्तया पुरा ||४९५||
मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः |
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ||४९६||
स्थुलादिभावा मयि कल्पिता भ्रमा-
दारोपितानुस्फुरणेन लोकैः |
काले यथा कल्पकवत्सराय-
णर्त्वा दयो निष्कलनिर्विकल्पे ||४९७||
आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढैरतिदोषदूषितैः |
नार्द्रिकरोत्यूषरभूमिभागं
मरीचिकावारि महाप्रवाहः ||४९८||
आकाशवल्लेपविदूरगोऽहं
आदित्यवद्भास्यविलक्षणोऽहम् |
अहार्यवन्नित्यविनिश्चलोऽहं
अम्भोधिवत्पारविवर्जितोऽहम् ||४९९||
न मे देहेन सम्बन्धो मेघेनेव विहायसः |
अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ||५००||
उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते |
स एव जीर्यन् म्रियते सदाहं
कुलाद्रिवन्निश्चल एव संस्थितः ||५०१||
न मे प्रवृत्तिर्न च मे निवृत्तिः
सदैकरूपस्य निरंशकस्य |
एकात्मको यो निविडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते ||५०२||
पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः |
कुतो ममाखण्डसुखानुभूतेः
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ||५०३||
छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा |
न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ||५०४||
न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् |
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ||५०५||
रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा दाहनियामकत्वम् |
रज्जोर्यथाऽऽरोपितवस्तुसङ्गः
तथैव कूटस्थचिदात्मनो मे ||५०६||
कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम् |
द्रष्टापि वा दर्शयितापि नाहं
सोऽहं स्वयंज्योतिरनीदृगात्मा ||५०७||
चलत्युपाधौ प्रतिबिम्बलौल्य-
मौपाधिकं मूढधियो नयन्ति |
स्वबिम्बभूतं रविवद्विनिष्क्रियं
कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ||५०८||
जले वापि स्थले वापि लुठत्वेष जडात्मकः |
नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ||५०९||
कर्तृत्वभोक्तृत्वखलत्वमत्तता-
जडत्वबद्धत्वविमुक्ततादयः |
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ||५१०||
सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि |
किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति ||५११||
अव्यक्तादिस्थूलपर्यन्तमेतत्
विश्वं यत्राभासमात्रं प्रतीतम् |
व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ||५१२||
सर्वाधारं सर्ववस्तुप्रकाशं
सर्वाकारं सर्वगं सर्वशून्यम् |
नित्यं शुद्धं निश्चलं निर्विकल्पं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ||५१३||
यत्प्रत्यस्ताशेषमायाविशेषं
प्रत्यग्रूपं प्रत्ययागम्यमानम् |
सत्यज्ञानानन्तमानन्दरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ||५१४||
निष्क्रियोऽस्म्यविकारोऽस्मि
निष्कलोऽस्मि निराकृतिः |
निर्विकल्पोऽस्मि नित्योऽस्मि
निरालम्बोऽस्मि निर्द्वयः ||५१५||
सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः |
केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः ||५१६||
स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात् |
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ||५१७||
महास्वप्ने मायाकृतजनिजरामृत्युगहने
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् |
अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया
प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ||५१८||
नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः |
यदेतद्विश्वरूपेण राजते गुरुराज ते ||५१९||
इति नतमवलोक्य शिष्यवर्यं
समधिगतात्मसुखं प्रबुद्धतत्त्वम् |
प्रमुदितहृदयं स देशिकेन्द्रः
पुनरिदमाह वचः परं महात्मा ||५२०||
ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः
पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि |
रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ||५२१||
कस्तां परानन्दरसानुभूति-
मृत्सृज्य शून्येषु रमेत विद्वान् |
चन्द्रे महाह्लादिनि दीप्यमाने
चित्रेन्दुमालोकयितुं क इच्छेत् ||५२२||
असत्पदार्थानुभवेन किञ्चिन्
न ह्यस्ति तृप्तिर्न च दुःखहानिः |
तदद्वयानन्दरसानुभूत्या
तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ||५२३||
स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् |
स्वानन्दमनुभुञ्जानः कालं नय महामते ||५२४||
अखण्डबोधात्मनि निर्विकल्पे
विकल्पनं व्योम्नि पुरप्रकल्पनम् |
तदद्वयानन्दमयात्मना सदा
शान्तिं परामेत्य भजस्व मौनम् ||५२५||
तूष्णीमवस्था परमोपशान्तिः
बुद्धेरसत्कल्पविकल्पहेतोः |
ब्रह्मात्मनो ब्रह्मविदो महात्मनो
यत्राद्वयानन्दसुखं निरन्तरम् ||५२६||
नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् |
विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ||५२७||
गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा |
यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ||५२८||
न देशकालासनदिग्यमादि-
लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः |
संसिद्धतत्त्वस्य महात्मनोऽस्ति
स्ववेदने का नियमाद्यवस्था ||५२९||
घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते |
विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ||५३०||
अयमात्मा नित्यसिद्धः प्रमाणे सति भासते |
न देशं नापि कालं न शुद्धिं वाप्यपेक्षते ||५३१||
देवदत्तोऽहमोत्येतद्विज्ञानं निरपेक्षकम् |
तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ||५३२||
भानुनेव जगत्सर्वं भासते यस्य तेजसा |
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ||५३३||
वेदशास्त्रपुराणानि भूतानि सकलान्यपि |
येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् ||५३४||
एष स्वयंज्योतिरनन्तशक्तिः
आत्माऽप्रमेयः सकलानुभूतिः |
यमेव विज्ञाय विमुक्तबन्धो
जयत्ययं ब्रह्मविदुत्तमोत्तमः ||५३५||
न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च |
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः ||५३६||
क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः |
तथैव विद्वान् रमते निर्ममो निरहं सुखी ||५३७||
चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु
स्वातन्त्र्येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने |
वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही
संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ||५३८||
विमानमालम्ब्य शरीरमेतद्
भुनक्त्यशेषान्विषयानुपस्थितान् |
परेच्छया बालवदात्मवेत्ता
योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ||५३९||
