बलभद्रगीतामृतम् २
जय जय बलदेव हरे ।
गोपालगौरे लाङ्गलधरे
केन्द्रापडाश्रीमन्दिरे
करुणाकरे मे मनोऽस्तु हे राम
शेषदेव-मनोहरे
जय जय बलदेव हरे
तुलसीनाथ हे भावमकरन्द
पाहि देव मुष्टिकारे ॥ ध्रुवम्॥
सुनीलचोले ममानुरागो
नीरे कालिन्दीतीरे ।
रोहिणीपुत्रे सद्भक्तिमुक्तिः
श्रीसिद्धरामेश्वरे ॥ १॥
जय जय बलदेव हरे -
सौन्दर्यसारे रेवतीभारे
प्रलम्बप्राणहारे ।
कारुण्यधारे संसारसारे
योगो मे योगिवरे ॥ २॥
जय जय बलदेव हरे
गोगोष्ठवीरे गोपालमेले
घञ्चकाननघोरे ।
साष्टाङ्गयोगे भूयान्मे शक्तिः
तुलसीदेवीपुरे ॥ ३॥
जय जय बलदेव हरे-
इति प्रदीप्तनन्दशर्मविरचितं बलभद्रगीतामृतं गीतं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com