प्रपञ्चसारतः सङ्कलिता ईश्वरध्यानमञ्जरी
॥ श्रीः ॥
श्री गुरुभ्यो नमः ।
जगद्गुरु श्रीशङ्करभगवत्पादविरचितप्रपञ्चसारतः सङ्कलिता
श्री गणपतये नमः ।
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥
१. श्री शारदा
अकचटतपयाद्यैः सप्तभिर्वर्णवर्गैः
विरचितमुखबाहापाद हृत्कुक्षिमध्या ।
सकलजगदधीशा शाश्वता विश्वयोनिः
वितरतु परिशुद्धिं चेतसः शारदा वः ॥ १.१॥
२. मातृका सरस्वती
पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षो-
देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थां
अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥
३. त्रिपुरा
आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां
देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् ।
पीनोत्तुङ्गस्तनार्तां वलिलसितवलग्नामसृक्पङ्कराजन्-
मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥
४. वागीश्वरी
अमलकमलसंस्था लेखिनीपुस्तकोद्यत्-
करयुगलसरोजा कुन्दमन्दारगौरा ।
धृतशशधरखण्डोल्लासिकोटीरचूडा
भवतु भवभयानां भङ्गिनी भारती वः ॥
५. सरस्वती
हंसारूढा भसितहर हारेन्दुकुन्दावदाता
वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा ।
विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥
६. भुवनेश्वरी
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध-
द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च ।
हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्यां
अम्बां पाशाङ्कुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥
भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां
सम्यक्सन्तप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः ।
विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाङ्कुशेष्टा-
भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥
७. लक्ष्मीः
भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना ।
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या
पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥
पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा
देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती ।
मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची-
ग्रैवेयोर्म्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेद्वः ॥
हस्तोद्यद्वसुपात्रपङ्कजयुगादर्शा स्फुरन्नूपुर-
ग्रैवेयाङ्गदहारकङ्कणमहामौलिज्वलत्कुण्डला ।
पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका
देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीति युग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृतकल्पजातैः
भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥
८. त्रिपुटादेवी
आबद्धरत्नमकुटां मणिकुण्डलोद्यत्-
केयूरकोर्मिरशनाह्वयनूपुराढ्याम् ।
ध्याये धृताब्जयुगपाशकशाङ्कुशेक्षु-
चापां सपुष्पविशिखां नवहेमवर्णाम् ॥
९. भूदेवी
मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा
चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरा प्राप्तनीलोत्पला च ।
रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना
दिश्याद्विश्वम्भरा नः सततमभिमतं वल्लभा कैटभारेः ॥
१०. त्वरिता
श्यामतनुमरुणपङ्कजचरणतलां वृषलनागमञ्जीराम् ।
स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥
तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् ।
शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥
नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् ।
द्विजनागविहितकुण्डलमण्डितगण्डद्वयी मुकुरशोभाम् ॥
शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च ।
पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् ।
कुञ्चितकुन्तलविलसन्मकुटाघटिताहि वैरिपिञ्छयुताम् ॥
कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् ।
सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् ॥ (ध्याये)
११. वज्रप्रस्तारिणी
इन्दुकलाकलितोज्ज्वलमौलिः
मारमदाकुलिता युगनेत्रा ।
शोणितसिन्धुतरङ्गितपोत-
द्योतितभानुदलाम्बुजसंस्था ॥
दोर्धृतदाडिमसायकपाशा
साङ्कुशचापकपालसमेता ।
शोणदुकूलविलेपनमाल्या
शोणतरा भवतोऽवतु देवी ॥
१२. नित्यक्लिन्ना
रक्ता रक्तांशुककुसुमविलेपादिका सेन्दुमौलिः
स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च ।
दोस्सत्पाशाङ्कुशयुतकपालाभया पद्मसंस्था
देवी पायादमितफलदा नित्यशः पार्वती वः ॥
१३. दुर्गा
शङ्खारिचापशरभिन्नकरां त्रिणेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितगर्वहरां नमामि ॥
हेमप्रख्यामिन्दुखण्डात्तमौलिं
शङ्खारिष्टाभीति हस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि ॥
अरिशङ्ख कृपाणखेटबाणान्
सधनुःशूलकतर्जनीर्दधाना ।
भवतां महिषोत्तमाङ्गसंस्था
नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥
१४. शूलिनीदुर्गा
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान् कराब्जैः
मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥
१५. जातवेदो दुर्गा
भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-
ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना ।
चर्मास्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिः
दद्यात्कार्शानवीष्टान् त्रिणयनलसिता कापि कात्यायनी वः ।
करकमलविराजच्चक्रशङ्खासिशूला
परिलसितकिरीटा पातितानेकविद्या ।
त्रिणयन लसिताङ्गी तिग्मरश्मिप्रकाशा-
पवनसखनिभाङ्गी पातु कात्यायनी वः ॥
१६. अजपामूर्तिः
अरुणकनकवर्णं पद्मसंस्थं च गौरी-
हरनियमितचिह्नं सौम्यतानूनपातम् ।