दिगम्बरो वापि च साम्बरो वा
त्वगम्बरो वापि चिदम्बरस्थः |
उन्मत्तवद्वापि च बालवद्वा
पिशाचवद्वापि चरत्यवन्याम् ||५४०||
कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः |
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ||५४१||
क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः |
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः
चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ||५४२||
निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः |
नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ||५४३||
अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि |
शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ||५४४||
अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् |
प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ||५४५||
स्थूलादिसम्बन्धवतोऽभिमानिनः
सुखं च दुःखं च शुभाशुभे च |
विध्वस्तबन्धस्य सदात्मनो मुनेः
कुतः शुभं वाऽप्यशुभं फलं वा ||५४६||
तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः |
ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् ||५४७||
तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् |
पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ||५४८||
अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति |
इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना ||५४९||
स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् |
दैवेन नीयते देहो यथाकालोपभुक्तिषु ||५५०||
प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः |
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्पविकल्पशून्यः ||५५१||
नैवेन्द्रियाणि विषयेषु नियुंक्त एष
नैवापयुंक्त उपदर्शनलक्षणस्थः |
नैव क्रियाफलमपीषदवेक्षते स
स्वानन्दसान्द्ररसपानसुमत्तचित्तः ||५५२||
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना |
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ||५५३||
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः |
उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ||५५४||
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् |
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ||५५५||
यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् |
ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् ||५५६||
सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णाऽद्वयानन्दमयात्मना सदा |
न देशकालाद्युचितप्रतीक्षा
त्वङ्मांसविट्पिण्डविसर्जनाय ||५५७||
देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः |
अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ||५५८||
कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे |
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ||५५९||
पत्रस्य पुष्पस्य फलस्य नाशवद्-
देहेन्द्रियप्राणधियां विनाशः |
नैवात्मनः स्वस्य सदात्मकस्या-
नन्दाकृतेर्वृक्षवदस्ति चैषः ||५६०||
प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् |
अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ||५६१||
अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः |
प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ||५६२||
पाषाणवृक्षतृणधान्यकडङ्कराद्या
दग्धा भवन्ति हि मृदेव यथा तथैव |
देहेन्द्रियासुमन आदि समस्तदृश्यं
ज्ञानाग्निदग्धमुपयाति परात्मभावम् ||५६३||
विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि |
तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ||५६४||
घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् |
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ||५६५||
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले |
संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ||५६६||
एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् |
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ||५६७||
सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः |
अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ||५६८||
मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः |
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ||५६९||
आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे |
नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् |
यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ||५७०||
बन्धञ्च मोक्षञ्च मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयन्ति |
दृगावृतिं मेघकृतां यथा रवौ
यतोऽद्वयाऽसङ्गचिदेतदक्षरम् ||५७१||
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि |
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ||५७२||
अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि |
निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने |
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ||५७३||
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः |
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ||५७४||
सकलनिगमचूडास्वान्तसिद्धान्तरूपं
परमिदमतिगुह्यं दर्शितं ते मयाद्य |
अपगतकलिदोषं कामनिर्मुक्तबुद्धिं
स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम् ||५७५||
इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः |
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ||५७६||
गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः |
पावयन्वसुधां सर्वां विचचार निरन्तरः ||५७७||
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् |
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ||५७८||
हितमिदमुपदेशमाद्रियन्तां
विहितनिरस्तसमस्तचित्तदोषाः |
भवसुखविरताः प्रशान्तचित्ताः
श्रुतिरसिका यतयो मुमुक्षवो ये ||५७९||
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-
खिन्नानां जलकांक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् |
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय-
त्येषा शङ्करभारती विजयते निर्वाणसंदायिनी ||५८०||
||इति शंकराचार्यविरचितं विवेकचूडामणि ||
||ॐ तत्सत् ||
Encoded by NA
%@@1
% File name : viveknew.itx
%--------------------------------------------
% Text title : vivekachUDAmaNi (sha.nkarAchArya)
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : NA
% Proofread by : NA
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .