बलभद्रस्तवराज
दुर्योधन उवाच -
स्तोत्रं श्रीबलदेवस्य प्राड्विपाक महामुने ।
वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम् ॥ १॥
प्राड्विपाक उवाच -
स्तवराजं तु रामस्य वेदव्यासकृतं शुभम् ।
सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम् ॥ २॥
देवादिदेव भगवन्कामपाल नमोऽस्तु ते ।
नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥ ३॥
धराधराय पूर्णाय स्वधाम्ने सीरपाणये ।
सहस्रशिरसे नित्यं नमः सङ्कर्षणाय ते ॥ ४॥
रेवतीरमण त्वं वै बलदेवाच्युताग्रजः ।
हलायुध प्रलम्बघ्न पाहि मां पुरुषोत्तम ॥ ५॥
बलाय बलभद्राय तालाङ्काय नमो नमः ।
नीलाम्बराय गौराय रौहणेयाय ते नमः ॥ ६॥
धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलान्तकः ।
रुक्म्यरिः कूपकर्णारिः कुम्भाण्डारिस्त्वमेव हि ॥ ७॥
कालिन्दीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ।
द्विविदारिर्यादवेन्द्रो व्रजमण्डलमण्डनः ॥ ८॥
कंसभ्रातृप्रहन्तासि तीर्थयात्राकरः प्रभुः ।
दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः ॥ ९॥
जय जयाच्युतदेव परात्पर स्वयमनन्तदिगन्तगतश्रुत ।
सुरमुनीन्द्रफणीन्द्रवराय ते मुसलिने बलिने हलिने नमः ॥ १०॥
यः पठेत्सततं स्तवनं नरः स तु हरेः परमं पदमाव्रजेत् ।
जगति सर्वबलं त्वरिमर्दनं भवति तस्य धनं स्वजनं धनम् ॥ ११॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे
बलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः ॥ ग. सं. अधाय ११॥
Garga Samhita, Balabhadrakhanda, Adhaya 11
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran