श्री आचार्यप्रपत्तिः

श्री आचार्यप्रपत्तिः

श्रीमत्प्रसन्नमुखमण्डलमुज्ज्वलन्तं, विश्वप्रकाशकृतये जगदाश्रयं तम् । श्री श्रीनिवासचरितामृतपूर्णपात्रं, श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ १॥ निर्हेतुकेन करुणाचरणेन नित्यं लोकस्य सर्वहृदयानि समाविशन्तम् । विद्वद्विचक्षणविलक्षणभक्तिरम्यं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ २॥ नित्यं प्रसन्नमनसा मनसां मुनीनां सम्मोहनाय धृतचारुचरित्रचर्यम् । निर्लेपनिमर्दनिरामयमद्वयं तं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ३॥ योगं परं भगवतः प्रतिपत्तिजातं नारायणस्य जगतीषु विबोधयन्तम् । विद्या विवृद्धतपसा वपुषा विवृद्धं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ४॥ सुप्रातरेव सततं परिहाय शय्यां प्रेयां समादरभरेण हरिं स्तुवन्तम् । स्वाध्यायपाठनिरतं विरतं विवादैः श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ५॥ कृत्वा क्रियाः सपठनाः पटुना क्रमेण सान्ध्यं समाप्य सकलं च तदाश्रयेण । सत्कृत्य चातिथिकुलं सुखमास्थितं तं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ६॥ नानारससमृद्धपरिचारकपाणिपात्रैः सम्प्रार्थिताङ्घ्रिरजसं परमादरेण श्री श्रीपतेरपि सदा मनसोऽनुरूपं श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ७॥ धर्मप्रधानचरितैर्व्यपनीय कालं माध्याह्निकं परिसमाप्य यथा क्रमेण । किञ्चिद्विरम्य पठकानपि पाठयन्तं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ८॥ अध्यास्य लोकमुपदिश्य हितोपदेशान् सम्भाष्य भूसुरगणान्समुपास्य सन्ध्याम् । नीराजने भगवतः कृतचित्तमार्यं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ९॥ श्रीभारतेन किल भागवतेन वापि श्रीसाम्प्रदायिकनिबन्धशतैस्तथान्यैः । रामायणादिचरितै रजनीं नयन्तं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १०॥ होराचतुष्टयविवक्षितमध्यरात्रे योगं दधान इव यः प्रतियाति नीचम् । तं सर्वभव्यविभवैर्भुवि भासमानं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ११॥ सौशील्यमङ्गलगुणैः समलङ्कृतं तं सद्भाववर्तनविधिं प्रदिशन्तमुच्चैः । आचार्यवृत्तविकसत्सुयशो मयूखं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १२॥ श्रीडीडवानपुरतः प्रकटीभवन्तं श्रीरामधाम बहुधा च समाश्रयन्तम् । श्रीमद्घनाभगुरुमञ्जुलपुण्यपुञ्जं श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १३॥ इत्यात्मबोधरसिकस्य गुरोर्नवीनां दासेन रामकविना रचितां प्रपत्तिम् । प्रीत्या प्रभातसमये पठतां जनानां कल्याणकल्पलतिका वितता भवन्ति ॥ १४॥ इति श्री आचार्यप्रपत्तिः ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : AchAryaprapattiH
% File name             : AchAryaprapattiH.itx
% itxtitle              : AchAryaprapattiH
% engtitle              : AchAryaprapattiH
% Category              : deities_misc, gurudev, rAmAnujasampradAya, prapatti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org