भवतु भवदभीष्टप्राप्तये पाशटङ्का-
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥
१७. अग्निः
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥
त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां-
शुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीति हस्तं
नमत कनकमालालङ्कृतांसं कृशानुम् ॥
शक्ति स्वस्तिक पाशान् साङ्कुशवरदाभयान् दधत् त्रिमुखः ।
मकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो नः ॥
हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं
वर्षन्तं धनधान्यरत्ननिचयान् रन्ध्रैः स्वकैः सन्ततम् ।
ज्वालापल्लवित स्वरोमविवरं भक्तार्तिसंभेदनं
वन्दे धर्मसुखार्थमोक्षफलदं दिव्याकृतिं पावकम् ॥
१८. सूर्यः
अरुणसरोरुहसंस्थः त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु नः ॥
अरुणोऽरुणपङ्कजे निषण्णः कमलेऽभीतिवरौ करैर्दधानः ।
स्वरुचाहितमण्डलत्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥
१९. चन्द्रः
अमलकमलसंस्थः सुप्रसन्नाननेन्दुः
वरदकुमुदहस्तश्चारुहारादिभूषः ।
स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टोद्योतिताङ्कः शशाङ्कः ॥
२०. महागणपतिः
मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरतरचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥
ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरु सुमनःश्रितमधुपपक्षचलनपरेण ॥
रत्नमये मणिवज्रप्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभिः युगपत् संसेवितस्य कल्पतरोः ॥
सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते ।
आसीनस्त्वेकरदो बृहदुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥
बीजापूरगदेक्षुकार्मुकरुजाचक्रब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरया श्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥
करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण ।
अविरतधारां विकिरन् परितः साधकसमग्रसम्पत्त्यै ।
मदजललोलुपमधुकरमालां निजकर्णतालताडनया ।
निर्वासयन्मुहुर्मुहुः अमरैरसुरैश्च सेवितो युगपत् ॥
रक्तो रक्ताङ्ग रागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलिः
नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः ।
हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो
देवः पद्मासनो नो भवतु नतसुरो भूतये विघ्नराजः ॥
२१. क्षिप्रप्रसादनगणपतिः
धृतपाशाङ्कुशकल्पकलतिकास्वरदश्च बीजपूरयुतः ।
शशिशकलकलितमौलिः त्रिलोचनोऽरुणश्च गजवदनः ॥
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः ।
ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥
२२. कामदेवः
अरुणमरुणवासोमाल्यदामाङ्गरागं
स्वकरकलितपाशं साङ्कुशास्त्रेषुचापम् ।
मणिमयमकुटाद्यैर्दीप्तमाकल्पजातैः
अरुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥
२३. श्रीकृष्णः
अव्यान्मीलत्कलायद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो
गोपीनेत्रोत्पलाराधित ललितवपुर्गोपगोवृन्दवीतः ।
श्रीमद्वक्त्रारविन्द प्रतिहसितशशाङ्काकृतिः पीतवासाः
देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥
२४. श्री विष्णुः
विष्णुं भास्वत्किरीटाङ्गदवलयगलाकल्पहारोदराङ्घ्रि-
श्रोणीभूषं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा-
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥
अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराजत्-
केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च ।
नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपार्श्वं
वन्दे दोःसक्त चक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥
हरिमुज्ज्वल चक्रदराब्जगदा-
कुलदोःपरिघं सितपद्मगतम् ।
वलयाङ्गदहारकिरीटधरं
नवकुन्दरुचिं प्रणमामि सदा ॥
२५. श्री सुदर्शन नारायणः
अव्याद्भास्कर सप्रभाभिरखिलाभाभिर्दिशो भासयन्
भीमाक्षः क्षरदट्टहास विकसद् दंष्ट्राग्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाङ्कुशौ
बिभ्रत्पिङ्ग शिरोरुहोऽथ भवन्तश्चक्राभिधानो हरिः ॥
२६. श्रीकरः विष्णुः
दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो
भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः ।
दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापङ्कजे स्वर्णवर्णो
भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥
२७. वराहः
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः
कण्ठादानाभि वह्निप्रभमथ शिरसश्चागलं नीलवर्णम् ।
मौलेर्व्योमाभमाङ्कं करलसदरिशङ्खासिखेटं गदाश-
क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥
२८. नृसिंहः
जान्वोरासक्ततीक्ष्णस्वनख रुचिलसद्बाहुसंस्पृष्टकेशः
चक्रं शङ्खं च दोर्भ्यां दधदनलसमज्योतिषा भग्नदैत्यः ।
ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं
दंष्ट्रोग्रं धूतकेशं वदनमपि वहन् पातु वो नारसिंहः ॥
उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं
वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च ।
दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः
संभिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥
अव्यान्निर्व्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्षणदंष्ट्रः
चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्यान्दधानः ।
रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषः
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥
२९. विश्वरूपो विष्णुः
अग्नीषोमात्मकमरिगदाशार्ङ्गखड्गैः सशङ्खैः
उद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः ।
शक्त्या पाशाङ्कुशकुलिशटङ्काग्निभिश्चार्कवह्नि-
द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥
विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-
ग्रैवेयोर्म्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्यद्-
बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥
३०. विष्णुपञ्जरदेवता
नमो भगवते सर्वविष्णवे विश्वरूपिणे ।
वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥
३१. शिवः
शूलाहीटङ्क घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं
दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् ।
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं
पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः
सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः ।
ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्रः
त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥
नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने ।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥
वन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।
वामोरुपीठगतया निजवामहस्त-
न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥
वामाङ्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु-
न्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः ।
सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभः
ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥
३२. दक्षिणामूर्तिः
मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रः
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥
दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ।
ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॥
३३. अघोररुद्रः
कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे-
ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः ।
रक्ताकाराम्बरोऽहिप्रवरघटितगात्रोऽरिनागग्रहादीन्
खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥
३४. मृत्युञ्जयः
स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा-
गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम् ।
स्वकरकलितमुद्रापाशवेदाक्षमालं
स्फटिकरजतमुक्तागौरमीशं नमामि ॥
३५. चिन्तामणिशिवः (अर्धनारीश्वरः)
अहिशशधरगङ्गाबद्धतुङ्गप्तमौलिः
त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी ।
भुजगपरशुशूलान् खड्ग वह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥
हावभावलसितार्धनारिकं भीषणार्धमथवा महेश्वरम् ।
पाशसोत्पलकपालशूलिनं चिन्तये जपविधौ विभूतये ॥
३६. चण्डेश्वरः
अव्यात्कपर्दकलितेन्दुकरः करात्त-
शूलाक्षसूत्रककमण्डलुटङ्क ईशः ।
रक्ताभवर्णवसनोऽरुणपङ्कजस्थो
नेत्रत्रयोल्लसित वक्त्रसरोरुहो वः (नः) ॥
३७. गायत्री
मन्दाराह्वयरोचनाञ्जनजपाख्या(खा)भैर्मुखैरिन्दुमद्-
रत्नोद्यन्मकुटांशुभिस्तत चतुर्विंशार्णचित्रा तनुः ।
अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाङ्कुशे-
ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥
३८. त्र्यम्बकः
अच्छस्वच्छारविन्दस्थितिरुभयकराङ्कस्थितं पूर्णकुम्भं
द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥
३९. सवितृजातवेदोदुर्गात्र्यम्बकाः
स्मर्तव्याखिललोकवर्ति सततं यज्जङ्गमस्थावरं
व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः ।
यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते
तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥
४०. संवादाग्निः
धवलनलिनराजच्चन्द्रमध्ये निषण्णं
करविलसितपाशं साङ्कुशं साभयं च ।
सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं
प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्तम् ॥
४१. वरुणः
अच्छांशुकाभरणमाल्यविलेपनाढ्यः
पाशाङ्कुशाभयवरोद्यतदोस्सरोजः ।
स्वच्छारविन्दवसतिः सुसितः प्रसन्नो
भूयाद्विभूतिविधये वरुणश्चिरं वः ॥
४२. भद्रकाली
सुरौद्रसितदंष्ट्रिका त्रिणयनोर्ध्वकेशोल्बणा
कपालपरशूल्लसड्डमरुका त्रिशूलाकुला ।
घनाघननिभा रणद्रुचिरकिङ्किणीमालिका
भवद्विभवसिद्धये भवतु भद्रकाली चिरात् ॥
४३. प्राणशक्तिः
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः
पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्च बाणान् ।
बिभ्राणासृक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिस्वरूपा ॥
४४. पार्वती
असकलशशिराजन्मौलिराबद्धपाशा-
ङ्कुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी ।
अमरनिकरवन्द्या त्रीक्षणा शोणलेपां-
शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥
४५. अन्नपूर्णा
रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् ।
अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥
४६. अश्वारूढा
अश्वारूढा कराग्रे नवकनकमयीं वेत्रयष्टिं दधाना
दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् ।
देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा
दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः ॥
४७. व्यासः
मुनिव्रातावीतं मुदितधियमम्भोदरुचिर-
द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् ।
परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं
समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥
मङ्गलं
यदाश्रया विप्रकृतिप्रभावतो
विभिन्नतारांशसमुत्थितौजसः ।
जगन्ति पुष्णन्ति रवीन्दुवह्नयो
नमोऽस्तु तस्मै परिपूर्णतेजसे ॥
इति जगद्गुरु श्रीशङ्करभगवत्पादविरचित प्रपञ्चसारतः
सङ्कलिता ईश्वरध्यानमञ्जरी समाप्ता ।
Proofread by Aruna Narayanan