श्रीमदाचार्येन्द्रस्तवः
दृष्ट्वा वाचि सरस्वतीं नयनयोरन्ते च लक्ष्मीं तथा
चित्ते वीक्ष्य समस्तभूतकरुणां काये च हेमप्रभाम् ।
नो युक्तं बहुभामिनीसमुदये वासाय मत्वेति ते
श्रीमद्देशिकराज कीर्तिवनिता नूनं दिगन्तानगात् ॥ १॥
पुरा शम्भुः शुभ्रे वसतिमचले कर्तुमनिशं
समिच्छन् रूप्याद्रावुभयगुणयुक्तेऽकृत वसिम् ।
ततस्तं दुर्वर्णं दशवदनहस्तप्रचलितं
विचिन्त्यास्मिन्नित्यां वसतिमकरोत् देशिकहृदि ॥ २॥
अमृतशिलापरिनिर्मितमूर्तिं श्रीदेशिकस्य मन्येऽहम् ।
शङ्करगुरुकृतशृङ्गाचलस्यपीठीयकीर्तिसार इति ॥ ३॥
एकादशरुद्राणां एका गौरी भवेन्नालम् ।
इति गौरीकृतवांस्त्वं देशिकवर दशदिशोऽपि निजकीर्त्या ॥ ४॥
तव सिद्धमथो हिरण्यवैरित्वम् ।
तस्मान्नृसिंहदेशिक हृत्स्तम्भं मे विभिद्य पुर एहि ॥ ५॥
सर्वज्ञतासकलशक्तियुतत्वहेतोः
श्रीशम्भुसाम्यमखिला भवतो वदन्ति ।
आधिक्यमेव तव देशिक सङ्गिरेऽहं
राजाङ्घ्रिरस्ति हि भवान् स तु राजमौलिः ॥ ६॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता श्रीमदाचार्येन्द्रस्तवं सम्पूर्णः ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com