अर्जुनद्वादशनामस्तोत्रम्
अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः ॥
बीभत्सुर्विजयी पार्थः सव्यसाची धनञ्जयः ॥ १॥
कपिध्वजो गुडाकेशो गाण्डीवी कृष्णसारथिः ।
एतान्यर्जुननामानि गवां गोष्ठे च यो लिखेत् ॥ २॥
न तत्र पशुरोगादि शुभं शीघ्रं प्रजायते ॥
इति अर्जुनद्वादशनामस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com