अवतारबोधः
रामनवम्यां - मेषे पुनर्वसौ
चैत्रमासे सिते पक्षे नवम्यां च पुनर्वसौ ।
मध्याह्ने कर्कटे लग्ने जातो रामः स्वयं हरिः ॥ १॥
कृष्णजयन्ती - सिंहे रोहिण्यां
सिंहमासेऽसिते पक्षे रोहिण्यामष्टमीतिथौ ।
चरमार्थप्रदातारं कृष्णं वन्दे जगद्गुरुम् ॥ २॥
सिंहजयन्ती - वृषे स्वात्यां
वृषभे स्वातिनक्षत्रे चतुर्दश्यां शुभे दिने ।
सन्ध्याकालेऽनुजे युक्ते स्तम्भोद्भूतो नृकेसरी ॥ ३॥
श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णारिवृश्चिकजलाग्निभुजङ्गरोग-
क्लेशव्ययायहरये गुरवे नमस्ते ॥ ४॥
श्रीरङ्गनाथाविर्भावः - कुम्भ रोहिण्यां
तपस्ये मासि रौहिण्यां तटे सह्य भुवः स्थितम् । (तटे कावेर्याः)
श्रीरङ्गशायिनं वन्दे सेवितं सर्वदेशिकैः ॥ ५॥
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भ्रान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ६॥
काञ्चीदेवराजाविर्भावः - मेषे हस्ते
चैत्रमासे सिते पक्षे चतुर्दश्यां तिथौ मुने ।
शोभते हस्तनक्षत्रे रविवारसमन्विते ॥ ७॥
वपाहोमे प्रवृत्ते तु प्रातः सवनकालिके ।
धातुरुतरवेद्यां तु प्रादुरासीज्जनार्दनः ॥ ८॥
वपापरिमलोल्लासलासिताधरपल्लवम् ।
मुखं वरदराजस्य मुग्धस्मितमुपास्महे ॥ ९॥
तिरुनारायणाविर्भावः - मीने हस्ते
सनत्कुमाररक्षार्थमागतं ब्रह्मणः पदात् ।
यदुशैलस्थितं मीने हस्ते नारायणं भजे ॥ १०॥
श्रीवेङ्कटेशाविर्भावः - कन्यायां श्रवणे
कन्याश्रवणसञ्जातं श्रीशेषाचलवासिनम् ।
सर्वेषां प्रथमाचार्य श्रीनिवासमहं भजे ॥ ११॥
श्रीवेङ्कटाचलाधीशं श्रीयाध्यासितवक्षतम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ १२॥
लक्ष्म्याविर्भावः - मीने उत्तराफाल्गुन्यां
फाल्गुनोत्तरफाल्गुन्यां सम्भूतां श्रियमाश्रये ।
विष्णोर्दिव्यपदाम्भोजघटकां तत्पदाश्रिताम् ॥ १३॥
नमः श्रीरङ्गनायक्यै यद्भूविभ्रमभेदतः ।
ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ १४॥
गोदाविर्भावः - कर्के पूर्वाफाल्गुन्यां
कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् ।
पाण्ड्ये विश्वम्भरं गोदां वन्दे श्रीरङ्गनायकीम् ॥ १५॥
नीलातुङ्गस्तनगिरितटीसुप्तमुद्वोध्य कृष्णं
पारार्थ्यं स्वयं श्रुतिशतशिरःसिद्धमध्यापयन्ती ।
स्वोच्छिष्टायां स्रजिनिगलितं या बलात्कृत्य भुङ्क्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥ १६॥
सरोयोगिस्वाम्याविर्भावः
तुलायां श्रवणे जातं काञ्च्यां काञ्चनवारिजात् ।
द्वापरे पाञ्चजन्यांशं सरोयोगिनमाश्रये ॥ १७॥
भूतयोग्याविर्भावः
तुलाधनिष्ठासम्भूतं भूतं कल्लोलमालिनः ।
तीरे फुल्लोत्पले मल्ल्यां पुर्यामीडे गदांशकम् ॥ १८॥
महदाह्वयाविर्भावः
तुलाशतभिषाजातं मयूरायुरकैरवात् ।
महान्तं महदाख्यातं वन्दे श्रीनन्दकांशकम् ॥ १९॥
योगिवाहनाविर्भावः
वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे ।
श्रीवत्सांशं गायकेन्द्रं मुनिवाहनमाश्रये ॥ २०॥
भक्ताङ्घ्रिरेण्वाविर्भावः
कोदण्डज्येष्ठानक्षत्रे मण्डं गुडिपुरोद्भवम् ।
चोलोर्व्यांवनमालांशं भक्ताङ्घ्रिरेणुमाश्रये ॥ २१॥
श्रीभक्तिसाराविर्भावः
मघायां मकरे मासे चक्रांशं भार्गवोद्भवम् ।
महीसारपुराधीशं भक्तिसारमहं भजे ॥ २२॥
श्रीकुलशेखराविर्भावः
कुम्भे पुनर्वसौ जातं केरले चोलपट्टने ।
कौस्तुभांशन्धराधीशं कुलशेखरमाश्रये ॥ २३॥
श्रीमधुरकव्याविर्भावः
मेषे चित्रसमुद्भूतं पाण्ड्यदेशे गदांशकम् ।
श्रीपराङ्कुशसद्भक्तं मधुरं कविमाश्रये ॥ २४॥
शठकोपावतारः - वृषभे विशाखायां
वृषभे तु विशाखायां कुरुकापुरिकारिजम् ।
पाण्ड्यदेशे कलेरादौ शठारिं सैन्यपं भजे ॥ २५॥
माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन यदन्वयानाम् ॥
आद्यस्य नः कुलपतेर्बकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ २६॥
परकालावतारः - वृश्चिके कृत्तिकायां
वृश्चिके कृत्तिकाजातं चतुष्कविशिखामणिम् ।
(चतुष्कविशिखामणिम् -चत्वारः कवयः तेषां शिखामणिम्)
षट्प्रबन्धकृतं शार्ङ्गमूर्तिं कलिहमाश्रये ॥ २७॥
कलयामि कलिध्वंसं विकलोकदिवाकरम् ।
यस्य गोभिः प्रकाशाभिराविद्यं निहतं तमः ॥ २८॥ (आविद्यं -अविद्याया भवम्)
रामानुजाचार्यावतारः - मेषे आजयां
आर्द्रामेषभवं विष्णोर्दर्शनस्थापनोत्सुकम् ।
तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे ॥ २९॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्यदयैकसिन्धो
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ३०॥
दाशरथ्यवतारः - मेषे पुनर्वसौ
मेषे पुनर्वसुदिने पाञ्चजन्यांशसम्भवम् ।
यतीन्द्रपादुकाभिख्यं वन्दे दाशरथिं गुरुम् ॥ ३१॥
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥ ३२॥
कूरेशावतारः - मकरे हस्ते
मकरे हस्तनक्षत्रे सर्पनेत्रांशसम्भवम् ।
श्रीमत्कूरकुलाधीशं श्रीवत्साङ्कमहं भजे ॥ ३३॥
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहि ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ ३४॥
रम्यजामातृमुन्यवतारः - तुलायां मूले
तुलायामतुले मूले पाण्ड्ये कुन्तीपुरे वरे ।
श्रीशेषांशोद्भवं वन्दे रम्यजामातरं मुनिम् ॥ ३५॥
श्रीशैलेशदयापात्रं धीभक्त्याहिगुणार्णवम् ।
यन्तीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ३६॥
इति प्रोक्ता समासेन(१) विष्णोभक्तजनस्य च ।
आविर्भावावतारेषु पठनीया गुणावली ॥ ३७॥
इति अवतारबोधः समाप्तः ॥
(१) विस्तरेण तु स्वस्वगुरुसकाशादधिगन्तव्या ।
ग्रन्थविस्तरभयान्नात्र लिखिता । अधिकमासे प्राप्ते तु सिंहसङ्क्रमे
भाद्रपदेऽपि यदि जन्माष्टमी भवेत्तदा तावत्पर्यन्तं दोलोत्साहं
कुर्वीतेति केषाञ्चिन्मतम् ।
Encoded and proofread by Mohan Chettoor