अभिलाषाष्टकम्
यतीन्द्रनैगमागमादिगीतकीर्तिसञ्चय
समस्तविश्वजान्तप प्रपन्नदुःखमोचन ।
मृडादिलेखवन्दित स्वतन्त्र नन्दनन्दन (शिवादि देव वन्दित)
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ १॥
सदभ्रसान्द्रचिक्कणातिनीलचूर्णकुन्तल
(सूक्ष्म, निरन्तर, कुटिल, मयूरापिच्छ, मणिः ङीषन्तोऽपि)
शिखण्डरुक्मसन्मणीखचत्किरीटकुण्डल ।
मृगाक्षिकञ्जनेत्र मन्दहाससारुणाधर
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ २॥
कपोलगोलसुन्दराननप्रभाविलज्जित
प्रपूर्णचन्द्रमण्डल त्रिरेखकम्बुकन्दर ।
उरस्थकौस्तुभादिक प्रफुल्लपुष्पलम्बन
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ३॥
नभस्थतारकागणप्रवेष्टहीरकाङ्गद (प्रवेष्ट एवं भुजा)
प्रकोष्ठहेमकङ्कणाङ्गुलीवराङ्गुलीयक ।
सवेत्रवेणुरक्त पञ्चशोखकञ्जकोमल (हस्त)
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ४॥
तडिच्छचीशकार्मुकोपमोत्तमौत्तरीयक
दुकूलपीतमेदिनीसमुद्रमेखलाकटे ।
कटाग्रपादलम्बमाननिष्प्रवाण्यधोंऽशुक
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ५॥
प्रशस्तरत्नकिङ्किणीपदारविन्दनूपुर
रवाक्षरप्रसक्तधीमुनीन्द्रमानसप्रिय ।
पुनर्भवप्रवालवृन्दरक्तकाश्यपीस्थल
(पुनर्भवं एवं नखं, प्रवालवृन्द एवं विद्रुमः, काश्यपीस्थल एवं पृथ्वी)
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ६॥
नवातसीप्रसूनसन्निभाभिराममेचक
शरीरपञ्चमार्गणातिमोहनाङ्गमण्डन ।
अनन्तसौख्यसागराऽसमाधिकादिविग्रह
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ७॥
इतोप्यनल्पसौभगस्वभक्तभक्तिदन्त्रक
त्रिलोकवैभवप्रद त्रिकर्मपाशनाशक ।
स्वकीयहृत्सरोरुहस्थ सद्गते नमोऽस्तु ते
कदा स्वकीयदर्शनं ददासि मेऽमृतोपमम् ॥ ८॥
इतीदमद्भुताष्टकं निशम्य नन्दनन्दनो
ददाति सन्ततं जनं प्रति स्वकीयदर्शनम् ।
कृतं गवादिपालदासनानकीयसाधुना
व्रजेशकृष्णदर्शनाभिलाषिणा सुमाथुरे ॥ ९॥
इति श्रीस्वामिदासशिष्यगोपालदासेन विरचितं अभिलाषाष्टकं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran