अद्वैताष्टकं २

अद्वैताष्टकं २

गङ्गातीरे तत्पयोभिस्तुलस्यः पत्रैः पुष्पैः प्रेमहुङ्कारघोषैः । प्राकट्यार्थं गौरमाराधयद्यः श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ १॥ यद्धुङ्करैः प्रेमसिन्धोर्विकारै- राकृष्टः सन् गौरगोलोकनाथः । आविर्भुतः श्रीनवद्वीपमध्ये श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ २॥ ब्रह्मादीमां दुर्लभप्रेमपूरै- रादिनां यः प्लावयामास लोकम् । आविर्भाव्य श्रीलचैतन्यचन्द्रं श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ३॥ श्रीचैतन्यः सर्वशक्तिप्रपूर्णो यस्यैवाजमात्रतोऽन्तर्ददेऽपि । दुर्विजेयं यस्य कारुण्यकृत्यं श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ४॥ सृष्टिस्थित्यन्तं विधातुं प्रवृत्त यस्यंसंसः ब्रह्मविष्ण्विश्वराख्याः । येनाभिन्नं तं महाविष्णुरूपं श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ५॥ कस्मिंश्चिद्यः श्रूयते चाश्रयत्वात् शम्भोरित्थं सम्भवन्नाम धाम । सर्वाराध्यं भक्तिमात्रैकसाध्यं श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ६॥ सीतानाम्नि प्रेयसी प्रेमपूर्ण पुत्रो यस्यऽप्यच्युतानन्दनाम । श्रीचैतन्यप्रेमपूरप्रपूर्णः श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ७॥ नित्यानन्दद्वैततोऽद्वैतनाम भक्त्याख्यानद्यः सदाचर्यनाम । शश्वच्चेतसाचरद्गौरधाम श्रीलाद्वैताचार्यमेतं प्रपद्ये ॥ ८॥ प्रातः प्रीतः प्रत्यहं संपठेद्यः सीतानाथस्यष्टकं शुद्धबुद्धिः । सोऽयं साम्यं तस्य पादारविन्दे विन्दन्भक्तिं तत्प्रियात्वं प्रयाति ॥ ९॥ इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं सम्पूर्णम् ।
% Text title            : Hymn to Advaitacharya 2
% File name             : advaitAShTakam2.itx
% itxtitle              : advaitAShTakam 2 (sArvabhauma bhaTTAchAryavirachitam gaNgAtIre)
% engtitle              : advaitAShTakam 2
% Category              : deities_misc, krishna, gurudev, aShTaka, sArvabhaumabhaTTAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sarvabhauma Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Advaitacharya
% Indexextra            : (Meaning, Hindi)
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org