अष्टदिक्पालस्तुतिः

अष्टदिक्पालस्तुतिः

तत्रादौ विधातारं प्रति प्रणामः--- आरूढं स्कन्धदेशं मृदुसितविपुलं राजहंसस्य यूनो भारत्यान्वास्यमानं सनकमुखमहायोगिवृन्दैरमन्दैः । श्रीमत्तत्त्वावबोधे विनिहितमतिभिः सेव्यमानं विरिञ्चिं सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ १॥ वासवं प्रति प्रणामः सार्धं शच्याधिरूढं धवलघनतनुं नागमैरावताख्यं दम्भोलिं दैत्यदम्भप्रशमनमुरुदोस्तम्भदेशे दधानम् । रम्भाद्याधृतवालव्यजनजपवनाङ्कूरलोलांशुकाग्रं सेवे नाकाधिनाथं सपदि बहुविधश्रेयसे भूयसे नः ॥ २॥ अग्निं प्रति प्रणामः -- आसीनं लोहितांसे मणिफलकनिभे स्वाहया छाययेव ज्वालैः स्वैः सप्तसङ्ख्यैः प्रशमिततिमिरं काममष्टासु दिक्षु । शक्तिं व्यक्तौजसं स्वां रिपुमददमने धारयन्तं कराग्रे सेवे वैश्वानरं तं सपदि बहुविधश्रेयसे भूयसे नः ॥ ३॥ यमं प्रति प्रणामः- साकं प्राकम्पमाने गिरिशिखर इव श्यामला भिख्यदेव्या- ऽदम्रे विभ्राजमानं महिषकुलपतौ सेव्यमानं च दूतैः । दण्डं ब्रह्माण्डभाण्डोद्दलनपटुतरं बाहुदण्डे दधानं सेवे धर्माभिधं तं सुरमिह विविधश्रेयसे भूयसे नः ॥ ४॥ निरृतिं प्रति प्रणामः - तुङ्गत्वङ्गत्तुरङ्गं गतिरयविजितस्वान्तवाताण्डजेशं दीर्घादेव्याधिरूढं करभुवि निशितप्रान्तकुन्तं वहन्तम् । राजानं नैरृतानां परिवृतमभितो यातुधानप्रधानैः सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ ५॥ वरुणं प्रति प्रणामः - देव्याः श्रीकालिकाया भुजशिखरयुगव्यापृतोदग्रबाहुं यानं मातङ्गयानं मकरमधिगतं वैरिनाशाय पाशम् । आबिभ्राणं कराग्रे जलचर निवहैः सेव्यमानं जलेशं सेवे प्रस्थानकालोचितनवविविधश्रेयसे भूयसे नः ॥ ६॥ वायुदेवं प्रति प्रणामः - विद्यामध्येतुकामं किल रभसगतैः सन्निकृष्टं कुरङ्गं सम्प्राप्तं यानमङ्काश्रयणकुतुकिनीमञ्जनां रञ्जयन्तम् । पाणौ कुर्वाणमुच्चैर्ध्वजमपि च जगत्प्राणभूतं समीरं सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ ७॥ कुबेरं प्रति प्रणामः- सानन्दं चित्रलेखां विविधमणिमयैर्भूषणैर्भूषिताङ्गीं निध्यायन्तं नितान्तं करतलकलितोद्दामकौक्षेयकं च । आरूढं यानमुच्चैर्नरमपि धनदं किन्नरोपास्यमानं सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ ८॥ ईशानं प्रति प्रणामः - अन्यं सञ्चारशीलं रजतगिरिमिव श्वेतमानं समन्ताद् अध्यारूढं महोक्षं तुहिनगिरिसुताश्लेषदत्तावधानम् । सेनानीविघ्नराजप्रमथगणशतैः सेवितं शूलपाणिं सेवे प्रस्थानकालोचितनवमहितश्रेयसे भूयसे नः ॥ ९॥ स्तुतिपठनफलं - इति कौशिकरङ्गनाथकॢप्तां सुरनाथस्तुतिमन्वहं पठन् सन् । लभते परमां श्रियं धरायामिह तेषां कृपया विधूतदोषः ॥ १०॥ इति (कौशिक) रङ्गनाथसूरिविरचिता श्री अष्टदिक्पालस्तुतिः समाप्ता । स्तोत्रसमुच्चयः २ (८९) Proofread by Rajesh Thyagarajan
% Text title            : Ashtadikpala Stuti
% File name             : aShTadikpAlastutiH.itx
% itxtitle              : aShTadikpAlastutiH ((kaushika) raNganAthasUrivirachitA)
% engtitle              : aShTadikpAlastutiH
% Category              : deities_misc, stuti, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : (kaushika) raNganAthasUri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org